| YouTube Channel

काशीरहस्य (kAzIrahasya)

 
Shabdartha Kaustubha
Kannada
काशीरहस्य
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಕಾಶೀಕ್ಷೇತ್ರದ ಮಹಿಮೆಯ ಗುಟ್ಟು
व्युत्पत्तिः - > काश्याः रहस्यम्
Aufrecht Catalogus Catalogorum
English
काशीमाहात्म्यखण्ड or काशीरहस्य from Brahmavaivarta-
purāṇa. Ben. 48. Rādh 39. NW. 452. 496. Burnell
189^b.
काशीरहस्य See Kāśīmāhātmyakhaṇḍa.
वाचस्पत्यम्
Sanskrit
काशीरहस्य
न०
काश्यारहस्यम् काशीस्थैः कर्त्तव्याचा-रभेदे तन्माहात्म्यप्रकाशने तच्च काशीख० दर्शितंयथा“येषां हृदि सदैवास्ते काशी त्वाशीविषाङ्गदः (शिवः)संसाराशीविषविषं तेषां प्रभवेत् क्वचित् गर्भ-रक्षामणिर्म्मन्त्रः काशीवर्ण्णद्वयात्मकः यस्यकण्ठे सदा तिष्ठेत्तस्याकुशलभीः कुतः सुधां पिबतियोनित्यं काशीवर्णद्बयात्मिकाम् नैर्ज्जरीं दशांहित्वा सुधैव परिजायते श्रुतं कर्ण्णामृतं येनकाशीत्यक्षरयुग्मकम् समाकर्णयत्येव पुनर्गर्भजांकथाम् काशीरजोऽपि यन्मूर्द्ध्नि पतेदप्यनिलाहृतम् ।चन्द्रशेखरतन्मूर्द्धा भवेच्चन्द्रकलाङ्गतः प्रसङ्गतोऽपियन्नेत्रपथमानन्दकाननम् यातं, तेऽत्र जायन्ते ने-क्षेरन् पितृकाननम् गच्छता तिष्ठता वापि स्वपता जाग्र-ताथ वा काशीत्येष महामन्त्रो येन जप्तः निर्भवः येनवीजाक्षरयुगं काशीति हृदि धारितम् अवीजानि भव-न्त्येव कर्म्मवीजानि तस्य वै काशी काशीति काशीतिजपतोयस्य संस्थितिः अन्यत्रापि सतस्तस्य पुरो मुक्तिःप्रकाशते क्षेममूर्त्तिरियं काशी क्षेममूर्त्तिमयो भवः ।क्षेममूर्त्तिस्त्रिपथगा नान्यत् क्षेमत्रयं क्वचित् ब्राह्मणा-नामिति वचः क्षेत्रभक्तिवि वृंहितम् निशम्य गिरिजा-कान्तस्तुतोष नितरां हरः प्रोवाच प्रसन्नात्मा घन्यायूयं द्विजर्षभाः! येषामिहेदृशी भक्तिर्ममक्षेत्रेऽतिपावने ।जाने सत्वमया जाताः क्षेत्रस्यास्य निषेवणात् नीर-जस्का वितमसः संसारार्णवपारगाः वाराणस्यास्तु येभक्तास्ते भक्ता मम निश्चितम् जीवन्मुक्ताहि ते नूनं मो-क्षलक्ष्म्या कटाक्षिताः यैश्च काशीस्थितो जन्तुरल्पकोऽपिविरोधितः तैश्च विश्वम्भरा सर्वा मया सह विरो-धिता वाराणस्यास्तु नामापि यो निशम्यानुमोदते ।अपि ब्रह्माण्डमखिलं ध्रुवन्तेनानुमोदितम् निवसन्तिहि ये मर्त्या अस्मिन्नानन्दकाननै ममान्तःकरणे ते वैनिवसेयुरकल्मषाः निवसन्ति मम क्षेत्रे मम भक्तिं न-कुर्वते मम लिङ्गधराये नो, तानुपदिशाम्यहम् काशीनिर्वाणनगरी येषां चित्ते प्रकाशते ते मत्पुरः प्रकाशन्तेनैःश्रेयस्या श्रिया वृताः मोक्षलक्ष्मीरियं काशी येम्यःपरिरोचते स्वर्लक्ष्मीं काङ्क्षमाणेभ्यः पतितास्ते नसंशयः काशीं संकाङ्क्षमाणानां पुरुषार्थचतुष्टयम् पुरःकिङ्करवत्तिष्ठेन्ममानुग्रहतो द्विजाः! आनन्दकानने ह्यत्रज्वलन्दावानलोऽस्म्यहम् कर्म्मवीजानि जन्तूनां ज्वाल-ये, प्ररोहये वस्तव्यं सततं काश्यां यष्टव्योऽहं प्रयत्नतः ।जेतव्यौ कलिकालौ लब्धव्या मुक्तिरङ्गना प्राप्यापि का-शीं दुर्बुद्धिर्यो मां परिषेवते तस्य हस्तगताप्याशु कैवल्यश्रीः प्रणश्यति धन्या मद्भक्तिलक्ष्माणो ब्राह्मणाःकाशिवासिनः यूयं, यच्चेतसो वृत्तौ दूरेऽहं काशिका ।दातव्यो वो वरः कोऽत्र व्रियतां यथारुचि प्रेयांसो मेयतो यूयं क्षेत्रसन्न्यासकारिणः इति पीत्वा महेशा-नमुखक्षीराब्धिजां सुधाम् परितृप्ता द्विजाः सर्व्वेवव्रुर्वरमनुत्तमम् ब्राह्मणा ऊचुः उमापते महेशा-न! सर्वज्ञ! वर एष नः काशी कदापि त्याज्या भव-ता भवतापहृत्! वचनाद्व्राह्मणानान्तु शापो मा प्रभव-त्विह कदाचिदपि केषांचित् काश्यां मोक्षेऽन्तरायकः ।तव पादाम्बुजद्वन्द्वे निर्द्वन्द्वा भक्तिरस्तु नः आकले-वरपातञ्च काशीवासोऽस्तु नोऽनिशम् किमन्येन वरेणे-श देय एष वरो हि नः अवधेह्यन्धकध्वंसिन्! वरमन्यंवृणीमहे तव प्रतिनिधीकृत्यास्माभिस्त्वद्भक्तिभावितैः ।प्रतिष्ठितेषु लिङ्गेषु सान्निध्यं भवतोऽस्त्विह श्रुत्वेतितेषां वाक्यानि तथास्त्विति पिनाकिना प्रोचेऽन्योऽपि-वरो दत्तो ज्ञानं वश्च भविष्यति पुनः प्रोवाच देवेशोनिशामयत भो द्विजाः! हितं वः कथयाम्यत्र तदनुष्ठी-यतां ध्रुवम् सेव्योत्तरवहा नित्यं लिङ्गमर्च्च्यं प्रय-त्रतः दमोदानं दया नित्यं कर्त्तव्यं मुक्तिकाङ्क्षिभिः ।इदमेव रहस्यञ्च कथितं, क्षेत्रवासिना मतिः परहितेकार्य्या वाच्यं नोद्वेगकृद्वचः मनसाऽपि कर्त्तव्य-मेनोऽत्र विजीगीषुणा अत्यर्थमक्षयं यस्मात् सुकृतंसुकृतेतरत् अन्यत्र यत् कृतं पापं तत् काश्यां परि-नश्यति वाराणस्यां कृतं पापमन्तर्गेहे विनश्यति ।अन्तर्गेहे कृतं पापं पैशाच्यनरकावहम् पिशाचनरक-प्राप्तिर्गच्छत्येव बहिर्यदि कल्पकोटिभिः काश्यां कृतंकर्म प्रभुज्यते किन्तु रुद्रपिशाचत्वं जायतेऽत्रायुतत्रयम् ।वाराणस्यां स्थितो यो वै पातकेष्वारतः सदा योनिंप्राप्यापि पैशाचीं वर्षाणामयुतत्रयम् पुनरत्रैव निवसन्ज्ञानं प्राप्स्यत्यनुत्तमम् तेन ज्ञानेन संप्राप्ते मोक्षमाप्-स्यत्यनुत्तमम् दुष्कृतानि विधायेह बहिःपञ्चत्वमागताः तेषां गतिं प्रवक्ष्यामि शृणुत द्विज-सत्तमाः! याम्याख्या मे गणाः सन्ति घोरा विकृत-मूर्त्तयः मूषायां ते धमन्त्यादौ क्षेत्रदुष्कृतकारिणः ।नयन्त्यनूपप्रायाञ्च ततः प्राचीं दुरासदाम् वर्षाकालेदुराचारान् पातयन्ति महाजले जलौकाभिः सप-ङ्काभिर्दन्दशूकैर्जलोद्भवैः दुर्निवारैश्च मसकैर्दश्यन्ते तेदिवानिशम् ततो याम्यैर्हिमर्त्तौ ते नीयन्तेऽद्रौ हिमा-लये अशनावरणैर्हीनाः क्लेश्यन्ते ते दिवानिशम् ।मरुस्थले ततो ग्रीष्मे वारिवृक्षविवर्जिते दिवाकरकरै-स्तीब्रैः स्थाप्यन्ते ते पिपासिताः क्लेशितास्ते गणै-रुग्रैर्यातनाभिः समन्ततः इत्थं कालमसङ्ख्यातमानीयन्ते ततस्त्विह निवेदयन्ति ते याम्याः काल-राजान्तिकं ततः कालराजोऽपि तान् दृष्ट्वा कर्म्म-संस्मार्य्य दुष्कृतम् विवस्त्रान् क्षुत्तृषार्त्तांश्च लग्नपृष्ठो-दरत्वचः अन्यैरुद्रपिशाचैश्च सह संयोजयत्यपि ।ततो रुद्रपिशाचास्ते भैरवानुचराः सदा सहन्तेक्लममत्यर्थं क्षुत्तृड्लग्नत्वसम्भवम् आहारं रुधिरो-न्मिश्रं ते लभन्ते कदाचन एवं त्र्ययुतसंख्यातं कालंतत्रापि दुःखिताः श्मशानस्तम्भमभितो नीयन्ते कण्ठ-पाशिताः पिपासिता अपि तेऽम्बुस्पर्शमपि चाप्नुयुः ।अथ संक्षीणपापास्ते कालभैरवदर्शनात् इहैव देहि-तो भूत्वा मुच्यन्ते ते ममाज्ञया तस्मान्न कामयेदत्रवाड्मनःकर्म्मणाप्यघम् शुचौ पथि सदा स्थेयं महा-लाभमपीप्सुभिः नाविमुक्ते मृतः कश्चिन्नरकं यातिकिल्विषी ममानुग्रहमासाद्य गच्छत्येव परां गतिम् ।अनशनं यः कुरुते मद्भक्त इह सुव्रतः तस्य पुन-रावृत्तिः कल्पकोटिशतैरपि अशाश्वतमिदं ज्ञात्वमानुष्यं बहुकिल्विषम् अविमुक्तं सदा सेव्यं संसारभयमोचकम् नान्यत् पश्यामि जन्तूनां मुक्त्वा वाराणसींपुरीम् सर्वपापप्रशमनीं प्रायश्चित्तं कलौ युगे ।जन्मान्तरसहस्रेषु यत्पापं समुपार्जितम् अविमुक्तंप्रविष्टस्य तर्त्सवं व्रजति क्षयम् जन्मान्तरसहस्रेषुयुञ्जन् योगं यदाप्नुयात् तदिहैव परो मोक्षो मरणादधि-गम्यते तिर्यग्योनिगताः सत्वा येऽविमुक्ते कृतालयाः ।कालेन निधनं प्राप्तास्ते यान्ति परमां गतिम् अविमुक्तंन सेवन्ते ये मूढास्तमसा वृताः विण्मूत्ररेतसां मध्येते वसन्ति पुनः पुनः अविमुक्तं समासाद्य यो लिङ्गंस्थापयेत् सुधीः कल्पकोटिशतैर्वापि नास्ति तस्यपुनर्भवः ग्रहनक्षत्रताराणां कालेन पतनं ध्रुवम् ।अविमुक्तमृतानान्तु पतनं नैव विद्यते व्रह्महत्यां नरःकृत्वा पश्चात् संयतमानसः प्राणांस्त्यजति यः काश्यांस मुक्तो नात्र संशयः स्त्रियः पतिव्रता याश्च मम भक्तिसमाहिताः अविमुक्ते मृता विप्रा! यान्ति ताः परमांगतिम् अत्रोत्क्रमणकालेऽहं स्वयमेव द्विजोत्तमाः! ।दिशामि तारकं ब्रह्म, देही स्वाद्येन तन्मयः मन्मनामम भक्तश्च मयि सर्व्वार्पितक्रियः यथा मोक्षमिहा-प्नोति तथाऽन्यत्र कुत्रचित् मरणं निश्चितं ज्ञात्वागतिञ्चासुखदायिनीम् चलमागन्तुकं सर्वं, ततः काशींसमाश्रयेत् काशी समाश्रिता यैस्तु मनोवाक्वायकर्मभिः ।तानत्र निर्म्मलधियो निर्वाणश्रीः समाश्रयेत् काशीस्थि-तैकमपि यः प्रीणयेन्न्यायजैर्धनैः तेन त्रैलोक्यम-खिलं प्रीणितं तु मया सह यः प्रीणयति पुण्यात्मानिर्वाणनगरीश्वरम् प्रणयेन स्थितो नित्यं ब्राह्मणाः!प्रीणयामि तम् दिवोदासोऽपि राजर्षिः काशीं धर्मेणपालयन् सदेहो मत्पदं प्राप्तो यतो पुनरागतिः ।अत्र योगस्तथा ज्ञानं मुक्तिरेके जन्मनना अतोविमुक्तमासाद्य नान्यद्गच्छेत्तपोवनम् मोक्षं सुदुर्लभंज्ञात्वा संसारञ्चातिभीषणम् अश्मना चरणौ हत्वाकालमत्र प्रतीक्षयेत् अविमुक्तं परित्यज्य यदा या-स्यन्ति दुर्धियः हसिव्यन्ति तदा भूतान्यन्योन्यकरता-डनैः प्राप्य वाराणसीं पुण्यां सिद्धिक्षेत्रमनुत्तमम् ।परिनिष्क्रान्तुमन्यत्र कस्य जन्तोर्मतिर्भवेत् महादानेनचान्यत्र यत् फलं लभ्यते नरैः अविमुक्ते तु काकिन्यांदत्तायां तदवाप्यते एकः समर्च्चयेल्लिङ्गं तपस्तप्येत चा-परः तयोर्मध्ये तु श्रेष्ठो यो लिङ्गं पूजयेदिह ।तीर्थान्तरे गवां कोटिं विधिवद्यः प्रयच्छति एकाहं योवसत् काश्यां काशीवासी तयोर्वरः अन्यत्र ब्राह्म-णानां तु कोटिं संभोज्य यत् फलम् वाराणस्यां तदै-केन भोजितेन तदाप्यते सन्निहित्यां कुरुक्षेत्रे राहु-ग्रस्ते दिवाकरे तुलापुरुषदानेन काश्यां भिक्षासमा भवेत् ममेह परमं ज्योतिरापातालाद्व्यव-स्थितम् अतीत्य सत्यलोकादीननन्तलिङ्गरूपधृक् ।पृथिव्यन्तःस्थितं लिङ्गमविमुक्तं स्मरन्ति ये कलुषैस्तेविमुच्यन्ते महद्भिरिति निश्चितम् अस्मिन् क्षेत्रे तुयेनाहं दृष्टः स्पृष्टः समर्च्चितः सम्प्राप्य तारकं ज्ञानंन भूयोऽभिजायते यो मामिह समभ्यर्च्य म्रिय-तेऽन्यत्र कुत्रचित् जन्मात्तरेऽपि मां प्राप्य विमुक्तोभविष्यति इत्युक्त्वा क्षेत्रमाहात्म्यं द्विजानामग्रतोहरः पश्यतामेव तेषान्तु तत्रैवान्तर्हितोऽभवत्”