| YouTube Channel

कासः (kAsaH)

 
Apte
English
कासः [kāsḥ] सा [sā], सा [कास्-घञ्]
Cough, catarrh. मुञ्च शीपेक्त्था उत कास एनम्
Av.*
1.12.3
कासश्वासकृतायासः कण्ठे घुरघुरायते
Bhāg.*
3.3.16.
Sneezing.
Comp.
-कुण्ठ
a.
affected with cough. (-ण्ठः) an epithet of Yama. -घ्न, -हृत्
a.
removing cough, pectoral. (-घ्नः) a medical plant (Mar. बेहडा) (-घ्नी) a sort of prickly nightshade, Solanum Jacquini (Mar. रिंगणी). -नाशिनी
N.
of medicinal plant.
मर्दः a cure of cough.
an acid preparation (कासुंदी).
Apte 1890
English
कासः,
सा [कास्-घञ्] 1 Cough, catarrh.
2 Sneezing.
Comp.
कुंठ a. affected with cough. (
ठः) an epithet of Yama.
घ्न,
हृत् a. removing cough, pectoral. (
घ्नी) a sort of prickly nightshade.
मर्दः a cure of cough.
Apte Hindi
Hindi
कासः
पुं*
- कास् - घञ्
"खाँसी, जुकाम"
कासः
पुं*
- कास् - घञ्
छींक आना
Wordnet
Sanskrit
Synonyms:
कासः
noun
तृणविशेषः येन रज्वादयः निर्मीयन्ते।
"सः पिटकादि निर्मातुं कासं लुनाति।"
शब्दकल्पद्रुमः
Sanskrit
कासः,
पुं,
(कासतेऽनेन कासृ शब्दकुत्सनयोः ।“हलश्च” १२१ इति घञ् ।) रोगविशेषः ।कासी इति भाषा तत्पर्य्यायः क्षवथुः ।इत्यमरः ५२
तस्य निदानं यथा, --“धूमोपघाताद्रजसस्तथैवव्यायामरूक्षान्ननिषेवणाच्च ।विमार्गगत्वाच्च हि भोजनस्यवेगावरोधात् क्षवथोस्तथैव”
सम्प्राप्तिर्यया “प्राणो ह्युदानानुगतः प्रदुष्टः”
लक्षणं यथा ।“संभिन्नकांस्यस्वनतुल्यघोषः ।निरेति वक्त्रात् सहसा सदोषोमनीषिभिः कास इति प्रदिष्टः”
पञ्चविधो यथा, --“पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः ।क्षयायोपेक्षिताः सर्व्वे बलिनश्चोत्तरोत्तरम्”
तेषां पूर्व्वरूपं यथा, --“पूर्व्वरूपं भवेत्तेषां शूकपूर्णगलास्यता ।कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते”
वातिको यथा, --“हृच्छङ्खमूर्द्धोदरपार्श्वशूलीक्षामाननः क्षीणबलस्वरौजाः ।प्रसक्तदेगस्तु समीरणेनभिन्नस्वरः कासति शुष्कमेव”
पैत्तिको यथा, --“उरोविदाहज्वरवक्त्रशोषै-रभ्यर्द्दितस्तिक्तमुखस्तृषार्त्तः ।पित्तेन पीतानि वमेत् कटूनिकासेत् सपाण्डुः परिदह्यमानः”
श्लैष्मिको यथा, --“प्रलिप्यमानेन मुखेन सीदन्शिरोरुजार्त्तः कफपूर्णदेहः ।अमक्तरुग्गौरवसादयुक्तःकासेद्भृशं सान्द्रकफः कफेन”
क्षतजो यथा, --“अतिव्यवायभाराध्वयुद्धाश्वगजविग्रहैः ।रूक्षस्योरः क्षतं वायुर्गृहीत्वा कासमावहेत्
पूर्व्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम् ।कण्ठेन रुजतात्यर्थं विरुग्नेनेव चोरसा
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना ।दुःखस्पर्शेन शूलेन भेदपीडाभितापिना
पर्व्वभेदज्वरश्वासतृष्णावैस्वर्य्यपीडितः ।पारावत इवाकूजन् कासवेगात् क्षतोद्भवात्”
क्षयजो यथा, --“विषमासात्म्यभोज्यातिव्यवायाद्वेगनिग्रहात् ।घृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः ।कुपिताः क्षयजं कासं कुर्य्युर्द्देहक्षयप्रदम्
सगात्रशूलज्वरदाहमोहान्प्राणक्षयञ्चोपलभेत कासी
शुष्यन् विनिष्ठीवति दुर्ब्बलस्तुप्रक्षीणमांसो रुधिरं सपूयम् ।तं सर्व्वलिङ्गं भृशदुश्चिकित्स्यंचिकित्सितज्ञाः क्षयजं वदन्ति
इत्येषः क्षयजः कासः क्षीणानां देहनाशनः ।साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः
नवौ कदाचित् सिध्येतामपि पादगुणान्वितौ ।स्थविराणां जराकासः सर्व्वो याप्यः प्रकीर्त्तितः ।त्रीन् पूर्व्वान् साधयेत् साध्यान् पथ्यैर्य्याप्यांस्तु यापयेत्”
इति माधवकरः
*
(“आशुकारी यतः कासस्तमेवातः प्रवक्ष्यति”
अस्य प्राग्रूपसहितासंप्राप्ती रूपाणि यथा
“तेषां भविष्यतां रूपं कण्ठे कण्डूररोचकः
शूकपूर्णाभकण्ठत्वं, तत्राधो विहतोऽनिलः ।ऊर्द्ध्वं प्रवृत्तः प्राप्योरस्तस्मिन् कण्ठे संसजन्
शिरः स्रोतांसि संपूर्य्य ततोऽङ्गान्युत्क्षिपन्निव ।क्षिपन्निवाक्षिणी पृष्ठमुरः पार्श्वे पीडयन्
प्रवर्त्तते सवक्त्रेण भिन्नकांस्योपमध्वनिः ।हेतुभेदात् प्रतीघातभेदो वायोः सरंहसः
यद्रुजा शब्दवैषम्यं कासानां जायते ततः ।कुपितो वातलैर्वातः शुष्कोरःकण्ठवक्त्रताम्
हृत्पार्श्वोरःशिरःशूलं मोहक्षोभस्वरक्षयान् ।करोति शुष्कं कासञ्च महावेगरुजास्वनम्
सोऽङ्गहर्षो कफं शुष्कं कृच्छ्रान्मुक्त्वाल्पतां व्रजेत् ।पित्तात् पीताक्षि कफता तिक्तास्यत्वं ज्वरोभ्रमः
पित्तासृग्वमनंतृष्णा वैस्वर्य्यं धूमको मदः ।प्रततं कासवेगेन ज्योतिषामिव दर्शनम्
कफादुरोऽल्परुङ्मूर्द्धहृदयं स्तिमितं गुरु ।कण्ठोपलेपः सदनं पीनसच्छर्द्द्यरोचकाः
रोमहर्षीघनस्निग्धश्वेतश्लेष्मप्रवर्त्तनम् ।युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम्
उरस्यन्तःक्षते वायुः पित्तेनानुगतो बली ।कुपितः कुरुते कासं कफं तेन सशोणितम्
पीतं श्यामञ्च शुष्कञ्च ग्रथितं कुथितं बहु ।ष्ठीवेत् कण्ठेन रुजता विभिन्नेनेव चोरसा
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना ।पर्ब्बभेदज्वरश्वासतृष्णावैस्वर्य्यकम्पवान्
पारावत इवाकूजन् पार्श्वशूली ततोऽस्य ।क्रमाद्वीर्य्यं रुचिः पक्तिर्बलं वर्णश्च हीयते
क्षीणस्य सासृङ्मूत्रत्वं स्याच्च पृष्ठकटीग्रहः ।वायुप्रधानाः कुपिता धातवो राजयक्ष्मिणः
कुर्व्वन्ति यक्ष्मायतनैः कासं ष्ठीवेत् कफं ततः ।पूतिपूयोपमं पीतं विस्रं हरितलोहितम्
लुञ्च्येते इव पार्श्वे हृदयं पततीव ।अकस्मादुष्णशीतेच्छा बह्वाशित्वं बलक्षयः
स्निग्धप्रसन्नवक्तत्वं श्रीमद्दशननेत्रता ।ततोऽस्य क्षयरूपाणि सर्व्वाण्याविर्भवन्ति
इत्येषः क्षयजः कासः क्षीणानां देहनाशनः ।याप्यो वा बलिनां तद्वत् क्षतजोऽभिनवौ तु तौ
सिघ्येतामपि सानाथ्यात् साध्यादोषैः पृथक्त्रयः ।मिश्रा याप्या द्वयात् सर्व्वे जरसा स्थविरस्य
कासाच्छ्वासक्षयच्छर्द्दि स्वरसादादयो गदाः ।भवन्त्वुपेक्षया यस्मात् तस्मात्तं त्वरया जयेत्”
इति वाभटे निदानस्थाने अध्याये
*
अथ कासस्य चिकित्सा यथा
“केवलानिलजं कासं स्नेहैरादावुपाचरेत् ।वातघ्नसिद्धैः स्निग्धैश्च पेयायूषरसादिभिः
लेहैर्धूमैस्तथाभ्यङ्गैः स्वेदसेकावगाहनैः ।वस्तिभिर्बद्धविड्वातं सपित्तन्तूर्द्ध्वभक्तिकैः
घृतैः क्षीरैश्च सकफं जयेत् स्नेहविरेचनैः ।गुडूचीकण्टकारीभ्यां पृथक्त्रिंशत्पलाद्रसे
प्रस्थः सिद्धो धृताद्वातकासनुत् वह्निदीपनः ।क्षाररास्नावचाहिङ्गुपाठायष्ट्याह्वधान्यकैः
द्विशाणैः सर्पिषः प्रस्थं पञ्चकोलयुतैः पचेत्
दशमूलस्य निर्य्यूहे पीतोमण्डानुपायिना
सकासश्वासहृत्पार्श्वग्रहणीरोगगुल्मनुत् ।द्रोणेऽपां साधयेद्रास्ना दशमूलशतावरीः
पलोन्मिताद्विकुडवं कुलत्थं वदरं यवम् ।तुलार्द्धञ्चाजमांसस्य तेन साध्यं घृताढकम्
समक्षीरं पलांशैश्च जीवनीयैः समीक्ष्य तत् ।प्रयुक्तं वातरोगेषु पाननावनवस्तिभिः
पञ्चकासान् शिरःकम्पं योनिवङ्क्षणवेदनाम् ।सर्व्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्द्ध्वानिलान्जयेत्”
*
“दुरालभां शृङ्गवेरं शठीं द्राक्षां सितोपलाम्
लिह्यात् कर्कटशृङ्गीञ्च कासे तैलेन वातजे ।दुष्पर्शां पिप्पलीं मुस्तां भार्गीं कर्कटकं शठीम्
पुराणगुडतैलाभ्यां चूर्णिताण्यवलेहयेत् ।तद्वत् सकृष्णां शुण्ठीञ्च सभार्गीं तद्वदेव
पिबेच्च कृष्णां कोष्णेन सलिलेन ससैन्धवाम् ।मस्तुना ससितां शुण्ठीं दध्ना वा कणरेणुकाम्
पिबेद्वदरमज्ज्ञो वा मदिरा दधिमस्तुभिः ।अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम्
कासीसपीनसोधूमं स्नैहिकं विधिना पिबेत्” ।“यवानीपिप्पलीविल्वमध्यनागरचित्रकैः ।रास्नाजाजी पृथक्पर्णी पलाशशठीपौष्करैः
सिद्धां स्निग्धाम्ललवणां पेयामनिलजे पिबेत् ।कटिहृत् पार्श्वकोष्ठार्त्तिश्वासहिक्काप्रणाशनीं”
“पित्तकासे तनुकफे त्रिवृतां मधुरैर्युताम् ।युञ्ज्याद्विरेकाययुतां घनश्लेष्मणि तिक्तकैः
हृतदोषो हिमं स्वादु स्निग्धं संसर्ज्जनं भजेत् ।घने कफे तु शिशिरं रूक्षं तिक्तोपसंहितम्
लेहः पैत्ते सिता धात्री क्षौद्रद्राक्षा हिमोत्पलैः ।सकफे साब्दमरिचः सघृतः सानिले हितः
मृद्वीकार्द्धशतं त्रिंशत्पिप्पलीः शर्करापलम् ।लेहयेन्मधना गोर्व्वा क्षीरपस्य शकृद्रसम्
त्वगेलाव्योषमृद्वीकापिप्पलीमूलपौष्करैः ।लाजमुस्ता शठीरास्ना धात्रीफलविभीतकैः
शर्कराक्षौद्रसर्पिर्भिर्लेहो हृद्रोगकासहा ।मधुरैर्जाङ्गलरसैर्यवश्यामाककोद्रवाः
मुद्गादियूषैः शाकैश्च तिक्तकैर्मात्रया हिताः ।घनश्लेष्मणि लेहाश्च तिक्तकामधुसंयुताः
शालयः स्युस्तनुकफे षष्टिकाश्च रसादिभिः ।शर्कराम्भोऽनुपानार्थं द्राक्षेक्षुस्वरसाः पयः
काकोली वृहतीमेदाद्वयैः वृषनागरैः ।पित्तकासे रसक्षीरपेयायूषान् प्रकल्पयेत्”
“पुनर्नवा शिवाटिका सरलकासमर्द्दामृता ।पटोलवृहतीफणिज्जकरसैः पयः संयुतैः
घृतं त्रिकटुना सिद्धमुपयुज्य सञ्जायते ।न कासविषमज्वरक्षयगुदाङ्कुरेभ्यो भयम्”
*
“दशमूलं स्वयङ्गुप्तां शङ्खपुष्पीं शठीं बलाम्
हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान् ।भार्गीं पुष्करमूलञ्च द्विपलांशान् यवाढकम्
हरीतकीशतञ्चैकं जलेपञ्चाढके पचेत् ।यवस्विन्ने कषायं तं पूतन्तञ्चाभयाशतम्
पचेद्गुडतुलां दत्त्वा कुडवञ्च पृथग्घृतात् ।तैलात् सपिप्पलीचूर्णात् सिद्धशीते माक्षिकात्
लेहं द्वे चाभये नित्यमतः खादेद्रसायनात् ।तद्वलीपलितं हन्याद्वर्णायुर्बलवर्द्धनम्
पञ्चकासान् क्षयं श्वासं सहिक्कं विषमज्वरम् ।मेहगुल्मग्रहण्यर्शहृद्रोगारुचिपीनसान्
अगस्तिविहितं धन्यमिदं श्रेष्ठं रसायनम्”
इति आगस्त्यरसायनम्
*
“विधिश्च यक्ष्मविहितो यथावस्थं क्षते हितः
निवृत्ते क्षतदोषे तु कफे वृद्धे उरः शिरः ।दाल्यते कासिनो यस्य सधूमानापिबेदिमान्
द्विमेदा द्विवलाषष्टीकल्कैः क्षौमे सुभाविते ।वर्त्तिं कृत्वा पिबेद्धूमं जीवनीयघृतानुपः
मनःशिला पलासाजगन्धात्वक्क्षीरिनागरैः ।तद्वदेवानुपानन्तु शर्करेक्षुगुडोदकम्
पिष्ट्वा मनःशिलां तुल्या मार्द्रया वटशृङ्गया ।ससर्पिष्कं पिबेद्धूमं तित्तिरिप्रतिभोजनम्
क्षयजे वृंहणं पूर्व्वं कुर्य्यादग्नेश्च बर्द्धनम् ।बहुदोषाय सस्नेहं मृदुदद्याद्विरेचनम्
शस्याकेन त्रिवृतया मृद्वीकारसयुक्तया ।तिल्वकस्य कषायेण विदारीस्वरसेन
सपिः सिद्धं पिबेद्युक्त्या ज्ञोणदेहो विशोधनम् ।पित्ते कफे धातुषु क्षीणेषु क्षयकासवान्
घृतं कर्कटकीक्षीरद्विवलासाधितं पिबेत् ।विदारीभिः कदम्बैर्वा तालशम्यैश्च साधितम्
घृतं पयश्च मूत्रम्य ववर्णे कृच्छ्रनिर्गमे ।शूने सवेदने मेढ्रे पायौ सश्रोणिवङ्क्षणे
घृतमण्डेन लघुनानुवास्यो मिश्रकेण वा ।जाङ्गलैः प्रतिमुक्तस्य वर्त्तकाद्या यिलेशयाः
कमशः प्रमहास्तद्वत् प्रयोज्याः पिशिताशिनः ।औष्ण्यात्प्रमाथिमावाच्च स्रोतोभ्यश्च्यावयन्तिते
कफं शुद्धैश्च तःपुष्टिं कुर्य्यात्सम्यग्वहन् रसः ।चविकात्रिफलाभार्गी दशमूलः चित्रकैः
कुलत्थपिप्पलीमूलपाठाकालयवैर्जले ।शृतैर्नागरदुस्पर्शा पिप्पलीशठिपौष्करैः
पिष्टैः कर्कटशृङ्ग्या समैः सर्पिर्विपाचयेत् ।सिद्धेऽस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि
दत्त्वा युक्त्यापिबेन्मात्रां क्षयकासनिपीडितः ।कासमर्द्दोऽभयामुस्तापाठाकट्फलनागरैः
पिप्पल्या कटुरोहिण्या काश्मर्य्याः स्वरसेन ।अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षा रसाढके
पचेच्छोषज्वरप्लीहसर्व्वकासहरं शिवम्”
*
“वृषव्याघ्री गुडूचीनां पञ्चमूलफलाङ्कुरान्
रसकल्कैर्घृतं पक्वं हन्ति कासज्वरारुचीः” ।“स्युर्दोषबद्धः कण्ठोरः स्रोतसाञ्च विशुद्धये
प्रस्थोन्मिते यवक्वाथे विंशतिर्विजयाः पचेत् ।स्विन्नामृदित्वा तास्तस्मिन् पुराणात्षट्पलं गुडात्
पिप्पल्या द्विपलं कर्षं मनोह्वाया रसाञ्जनात् ।दत्त्वार्द्धाक्षं पचेद्भूयः सलेहः श्वासकासनुत्”
“तद्वन्मरि चचूर्णं वा सघृतक्षौद्रशर्करम् ।पथ्याशुण्ठी घनगुडैर्गुटिकां धारयेन्मुखे
सर्व्वेषु श्वासकासेषु केवलं वा विभीतकम् ।पत्रकल्कं घृतभृष्टं तिल्वकस्य सशर्करम्
पेयावोत्कारिकाच्छर्द्दितृट्कासामातिसारनुत् ।कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः
गौरामलकः साम्लः सर्व्वक्वासभिषग्जितम्
वातघ्नौषधनिःक्वाथे क्षीरं यूषान् रसानपि ।वैष्किरान् प्रातुदान् वैलान् दापयेत् क्षयकासिने
क्षतकासे येधूमाः सानुपानानि दर्शिताः ।क्षयकाशेऽपि ते योज्या वक्ष्यन्ते यच्च यक्ष्मणि
वृंहणं दीपनञ्चाग्नेः स्रोतसाञ्च विशोधनम् ।व्यत्यासात्क्षयकासिभ्यो बल्यं सर्व्वं प्रशस्यते
सन्निपातोद्भवो घोरः क्षयकासो यतस्ततः ।यथादोषबलन्तस्य सन्निपातहितं हितम्”
इति वाभटे चिकित्सास्थाने अध्याये
*
अस्य सकारणसम्प्राप्तिकं लक्षणं चिकित्सितञ्चयथा, --“तपसा यशसा धृत्या धिया परयान्वितः ।आत्रेयः कासशान्त्यर्थं सिद्धं प्राह चिकित्सितम्
वातादिभिस्त्रयो ये क्षतजः क्षयजस्तथा ।पञ्चैते स्युर्नृणां कासा वर्द्धमानाः क्षयप्रदाः”
“अधःप्रतिहतो वायुरूर्द्ध्वस्रोतः समाश्रितः ।उदानभावमापन्नः कण्ठे सक्तस्तथोरसि
आविश्य शिरसः खानि सर्व्वाणि प्रति पूरयन् ।आभञ्जन्नाक्षिपन्देहं हनुमन्ये तथाक्षिणी
नेत्रे पृष्ठमुरः पार्श्वे निर्भज्य स्तम्भयंस्ततः ।शुष्को वा सकफो वापि कसनात् कास उच्यते ।प्रतिघातविशेषेण तस्य वायोः सरंहसः
वेदनाशब्दवैषम्यं कासानामुपजायते ।रूक्षशीतकषायाल्पप्रमितानशनं स्त्रियः
वेगधारणमायासो वातकासप्रवर्त्तकाः ।हृत्पार्श्वोरः शिरःशूलस्वरभेदकरो भृशम्
शुष्कोरःकण्टवक्त्रास्यहृष्टलोम्नः प्रताम्यतः ।निर्घोषीस्तनतो दैन्यदौर्ब्बल्यक्षयमोहकृत्
शुष्ककासः कफं शुष्कं कृच्छ्रान्मुक्ताल्पतां व्रजेत् ।स्निग्धाम्ललवणोष्णैश्च भुक्तमात्रे प्रशाम्यति
ऊर्द्ध्ववातस्य जीर्णेऽन्ने वेगवान्मारुतो भवेत् ।कटुकोष्णविदाह्यम्लक्षाराणामतिसेवनम्
पित्तकासकरं क्रोधः सन्तापश्चाग्निसूर्य्यजः ।पीतनिष्ठीवनाक्षित्वं तिक्तास्यत्वं स्वरामयः
उरो धूमायनं तृष्णा दाहोमोहोऽरुचिर्भ्रमः ।प्रततं कासमानश्च ज्योतींषीव पश्यति ।श्लेष्माणं पित्तसंसृष्टं निष्ठीवति पैत्तिके
गुर्व्वभिष्यन्दिमधुरस्निग्वस्वप्नाविचेष्टनैः ।वृद्धः श्लेष्मानिलं रुद्ध्वा कफकासं करोति हि
मन्दाग्नित्वारुचिच्छर्द्दि पीनसोत्क्लेशगौरवैः ।लोमहर्षास्यमाधुर्य्यक्लेदसंसदनैर्य्युतम् ।वृंहणं मधुरं स्निग्धं निष्ठीवति घनं कफम् ।कासमानोऽतिरुग्वक्षः सम्पूर्णमिव मन्यते”
“दुर्गन्धं हरितं रक्तं ष्ठीवेत् पूयोपमं कफम् ।स्थानादुत्कासमानश्च हृदयं मन्यते च्युतम्
अकस्मादुष्णशीतार्त्तो बह्वाशीदुर्ब्बलः कृशः ।स्निग्धाच्छमुखवर्णत्वक् श्रीमद्दशनलोचनैः
पाणिपादतलौ श्लक्ष्णौ सततासूयकोघृणी ।ज्वरो मिश्राकृतिस्तस्य पार्श्वरुक् पीनसोऽरुचिः
भिन्नसङ्घातवर्च्चस्त्वं स्वरभेदोऽनिमित्ततः ।इत्येषः क्षयजः कासः क्षीणानां देहनाशनः”
“रूक्षस्यानिलजं कासं आदौ स्नेहैरुपाचरेत् ।सर्पिर्भिर्वस्तिभिः पेयायूषक्षीररसादिभिः ।वातघ्नसिद्धैः स्नेहाद्यैर्धूमैर्लहैश्च युक्तितः
अभ्यङ्गैः परिषेकैश्च स्निग्धैः स्वेदैश्च बुद्धिमान् ।वस्तिभिर्वद्धविड्वातं शुष्कोर्द्ध्वं चोर्द्ध्वभक्तिकैः
घृतैः सपित्तं सकफं जयेत् स्नेहविरेचनैः” ।“पिप्पली पिप्पलीमूलचव्यचित्रकनागरैः ।धान्यपाठावचारास्ना यष्ट्याह्वक्षारहिङ्गुभिः ।कोलमात्रैर्घृतप्रस्थाद्दशमूली रसाढके
सिद्धां चतुर्थिकां पीत्वा पेयामण्डं पिबेदंनु ।तच्छ्वासकासहृत्पार्श्वग्रहणीदोषगुल्मनुत्”
“त्र्यूषणं त्रिफलां द्राक्षां काश्मर्य्याणि परूषकम् ।द्वे पाटे सरलं व्याघ्रीं स्वगुप्ताचित्रकं शठीम् ।ब्राह्मीं तामलकीं मेदां काकनासां शतावरीम् ।त्रिकण्टकां विदारीञ्च पिष्ट्वा कर्षसमं घृतात्
प्रस्थं चतुर्गुणं क्षीरं सिद्धं कासहरं पिबेत् ।ज्वरगुल्मारुचिप्लीहशिरोहृत्पार्श्वशूलनुत्
कामलार्शोऽनिलाष्ठीला क्षतशोषक्षयापहम् ।त्र्यूषणं नाम विख्यातमेतद्घृतमनुत्तमम्”
इति त्र्यूषणाद्यं घृतम्
*
“द्रोणेऽपां साधयेद्रास्नां दशमूलीं शतावरीम् ।पलिकां माणिकां शांस्तु कुलत्थान् वदरान् यवान्
तुलार्द्धञ्चाजमासस्य पादशेषेण तेन ।घृताढकं समक्षीरं जीवनीयैः पलोन्मितैः
सिद्धं तद्दशभिः कल्कैः नस्यपानानुवासनैः ।समीक्ष्य वातरोगेषु यथावस्थं प्रयोजयेत्
पञ्च कासान् शिरःकम्पं शूलं वङ्क्षणयोनिजम् ।सर्व्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्द्ध्वानिलान् जयेत्”
“दशमूलीं स्वयङ्गुप्तां शङ्खपुष्पीं शठीं बलाम् ।हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान्
भार्गीं पुष्करमूलञ्च द्विपलांशयवाढकम् ।हरीतकीशतञ्चैकं जलपञ्चाढके पचेत्
यवे स्विन्ने कषायन्तम्पूतन्तच्चाभयाशतम् ।पचेत् गुडतुलां दत्त्वा कुडवञ्च पृथग् घृतात्
तैलात् सपिप्पलीचूर्णात् सिद्धशीते चमाक्षिकात्
लिह्याद्द्वे चाभये नित्यमतः खादेद्रसायनात्
तद्वलीपलितं हन्ति वर्णयुर्बलवर्द्धनम् ।पञ्चकासान् क्षयं कासं हिक्कां सविषमज्वराम्
हन्यात्तथार्शोग्रहणीहृद्रोगारुचिपीनसान् ।अगस्त्यविहितं श्रेष्ठं रसायनमिदं शुभम्”
इत्यगस्त्यहरीतकी
*
“शिरसः सदने स्रावे नासाया हृदि ताम्यति ।कासप्रतिश्यायरसे धूमं वैद्यः प्रयोजयेत्
दशाङ्गुलोन्मितां नाडीं अथवाष्टाङ्गुलोन्मिताम् ।शरावसंपुटच्छिद्रे कृत्वाजृह्मां विचक्षणः
वैरेचनं मुखेनैव कासवान् धूममापिबेत् ।तमुरः केवलं प्राप्तं मुखेनैवोद्धमेत् पुनः
सह्यस्य तैक्ष्ण्याद्विक्षिप्य श्लेष्माणमुरसि स्थितम् ।निष्कृष्य शमयेत् कासं वातश्लेष्मसमुद्भवम्”
“मनःशिलालमधुकमांसीमुस्तेङ्गुदैः पिबेत् ।धूमं तस्यानु क्षीरं सुखोष्णं सगुडं पिबेत्
एष कासान् पृथग्दोषसन्निपातोद्भवान् जयेत् ।प्रसह्य पर्य्यसंसिद्धानन्यैर्योगशतैरपि”
“मनःशिलैलामरिचक्षाराञ्जनकुटन्नटैः ।वंशलोचनशैवालक्षौमनक्तकरोहिषैः
पूर्व्वकल्पेन धूमोऽयं सानुपानो विधीयते ।आलं मनःशिला तद्वत् पिप्पलीनागरैः राह
त्वगैङ्गुदीवृहत्यौ द्वे तालमूलं मनःशिला ।कार्पासास्थ्यश्वगन्धा धूमः कासविनाशनः”
“पैत्तिके कफे कासे वमनं सर्पिषा हितम् ।तथा मदनकाश्मर्य्यमधूकक्वथितैर्ज्जलैः
यष्ट्याह्वफलकल्कैर्व्वा विदारीक्षुरसायुतैः ।हृतदोषस्ततः शीतं मधुरञ्च क्रमं भजेत्
पैत्ते तनुकफे कासे त्रिवृतां मधुरैर्युताम् ।दद्याद्घनकफे तिक्तैर्विरेकार्थे युतां भिषक्
“शर्कराचन्दनद्राक्षा मधुधात्रीफलोत्पलैः ।पैत्तेसमुस्तमरिचः सकफे सघृतोऽनिले
मृद्वीकार्द्धशतं त्रिंशत् पिप्पलीशर्करापलम् ।लेहयेन्मधुना गोर्व्वा क्षीरपस्य शकृद्रसम्”
“बलिनं वमनैरादौ शोधयेत् कफकासिनम् ।यवान्नैः कटुरुक्षोष्णैः कफघ्नैश्चाप्युपाचरेत्
पिप्पलीक्षारिकैर्यूषः कोलत्थं मूलकस्य ।लघून्यन्नानि भुञ्जीत रसैर्व्वा कटुकान्यितैः”
कासमर्द्दाश्वबिट्भृङ्गराजोवार्त्ताकुजारसाः ।सक्षौद्राः कफकासघ्नाः मुररस्यासितस्य च”
“क्षतकासाभिभूतानां वृत्तिः स्यात् पित्तकासिकी ।क्षीरसर्पिर्मधुप्राया संसर्गे तु विशेषणम्
वातपित्तार्द्दितेऽभ्यङ्गो गात्रभेदेघृतैर्हितः ।तैलैर्मारुतरोगघ्नैः पीड्यमाने वायुना
हृत्पार्श्वार्त्तिषु पानं स्याज्जीवनीयस्य सर्पिषः ।सदाहं कासिनो रक्तं ष्ठीवतः सबलेऽनिले ।मांसोचितेभ्यः कामेभ्यो लावादीनां रसा हिताः”
“निवृत्ते क्षतदोषे तु कफे वृद्ध उरः शिरः ।दाल्यते कासिनो यस्य सधूमान्नापिबेदिमान्
द्वे मेदे मधुकं द्वे बलेतैः क्षौमनक्तकैः ।वर्त्तितैर्धूममापीय जीवनीयघृतं पिबेत्”
“सम्पूर्णरूपं क्षयजं दुर्ब्बलस्य विवर्ज्जयेत् ।नवोत्थितं बलवतः प्रत्याख्यायाचरेत् क्रियाम्”
“पित्ते कफे संक्षीणे परिक्षीणेषु धातुषु ।घृतं कर्क्कटकीक्षीरद्विवलासाधितं पिबेत्”
“क्षतकासे ये धूमाः सानुपाना निदर्शिताः ।क्षतकासेऽपि तानेव यथावस्थं प्रयोजयेत्”
“सन्निपातभवोऽप्येष क्षयकासः सुदारुणः ।सन्निपातहितं तस्मात् सदा कार्य्यं भिषग्जितम्
दोषानुबलयोगाच्च हरेद्रोगबलाबलम् ।कासेष्वेषु गरीयांसं जानीयादुत्तरोत्तरम्”
इति चिकित्सास्थाने २२ अध्याये चरके-णोक्तम्
*
कासस्य निदानसम्प्राप्तिलक्षणसांहतं प्राग्रूपंचिकित्सितञ्च यथा, --“उक्ता ये हेतवो नॄणां रोगयोः श्वासहिक्कयोः ।कासस्यापि ते ज्ञेयास्तत्र वोत्पत्तिहेतवः”
“स वातपित्तप्रभवः कफाच्चक्षतात्तथान्यः क्षयजोऽपरश्च ।पञ्चप्रकारः कथितो भिषग्भि-र्विवर्द्धितो यक्ष्मविकारकृत्स्यात्
भविष्यतस्तस्य तु कण्ठकण्डू-र्भोज्योपरोधोगलतालुलेपः ।स्वशब्दवैषम्यमरोचकोऽग्नि-सादश्च लिङ्गानि भवन्त्यमूनि”
“वृद्धत्वमासाद्य भवत्यथो वैयाप्यन्तमाहुर्भिषजस्तु कासम्
शृङ्गीवचा कट्फलकत्तृणाब्द-धान्याभयाभार्ग्यमराह्वविश्वम् ।उष्णाम्बुना हिङ्गुयुतं तु पीत्वा-बद्धास्यमप्याशु जहाति कासम्
फलत्रिकव्योषविडङ्गशृङ्गीरोस्नावचापद्मकदेवकाष्ठैः ।लेहः समैः क्षौद्रसिताघृताक्तःकासं निहन्यादचिरादुदीर्णम्
पथ्यां सितामामलकानि लाजांसमागधीञ्चापि विचूर्ण्य शुण्ठीम् ।सर्पिर्मधुभ्यां विलिहीतकासीस सैन्धवां वोष्णजलेन कृष्णाम्
खादेद्गुडं नागरपिप्पलीभ्यांद्राक्षाञ्च सर्पिर्मधुनावलिह्यात् ।द्राक्षां सितां मागधिकाञ्च तुल्याम्सशृङ्गवेरं मधकन्तुगाञ्च
लिह्याद्घृतक्षौद्रयुतां समांसांसितोपलां वा मरिचांशयुक्ताम् ।धात्रीकणाबिश्वसितोपलाश्चसञ्चर्ण्य मण्डेन पिबेच्च दध्ना
हरेणकां मागधिकाञ्च तुल्याम्दध्ना पिबेत् कासगदाभिभूतः”
“पिबेच्च सीधुं मरिचान्वितं वातेनाशु कासं शममभ्युपैति ।द्राक्षाम्बुमञ्जिष्ठपुराह्वयाभिःक्षीरं श्रुतं माक्षिकसंप्रयुक्तम्
निदिग्धिकानागरपिप्पलीभिःखादेच्च मुद्गान् मधुना सुसिद्धान् ।उत्कारिकां सर्पिषि नागराढ्याम्पक्त्वा समूलैस्त्रुटिकोलपत्रैः
एभिर्निषेवेत कृताञ्च पेयाम्तन्वीं सुशीतां मधुना विमिश्राम्यत्प्लीह्नि सर्पिर्विहितं षडङ्गम्तद्वातकासं जयति प्रसह्य
विदारि गन्धादिकृतं घृतं वारसेन वा वासकजेन पक्वम् ।विरेचनं स्नैहिकमत्र चोक्त-मास्थापनञ्चाप्यनुवासनञ्च
धूमं पिबेत् स्नैहिकमप्रमत्तःपिबेत् सुखोष्णं घृतमेव चात्र ।हिता यवाग्वश्च रसेषु सिद्धाःपयांसि लेहाः घृतास्तथैव
प्रच्छर्द्दंनं कायशिरो विरेकास्तथैवधूमाकबलग्रहाश्च ।उष्णाश्च लेहाः कटुकानि हन्युःकफं विशेषेण विशोषणं वा”
“खर्ज्जूरभार्गीमगधापियाल-मधूलिकैलामलकैः समांशैः ।चूर्णं सिताक्षौद्रघृतप्रगाढ-न्त्रीन् हन्ति कासानुपयुज्यमानः”
“प्रस्थत्रयेणामलकीरसस्यशुद्धस्य दत्त्वार्द्धतुलां गुडस्य
चूर्णीकृतैर्ग्रन्थिकचव्यजीर-व्योषेभकृष्णा पुषाजमोदैः ।विडङ्गसिन्धुत्रिफलायमानीपाठाग्निधान्यैश्च पिचुप्रमाणैः
दत्त्वा त्रिवृच्चूर्णपलानि चाष्टा-वष्टौ तैलस्थ पचेद्यथावत् ।तम्भक्षयेदक्षफलप्रमाणम्यथेष्टचेष्टं त्रिसुगन्धि युक्तम्
अनेन सर्व्वे ग्रहणी विकाराःस श्वासकासस्वरभेदशोषाः ।शाम्यन्ति चायं चिरमन्तरग्ने-र्हतस्य पुंस्त्वस्य वृद्धिहेतुः
स्त्रीणाञ्च बन्ध्यामयनाशनः स्यात्कल्याणको नाम गुडः प्रतीतः”
इति कल्याणको गुडः
*
“कुलीर शुक्ती चटकैणलावा-न्निःक्वाथ्य वर्गैर्मधुरैस्तथान्यैः
पचेद्घृतं तत्तु निषेव्यमानम्हन्यात् क्षतोत्थं क्षयजञ्च काशम्”
इति सुश्रुते उत्तरतन्त्रे ५२ अध्याये
*
“पारदं गन्धकं शुद्धं मृतलौहञ्च टङ्कणम् ।रास्ना विडङ्गत्रिफला वेवदारुकचित्रकम् ।अमृतां पद्मकं क्षौद्रं विषञ्चैव विचूर्णयेत् ।द्विगुञ्जं वातकासार्त्तिः सेवयेदमृतार्णवम्”
इति अमृतार्णवो रसः
*
“भस्मताम्राभ्रकान्तानां कासमत्वर्दचो रसैः ।मुनिजैर्वेतसाम्लेन दिनं मर्द्यं प्रयत्नतः
निष्कार्द्धं पित्तकासार्त्तो भक्षयेच्च दिनत्रयम् ।श्वासकासाग्निमान्द्यञ्च क्षयकासं निकृन्तति”
इति पित्तकासान्तको रसः
*
“सुशुद्धं पारदं गन्धं प्रत्येकं शुक्तिसम्मितम् ।ततः कज्जलिकां कृत्वा मर्दयेच्च पृथक् पृथक्
विश्वाग्निमन्थश्योनाककाश्मर्य्यः पाटला बला ।मुस्तं पुनर्नदा धात्री वृहतीवृषपत्रकम्
विदारी बहुपुत्त्री एषां कर्षरसैः पृथक् ।सुवर्णं रजतं ताम्रं प्रत्येकं शाणमानकम्
पलमात्रन्तु कृष्णाभ्रं तदर्द्धन्तु शिलाह्वयम् ।जातीकोषफलं मांसी तालीशैला लवङ्गकम् ।प्रत्येकं कोलमानन्तु वासानीरैर्विमर्दयेत् ।शोषयित्वा ततः पश्चाद्विदारी रसमर्दितः
त्रिगुञ्जां तां वटीं खादेत्पिप्पली मधुसंयुताम् ।नाम्ना नित्योदयश्चायं रसो विष्णुविनिर्म्मितः
पञ्च कासान्निहन्त्याशु चिरकालसमुद्भवम् ।राजयक्ष्माणमत्युग्रमित्यादि बहवो गुणाः”
इति नित्योदयो रसः
*
“शुद्धं कृष्णाभ्रचूर्णद्विपलपरिमितंशाणमानं यदन्यत्कर्पूरं जातिकोषं सजलमिभकणा-तेजपत्रं लवङ्गम् ।मांसीतालीशचोचं गजकुमुमगदं-धातकीचेति तुल्यम्पथ्याधात्री विभीतं त्रिकटुरपि पृथक्त्वर्द्धशाणं द्विशाणम्
एला जातीफलाख्यं क्षितितलविधिनाशुद्धगन्धस्य कोलम्कोलार्द्धं पारदस्य प्रतिपदविहितंपिष्टमेकत्र मिश्रम् ।पाणीयेनैवकार्य्याः परिणतचणक-स्विन्नतुल्याश्च वठ्यःप्रातःखाद्याश्चतस्रस्तदनु खलु कियत्शृङ्गवेरं सपर्णम्
पाणीयं पीतमन्ते ध्रुवमपहरति-क्षिप्रमेतान् विकारान्कोष्टे दुष्टाग्निजातान् ज्वरमुदररुजं-राजयक्ष्मक्षतञ्च ।कासं श्वासं सशोथं नयनपरिभवं-मेहमेदो विकारान्हन्यादामानिलोत्थान् कफपवनकृतान्पित्तरोगान् विशेषान्
बल्योवृष्यश्च योगन्तरुणकरवरः-सर्व्वरोगप्रशस्तःपथ्यं मांसैश्च यूषैर्धृतपरिलुलित-र्गव्यदुग्धञ्च भूयः ।भोज्यो योज्यो यथेष्टं ललितललनया-दीयमानो मुदा यत्शृङ्गाराभ्रेणकामी युवतिजनशता-भोगयोगादतुष्टः
वर्ज्ज्यं शाकाम्लमादौ कतिपयचित्-स्वेच्छया भोज्यमानः”
इति शृङ्गाराभ्रः
*
“जीर्णं सुवर्णं लौहं वा यद्यत्रैव प्रदीयते ।तदायं सर्व्वरोगाणां सार्व्वभौमो संशयः”
इति सार्व्वभौमो रसः
*
“त्रिकटु त्रिफलाधान्यं चव्यं चित्रकसैन्धवम् ।दिव्यौषधिहतञ्चापि सर्व्वतुल्यन्त्वयोरजः
नवगुञ्जाप्रमाणेन वटिकां कारयेद्भिषक् ।प्रातःकाले शुचिर्भूत्वा चिन्तयित्वामृतेश्वरीम्
एकैकां वटिकां खादेत् रक्तोत्पलरसप्लुताम् ।नीलोत्पलरसैर्व्वापि कुलत्थस्य रसेन वा
निहन्ति विविधं कासं दोषत्रयसमुद्भवम् ।वातिकं पैत्तिकञ्चैव गरदोषसमुद्भवम् ।सरक्तमथवा रक्तं कासश्वाससमन्वितम्
तृड्दांहभ्रमशूलघ्नी रुच्या वह्णिप्रदीपनी ।बलवर्णकरी वृष्या जीर्णज्वरविनाशिनी
इयं चन्द्रामृता नाम्ना चन्द्रनाथेन निर्म्मिता ।वासागुडूचिका भार्गो मुस्तकं कण्टकारिका
भोजनान्ते प्रकर्त्तव्या वटिका कार्य्यसिद्धये”
इति श्रीचन्द्रामृता वटी
चन्द्रामृतं लौहमि-त्यपि पाठः
*
“रसगन्धकलौहानां प्रत्येकं कार्षिकं क्षिपेत् ।टङ्गणस्य पलं दत्त्वा मरिचस्य पलार्द्धकम्
त्रिकटुत्रिफलाचष्य धान्यजीरकसैन्धवम् ।प्रत्येकं तोलकं ग्राह्यं छागीदुग्धेन पेषयेत्
नवगुञ्जाप्रमाणेन वटिकां कारयेद्भिषक् ।प्रातःकाले शुचिर्भूत्वा चिन्तयित्वामृतेश्वरीम्
एकैकां वटिकां खादेत् रक्तोत्पलरसप्लुताम् ।नीलोत्पलरसेनापि कुलत्थस्य रसेन वा
निहन्ति विविधं कासं तातरक्तकफोद्भवम् ।सरक्तमथवा रक्तं ज्वरश्वाससमन्वितम्
हृच्छूलं पार्श्वशूलञ्च जीर्णज्वरविनाशनः ।चन्द्रामृतरसो जाम चन्द्रनाथेन भाषितः”
इति वृहच्चन्द्रामृतो रसः
*
इति वैद्यकरसेन्द्रसारसंग्रहे कासरोगाधि-कारे
*
*
अथ कासपथ्यम्
“स्वेदो विरेचनं छर्दिर्धूमपानं समाशनम् ।शालिषष्टिकगोधूमश्यामाकयवकोद्रवाः
आत्मगुप्ता माषमुद्गकुलत्थानां रसाः पृथक् ।ग्राम्यौदकानूपधन्वमांसानि विविधानि
सुरा पुरातनं सर्पिश्छागञ्चापि पयो घृतम् ।वास्तुकं वायसी शाकं वार्त्ताकुं बालमूलकम्
कण्टकारी कासमर्द्दी जीवन्ती सुनिषण्णकम् ।द्राक्षाविम्बी मातुलुङ्गं पौष्करं वासकस्त्रुटिः
गोमूत्रं शुनं पय्या व्योबुसष्णोदकं मधु ।लाजा दिवसनिद्रा लघून्यन्नानि यानि
पथ्यमेतद्यथा दोषमुक्तं कासगदातुरे”
अथापथ्यमाह
“वस्तिं नस्यमसृङ्मोक्षं व्यायामं दन्तघर्षणम् ।आतपं दुष्टपवनं रजोमार्गनिषेवणम्
विष्टम्भीनि विदाहीनि रूक्षाणि विविधानि ।शकृन्मूत्रोद्गारकासवमिवेगनिधारणम्
मत्स्यं कन्दं सर्षपञ्च तुम्बीफलमुपोदिकाम् ।दुष्टाम्बु चान्नपानञ्च विरुद्धान्यशनानि
गुरुशीतञ्चान्नपानं कासरोगी परित्यजेत्”
इति वैद्यकपथ्यापथ्यविधौ कासरोगाधिकारः
*
)काशतृणम् इत्यमरटीकायां भरतः
शोभाञ्जनः ।इति शब्दचन्द्रिका
कृदन्तरूपमाला
Sanskrit
1 {@“कस गतौ”@} 2 ‘गतिशासनयोः कस्ते कसतीति गतौ शपि।’ 3 इति देवः।
4 कासकः-सिका, कासकः-सिका, चिकसिषकः-षिका, 5 चनीकसकः-सिका
कसिता-त्री, कासयिता-त्री, चिकसिषिता-त्री, चनीकसिता-त्री
कसन्-न्ती, कासयन्-न्ती, चिकसिषन्-न्ती
-- कसिष्यन्-न्ती-ती, कासयिष्यन्-न्ती-ती, चिकसिषिष्यन्-न्ती-ती
कासयमानः, कासयिष्यमाणः, चनीकस्यमानः, चनीकसिष्यमाणः
6 कः-कसौ-कसः
-- -- -- 7 कसितम्-तः, कासितः-तम्, चिकसिषितः, चनीकसितः-तवान्
कसः, 8 कासः, 9 कस्वरः, 10 कशनीयकासी, कासः, चिकसिषुः, चिकासयिषुः, चनीकसः
कसितव्यम्, कासयितव्यम्, चिकसिषितव्यम्, चनीकसितव्यम्
कसनीयम्, कासनीयम्, चिकसिषणीयम्, चनीकसनीयम्
कास्यम्, कास्यम्, चिकसिष्यम्, चनीकस्यम्
ईषत्कसः-दुष्कसः-सुकसः, -- -- कस्यमानः, कास्यमानः, चिकसिष्यमाणः, चनीकस्यमानः
कासः, 11 विकासः, कासः, चिकसिषः, चनीकसः
कसितुम्, कासयितुम्, चिकसिषितुम्, चनीकसितुम्
कस्तिः, कासना, चिकसिषा, चिकासयिषा, चनीकसा
कसनम्, कासनम्, चिकसिषणम्, चनीकसनम्
कसित्वा, कासयित्वा, चिकसिषित्वा, चनीकसित्वा
विकस्य, विकास्य, विचिकसिष्य, विचनीकस्य
कासम् २, कसित्वा २, कासम् २, कासयित्वा २, चिकसिषम् २, चिकसिषित्वा २, चनीकसम्
चनीकसित्वा २।
प्रासङ्गिक्यः
01
=>
(१८०)
02
=>
(१-भ्वादिः-८६०। सक। सेट्। पर। ज्वलादिः।)
03
=>
(श्लो। १९२)
04
=>
[[३। ‘अत उपधायाः’ (७-२-११६) इति वृद्धिः।]]
05
=>
[[४। ‘नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्’ (७-४-८४) इत्यभ्यासस्य नीक्।]]
06
=>
[[५। ‘ससजुषो रुः’ (८-२-६६) इति रुत्वम्। विसर्गः।]]
07
=>
[पृष्ठम्०१७६+ २६]
08
=>
[[१। ‘ज्वलितिकसन्तेभ्यो णः’ (३-१-१४०) इति वा णः। पक्षे पचाद्यच्।]]
09
=>
[[२। ‘स्थेशभासपिसकसो वरच्’ (३-२-१७५) इति वरच् ताच्छीलिकः।]]
10
=>
[[आ। ‘स्वीयैश्चकंसे कशनीयकासी रमोष्ठनिंसी नतचित्तनिञ्जी।।’ धा। का। २-४५।]]
11
=>
[[B। ‘क्रोशैर्जनाः कोचगलान् मरालान् बोधन्ति यत्राम्बुरुहां विकासे।।’ धा। का। २। २४।]]
1 {@“कासृ शब्दकुत्सायाम्”@} 2 ‘शब्दस्य कुत्सा रोगित्वात्।’ इति क्षीरतरङ्गिणी।
कासकः-सिका, कासकः-सिका, चिकासिषकः-षिका, चाकासकः-सिका
कासिता-त्री, कासयिता-त्री, चिकासिषिता-त्री, चाकासिता-त्री
-- कासयन्-न्ती, कासयिष्यन्-न्ती-न्ती
-- कासमानः, कासयमानः, चिकासिषमाणः, चाकास्यमानः
कासिष्यमाणः, कासयिष्यमाणः, चिकासिषिष्यमाणः, चाकासिष्यमाणः
3 प्रकाः-प्रकासौ-प्रकासः
-- -- कासितम्-तः, कासितः-तम्, चिकासिषितः, चाकासितः-तवान्
कासः, कासः, चिकासिषुः, चिकासयिषुः, चाकासः
कासितव्यम्, कासयितव्यम्, चिकासिषितव्यम्, चाकासितव्यम्
4 कासनीयम्, कासनीयम्, चिकासिषणीयम्, चाकासनीयम्
कास्यम्, कास्यम्, चिकासिष्यम्, चाकास्यम्
ईषत्कासः-दुष्कासः-सुकासः
-- -- कास्यमानः, कास्यमानः, चिकासिष्यमाणः, चाकास्यमानः
5 कासः, कासः, चिकासिषः, चाकासः
कासितुम्, कासयितुम्, चिकासिषितुम्, चाकासितुम्
कासा, कासना, चिकासिषा, चिकासयिषा, चाकासा
निष्कासनम्, कासनम्, चिकासिषणम्, चाकासनम्
कासित्वा, कासयित्वा, चिकासिषित्वा, चाकासित्वा
विकास्य, विकास्य, विचिकासिष्य, प्रचाकास्य
कासम् २, कासित्वा २, कासम् २, कासयित्वा २, चिकासिषम् २, चिकासिषित्वा २, चाकासम्
चाकासित्वा २।
प्रासङ्गिक्यः
01
=>
(१८८)
02
=>
(१-भ्वादिः-६२। सक। सेट्। आत्म।)
03
=>
[[१। ‘ससजुषो रुः’ (८-२-६६) इति रुत्वे ‘खरवसानयोर्विसर्जनीयः’ (८-३-१५) इति विसर्गः।]]
04
=>
[पृष्ठम्०१८३+ २६]
05
=>
[[१। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। कासः = कासरोगः।]]