| YouTube Channel

काशृ (kAzR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
काश्
मूलधातुः:
काशृ
धात्वर्थः:
दीप्तौ
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
काशते
धातुः:
काश्
मूलधातुः:
काशृ
धात्वर्थः:
दीप्तौ
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
काश्यते
धातुप्रदीपः
Sanskrit
काशृँ काशृ दीप्तौ
- काशते चकाशे अचकाशत् आकारोपध ऋदित्प्रकरणादिहायं निर्दिश्यते काश्यते इति दिवादिपाठात् ।।648 ।।
काशृँ काशृ दीप्तौ
- काश्यते चकाशे अचकाशत् काशत इति भ्वादावुक्तः 56
क्षीरतरङ्गिणी
Sanskrit
काशृँ काशृ दीप्तौ
- काशते कथं चाकशीति उपधाह्रस्वोऽत्र वक्तव्यः काशः प्रकाशः आकाशः प्रतीकाशः, नीकाशः, इकः काशे (6123) दीर्घः हनिकुषिनीरमि (उ022) इति काष्ठम् इन् (दश0 उ0 146) काशिर्देशः 638
काशृँ काश्रृ दीप्तौ
- काश्यते काशः अचकाशत् (द्र0 742) इकः काशे (63123) दीर्घः-प्रतीकाशः, संकाशः, नीकाशः, अवाकाशः उणादौ (द्र0 22) काष्ठम् भ्वादौ (1428) काशते 52
धातुवृत्तिः
Sanskrit
काशृँ काशृ (अर्थः) दीप्तौ
( काशते चकाशे काशिता काशिष्यते काशताम् ) अकाशत काशेत कशिषीष्ट अकाशिष्ट अकाशिष्यत चिकाशिषते चाकाश्यते चाकाष्टि) व्रश्च्यादिना षत्वे (चाकाक्षि चाकाश्मि चाकाश्वः चाकाश्मः चाकाढ्ढि)इत्यत्र हेर्धिभावे व्रश्चादिना षत्वे ष्टुत्वे जश्त्वम् लङि (अचाकाट् काशयति अचकाशत् काशः) अचि घञि वा (नीकाश) ( सूत्रम्) इकः काशे (इति सूत्रम्) इति इगन्तस्योपसर्गस्य काश उत्तरपदे दीर्घः (काशिः काशी) अक्तिन्नत्वात् वा ङीष् काशिषु भवा ( काशिका) "काश्यादिभ्यष्ठञ्ञिठै" इति शेषिकै ठञ्ञिठै ठञि "टिड्ढा" इति ङीप्(काशिका काष्ठम् ) "हनिकुषिनीरकिकाशिभ्यः क्थन्'' इति क्थन् आकारोपधप्रकरणादयमिह पठितः अयं दिवादौ काशृगतिशासनयोरित्यदादौ अन्ये दन्त्यान्त्यमिदितं पठन्तिअनिदितमपरे 638
काशृँ काशृ (अर्थः) दीप्तौ
( काश्यते चकाशे काश्यताम् अकाश्यत काश्येत ) इत्यादि शेषं भौवादिकवत् 54
कृदन्तरूपमाला
Sanskrit
1 {@“काशृ दीप्तौ”@} 2 ‘--काशेर्दीप्तौ काश्येत काशते।’ 3 इति देवः।
काशकः-शिका, 4 काशिका 5, प्रकाशकः-शिका, चिकाशिषकः-षिका, चाकाशकः-शिका
काशिता-त्री, काशयिता-त्री, चिकाशिषिता-त्री, चाकाशिता-त्री
-- काशयन्-न्ती, काशयिष्यन्-न्ती-ती
-- काशमानः, काशयमानः, चिकाशिषमाणः, चाकाश्यमानः
काशिष्यमाणः, काशयिष्यमाणः, चिकाशिषिष्यमाणः, चाकाशिष्यमाणः
6 काट्-काङ्-काशौ-काशः
-- -- काशितम्-तः, काशितः-तम्, चिकाशिषितः, चाकाशितः-तवान्
काशः- 7 काशी, प्रकाशी, 8 नीकाशः 9, वीकाशः, अनूकाशः, 10 जितकाशी
11 प्रकाशनः, काशः, चिकाशिषुः, चिकाशयिषुः, चाकाशः
काशितव्यम्, काशयितव्यम्, चिकाशिषितव्यम्, चाकाशितव्यम्
काशनीयम्, 12 प्रनिकाशनीयम्, चिकाशिषणीयम्, चाकाशनीयम्
प्रकाश्यम्, काश्यम्, चिकाशिष्यम्, चाकाश्यम्
ईषत्काशः-दुष्काशः-सुकाशः
-- -- 13 काश्यमानः, काश्यमानः, चिकाशिष्यमाणः, चाकाश्यमानः
प्रकाशः, काशः, चिकाशिषः, चाकाशः
काशितुम्, काशयितुम्, चिकाशिषितुम्, चाकाशितुम्
काशा, काशना, चिकाशिषा, चिकाशयिषा, चाकाशा
14 प्रकाशनम्, काशनम्, चिकाशिषणम्, चाकाशनम्
काशित्वा, काशयित्वा, चिकाशिषित्वा, चाकाशित्वा
प्रकाश्य, संकाश्य, प्रचिकाशिष्य, प्रचाकाश्य
काशम् २, काशित्वा २, काशम् २, काशयित्वा २, चिकाशिषम् २, चिकाशिषित्वा २, चाकाशम्
चाकाशित्वा २।
प्रासङ्गिक्यः
01
=>
(१८६)
02
=>
(१-भ्वादिः-६४७। अक। सेट्। आत्म।)
03
=>
(श्लो। १६५)
04
=>
[[आ। ‘मनोनिवृत्तिः परमोपशान्तिः सा तीर्थवर्या मणिकर्णिका वै। ज्ञानप्रवाहा विमला हि गङ्गा सा काशिकाऽहं निजबोधरूपः।।’ इति पारिभाषिककाशिकायाः लक्षणमुक्तं शङ्कराचार्येण।’ इति शब्दकल्पद्रुमे।]]
05
=>
[[१। ‘संज्ञायाम्’ (३-३-१०९) इति भावे ण्वुल्। ण्वुलन्तात् टाप्। अत इत्त्वम्। काशिका = वामन-जयादित्यकृता पाणिनिसूत्रवृत्तिः। काश्यां विरचनाद्वा काशिका।]]
06
=>
[[२। ‘व्रश्चभ्रस्ज--’ (८-२-३६) इति षत्वम्। जश्त्वचर्त्वे।]]
07
=>
[[३। काशते इति काशी। पचाद्यजन्तात् गौरादि (४-१-४१) पाठात् ङीष्।]]
08
=>
[[४। ‘इकः काशे’ (६-३-१२३) इति उपसर्गस्य दीर्घः।]]
09
=>
[[B। ‘तापिञ्छनीकाशरुचि प्रतीचि स्ववैरिमर्माविधि पुंसि रागात्।’ वा। वि। ३-२१।]]
10
=>
[[५। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति णिनिः। जितेन = जयेन काशते इति जितकाशी = जययुक्तः।]]
11
=>
[[६। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छीलिको युच्।]]
12
=>
[[७। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति णत्वं
\n\n ‘अकखादा’ वित्युक्तेः।]]
13
=>
[पृष्ठम्०१८२+ २५]
14
=>
[[आ। ‘द्राहितः शुभपथप्रकाशने सस्वजेऽथ तमनूह्यवैभवः।’ धा। का। १-८२।]]
1 {@“काशृ दीप्तौ”@} 2 ‘--काशेः दीप्तौ काश्येत काशते।’ 3 इति देवः।
काश्यमानः, काशिष्यमाणः, काशयमानः, काशयिष्यमाणः, चिकाशिषमाणः, चिकाशिषिष्यमाणः, चाकाश्यमानः, चाकाशिष्यमाणः, इति शानचि रूपाणि।
अन्यानि सर्वाणि रूपाणि भौवादिककाशृधातुवत् 4 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१८७)
02
=>
(४-दिवादिः-११६२। सक। सेट्। आत्म।)
03
=>
(श्लो। १६५)
04
=>
(१८६)