काशी (kAzI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishकाशी - kAzI - - above
काशी - kAzI - - Benares
काशी-नगरी - kAzI-nagarI - - city of Benares or VaraaNaasi
Apte
Englishकाशी [kāśī], See काशि. -नाथः an epithet of Śiva. -यात्रा pilgrimage to Benares.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishApte Hindi
Hindiकाशी
- काश् - अच् - ङीष्
"गंगा के किनारे स्थित एक प्रसिद्ध नगरी, वर्तमान वाराणसी, सात पावन नदियों में से एक"
काशी
- काश् - अच् - ङीष्
एक देश का नाम
Shabdartha Kaustubha
Kannadaकाशी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಾಶಿ /ವಾರಾಣಸಿ
निष्पत्तिः - > काशृ (दीप्तौ) - "इन्" (उ० ४-११७) । "ङीष्" (ग० ४-१-४५)
व्युत्पत्तिः - > काशते
प्रयोगाः - > "काशी भवेत् तरणधर्मतरिः स्मरारेः"
उल्लेखाः - > नैष० ११-११४
Wordnet
Sanskrit काशी, वाराणसी, मुक्तिक्षेत्रम्
उत्तरप्रदेशे वर्तमानं नगरं यद् विख्यातं तीर्थस्थलम् अस्ति।
"वाराणसी गङ्गातटे अस्ति।"
द्युमत्, द्युतिकर्, द्युतिमत्, द्योतन, द्योति, द्योतमान, उज्वल, कान्तिमत्, किरणमय, उत्प्रभ, उल्लस, उल्लसित, प्रकाशवत्, प्रकाशक, प्रकाशमान, प्रकाशत्, प्रकाशिन्, चित्र, तेजस्वत्, तेजस्विन्, तेजोमय, तैजस, अञ्जिमत्, अतिशुक्र, अभिरुचिर, अभिविराजित, अभिशोभित, अभीषुमत्, अमन्द, अवभासित, अवभासिन्, आभास्वर, आरोचन, आभासुर, इद्ध, उत्प्रभ, उदीर्णदीधिति, उद्द्योत, उद्द्योतित, कनकतालाभ, कनकप्रभ, कनल, काशी, काशीष्णु, केतु, तैजस, दीदि, दीदिवि, दीप्त, दीप्तिमत्, द्योतमान, धौत, पुनान, प्रख्य, प्रभावत्, बृहज्ज्योतिस्, भास्कर, भासुर, भास्वर, भास्वत्, भासयत्, रुक्माभ, रुचित, रुचिर, रुच्य, रुशत्, रोच, रोचन, रोचमान, रोचिष्णु, वर्चस्विन्, विद्योतमान, विरुक्मत्, विचक्षण, विराजमान, शुक्लभास्वर, शुन्ध्यु, शुभान, शुभ्र, शुभ्रि, शुम्भमान, शोभ, शोभमान, सुतार, सुतेज, सुदीप्त, सुद्योत्मन्, सुप्रकेत, सुप्रभ, सुरुक्, सुविभात, स्फुरत्, हिरण्यनिर्णिज्, हिरण्यनिर्णिग्
यस्मिन् दीप्तिः अस्ति अथवा यस्य वर्णः आभायुक्तः अस्ति।
"प्राच्यदेशात् आगतेन तेन दूतेन तत् द्युमत् रत्नं राजसभायां राज्ञे समर्पितम्।"
पुराणम्
Englishकाशी १ / KĀŚĪ I. (vārāṇasī. BANARAS). (See under divodāsa also).1) General. One of the oldest and most popular sacred centres in india, kāśī is reputed for its viśvanātha temple of hoary traditions, according to one of which the śivaliṅga in the temple was installed by brahmā himself. (Hālāsya Māhātmya).2) Pilgrimage on foot to kāśī. Devotees from many parts of india go on pilgrimage to kāśī on foot, bathe in the holy waters of the gaṅgā and thus earn spiritual satisfaction and release from worldly attachments. The reason for the above is stated in the agni purāṇa as follows:-- Once, at kailāsa śiva told pārvatī that the temple at kāśī was called ‘Avimukta’ (unreleased) as it never perished, and all japa, tapa, homa and dāna made there never cease to give auspicious results. One should walk on foot to kāśī and live there. Having gone there one should never leave the place. There are eight great tīrthas at avimukta, i.e. hariścandra tīrtha, Āvrātakeśvara tīrtha, Japyeśvara tīrtha, Śrī Parvatīrtha, Mahālayatīrtha, bhṛgu tīrtha, Caṇḍeśvara tīrtha and Kedāratīrtha. These tīrthas extend to two yojanas to the east of the kāśī temple and half-ayojana to the west of it. The river varaṇā is also there, and vārāṇasī is at the centre of all these. Whatever is done at vārāṇasī like bath, japa, homa, worship of devas, dāna, obsequies for the dead, oneself living there etc. is productive of devotion and salvation. (agni purāṇa, Chapter 112).3) References to kāśī in the mahābhārata. (i) pāṇḍu once conquered kāśī. (bhīṣma parva, Chapter 9).(ii) bhīma married balandharā, daughter of the King of kāśī. (Ādi Parva, Chapter 35, Verse 77).(iii) Bhīmasena conquered kāśī. (Sabhā Parva, Chapter 30, Verse 6).(iv) sahadeva conquered kāśī. (Udyoga Parva, Chapter 50, Verse 31). (v) In the war between the pāṇḍavas and the kauravas, the King of kāśī fought on the side of the former. (Udyoga Parva, Chapter 196, Verse 2).(vi) arjuna conquered kāśī. (Ādi Parva, Chapter 122, Verse 40).(vii) śrī kṛṣṇa conquered kāśī. (droṇa parva, Chapter 11, Verse 15).(viii) karṇa once conquered kāśī on behalf of duryodhana. (karṇa Parva, Chapter 8, Verse 19).(ix) kāśī had been ruled by the Kings called haryaśva. sudeva, and divodāsa. (anuśāsana parva, Chapter 30, Verses 12 to 15).(x) King vṛṣadarbha and uśīnara had ruled over kāśī. (anuśāsana parva, Chapter 30, Verse 9).(xi) bhīṣma conquered kāśī during the svayaṁvara of ambā. (anuśāsana parva, Chapter 44, Verse 38).(xii) The horse sent out in connection with Yudhiṣṭhira's aśvamedha passed through kāśī also. (aśvamedha Parva, Chapter 83, Verse 14).(xiii) For the origin of the name kāśī see under divodāsa.
काशी २ / KĀŚĪ II. An inhabitant-citizen-of kāśī. (bhīṣma parva, Chapter 106, Verse 18).
काशी ३ / KĀŚĪ III. A son of Kaviprajāpati. (anuśāsana parva, Chapter 85, Verse 133).
शब्दकल्पद्रुमः
Sanskritकाशी, (काशते शिवत्रिशूलोपरि । काशृङ्दीप्तौ + अच् गौरादित्वात् ङीष् । काश +इन् ङीप् वा । अथवा काशयति प्रकाशयतीदंसर्व्वं या । काश् + णिच् अच् गौरादित्वात्ङीष् ।) स्वनामख्याततीर्थम् । शिवपुरी । तत्प-र्य्यायः । वाराणसी २ तीर्थराजी ३ तपःस्थली ४ ।इति जटाधरः ॥
काशिका ५ । इति शब्दरत्ना-वली ॥
काशिः ६ । इत्युणादिकोषः ॥
अविमुक्तम् ७ आनन्दवनम् ८ आनन्दकाननम् ९अपुनर्भवभूमिः १० रुद्रावासः ११ महाश्मशानम्१२ । तस्या उत्पत्तिर्यथा, --“ततस्तदैकलेनापि स्वैरं विहरता मया ।स्वविग्रहात् स्वयं सृष्टा स्वशरीरानपायिनी ॥
प्रधानं प्रकृतिं त्वां तु मायां गुणवतीं पराम् ।बुद्धितत्त्वस्य जननीमाहुर्विकृतिवर्जिताम् ॥
युगपच्च त्वया शक्त्या साकं कालस्वरूपिणा ।मयाद्य पुरुषेणैतत् क्षेत्रञ्चापि विनिर्म्मितम्” ॥
स्कन्द उवाच ।सा शक्तिः प्रकृतिः प्रोक्ता स पुमानीश्वरः परः ।ताभ्याञ्च रममाणाभ्यां तस्मिन् क्षेत्रे घटोद्भव ! ॥
परमानन्दरूपाभ्यां परमानन्दरूपिणि ! ।पञ्चक्रोशपरीमाणे स्वपादतलनिर्म्मिते ॥
मुने प्रलयकालेऽपि न तत् क्षेत्रं कदाचन ।विमुक्तं न शिवाभ्यां यदविमुक्तं ततो विदुः ॥
न यदा भूमिवलयं न यदापां समुद्भवः ।तदा विहर्त्तुमिशेन क्षेत्रमेतत् विनिर्म्मितम् ॥
इति काशीखण्डम् ॥
तत्र कर्त्तव्ययात्राविधानंयथा, --सूत उवाच ।“यात्रापरिक्रमं ब्रूहि जनानां हितकाम्यया ।यथावत् सिद्विकाप्तानां सत्यवत्याः सुतोत्तम ! ॥
व्यास उवाच ।निशामय महाप्राज्ञ लोमहर्षण ! वत्र्मि ते ।यथा प्रथमतो यात्रा कर्त्तव्या यात्रिकैर्मुदा ॥
सचेलमादौ संस्नाय चक्रपुष्करिणीजले ।सन्तर्प्य देवान् सपितॄन् ब्राह्मणांश्च तपस्विनः ॥
आदित्यं द्रौपदीं विष्णुं दण्डपाणिमहेश्वरम् ।नमस्कृत्य ततो गच्छेत् द्रष्टुं ढुण्ढिविनायकम् ॥
ज्ञानवापीमुपस्पृश्य नन्दिकेशं ततोऽर्च्चयेत् ।तारकेशं समभ्यर्च्च्य महाकालेश्वरं ततः ॥
ततः पुनर्दण्डपाणिमित्येषा पञ्चतीर्थिका ।दैनन्दिनी विधातव्या महाफलमभीप्सुभिः” ॥
* ॥
“ततो वैश्वेश्वरी यात्रा कार्य्या सर्व्वार्थसिद्धये ।द्विसप्तायतनानाञ्च कार्य्या यात्रा प्रयत्नतः ॥
कृष्णां प्रतिपदं प्राप्य भूतावधि यथाविधि ।अथवा प्रतिभूतञ्च क्षेत्रशुद्धिमभीप्सुभिः ॥
तत्तत्तीर्थकृतस्नानस्तत्तल्लिङ्गकृतार्च्चनः ।मौनेन यात्रां कुर्व्वाणः फलं प्राप्नोति यात्रिकः ॥
ओङ्कारं प्रथमं पश्येन्मत्स्योदर्य्यां कृतोदकः ।त्रिपिष्टपं महादेवं ततो वै कृत्तिवाससम् ॥
रत्नेशञ्चाथ चन्द्रेशं केदारञ्च ततो व्रजेत् ।धर्म्मेश्वरञ्च वीरेशं गच्छेत् कामेश्वरं ततः ॥
विश्वकर्म्मेश्वरं चाथ मणिकर्णीश्वरं ततः ।अविमुक्तेश्वरं दृष्ट्वा ततो विश्वेशमर्च्चयेत् ॥
एषा यात्रा प्रयत्नेन कर्त्तव्या क्षेत्रवासिभिः ।यस्तु क्षेत्रमुषित्वापि नैतां यात्रां समाचरेत् ॥
विघ्नास्तस्योपजायन्ते क्षेत्रोच्चाटनसूचकाः” ॥
* ॥
“अष्टायतनयात्रान्या कर्त्तव्या विघ्नशान्तये ॥
दक्षेशः पार्व्वतीशश्च तथा पशुपतीश्वरः ।गङ्गेशो नर्म्मदेशश्च गभस्तीशः सतीश्वरः ॥
अष्टमस्तारकेशश्च प्रत्यष्टमि विशेषतः ।दृश्यान्येतानि लिङ्गानि महापापोपशान्तये” ॥
* ॥
“अपरापि शुभा यात्रा योगक्षेमकरी सदा ।सर्व्वविघ्नोपहन्त्री च कर्त्तव्या क्षेत्रवासिभिः ॥
शैलेशं प्रथमं वीक्ष्य वरणास्नानपूर्व्वकम् ।स्नानन्तु सङ्गमे कृत्वा द्रष्टव्यः सङ्गमेश्वरः ॥
स्वर्नीलतीर्थे सुस्नातः पश्येत् स्वर्नीलमीश्वरम् ।स्नात्वा मन्दाकिनीतीर्थे द्रष्टव्यो मध्यमेश्वरः ॥
पश्येद्धिरण्यगर्भेशं तत्र तीर्थकृतोदकः ।पञ्चचूडह्रदे स्नात्वा ज्येष्ठस्थानं ततोऽर्च्चयेत् ॥
चतुःसमुद्रकूपे तु स्नात्वा देवं ततोऽर्च्चयेत् ।देवस्याग्रे तु या वापी तत्रोपस्पर्शने कृते ॥
शुक्रेश्वरं ततः पश्येत् तत्कूपविहितोदकः ।दण्डखाते नरः स्नात्वा व्याघ्रेशं पूजयेत्ततः ॥
मौनकेश्वरकुण्डे तु स्नानं कृत्वा ततोऽर्च्चयेत् ।जम्बुकेशं महालिङ्गं कृत्वा मात्रामिमां नरः ॥
क्वचिन्न जायते भूयः संसारे दुःखसागरे ॥
समारभ्य प्रतिपदं यावत्कृष्णां चतुर्द्दशीम् ॥
एतत्क्रमेण कर्त्तव्यान्येतदायतनानि वै ।इमां यात्रां नरः कृत्वा न भूयोऽप्यपिजायते” ॥
* ॥
“अन्या यात्रा प्रकर्त्तव्यैकादशायतनोद्भवा ।अग्नीध्रकुण्डे सुस्नातः पश्येदग्नीध्रमीश्वरम् ॥
उर्व्वशीशं ततो गच्छेत्ततस्तु नकुलीश्वरम् ।आषाढीशं ततो दृष्ट्वा भारभूतेश्वरं ततः ॥
लाङ्गलीशमथालोक्य ततस्तु त्रिपुरान्तकम् ।ततो मनःप्रकामेशं प्रीतिकेशमथो व्रजेत् ॥
भदालसेश्वरं तस्मात् तिलपर्णेश्वरं ततः ।यात्रैकादशलिङ्गानामेषा कार्य्या प्रयत्नतः ॥
इमां यात्रां प्रकुर्व्वाणो रुद्रत्वं प्राप्नुयान्नरः” ॥
* ॥
“अतः परं प्रवक्ष्यामि गौरीयात्रामनुत्तमाम् ॥
शुक्लपक्षतृतीयायां या यात्रा विश्ववृद्धिका ।गोप्रेक्ष्यतीर्थे सुस्नाय मुखनिर्मालिकां व्रजेत् ॥
ज्येष्ठवाप्यां नरः स्नात्वा ज्येष्ठां गौरीं समर्चयेत् ।सौभाग्यगौरी संपूज्या ज्ञानवाप्यां कृतोदकैः ॥
ततः शृङ्गारगौरीञ्च तत्रैव च कृतोदकः ।स्नात्वा विशालगङ्गायां विशालाक्षीं ततो व्रजेत् ॥
सुस्नातो ललितातीर्थे ललितां पूलयेत्ततः ।स्नात्वा भवानीतीर्थे तु भवानीं परिपूजयेत् ॥
मङ्गला च ततोऽभ्यर्च्च्या विन्दुतीर्थकृतोदकैः ।ततो गच्छेन्महालक्ष्मीं स्थिरलक्ष्मीसमृद्धये ॥
इमां यात्रां नरः कृत्वा क्षेत्रेऽस्मिन् मुक्तिजन्मनिन दुःखैरभिभूयेत इहामुत्रापि कुत्रचित् ॥
कुर्य्यात् प्रतिचतुर्थोह पूजां विघ्नेशितुः सदा ।ब्राह्मणेभ्यस्तदुद्देशाद्देया वै सोदका मुदे” ॥
* ॥
“भौमे भैरवयात्रा च कार्य्या पातकहारिणी ।रविवारे रवेर्यात्रां षष्ठ्यां वा रविसंयुजि ॥
तथैव रविसप्तम्यां सर्व्वविघ्नोपशान्तये ।नवम्यामथवा षष्ठ्यां चण्डीयात्रा शुभावहा” ॥
* ॥
“अन्तर्गृहस्य यात्रा वै कर्त्तव्या प्रतिवत्सरम् ।प्रातः स्नानं विधायादौ नत्वा पञ्च विनायकान् ॥
नमस्कृत्याथ विश्वेशं स्थित्वा निर्व्वाणमण्डपे ।अन्तर्गृहस्य यात्रां हि करिष्येऽघौघशान्तये ॥
गृहीत्वा नियमञ्चेति गत्वाथ मणिकर्णिकाम् ।स्नात्वा मौनेन चागत्य मणिकर्णीशमर्च्चयेत् ॥
कम्बलाश्वतरौ नत्वा वासुकीशं प्रणम्य च ।पर्व्वतेशं ततो दृष्ट्वा गङ्गाकेशवमप्यथ ॥
ततस्तु ललितां दृष्ट्वा जरासन्धेश्वरं ततः ।ततो वै सोमनाथञ्च वराहञ्च ततो व्रजेत् ॥
ब्रह्मेश्वरं ततो नत्वा नत्वागस्तीश्वरं ततः ।कश्यपेशं नमस्कृत्य हरिकेशवनन्ततः ॥
वैद्यनाथं ततो गत्या ध्रुवेशमथ वीक्ष्य च ।गोकर्णेशं ततोऽभ्यर्च्च्य हाटकेशमथो व्रजेत् ॥
अस्थिक्षेपतडागञ्च दृष्ट्वा वै कीकशेश्वरम् ।भारभूतं ततो नत्वा चित्रगुप्तेश्वरं ततः ॥
चित्रघण्टां प्रणम्याथ ततः पशुपतीश्वरम् ।पितामहेश्वरं गत्वा ततस्तु कलसेश्वरम् ॥
चन्द्रेशस्त्वथ वीरेशो विघ्नेशोऽग्नीश एव च ।नागेश्वरो हरिश्चन्द्रश्चिन्तामणिविनायकः ॥
सेनाविनायकश्चाथ द्रष्टव्यः सर्व्वविघ्नहत् ।वशिष्ठवामदेवौ च मूर्त्तिरूपधरावुभौ ॥
द्रष्ठव्यौ यत्नतः काश्यां महाविघ्नविनाशनौ ।सीमाविनायकं नाथं करुणेशं ततो व्रजेत् ॥
त्रिसन्ध्येशो विशालाक्षी धर्म्मेशो विश्वबाहुका ।आशाविनायकश्चाथ वृद्धादित्यस्ततः पुनः ॥
चतुर्व्वक्त्रेश्वरं लिङ्गं ब्रह्मेशस्तु ततः परम् ।ततो भनःप्रकामेश ईशानेशस्ततः परम् ॥
चण्डीचण्डेश्वरौ दृश्यौ भवानीशङ्करौ ततः ।ढुण्ढिं प्रणम्य च ततो राजराजेशमर्च्चयेत् ॥
लाङ्गलीशन्ततोऽभ्यर्च्च्य ततस्तु नकुलीश्वरम् ।परान्नेशमथो नत्वा परद्रव्येश्वरं ततः ॥
प्रतिग्रहेश्वरञ्चापि निष्कलङ्केशमेव च ।मार्कण्डेयेशमभ्यर्च्च्य ततश्चाप्सरसेश्वरम् ॥
गङ्गेशोऽर्च्च्यस्ततो ज्ञानवाप्यां स्नानं समाचरेत्नन्दिकेशं तारकेशं महाकालेश्वरं ततः ॥
दण्डपाणिं महेशञ्च मोक्षेशं प्रणमेत्ततः ।वीरभद्रेश्वरं नत्वा अविमुक्तेश्वरं ततः ॥
विनायकांस्ततः पञ्च विश्वनाथं ततो व्रजेत् ।ततो मौनं विसृज्याथ मन्त्रमेनमुदीरयेत् ॥
अन्तर्गृहस्य यात्रेयं यथावत् या मया कृता ।न्यूनातिरिक्तया शम्भुः प्रीयतामनया विभुः ॥
इति मन्त्रं समुच्चार्य्य क्षणं वै मुक्तिमण्डपे ।विश्राम्य यायात् भवनं निष्पापः पुण्यवान्नरः” ॥
*“संप्राप्य वासरं विष्णोर्विष्णुतीर्थेषु सर्व्वतः ।कार्य्या यात्रा प्रयत्नेन महापुण्यसमृद्धये ॥
नमस्यपञ्चदश्याञ्च कुलस्तम्भं समर्च्चयेत् ।दुःखं रुद्रपिशाचत्वं न भवेद्यस्य पूजनात् ॥
श्रद्धापूर्व्वमिमा यात्राः कर्त्तव्याः क्षेत्रवासिभिः ।पर्व्वखपि विशेषेण कार्य्या यात्राश्च सर्व्वतः ॥
न वन्ध्यं दिवसं कुर्य्याद्विना यात्रां क्वचित् कृती ।यात्राद्वयं प्रयत्नेन कर्त्तव्यं प्रतिवासरम् ॥
आदौ स्वर्गतरङ्गिण्यास्ततो विश्वेशितुर्ध्रुवम् ।यस्य वन्ध्यं दिनं यातं काश्यां निवसतः सतः ॥
निराशाः पितरस्तस्य तस्मिन्नेव दिने भवेत् ।स दष्टः कालसर्पेण स दष्टो मृत्युना स्फुटम् ॥
स मुष्टस्तत्र दिवसे विश्वेशो यत्र नेक्षितः ।सर्व्वतीर्थेषु सस्नौ स सर्व्वयात्रा व्यधात् स च ॥
मणिकर्ण्यान्तु यः स्नातो यो विश्वेशं निरैक्षत ।सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः ॥
दृश्यो विश्वेश्वरो नित्यं स्नातव्या मणिकर्णिका” ॥
इति श्रीस्कन्दपुराणे काशीखण्डे १०० अध्यायः ॥
(चिच्छक्तिः । सुषुम्नाख्या नाडी च । अन्यानाडी चिद्भासया सम्यगाभासिता सती प्रकाशतेअतएव इयं हि ब्रह्मप्रकाशरूपिणी चिन्मयीज्ञानप्रकाशकतया अस्यास्तथात्वं वेदतन्त्रादि-ज्ञानप्रतिपादकशास्त्रैः सुषुम्नाया एव ब्रह्मनाडीत्वंप्रतिपादितं तथा सर्व्वप्रकाशकतया चिच्छक्तेरेवस्वरूपकाशीत्वं विज्ञाप्यते यथा, --“ययेदं काश्यते सर्व्वं सा काशी परिकीर्त्यते” ॥
यदि चिच्छक्तिरेव काश्याः स्वरूपार्थवाचिकातर्हि तस्या वाराणसीत्याख्यायां कागतिरितिसंशयश्चेत् ततोऽवधीयताम् ।“तदिदं मन्ये देवानां देवयजनं सर्व्वेषां भूतानांब्रह्मसदनं अत्र हि जन्तोः प्राणैरुत्क्रममाणस्यरुद्रस्तारकं ब्रह्म व्याचष्टेयेनासावमृतीभूत्वा मोक्षीभवति तस्मादविमुक्तमेव निषेवेत अविमुक्तं नविमुञ्चेदेवमेवैतद्याज्ञवतक्यः । अथहैनमत्रिःपप्रच्छ याज्ञवल्क्यं । य एषोऽनन्तोऽव्यक्त आत्माकथमहमिमं विजानीयामिति सोऽविमुक्त उपास्यइति सोऽविमुक्तः कस्मिन् प्रतिष्ठित इति वरणा-यामस्याञ्च प्रतिष्ठित इति का च वरणा भवतिका चासिर्भवतिं । सर्व्वान् इन्द्रियकृतान् दोषान्वारयतितेन वरणा भवति सर्व्वाणि इन्द्रियकृतानिपापानि अस्यति तेनासि र्भवति कतममस्याःस्थानं भवति इति भ्रुवोर्घ्राणस्योभयसन्धिः स द्यौ-र्लोकस्य परस्य च सन्धिर्भवति । एवमेवैनं सन्धिंसन्ध्यां ब्रह्मविद उपासते कोऽसौ रुद्र इति रुद्र-स्तापत्रयात्मकं संसारदुःखं तद्धेतुर्वा तत्सर्व्वं द्राव-यति शरणागतानामुपासकानामिति अतएव चि-च्छक्तिमयः सर्व्वज्ञः परमेश्वर एव रुद्रः । तथा हि“एको रुद्रो न द्वितीयायावतस्थुः” ॥
इति श्रीश्री-मद्भगवत्पूज्यपादपरमहंसपरिव्राजकाचार्य्यसुरे-श्वरसूरिप्रणीतकाशीमुक्तिविवेकः ॥
)काशतृणम् । इत्यमरटीकायां भरतः ॥
(मुष्टिः ।इति निरुक्तिः ॥
)
वाचस्पत्यम्
Sanskritकाशी स्त्री काशते काश--इन् स्त्रियां ङीप् । काश-णिच्--अच् गौरा० ङीष् । असिवरुणयोर्मध्यवर्त्तिन्यांस्वनामख्यातायां शिवपुर्य्याम् । तन्निरुक्त्यादि काशीख० ।“निर्व्वाणकाशनाद्यत्र काशीति प्रथिता पुरी । अविमुक्तेमहाक्षेत्रे न मुक्ते शम्भुना क्वचित् । प्रागेव हिमुनेऽनर्घ्यं जातं जाम्बुनदं स्वयम् । पुनः स्वर्धुनि-तोयेन हीरेण यदि सङ्गतम् । चक्रपुष्करिणीतीर्थंप्रागेव श्रेयसांपदम् । ततः श्रेष्ठतरं शम्भोर्मणिश्र-वणभूषणात् । आनन्दकानने तस्मिन्नविमुक्ते शिवा-लवे । प्रागेव मुक्तिः संसिद्धा गङ्गा--सङ्गात्ततोऽधिका ।यदाप्रभृति सा गङ्गा मणिकर्णीसमागता । तदा-प्रभृति तत् क्षेत्रं दुष्प्रापं त्रिदशैरपि । कृत्वा कर्माण्य-नेकानि कल्याणानीतराणि च । तानि क्षणात् समुत्-क्षिप्य काशीसंस्थोऽमृतो भवेत् । तस्य वेदान्तवेद्यस्यनिदिध्यासनतो विना । विना साङ्ख्येन योगेन काश्यांसंस्थोऽमृतो भवेत् । कर्म्मनिर्मूलनकृता विना ज्ञानेनकुम्भज! । शशिमौलिप्रसादेन काश्यां संस्थोऽमृतोभवेत् ।यत्नतोऽयत्नतो वापि कालात् त्यक्त्वा कलेवरम् । तारक-स्योपदेशेन काशीसंस्थोऽमृतो भवेत् । अनेकजन्मसं-सिद्धैर्बद्धोऽपि प्राकृतैर्गुणैः । असिसंभेदयोगेन काशी-संस्थोऽमृतो भवेत् । देहत्यागोऽत्र वै दानं देहत्यागोऽ-त्र वै तपः । देहत्यागोऽत्र वै योगः काश्यां निर्व्वाणसौ-ख्यकृत् । प्राप्योत्तरवहां काश्यामपि दुष्कृतवानपि ।यायात स्वं हेलया त्यक्त्वा तद्विष्णोः परमं पदम् ।महेन्द्राग्निमुखा देवा दृष्ट्वा मुक्तिपथोन्मुखान् । सर्व्वान्सर्वेशमालोक्य रक्षाञ्चक्रुः पुरा पुरः । असिन्महासि-रूपाञ्च पापिसङ्गतिखण्डिनीम् । दुष्टप्रवेशं धुन्वानांधुनीं देवा विनिर्म्ममुः । वरणाञ्च व्यधुस्तत्र क्षेत्रविघ्ननिर्वारिणीम् । दुर्वृत्तस्य प्रवृत्तेश्च निवृत्तिकरणीं सुराः ।दक्षिणोत्तरदिग्भागे कृत्वासिं वरणां सुराः । क्षेत्रस्यमोक्षनिःक्षेपरक्षां निर्वृतिमाययुः । क्षेत्रस्य पश्चाद्दिग्भा-गे तं देहलिविनायकम् । स्वयं व्यापारयामास रक्षार्थंशशिशेखरः । अनुज्ञातप्रवेशानां विश्वेशेन कृपाव-ताम् । ते प्रवेशं प्रयच्छन्ति नान्येषां हि कदाचन” ।अत्रार्थे प्राचीनेतिहासमुक्त्वा माहात्म्यादिकमुक्तं यथा-“एवं काश्यां प्रविश्यापि पापी धर्म्मानुषङ्गतः । नक्षेत्रफलमाप्नोति बहिर्भवति तत्क्षणात् । तस्माद्विश्वेश्व-राज्ञैव काशीवासेऽत्र कारणम् । असिश्च वरणा यत्रक्षेत्ररक्षाकृतौ कृते । वाराणसीति विख्याता तदारभ्यमहामुने! । असेश्च वरणायाश्च सङ्गमं प्राप्य काशिका ।वाराणसीह करुणामयदिव्यमूर्त्तिरुत्सृज्य यत्र तु तनुंतनुभृत् सुखेन । विश्वेशदृङ्महसि यत् सहसा प्रवि-श्य रूपेण तां वितनुतापदवीन्दधाति । जातो मृतोबहुषु तीर्थवरेषु रे त्वं जन्तो! न जातु तव शान्तिरभून्नि-मज्य । वाराणसीति गदतीह मृतोऽमृतत्वं प्राप्याधुनामम बलात् स्मरशासनः स्याः । अन्यत्र तीर्थसलिलेपतितो द्विजन्मा देवादिभावमयते न तथा तु काश्याम् ।चित्रं यदत्र पतितःपुनरुत्थितं न प्राप्नोति पुक्वशजनोऽपिकिमग्रजन्मा । सैषा पुरी संसृतिरूपपारावारस्य पारंपुरुषः पुरारिः । यस्यां परं पौरुषमर्थमिच्छन् सिद्धिंनयेत् पौरपरम्परासः । तीर्थान्तराणि मनुजः परि-तोऽपगाह्य हित्वा तनुं कलुषितां, दिवि दैवतं स्यात् ।वाराणसीपरिसरे तु विसृज्य देहं सन्देहभाग्भवति देहल-वाप्तयेऽपि । वाराणसी शमवशीकरणादृतेऽपि योगादयो-गिजनताञ्जनतापहन्त्री । तत्तारकं श्रवणगोचरतांनयन्ती तद्ब्रह्म दर्शयति येन पुनर्भवो न । वाराणसी-परिसरे तनुमिष्टदात्रीं धर्म्मार्थसौख्यनिलयामहहा विसृज्य । इष्टं पदं किमपि हृष्टतरोऽभिलाष्य-लाभोऽस्तु मूलमपि नो यदवाप शून्यम् । आः काशि-रासिजनता ननु वञ्चिताभूद्भालेबिलोचनवता वनि-तार्द्धभाजा । आदाय यत् सुकृतभाजनमिष्टदेहं निर्वा-णमात्रमपवर्जयताऽपुनर्भु । वाराणसी स्फुरदसीमगु-णैकभूमिर्यत्र स्थितास्तनुभृतः शशिभृत्प्रभावात् ।सर्वे गलेगरलिणोऽक्षियुजो ललाटे, वामार्द्ध, वामतन-वोऽतनवस्ततोऽन्ते । आनन्दकाननमिदं सुखदं पुरैवतत्रापि चक्रसरसी मणिकर्णिकाऽथ । स्वःसिन्धुसङ्ग-तिरथोपरमास्पदञ्च विश्नेशितुः किमिह तन्न विमुक्तये यत् ।वाराणसीह वरणासिसरिद्वरिष्ठासंभेदखेददमनी द्युनदीलसच्छ्रीः । विश्रामभूमिरचलामलभोक्षलक्ष्म्याहैनां विहाय किमु सीदति मूढजन्तुः । किं विस्मृतंत्वहह गर्भजमामनस्यं कार्त्तान्तद्रूतकृतबन्धनताडनं वा ।शम्भोरनुग्रहपरिग्रहलभ्यकाशीं मूढो विहाय किमु यातिकरस्थमुक्तिम् । तीर्थान्तराणि कलुषाणि वहन्ति सद्यःश्रेयोद्रवन्त्यपि बहु त्रिदिवं नयन्ति । पानावगाहन-विधानतनुप्रहाणैर्वाराणसी तु कुरुते वत मूलनाशम् ।काशीपुरीपरिसरे मणिकर्णिकायां त्यक्त्वा तनुं तनुभृतस्तनुमाप्तुवन्ति । भालेविलोचनवतीं गलनीललक्ष्मींवामार्द्धबन्धुरबधूं विवुधैकराध्याम् । ज्ञात्वा प्रभावम-तुलं मणिकर्ण्णिकाया यत् पुद्गलन्त्यजति चाशुचि पूय-गन्धि । स्वात्मावबोधमहसा सहसा मिलित्वा कल्पान्त-रेष्वपि स नैव पृथक्त्वमेति । रागादिदोषपरिभूतम-नोहृषीकाः काशीपुरीमतुलदिव्यमहाप्रभावाम् । येकल्पयन्ति परतीर्थसमां समन्तात्ते पापिनो न सह तैःपरिभाषणीयम् । वाराणसीं स्मरहरप्रियराजधानींत्यक्त्वा कुतो व्रजसि मूढ! दिगन्तरेषु । प्राप्याप्यजाड्यसु-लभां स्थिरमोक्षलक्ष्मीं लक्ष्मीं स्वभावचपलां किमुकामयेथाः? । विद्याधनानि सदनानि गजाश्वभूत्या स्नक्-चन्दनानि वनिताश्च नितान्तरम्याः । स्वर्गोऽप्यगम्यैह नो-द्यमभाजि पुंसि वाराणसी त्वसुलभाऽसुलभा विमु-क्तिः । धात्रा धृतानि तुलया तुलनामवैतुं वैकुण्ठ-मुख्यभुवनानि च काशिका च । तान्युद्ययुर्लघु-तया न्यगि यं गुरुत्वात् तस्थौ पुरीह पुरुषार्थचतुष्ट-यस्य । काशीपुरीमधिवसन् हि नरोऽनरोऽपिह्यारीप्यमाण इह मान्यैहैकरुद्रः । नानोपसर्गजनिसर्गजदुःखभारै कर्म्मापनुत्य स विशेत् परमेशधाम्नि ।स्थिरापायं कायं जननमरणक्लेशनिलयं विहायास्यांकाश्यामहह परिगृह्णीत न कुतः । वपुस्तेजोरूपंस्थिरतरपदानन्दसदनं विमूढोऽसौ जन्तुः स्फुटितमिवकाश्यां विनिमयन् । अहो लोकः शोकं किमिह सहतेहन्त हतधीर्विपद्भारैः सारैर्नियतनिधनैर्ध्वंसितधनैः ।क्षितौ सत्यां काश्यां कथयति शिवो यत्र निधनेश्रुतौ किञ्चिद्भूयः प्रविशति न येनोदरदरीम् । काशिवा-सिनि जने वनेचरे द्वित्रिभुज्यपि समीरभोजने । स्वैरचा-रिणि जितेन्द्रियेऽप्यहो काशिवासिपुरुषे विशिष्टता नास्तीहदुष्कृतकृतां सुकृतात्मनां वा काचिद्विशेषगतिरन्तकृता । हिकाश्याम् । वीजानि कर्म्मजनितानि यदूषरायांनाङ्कूरयन्ति हरदृग्ज्वलितानि तेषाम् । शशकामसका वकाः शुकाः कलविङ्गाश्च वृकाः सजम्बुकाः ।तुरगोरगवानरा नरा गिरिजे! काशिमृताः गतामृ-ताः । अरुद्ररुद्राक्षफणीन्द्रभूषणा त्रिपुण्ड्र चन्द्रार्द्धधराधराङ्गताः । निरन्तरं काशिनिवासिनो जना गिरी-न्द्रजे! पारिषदा मता मम । यावन्त एव निवसन्ति चजन्तवोऽत्र काश्यां जलस्थलचराझषजम्बुकाद्याः ।तावन्त एव मदनुग्रहरुद्रदेहादेहावसानमधिगम्य मयिप्रविष्टाः । ये तु वर्षेषवो रुद्रा दिवि! देवि! प्रकीर्त्तिताः ।वातेषवोऽन्तरीक्षे ये ये भुव्यन्तेषवः प्रिये! । रुद्रा दशदश प्राच्यवाचीप्रत्यगुदक्स्थिताः । ऊर्द्धदिक्स्थाश्च येरुद्राः पठ्यन्ते वेदवादिभिः । असंख्याताः सहस्राणिये रुद्रा अधिभूतले । तत्सर्वेभ्योऽधिकाः काश्यांजन्तवो रुद्ररूपिणः । रुद्रावासस्ततः प्रोक्तमविमुक्तंघटोद्भव! । तस्मादभ्यर्च्च्य काशीस्थान् वर्ण्णान् वर्ण्णेत-राश्रमान् । श्रद्धयेश्वरबुद्ध्या च रुद्रार्च्चाफलभाक् नरः ।श्मशब्देन शवः प्रोक्तः शानं शयनमुच्यते । निर्वचन्तिश्मशानार्थं मुने! शब्दार्थकोविदाः । महान्त्यपि चभूतानि प्रलये समुपस्थिते । शेरतेऽत्र शवा भूत्वा श्मशा-नन्तु ततो महत् । अप्सु भूरिह लये लयं व्रजेदापऔ-र्ववदनोग्रकन्दरे । मातरिश्वनि महातनूनपाद्व्योम्नि सं-क्षयति वै सदागतिः । व्योम चापि लयमेत्यहङ्कृतौ सापिषोडशविकारसंयुता । लीयते महति बुद्धिसंज्ञके हामहान् प्रकृतिमध्यगो भवेत् । सा गुणत्रयमयी चनिर्गुणं तं पुमांसमवगुह्य तिष्ठति । पञ्चविंशतितमः परःपुमान् देहगेहपतिरेष जीवकः । प्राकृतः प्रलय एष उच्यतेहंसयानहरिरुद्रवर्जितः । कालमूर्त्तिरथ तञ्च पुरुषंहेलया कलयतीश्वरः परः । स वै महाविष्णुरिती-ज्यते बुधैस्तं वै महादेवमुदाहरन्ति । सोऽन्तादिमध्यैः परिवर्जितः शिवः स श्रीपतिः सोऽपि हि पार्वतो-पतिः । दैनन्दिनेऽथ प्रलये त्रिशूलकोटीं समुत्क्षिप्यपुरीं हरः स्वाम् । बिभर्त्ति संवर्त्तमहास्थिभूषणस्ततोहि काशी कलिकालवर्जिता । स्कन्द उवाच । वारा-णसीति काशीति रुद्रावास इति द्विज! । महाश्मशानमित्येवं प्रोक्तमानन्दकाननम् । इति देवीपुरः प्रोक्तंदेवदेवेन शम्भुना । यथा विष्णौ पुराख्यातं तथैवचमया श्रुतम्” ।सा च सप्तमोक्षपुर्य्यन्तर्गता । “अयोध्या मथुरामाया का-शी काञ्चिरवन्तिका । पुरी द्वारवती चैव सप्तैता मोक्षदायि-काः । काशी० । “अन्यानि यानि तीर्थानि काशीप्राप्ति-कराणि च । काशीं प्राप्यैव मोक्षन्ते नान्यथा कल्पकोटि-भिः” भा० टी० नीलकण्ठधृतम् “तत्र हि जन्तोः प्राणेषूत्क्रमंमाणेषु रुद्रस्तारकं व्रह्म व्याचष्टे येनासावमृतीभूय-मोक्षीभवति” श्रुतिः । तेन काशीमृतानां जन्तूनांशिवसकाशात्तत्त्वज्ञानलाभेन तत्क्षणात् मुक्तिः तत्त्व-ज्ञानस्य प्रारब्धेतरसर्व्वकर्म्मनाशकत्वात् तेनैव सर्व-कर्म्मनाशः । सञ्चितकर्म्मणां कायव्यूहेन भोगात्परिक्षपणमित्यन्ये । इतरतीर्थमृतानां तु ब्रह्मादि-लोकप्राप्तौ तत्र श्रवणमननाद्यपेक्षेति भेदः ।“सा काशी त्रिपुरारिराजनगरी पायादपायाज्जगत्” ।काशी० “कदा काश्यां गमिष्यामि कदा द्रक्ष्यामिशङ्करम् । इति ब्रुवाणः सततं काशीवासफलं लभेत् ।२ काशीस्थदेवीमूर्त्तिभेदेच “विश्वेशं माधवं दुण्ढिं दण्डपार्णिञ्च भैरवम् । वन्देकाशीं गुहां गङ्गां भवानीं मणि-कर्णिकाम् । स्वल्पार्थे ङीप् । ३ खल्पकाशतृणे भरतः
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
