| YouTube Channel

काशिराज (kAzirAja)

 
शब्दसागरः
English
काशिराज
m.
(-जः) A name of DHANWANTARI or DIVODASA, a king of
Benares, and an author of medical works
he is often confound-
ed with his celestial namesake, the physician of the gods.
E.
काशि
the city, and राज a king or ruler
also काशीराज.
Capeller Eng
English
काशिराज
m.
king of the Kāśi.
Yates
English
काशि-राज (जः) 1.
m.
Dhanwantari.
Wilson
English
काशिराज
m.
(-जः) A name of DHANVANTARI or DIVODĀSA, a king of
Benares, and an author of medical works
he is often confounded with his
celestial namesake, the physician of the gods.
E.
काशि the city, and राज a king or ruler
also काशीराज.
Monier Williams Cologne
English
काशि—राज
m.
=
-प,
MBh.
Hariv.
BhP.
N.
of the Dānava Dīrgha-jihva,
MBh.
i, 2676
of Divo-dāsa Dhanvantari,
Suśr.
of Pratardana Daivodāsi,
RAnukr.
of a grandfather of Dhanvantari,
VP.
of a prince who has been killed by his wife,
VarBṛS.
Apte Hindi
Hindi
काशिराजः
पुं*
काशि - राजः -
"एक राजा का नाम, अंबा, अंबिका और अंबालिका के पिता"
Shabdartha Kaustubha
Kannada
काशिराज
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಾಶೀದೇಶದ ದೊರೆ /ದಿವೋದಾಸ ಮೊದಲಾದವರು
निष्पत्तिः - > "टच्" (५-४-९१)
व्युत्पत्तिः - > काशीनां जनपदानां राजा
प्रयोगाः - > "हर्यश्वस्य दायादः काशिराजोऽभ्यषिच्यत"
उल्लेखाः - > भा० अनु० ८-१४
Mahabharata
English
Kāśirāja^1 (“the king of the Kāśis”), one or more princes. § 130 (Aṃśāvat.): I, 67, 2676 (incarnation of the Asura Dīrghajihva).--§ 589 (Droṇābhishekap.): VII, 10, 364 (yaḥ--i.e. Dhṛshṭadyumna--putraṃ Kºsya Vārāṇasyāṃ mahārathaṃ | samare strīshu gṛdhyantaṃ bhallenāpāharad rathāt).--§ 793 (Mausalap.): XVI, 6, 159 (had been slain by Kṛshṇa).
Kāśirāja^2 (do.), the father of Ambā, Ambikā, and Ambālikā. § 167 (Vicitravīryop.): I, 102, 4093 (held a svayaṃvara, at which Bhīshma robbed his three daughters).--§ 572 (Rathātirathasaṅkhyānap.): V, 168, 5842 (ºsvayaṃvare, all. to § 167). Cf. Kāśipati^1.
Kāśirāja^3 (do.), the father of the two wives of Bṛhadratha. § 275 (Rājasūyārambhap.): II, 17, 692 (ºsya sute yamaje, mothers of Jarāsandha).
Kāśirāja^4 (do.) = Subāhu: II, 1080 (Sº, vanquished by Bhīmasena on his digvijaya).
Kāśirāja^5 (do.), contemporary of the great battle. § 553 (Vaivāhikap.): IV, 72, 2351 (came to Yudhishṭhira with one akshauhiṇī of troops
C. has by error Kāśīº).--§ 562 (Bhagavadyānap.): V, 80, 2857 (among the allies of Yudhishṭhira)
83, 2950.--§ 576 (Bhagavadgītāp.): VI, 25, 834 (in the army of Yudhishṭhira).--§ 578 (Bhīshmavadhap.): VI, 50, 2088 (in the krauñcavyūha of Yudhishṭhira)
51, 2117.-§ 582 (do.): VI, 71, 3138 (fights with Āvantya).--§ 589 (Droṇabhishekap.): VII, 8, †251.--§ 604 (Karṇap.): VIII, 6, 173 (Abhibhūḥ?, has been slain by the son of Vasudāna). Cf. Abhibhū, Kāśipati^2, Kāśya^2.
Kāśirāja^6 (do.) = Sudeva: XIII, 1952 (Sº).
शब्दकल्पद्रुमः
Sanskrit
काशिराजः,
पुं,
(काश्याः राजा “राजाहः सखि-भ्यष्टच्” ९१ इति टच् ।) वाराणसी-राजः तत्पर्य्यायः धन्वन्तरिः दिवोदासः३ सुधोद्भवः इति त्रिकाण्डशेषः
(यदि क्रगाण्वयेन तत्र बहवो राजान आसन् ।तथापि तत्स्थानाधिकारित्वात् यदा योऽधि-कारी एव काशिराजः अतो नासाधुप्रयोगइति मन्यामहे
“अथ खलु भगवन्तममरवर-मृषिगणपरिवृतमाश्रमस्थं काशिराजं दिवोदासंधन्वन्तरिमौपधेनव वैतरणौरभ्रपौष्कलावतकर-वीर्य्यगोपुररक्षितसुश्रुतप्रभृतय ऊचुः”
इति सुश्रुते सूत्रस्थांने अः
)
वाचस्पत्यम्
Sanskrit
काशिराज
पु०
काशीनां जनपदानां राजा टच्समा० ।काशिदेशाधिपे तद्देशाधिपाश्च कालभेदेन यद्यपि बह-हवस्तथापि काशिनामकनृपेण तदन्वयेन तत्र काशी-पुरीकरणात् तदन्वयजस्यैव तदधिपत्वं प्रथितं तदेतत्हरिवं ३२ अ० वर्ण्णितं यथा“काशेस्तु काशयोराजन् पुत्रो दीर्घतपास्तथा वभूब दी-र्घतपसो विद्वान् धन्वन्तरिः सुतः धन्वन्तरेस्तु तनयःकेतुमानिति विश्रुतः अथ केतुमतः पुत्त्रो विद्वान् भीम-रथः स्मृतः दिवोदास इति ख्यातः सर्वरक्षः प्रणाशनः ।एतस्मिन्नेव काले तु पुरीं वाराणसीं नृपः शून्यां निवे-शयामास क्षेमको नाम राक्षसः शप्ताहि सा मतिमतानिकुम्भेन महात्मना शून्या वर्षसहस्रं वै भवत्वितिनराधिप! तस्यान्तु शप्तमात्रायां दिवोदासः प्रजेश्वरः ।विषयान्ते पूरीं रम्यां गोमत्यां संन्यवेशयत् भद्रश्रेण्यस्यपुत्त्राणां शतमुत्तनधन्विनाम् हत्वा निवेशयामासदिवोदासः प्रजेश्वरः दिवोदासस्य पुत्त्रस्तु वीरो राजाप्रतर्द्दनः प्रतर्द्दनस्य पुत्त्रौ द्वौ वत्सो भार्गव एव ।अलर्को राजपुत्त्रस्तु राजा सन्नतिमान् भुवि हैहयस्यतु दायाद्यं हतवान् वै महीपतिः आजह्रे पितृदाया-द्यं दिवोदासहृतं बलात् भद्रश्रेण्यस्य पुत्त्रेण दुर्द्दमेनमहात्मना दिवोदासेन बालेति घृणया विसर्ज्जितः ।अष्टारथो नाम नृपः सुतो भीमरथस्य बै तेन पुत्त्रेषुवालेषु प्रहृतं तस्य भारत वैरस्यान्तं महाराज!क्षत्रियेण विधित्सता अलर्कः काशिराजस्तु ब्रह्मण्यःसत्यसङ्गरः षष्टिं वर्षसहस्राणि षष्टि वर्षशतानि ।तस्यासीत्सुमहद्राज्यं रूपयौवनशालिनः युवा रूपेणसम्पन्न आसीत् काशिकुलोद्वहः लोपामुद्राप्रसादेन पर-मायुरवाप सः वयसोऽन्ते महाबाहुर्हत्वा क्षेमकराक्ष-सम् रम्यां निवेशयामास पुरीं वाराणसीं नृपः” ।तत्रापि दिवोदासस्यैव तथात्वम् सर्वत्र प्रथितं सहिदेवान् पृथिव्या निष्कास्य वाराणस्यां राज्यं चकारेतिकाशीख० ४३ अ० वर्ण्णितं यथा “गतेषु देवसंघेषु पृथिव्याःपृथिवीपतिः चकार राज्यं निर्द्वन्द्वं दिवोदासः प्रताप-बान् विधाय राजधानीं वाराणस्यां सुनिश्चलाम्” ।इत्युपक्रम्य तद्राज्यं वर्ण्णितम् “दिवोदासस्य तस्यैवं काश्यांराज्यं प्रशासतः यातमेकदिनप्रायं शरदामयुताष्टकमिति”तत्र तस्य बहुकालराज्यकरणात् तथात्वम् “काशिराजंदिवोदासम्” सुश्रु० “द्वापरे तु दीर्घजिह्वासुरांश नृपभेदस्तन्नाम्ना प्रसिद्धः “दीर्घजिह्वस्तु कौरव्य! उक्तो-दानवर्षभः काशिराजः विख्यातः पृथिव्यां पृथि-वीपतिः” भा० आ० ६७ अ० तस्यासुरांशभवत्वात् विष्णुंप्रति द्वेषो यथा हरिवं०९१ अ० “कौशल्यः काशिराजश्चदशार्ण्णाधिपतिस्तथा” इत्युपक्रम्य “तमन्वयुर्जरासन्धंविद्वि-षन्तोजनार्द्दनम्” इत्युक्तम् अम्बिकादीनांपिता “विचित्रवीर्य्योऽथोवाह काशिराजसुते क्रमात् ।स्वयंवरादुपानीते ह्यम्बिकाम्बालिके उभे” भाग० ९, २२, १८ नाम्ना काशिराजत्वेऽपि काशिपतिरासीत् ।“अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरोपमाः ।शुश्राव सहिता राजन् वृण्वाना वै स्वयंवरम्” भा०आ० १०२ अ० “एवमुक्त्वा महीपालान् काशिराजञ्चवीर्य्यवान्” तत्रैवोक्तेः “धृष्टकेतुश्चेकितानः काशिराजश्चवीर्य्यवान्” गीता काशिपत्यादयोऽप्यत्र