| YouTube Channel

काश्यपश्वेतकेतुः (kAzyapazvetaketuH)

 
वाचस्पत्यम्
Sanskrit
काश्यपश्वेतकेतुः “अथ काश्यपः श्वेतकेतुः पञ्चदश वर्षशतंप्रोष्योग्रः सोमसहजस्य वप्रकेतोश्चारान्ते श्यावरूक्षोनभसस्त्रिभागमाक्रम्यापसव्यं निवृत्योर्द्ध्वं प्रदक्षिणजटा-कारशिखः यावन्मासान् दृश्यते तावद्वर्षाणि सुभि-क्षमावहति मध्यदेशे आर्य्यगणानामदोनामोदीच्यैर्भूयिष्ठस्त्रिभागशेषां प्रजामवशेषयति” परा० ।रश्मिकेतुः “अथ रश्मिकेतुर्विभावसुजः प्रोष्य वर्षशतमाव-र्त्तकेतोश्चारान्ते उदितः कृत्तिकासु धूम्रकेतुः ।अथानियतदिक्कालरूपवर्णप्रमाणसंस्थानो धूमकेतुःपराभविष्यतां देशानां राज्ञां जनपदानाञ्च वृक्षपरपर्बतवेश्मध्वजपताकाशस्त्रवर्म्मायुधावरणरथनागोष्ट्रपुरु-षशयनासनभाण्डेषु दृश्यते एव दिवि म्निग्धोनिर्म्मलः प्रदक्षिणशिखो गजंनागवीथीनामुत्तरेण व्रजन्सुभिक्षक्षेमारोग्यं चावहति दशैकविंशतिद्विषष्टि-शतधा वा दर्शनमिच्छन्ति मुनथो धूमकेतोस्तस्य चप्रागुदयान्निमित्तान्यर्वाचीनचलनमग्नेः प्रभा मत्स्यप्रधूपनंदिशां शीतोष्णविपर्य्यय इति व्यक्षिबाहुसम्भवश्च” परा० ।जलकेतुः “अथ जलकेतुः पैतामहः यश्च चलकेतोर्नवमासाव-शिष्टे कर्म्मणि कृते प्रवर्त्तयति पश्चिमेनोदितः स्निग्धःसुजातोऽनुपश्चिमाभिनतः शिखी नव मासान्क्षेमसुभिक्षारोग्याणि प्रजाभ्यो धत्ते अन्यग्रहकृता-नां चाशुभानां व्याघातायेति” परा०भवकेतुः “अथ जलकेतोः कर्म्मसमाप्तौ धूम्रादयः शीतान्ताःअष्टौप्रादुर्भवन्ति तत्र त्रयोदश चतुर्द्दशाष्टादश वर्षान्तात् दृश्य-न्ते सुभिक्षाक्षेम्याविपर्य्यया विपरीताः क्षुद्रजन्तूना-ञ्च बधाय, तेषामष्टानां कर्म्मण्यतीते भवकेतुर्द्दृश्यते ।पूर्वेणैकरात्रं यावत् कृत्तिकानामन्तरतो वा तत्प्रमा-णया स्निग्धपारुष्याभया सिंहलाङ्गूलसंस्थानया प्रद-क्षिणताम्रया शिखयोदितः यावन्मूहूर्त्तान् दृश्य-ते तावन्मासान् भवत्यतीव सुभिक्षाय रूक्षः प्राणह-राणाञ्च रोगाणां प्रादुर्भावायेति” परा०आवर्त्तकेतुः “अथावर्त्तकेतुः श्वेतकेतोः कर्म्मण्यतीतेऽप-रेऽर्द्धरात्रेऽसव्योदितारुणाभया प्रदक्षिणेन ताम्रयाशिखयोदितः यावन्मुहूर्त्तान् दृश्यते तावन्मासान्अतीव सुभिक्षं नित्ययज्ञोत्सवं जगत्” परा०संवर्त्तककेतुः “अथ संवर्त्तको वर्षसहस्रमष्टोत्तरं प्रोष्य पश्चिमेनास्तंगते सवितरि सन्ध्यायां दृश्यते तन्वीं ताम्ररूपां शूला-भां धूम विमुञ्चन्तीं दारुणां शिखां कृत्वा नभस्त्रिभागमाक्रम्य यावन्मूहूर्त्तान् निशि तिष्ठति तावद्वर्षाणि हन्तिपरस्परं शस्त्रौघमपि पार्थिवाः यानि नक्षत्राणि स-माश्रयति यत्र वोदेति तानि दारुणतरं पीडयति तदा-श्रितांश्च देशानिति” परा० तथा गर्गः “येषां नक्षत्र-विषये रूक्षः सज्वाललोहितः दृश्यते बहुमूर्त्तिश्चतेषां विद्यात् महाभयम् अवर्षशस्त्रपारुष्यकोपंदुर्भिक्षमेव कुर्य्यान्नृपतिपीडाञ्च सचक्रपरचक्रतः ।यत्र तिष्ठति नक्षत्रे प्रवासं यत्र गच्छति धूपयेद्वा स्पृशे-द्वापि हन्याद्देशांस्तदाश्रयान् यस्याभिषेकनक्षत्रं जन्मभंकर्म्मभं तथा देशर्क्षं पीडयेद्वापि शान्तिपरमोभवेत् स्रिग्धः प्रसन्नो विमलः प्रदक्षिणशिखस्तथा ।दृश्यते येषु देशेषु शिवं तेषु विनिर्द्दिशेत्” परा०सर्व्वशेषः “यस्यां दिशि समुत्तिष्ठेत् तां दिशं नाभियोजयेत् यतः शिखा यतो धूमस्ततो यावान्नराधि-पः प्रतिलोमोयतः केतुर्यथा ध्यायति पार्थिवः ।सामान्यवाहनबलस्तन्नाशमधिगच्छति” परा०अथ मासविशेषेषु नामविशेषास्तत्फलन्याह समयामृते“चैत्रवैशाखयोर्म्मध्ये कौवेरांस्तु विनिर्द्दिशेत् उ-च्छितैर्यूपवेदीभिरुच्छितैर्ध्वजतोरणैः हविर्धूमाकुलातत्र दृश्यते वसुन्धरा ज्यैष्ठे चैव तथाषा-ढे वायुपुत्त्रांश्च निर्द्दिशेत् वान्ति चैव तथा वाता म-हायुद्धं महाभयम् श्रावणप्रौष्ठपदयोर्वारुणांस्तु वि-निर्द्दिशेत् आरोहयन्ति ते मेघान् पूर्णां कुर्य्युर्वसु-न्धराम् धान्यं सभार्घतां याति ईतयो भवन्तिच आश्विने कार्त्तिके चैव सूर्य्यपुत्त्रान् विनिर्द्दि-शेत् ततो दहति तीव्रांशुः सर्वान्नानि दिवाकरः ।म्रियन्ते तदा गावः श्वापदाश्च विशेषतः मार्गशीर्षेच पौषे वह्निपुत्त्रान् विनिर्द्दिशेत् शीघ्रं भवतिदुर्भिक्षं हाहाभूतमचेतनम् माघे फाल्गुने चैवयमपुत्त्रान् विनिर्द्दिशेत् छर्द्दिर्ज्वरातिसारश्च ग्लानिश्चैवाक्षिवेदना” ।नक्षत्रभेदेन देशभेदे तदुपद्रवादि तत्रैवोक्तं यथा“कृत्तिका रोहिणी सौम्य पृथिव्या मध्यमुच्यते केतवोह्यत्र दृश्यन्ते आग्नेया दश पञ्च आग्नेयेषु चदृष्टेषु लोकानां संक्षयो भवेत् नित्योद्विग्नाः प्रजाःसर्वा भवन्ति हि संशयः पुनर्व्वसुस्तथा पुष्यःपृथिव्याः पूर्व्वमुच्यते केतवो ह्यत्र दृश्यन्ते रौद्रास्तेऽप्येकविंशतिः यदा रौद्राः प्रदृश्यन्ते दुर्भिक्षं नि-र्द्दिशेत्तदा घूर्णन्ते प्रजाः सर्वा मृत्युक्षुद्रोगपीडि-ताः अश्लेषा पित्य १० भाग्यानि ११ विद्याद्दक्षिणपूर्व्वतः ।केतवो ह्यत्र दृश्यन्ते औद्दालकिसुता दश सुभिक्षं क्षेम-मारोग्यं सुवृष्टिः शस्यसम्पदः आर्य्यम्णादीनि १२ ।१३ १४ त्रीणि विद्याद्दक्षिणभागतः केतवो ह्यत्र दृ-श्यन्ते काश्यपेयाश्चतुर्द्दश अनावृष्टिभयं घोरं प्रजानाम-तिदारुणम् स्वाती विशाखा मित्रञ्च १७ भागो दक्षिणपश्चिमः केतवो ह्यत्र दृश्यन्ते चत्वारो मृत्युसम्भवाः ।दुर्मिक्षं मरकं घोरमनावृष्टिस्तथैव उपद्रवश्चभूतानां तदा भवति दारुणः ज्येष्ठा मूलमथाषा-ढा भाग उत्तरपश्चिमः केतवो ह्यत्र दृश्यन्ते त्रयस्ते सोमसम्भवाः सुभिक्षश्च सुवृष्टिञ्च मही यज्ञोत्सवा-कुला उत्तरा २१ श्रवणा चैव नक्षत्रं वसुदैवतम् २३ ।केतवो ह्यत्र दृश्यन्ते माहेयाः पञ्चविंशतिः माहेयेषुच दृष्टेषु लोकानां संक्षयो ध्रुवम् तदा राजसहस्राणांमही पिबति शोणितम् वारुणञ्चैव २४ नक्षत्रं तथाभाद्रपदद्वयम् केतवो ह्यत्र दृश्यन्ते वारुणास्त्र-यएव ते ऊर्म्मिकेतुः श्वेतकेतुर्धूमकेतुस्तृतीयकः ।ऊर्म्मिकेतुर्यदा दृश्येत्तदाऽप्युदकजं भयम् श्वैतकेतुर्यदा दृश्येत् श्वेतास्थिं कुरुते महीम् तदा मानुषमांसानि भक्षयन्तीह मानुषाः क्षुद्भयार्त्तं जगत् कृत्स्नं चक्र-वद्भ्रमते तदा धूमकेतुर्यदा दृश्येत्तस्य वक्ष्यामिकक्षणम् हन्ति शिखया योधान् राजानं मन्त्रिणंजनान् रेवत्याश्वयुज ञ्चैव नक्षत्रं यमदैवतम् केत-वो ह्यत्र दृश्यन्ते यमपुत्त्रास्त्रयोदश यमपुत्त्रेषु दृष्टेषुलोकानां संक्षयो ध्रुवम् चतुर्व्विधानां भूतानां सं-शयो जायते महान्” ।तेषां शान्तिस्तत्रैवोक्ता यथा“केतूत्पाते तु सर्व्वस्मिन् सभये समुपस्थिते महाशा-न्तिं प्रकुर्व्वीत विविधां भूरिदक्षिणाम् धनं वा सर्व्वमुत्सृज्य मृत्योर्म्मुच्येत बन्धनात् दद्याद्वा पृथिवींसर्वां राजा शान्तिं नियच्छति अकस्माद्दृश्यते केतुरुदयेऽस्तमयेऽपि वा निहन्त्यन्तःपुरे राज्ञो ज्वरःपित्तोद्भवो भवेत् दधिमधुघृताक्तानां पुष्पाणामयुतंततः जुहुयादिन्द्रनीलस्य केतुं दद्याद्द्विजातये ।भूषितं हेमरत्नाद्यैस्ततः सम्पद्यते शुभम्” ।“ग्रहे रवीन्द्वोरवनीप्रकम्पे केतूद्गमे” इत्यादिना ज्यो० त०तदुद्गमेऽकाल उक्तः “व्योम्नीव भ्रकुटीच्छलेनवदने केतुश्चकाराम्पेदम्” मावःनवग्रहमध्ये तस्य ग्रहत्वञ्च पी० धा० व्यवस्थापितं यथा“किं राहुकेत्वोर्ग्रहत्वाभावात् क्रूरग्रहत्वाभावाद्वादृश्यग्रहत्वाभावाद्वा कर्त्तरी नास्ति नाद्यः ।राहोर्ग्रहत्वं श्रुतिस्मृतिप्रामाण्यसिद्धम् तथाहि “स्वर्भानुर्हवा आसुरिः सूर्य्यन्तमसा विव्याधेति”माध्यन्दिनी श्रुतिः कश्यपश्च “छिन्नोऽपि विष्णुचक्रेण सुधामयशिरास्तमः केशवस्य वरेणासौतथापि ग्रहताङ्गतः” इति नारदोऽपि “अमृतास्वादनाद्राहुः शिरश्छिन्नोऽपि सोऽमृतः विष्णुना तेनचक्रेण तथापि ग्रहताङ्गतः” इति यद्यपि “अदृ-श्यरूपाः कालस्य मूर्त्तयो भगणाश्रिताः शीघ्रमन्दोच्चपाताख्या ग्रहाणाङ्गतिहेतवः” इति सूर्यसिद्धान्ते पा-तानामदृश्यतोक्ता तथापि चन्द्रपातस्य ग्रहत्वंवाचनिकमेव “स्वध्रुवे कुमुदिनीपतिपातं राहुमा-हुरिह केऽपि तमेवेति, भास्कराचार्योक्तेश्च अतएवराहोर्नैऋतदिक्स्वामित्वं दानञ्च संहिताकर्त्यभि-रुक्तम् राहोरर्द्धशरीरभागः केतुसंज्ञ इति पुरा-णप्रसिद्धम् द्वितीयः ननु केन वचनेन राहु-केत्वोः क्रूरत्वमुच्यते “क्षीणेन्द्वर्कयमाराःपापास्तैः संयुतः सौम्यः” इति वराहेणोक्तम् तदु-पादानाभावात् किञ्च पापग्रहत्वानभिधानाच्छुभग्रह-त्वमेवावसीयते “गुरुबुधशुक्राः सौम्याः सौरि-कुजार्का निसर्गतः पापाः शशिजोऽशुभसंयुक्तः क्षी-णोऽपि निशाकरः पापः” इति कल्याणवर्मवाक्ये शुभ-ग्रहमध्ये गणनाभावात् क्रूरत्वमिति वाच्यम् पापग्रहमध्येऽपि गणना नास्तीति शुभग्रहत्वस्यापि सुवचत्वात् ।उभयभ्रष्टत्वेन वा नरसिंहवज्जात्यन्तरस्यापि वक्तुं शक्य-त्वादिति चेत् सत्यम् “सूर्यभौमशनिराहुकेतवः पाप-संज्ञखचराः क्षयिचन्द्रः पूर्णचन्द्रगुरुशुक्रसोमजाः सर्व-कर्मसु हि सौम्यखेचराः” इति वसिष्ठेन कण्ठतः क्रू-रत्वाभिधानादस्ति क्रूरत्वम् स्वरोदयेऽपि “बुधशुक्रे-न्दुजीवाश्च सदा सौम्यग्रहामताः शन्यर्कराहुमा-हेयाः केतुः क्रूरग्रहा मताः” इति तृतीयः ननुस्वयमशक्तः कथं परान् साधयिष्यतीति न्यायात् सदाचाक्षुपदर्शनाभावमितस्य राहोः केतोर्वा फलदातृत्वासामर्य्यादितिचेन्न अमावास्यायां प्रतिपदि वोत्पन्नस्यलग्नादिदुष्टस्थानस्थितचन्द्रस्यारिष्टमशुमफलजनकं भव-न्मते निरर्थकमापद्येत ननु “षष्ठेऽष्टमे चन्द्रः सद्योमर-णाय पापसंदृष्टः अष्टाभिः शुभदृष्टोमिश्रैर्वर्षैस्तद-र्द्धेनेति” वराहोक्तेर्भविष्यतीति चेत् इहापि “स्वच्छ-न्दत्वं कदशनरतिर्वल्लभत्वं विशील्यं व्याधिः सुश्री-र्मतिरथ सुखं गर्भपातप्रवृत्तिः द्यूतासक्तिर्भवति रविजेवैभवे वक्त्ररोगः स्वर्भानौ वाप्यथ शिखिनि वा लग्नभा-वादिसंस्थे” इति वसिष्ठपद्ये शनिवदाहुकेत्वोः शु-भाशुभफलदावृत्ववचनं किं वायसैर्भक्षितम् ।सारावल्याञ्च “राहुश्चतुष्टयस्थो निधनाय निरीक्षितोभवति पापैः वर्षैर्वदन्ति दशभिः षोडशभिः केचि-दाचार्याः अजवृषकर्कटलग्ने रक्षति राहुः समस्तपीडाभ्यः पृथ्वीपतिः प्रसन्नः कृतापराधं यथा पु-रुषमिति” राहोः शुभाशुभफलाभिधानमस्ति ननुवराहेण राहोः फलं कुत्रापि नोक्तमिति चेन्न “सोप-प्लवे शशाङ्के सक्रूरे लग्नगे कुजेऽष्टमगे मात्रा सार्द्धंम्रियते चन्द्रवदर्केण शस्त्रेणेति” वराहपद्येऽपि राहुकेत्वोरन्यतराभिधानमस्ति! तथा हि किमिदंचन्द्रग्रहणं राहुसाहित्यकृतमुत केतुसाहित्यकृतमितितत्र ग्रहणीयं, चन्द्रे लग्नगे सक्रूरे क्रूरसाहित्यमभिहितम् क्रूरास्तु सूर्यभौमशनय एव विवक्षिताइति चेत् सूर्यस्य तावद्योगाभावश्चन्द्रग्रहणे हि सप्त-मराशिस्थत्वात् भौमस्यापि योगः, कुजेऽष्टमग इत्यु-क्तेर्नास्ति पारिशेष्याच्छनेरेव योगोवाच्यः तत्र स्प-ष्टत्वार्थं शनिग्रहणमेव कस्मान्नाकारि अतः सामान्य-वाचिनः क्रूरशब्दस्य प्रयोगाद्राहुकेत्वोरन्यतरयोगोऽपिविवक्षितोऽपरस्य (सूर्य्यस्य) सप्तमराशिस्थत्वात् योगएकराशिस्थत्वे स्यान्न तु भिन्नराशिस्थत्वे इति एवंग्रहणसम्बन्धिलग्नस्थसूर्यारिष्टेऽपि राहुकेत्वोरन्यतरयोगो व्याख्येयः अतएव “राहुस्तमोऽगुरसुरश्च शिखीतिकेतुरिति पर्यायाभिधानं कृतम् विवाहपटलेऽपि“मरणं लत्ता राहोः कार्यविनाशं मृगोर्वदन्तीति” कण्ठतोराहुलत्ताऽप्युक्ता तस्माद्वराहमतेऽपि राहुकेतुयोगोविवक्षित एव एवं सति जातके यथा राहोः शुभा-शुभफलदातृत्वं वचनाद्बोध्यते तथा विवाहेऽपिप्रागुक्तवसिष्ठवाक्यादपि तत्र तुल्यन्यायत्वात् कर्त्त-रीदोषे सत्यप्यदृश्यत्वे फलदातृता त्वयापि वक्तव्यैव ।ननु “पापयोः कर्त्तरीकर्त्रोः शत्रुनीचगृहस्थयोः ।यदा त्यस्तगयोर्वापि कर्तरी नैव दोषदेति” कश्यपाद्युक्तेरस्तङ्गतत्वेन राहुकेत्वोः कर्त्तरीदोषो नास्तीति चेत्भ्रान्तोऽसि शृणु “सम्भवे व्यभिचारे स्याद्विशेषण-मर्थवदिति” न्यायादस्तङ्गतत्वविशेषेणं भौमस्य क्रूर-युक्तबुधस्य शनेर्वेति त्रयाणामेव सम्भवति सम्भवतिच सूर्यस्तु नित्योदित एव राहुकेतू नित्यास्तमितावितिव्यभिचाराभावात्त्रयाणामेव विशेषणम् किञ्च किमस्त गत्वंक्षितिजसन्निधिकृतमुत सूर्यसाघ्निध्यकृतं वेति तत्रक्षितिजसन्निधिकृतं यत्तत् सूर्यादिसकलग्रहसाधारणम् ।तथा सत्यस्तगतत्वविशेषणवैयर्थ्यं प्रागुक्तन्यायात् रा-होस्तु नारदादिवाक्याच्छिरोरूपमण्डलावगतेः “इन्द्व-र्कमण्डलाकृतिरसितत्वात् किल दृश्यते गगने” इतिवराहोक्तेस्तमोरूपत्वात्तादृक्स्वरूपानुपलब्धेरगोचरत्वप-रम् स्थानमप्यस्य चन्द्रविलमण्डक्रान्तिमण्डलस्वस्ति-के, यदाह केशवाकेः “वेश्म चास्य शशभृद्विमण्डलक्रा-न्तिमण्डलमिलच्चतुःपथः” इति अतएव विद्यन्तेगावः किरणायस्येत्यगुरन्वर्थताप्यवसीयते अथ यदिसूर्यसन्निधिकृतमित्युच्येतेति चेत् इतरग्रहवद्राहो-रप्युदयास्तप्रसिद्ध्यभावात् किञ्च कालांशानभिधानात्कदोदितः कदास्तमितश्चेति निर्णेतुमशक्यत्वात् एवंकेतोरप्येतत् द्रष्टव्यम् मनु केतूदयोह्युत्पातादौ प्रत्यक्ष-तोदृश्यत इति चेन्न तस्यानियतदिक्प्रभवत्वात् अनि-यतनक्षत्रप्रभवत्वाच्च किञ्च केतूत्पातो हि लोके दुरदृ-ष्टसूचकः अनियतेनं बहुना स्वल्पेनापि वा कालेन भ-वेत् सूर्यसान्निध्यकृतोदयास्तौ तु नियतकालावेवेतितयोः केत्वोर्भेदः स्वीकर्त्तव्यः”केतुक्षेत्रादिकं ज्यो० त० उक्तम् “सिंहस्त्रिकोणं धनु-रुच्चसंज्ञं मीनीगृहं शुक्रशनी विपक्षौ सूर्य्यारचन्द्राःसुहृदः समानौ जीवेन्दुजौ षट् शिखिनः परांशाः” ।तद्व्यानवर्ण्णगोत्रदेशादि ग्रहयज्ञशब्दे वक्ष्यते विंशोत्तरीयदशायां तद्दशामानं वर्षाः तच्च दशाशब्दे वक्ष्यते तस्यराशिभोगकालश्च १८ मासाः “केतूपप्लवभौमन्दगतयःषष्ठे तृतीये शुभाः” ज्यो० त० दानवभेदे
पु०
केतुवीर्य्यशब्दे उदा० दृश्यम्