| YouTube Channel

कासन्दीवटिका (kAsandIvaTikA)

 
शब्दकल्पद्रुमः
Sanskrit
कासन्दीवटिका,
स्त्री,
(कासं द्यति नाशयतीति ।दो + कः ततो ङीष् कासन्दीं वटति वक्तितन्नाम्ना प्रकाशते इत्यर्थः वट् + ण्वुल् टाप्अत इत्वम् कासन्दीवटिका इति पारिभाषिक-नाम्ना आख्यायते वा ।) वेसवारविशेषः गोटाकासुन् इति भाषा अस्या गुणाः हृद्यत्वम् ।वातश्लेष्मरोगनाशित्वम् रुच्यग्निकारित्वम् वायु-मलानुलोमकारित्वञ्च इति राजवल्लभः
वाचस्पत्यम्
Sanskrit
कासन्दीवटिका स्त्री वेशवारभेदे राजवल्लभः