| YouTube Channel

काश्मीरः (kAzmIraH)

 
शब्दकल्पद्रुमः
Sanskrit
काश्मीरः,
पुं,
(कश्मीर एव स्वार्थे अण् काश्मीरइति नाम्नाख्यायते वा ।) स्वनामख्यातदेशः ।इति जटाधरः (उक्तञ्च शक्तिसङ्गमतन्त्रे ।“शारदामठमारभ्य कुङ्कुमाद्रितटान्तकम् ।तावत्काश्मीरदेशः स्यात्पञ्चाशत्योजनात्मकः”
अत्र कपिलेश्वरनामा महादेवो वर्त्तते शि-वनामकीर्त्तणे “काश्मीरे कपिलेश्वरः”
इतिवचनात्
(यथा गोः रामायणे ४३ २२ ।“काश्मीरमण्डलं चैव शमीपीलुवनानि चपुराणि सशैलानि विचिन्वन्तु वनौकसः”
तद्देशवासिनि त्रि यथा, महाभारते ५३ ।‘काश्मीराः सिन्धुसौवीरा गन्धारा दर्शकास्तथा’
)