काशीयात्रा (kAzIyAtrA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiकाशीयात्रा
काशी - यात्रा -
वाराणसी की तीर्थयात्रा
Shabdartha Kaustubha
Kannadaकाशीयात्रा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಾಶೀನಗರದ ಯಾತ್ರೆ /ಕಾಶೀಕ್ಷೇತ್ರದಲ್ಲಿರುವ ಪುಣ್ಯತೀರ್ಥಗಳನ್ನು ಕುರಿತ ಪ್ರಯಾಣ
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritकाशीयात्रा स्त्री ७ त० । काशीस्थतीर्थेषु यात्रायाम् तत्प्रकारःकाशीख० दर्शतोयथा ।“श्रीवेदव्यास उवाच । निशामय महाप्राज्ञ! लोमहर्षण!वच्मि ते । यथा प्रथमतो यात्रा कर्त्तव्या यात्रिकैर्मुदा ।सचेलमादौ संस्नाय चक्रपुष्करिणीजले । संतर्प्यदेवान् सपितॄन् ब्राह्मणांश्च तथार्थिनः । आदित्यं द्रौपदींविष्णुं दण्डपाणिं महेश्वरम् । नमस्कृत्य ततोगच्छेद्द्रष्टुंढुण्ढिविनायकम् । ज्ञानवापीमुपस्पृश्यनन्दिकेशं ततोऽर्च्च-येत् । तारकेशं ततोऽभ्यर्च्च्य महाकालेश्वरं ततः । ततःपुनर्दण्डपाणिरित्येषा पञ्चतीर्थिका । दैनन्दिनी विधातव्यामहाफलमभीप्सुभिः । ततो वैश्वेश्वरी यात्रा कार्य्या सर्व्वा-र्थसिद्धिदा । द्विसप्तायतनानाञ्च १४ कार्य्या यात्रा प्रयत्नतः ।कृष्णांप्रतिपदं प्राप्य भूतावधि यथाविधि । अथ वा प्रतिभूतञ्चक्षेत्रसिद्धिमभीप्सुभिः । तत्तत्तीर्थकृतस्नानस्तत्तल्लिङ्गकृता-र्च्चनः । मौनेन यात्रां कुर्वाणः फलं प्राप्नोति यात्रिकः ।ओङ्कारं प्रथमं पश्येन्मत्स्योदर्य्यां कृतोदकः । त्रिपिष्टपंमहादेवं ततोवै कृत्तिवाससम् । रत्नेशं चाथ चन्द्रेशं केदा-रं च ततोव्रजेत्” । धर्म्मेश्वरं च वीरेशं गच्छेत् कामेश्वरं ततः ।विश्वकर्म्मेश्वरं चाथ मणिकर्ण्णीश्वरं ततः । अविमुक्तेश्वरं-दृष्ट्वा ततोविश्वेशमर्च्चयेत् । एषा यात्रा प्रयत्नेन कर्त्तव्या-क्षेत्रवासिना । यस्तु क्षेत्रमुपित्वा तु नैतां यात्रां समाचरेत् ।विघ्नास्तस्योपतिष्ठन्ते क्षेत्रोच्चाटनसूचकाः । अष्टायतनया-त्राऽन्या कर्त्तव्या विघ्नशान्तये । दक्षेशः पार्व्वतीशश्च तथापशुपतीश्वरः । गङ्गेशो नर्म्मदेशश्च गभस्तीशः सतीश्वरः ।अष्टमस्तारकेशश्च प्रत्यष्टमि विशेषतः । दृश्यान्येतानि लि-ङ्गानि महापापोपशान्तये । अपरापि शुभा यात्रा योग-क्षेमकरी सदा । सर्व्वविघ्नोपहन्त्री च कर्त्तव्या क्षेत्रवा-सिभिः । शैलेशं प्रथमं वीक्ष्य वरणास्नानपूर्वकम् ।स्नानं तु सङ्गमे कृत्वा द्रष्टव्यः सङ्गमेश्वरः । स्वर्लीनतीर्थे सुस्नातः पश्येत् स्वर्लीनमीश्वरम् । स्तात्वा मन्दा-किनीतीर्थे द्रष्टव्यो मध्यमेश्वरः । पश्येद्धिरण्यगर्भेशंतत्र तीर्ये कृतोदकः । मणिकर्ण्ण्यां ततः स्नात्वा पश्ये-दीशानमीश्वरम् । उपशान्तशिवं पश्येत् तत्कूपविहि-तोदकः । पञ्चचूडाह्रदे स्नात्वा ज्येष्ठस्थानं ततोऽ-र्च्चयेत् । चतुःसमुद्रकूपे तु स्नात्वा देवं समर्च्चयेत् ।देवस्याग्रे तु या वापी तत्रोपस्पर्शने कृते । शुक्रेश्वरं ततःपश्येत् तत्कूपविहितोदकः । दण्डखाते ततः स्नात्वाव्याघ्रेशम्पूजयेत्ततः । शौनकेश्वरकुण्डे तु स्नानंकृत्वा ततोऽर्च्चयेत् । जम्बुकेशं महालिङ्गं कृत्वा यात्रा-मिमां नरः । क्वचिन्न जायते भूयः संसारे दुःस्वसागरे ।समारभ्य प्रतिपदं यावत् कृष्णचतुर्दशीम् । एतत् क्र-मेण कर्त्तव्यान्येतदायतनानि वै । इमां यात्रां नरःकृत्वा न भूयोऽप्यभिजायते । अन्या यात्रा प्रकर्त्तव्यै-कादशायतनोद्भवा । अग्नीध्रकुण्डे सुस्नातः पश्येदग्नी-ध्रमीश्वरम् । उर्व्वशीशं ततो गच्छेत्ततस्तु नकुलीश्वरम् ।आषाढीशं ततो दृष्ट्वा भारभूतेश्वरं ततः । लाङ्गली-शमथालोक्य ततस्तु त्रिपुरान्तकम् । ततो मनःप्रकाशेशंप्रतीकेशमथो व्रजेत् । मदालसेश्वरं तस्मात्तिलपर्णेश्वरंततः । तत्रैकादशलिङ्गानामेषा कार्य्या प्रयत्नतः ।इमां यात्रां प्रकुर्व्वाणो रुद्रत्वं प्राप्तुयान्नरः । अतःपरंप्रवक्ष्यामि गौरीयात्रामनुत्तमाम् । शुकपक्षे तृतीयायांसा यात्रा विष्वगृद्धिदा । गोप्रेक्ष्यतीर्थे सुस्नाय सुखनि-र्भालिकां व्रजेत् । ज्येष्ठवाप्यां नरः स्नात्वा ज्येष्ठांगौरीं समर्चयेत् । सौभाग्यगौरी संपूज्या ज्ञानवाप्यांकृतोदकैः । ततः शृङ्गारगौरोञ्च तत्रैव च कृतोदकः ।स्नात्वा विशालगङ्गायां विशालाक्षीं ततो व्रजेत् ।सुस्नातो ललितातीर्थे ललितामर्चयेत्ततः । स्नात्वाभवानीतीर्थेऽथ भवानीं परिपूजयेत् । मङ्गला च त-तोऽभ्यर्च्च्या विन्दुतीर्थकृतोदकैः । ततो गच्छेन्महालक्ष्मींस्थिरलक्ष्मीसमृद्धये । इमां यात्रां नरः कृत्वा क्षेत्रेऽ-स्मिन् मुक्तिजन्मनि । न दुःखैरभिभूयेत इहामुत्रापिकुत्रचित् । कुर्य्यात् प्रतिचतुर्थीह यात्रां विश्वेशितुःसदा । व्रह्मणेभ्यस्तदुद्देशाद्देया वै मोदका मुदे ।भौमे भैरवयात्रा च कार्य्या पातकहारिणी । रविवारेरवेर्यात्रा षष्ट्यां घा रविसंयुजि । तत्रैव रविसप्तम्यांसर्वविघ्नोपशान्तये । नवम्यामथ वाष्टम्यां चण्डीयात्राशुभावहा । अन्तर्गृहस्य वै यात्रा कर्त्तव्या प्रतिवत्स-रम् । प्रातः स्नानं विधायादौ नत्वा पञ्च विनायकान् ।नमस्कृत्याथ विश्वेशं स्थित्वा निर्व्वाणमण्डपे । अन्तर्गृ-हस्य यात्रां वै करिष्येऽघौघशान्तये । गृहीत्वा नियमंचेति गत्वाथ मणिकर्ण्णिकाम् । स्नात्वा मौनेन चागत्यमणिकर्ण्णीशमर्चयेत् । कम्बलाश्वतरौ नत्वा वासुकीशम्प्र-णम्य च । पर्वतेशं ततो दृष्ट्वा गङ्गाकेशवमप्यथ ।ततस्तु ललितां दृष्ट्वा जरासन्धेश्वरं ततः । ततोवै सोम-नाथञ्च वाराहञ्च ततो व्रजेत् । ब्रह्मेश्वरं ततो नत्वानत्वागस्तीश्वरं ततः । कश्यपेशं नमस्कृत्य हरिकेशवनंततः । वैद्यनाथं ततो दृष्ट्वा ध्रुवेशमथ वीक्ष्य च । गोक-र्णेश्वरमभ्यर्च्यहाटकेशमथो व्रजेत् । अस्थिक्षेपतडा-गेऽथ दृष्ट्वा वै कीकसेश्वरम् । भारभूतं ततोनत्वा चित्रगु-प्तेश्वरं ततः । चित्रघण्टां प्रणम्याथ ततः पशुपतीश्व-रम् । चन्द्रेशश्चाथ वीरेशो विद्येशोऽग्नीश एव च ।दिवामहेश्वरं नत्वा ततस्तु कलसेश्वरम् ।नागेश्वरो हरिश्चन्द्रश्चित्तामणिविनायकः । सेनाविना-यकश्चाथ द्रष्टव्यः सर्वविघ्नहृत् । वशिष्ठवामदेवौ चमूर्त्तिरूपधरावुभौ । द्रष्टव्यौ यत्नतः काश्यां महाविघ्नविनाशकौ । सीमाविनायकं चाथ करुणेशं ततोव्रजेत् । त्रिसन्ध्येशो विशालाक्षी धर्म्मेशो विश्वबाहुका ।आशाविनायकश्चाथ वृद्धादित्यस्ततः पुनः । चतुर्वक्त्रे-श्वरं लिङ्गं ब्राह्मीशश्च ततः परम् । ततो मनःप्रकाशे-शं श्मशानेशस्ततः परम् । चण्डीचण्डीश्वरौ दृश्यौ-भवानीशङ्करौ ततः । ढुल्ढिं प्रणम्य च ततो राज-राजेशमर्चयेत् । लाङ्गलीशस्ततोऽभ्यर्च्यस्ततस्तु न-कुलीश्वरः । परान्नेशमथो नत्वा परद्रव्येश्वरं ततः ।प्रतिग्रहेश्वरं चापि निष्कलङ्केशमेव च । मार्कण्डेये-शमभ्यर्च्य तत आप्सरसेश्वरम् । गङ्गेशोऽर्च्यस्ततो ज्ञान-वाप्यां स्नानं समाचरेत् । नन्दिकेशं तारकेश महा-कालेश्वरं ततः । दण्डपाणिं महेशञ्च मोक्षेशं प्रणमेत्ततः । वीरभद्रेश्वरं नत्वा अविमुक्तेश्वरं ततः । विना-यकांस्ततः पञ्च विश्वनाथं ततोव्रजेत् । ततो मौनंविसृज्याथ मन्त्रमेतमुदीरयेत् । अन्तर्गृहस्य यात्रेयंयथावद्या कृता मया । न्यूनातिरिक्तया शम्भुः प्रीयतामनया विभुः । इमं मन्त्रं समुच्चार्य्य क्षणं वै मुक्तिम-ण्डपे । विश्रम्य यायाद्भवनं निष्पापः पुण्यवान्नरः ।संप्राप्य वासरं विष्णोर्विष्णुतीर्थेषु सर्व्वतः । कार्य्यायात्रा प्रयत्नेन महापुण्यसमृद्धये । नवम्यां पञ्चदश्यां चकुलस्तम्भं समर्चयेत् । दुःखरुद्रपिशाचत्वे न लभेद्यस्य पूजनात् । श्रद्धापूर्वमियं यात्रा कर्त्तव्या तीर्थवा-सिभिः । सर्वस्यापि विशेषेण कार्य्या यात्राश्च सर्व्वतः ।न बन्ध्यं दिवसं कुर्य्याद्विना यात्रां क्वचित् कृती । यात्रा-द्वयं प्रयत्नेन कर्त्तव्यं प्रतिवासरम् । आदौ स्वर्गतर-ङ्गिण्यास्ततो विश्वेशितुःस्तवम् । यस्य बन्ध्यं दिनं यातंकाश्यां निवसतः सतः । निराशाः पितरस्तस्य तस्मि-न्नेव दिनेऽभवन् । सदष्टः कालसर्पेण स दृष्टो मृत्युना-स्फुटम् । स मुष्टस्तत्र दिवसे विश्वेशो यत्र नेक्षितः ।सर्व्वतीर्थेषु सस्नौ स सर्वयात्रां व्यधात् स च । मणि-कर्ण्यां तु यः स्नातो यो विश्वेशं निरैक्षत । सत्यं सत्यंपुनः सत्यं सत्यं सत्यं पुनः पुनः । दृश्योविश्वे-श्वरो नित्यं स्नातव्या मणिकर्ण्णिका” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
