काशः (kAzaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishकाशः [kāśḥ] शकः [śakḥ] शम् [śam], शकः शम् [काश्-अच्] A kind of grass used for mats, roofs, -शम् A flower of that grass
7.11
4.17
3.1, 2, 28. चरति पुलिनेषु हंसी काशां- शुकवासिनी सुसंहृष्टा Pratimā.1.2.
शः कास q. v.
Appearance.
Splendour. यन्माययापि विबुधा मुह्यन्ति ज्ञानकाशया 12.1.2. -कृत्स्नः of a Grammarian.
Apte 1890
EnglishApte Hindi
Hindiकाशः
- काश् - अच्
छत में या चटाइयों के बनाने के लिए प्रयुक्त होने वाला एक प्रकार का घास
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit पीनसः, प्रतिश्यायः, काशः, कफः, श्लेष्मन्
नासिकारोगविशेषः।
"तेन पीनसस्य भेषजं क्रीतम्/स्वरवर्णविशुद्धिश्च पक्वपीनसलक्षणम्"[श.क]"
काशः
एकः पुरुषः ।
"काशस्य उल्लेखः कोशे वर्तते"
शब्दकल्पद्रुमः
Sanskritकाशः, पुं (काशते दीप्यते शोभते इति यावत् ।काशृ ङ दीप्तौ + पचाद्यच् ।) तृणभेदः । केश्याइति भाषा । इति मेदिनी ॥
(यथा रघुः ४ । १७ ।“पुण्डरीकातपत्रस्तं विकसत् काशचामरः ।ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम्” ॥
)तत्पर्य्यायः ॥
इक्षुगन्धा २ पोटगलः ३ । इत्यमरः ।२ । ४ । १६२ ॥
कासः ४ । इति भरतः ॥
काशी ।५ । इति मुकुटादयः ॥
काशा ६ । इति नयना-नन्दः ॥
वायसेक्षुः ७ काण्डेक्षुः ८ अमरपुष्पकः ९ ।इति रत्नमाला ॥
काशकः १० वनहासकः ११ ।इति शब्दरत्नावली ॥
इक्ष्वारिः १२ काकेक्षुः १३इक्षुरः १४ इक्षुकाण्डः १५ शारदः १६ सित-पुष्पकः १७ नादेयः १८ दर्भपत्रः १९ लेखनः २०काण्डकाण्डकः २१ कच्छलकारकः २२ । अस्यगुणाः । शिशिरत्वम् । गौल्यत्वम् । रुचिकारित्वम् ।पित्तदाहनाशित्वम् । तृप्तिबलशुक्रकारित्वम् । श्रम-शोषकफापहत्वञ्च । इति राजनिर्घण्टः ॥
कण्ठक-ण्डूयनम् । इति शब्दरत्नावली ॥
तत्पर्य्यायगुणाः ।“काशः काकेक्षुरुद्दिष्टः स स्यादिक्षुरसस्तथा ।इक्ष्वालिकेक्षुगन्धा च तथा पोटगलः स्मृतः ॥
काशः म्यान्मधुरस्तिक्तः स्वादुपाके हिमः सरः ।मूत्रकृच्छ्राश्मदाहास्रक्षयपित्तजरोगजित्” ॥
इति भावप्रकाशः ॥
काशः, (केन जलेन कफात्मकेन अश्यते व्याप्यते-ऽत्र । क + अश + अधिकरणे घञ् ।) क्षतम् ।इति शब्दरत्नावली ॥
स्वनामख्यातरोगविशेषः ।काशी इति भाषा । इत्यमरटीकायां मरतः ॥
तत्-पर्य्यायः । क्षवथुः २ काशिका ३ । इति शब्दरत्ना-वली ॥
कासः ४ । इत्यमरः । २ । ४ । १६१ ॥
कासयतिकुत्सितशब्दं कारयति कासः । कासृङ् कुशब्देञ्यन्तात् पचाद्यन् कासो दन्त्यान्तः । कश शब्देइत्यस्मात् ञ्यन्तात् पचाद्यनि काशस्तालव्यान्तश्च ।शालूरकाशशल्लक्य इत्युष्मभेदे दन्त्यतालव्यान्तमध्येपाठात् ।“वाराणस्यां भवेत् काशी क्षवथौ ना तृणे स्त्रिंया” ।मिति तालव्यान्तेषु रभसः । इति तट्टीकायांभरतः ॥
* ॥
तस्य निदानं यथा, --धन्वन्तरिरुवाच ।“आशुकारी यतः काशः स एवातः प्रवक्ष्यते ।पञ्च काशाः स्मृता वातपित्तश्लेप्मक्षतक्षयैः ॥
क्षयायोपेक्षिताः सर्व्वे बलिनश्चोत्तरोत्तरम् ।तेषां भविष्यतां रुपं कण्ठे कण्डूररोचकः ॥
शूककर्णास्यकण्ठत्वं तत्राधो विहितोऽनिलः ।ऊर्द्ध्वं प्रवृत्तः प्राप्योरस्तस्मिन् कण्ठे च संसृजन् ॥
शिरः श्रोतांसि संपूर्य्य ततोऽङ्गान्युत्क्षिपन्ति च ।क्षिपन्निवाक्षिणी पृष्ठमुरः पार्श्वेच पीडयन् ॥
प्रवर्त्तते स वक्त्रेण भिन्नकांस्योपमध्वनिः ।हृत्पार्श्वोरःशिरःशूलमोहक्षोभस्वरक्षयान् ॥
करोति शुष्ककाशञ्च महावेगरुजा स्वनम् ।सोऽङ्गहर्षी कफं शुष्कं कृच्छ्रान्मुक्तोऽल्पतां व्रजेत् ॥
पित्तात्तु पीताक्षिकता तिक्तास्यत्वं ज्वरो भ्रमः ।पित्तासृग्वमनं तृष्णा वैस्वर्य्यं धूमको मदः ॥
प्रततं काशवेगे च ज्योतिषामिव दर्शनम् ।कफादुरोऽल्परुङ्मूर्द्धहृदयं स्तिमितं गुरु ॥
कण्ठे प्रलेपदमनं पीनसच्छर्द्द्यरोचकः ।रोमहर्षघनस्निग्धश्लेष्मणश्च प्रवर्द्धनम् ॥
युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम् ।उरस्यन्तःक्षितो वायुः पित्ते चानुगतो बली ॥
कुपितः कुरुते काशं कफं तेन सशोणितम् ।पीतश्यावञ्च शुष्कञ्च ग्रथितं क्वणितं बहु ॥
ष्ठीवेत् कण्ठेन रुजता विभिन्नेनैव चोरसा ।सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना ॥
पर्व्वभेदज्वरश्वासतृष्णावैस्वर्य्यकम्पवान् ।पारावत इवोत्कूजन् पार्श्वशूली ततोऽस्य चकफाद्यैर्वमनं पक्तिर्बलं वर्णश्च हीयते ।क्षीणस्य सासृङ्मूत्रत्व श्याबपृष्ठकटीग्रहः ॥
वायप्रधानाः कुपिता धातवो राजयक्ष्मणः ।कुर्व्वन्ति यक्ष्मायतनैः काशं ष्ठीवेत् कफं ततः ॥
पूतिपूयोपमं पीतं विस्रं हरितलोहितम् ।लुष्यते तुद्यत इव हृदयं पचतीव च ॥
अकस्मादुष्णं शीतेच्छा बह्वाशित्वं बलक्षयः ।स्निग्धप्रसन्नवक्त्रत्वं श्रीमद्दर्शननेत्रता ॥
ततोऽस्य क्षयरूपाणि सर्व्वाण्याविर्भवन्ति च ।इत्थेवं क्षयजः काशः क्षीणानां देहनाशनः ॥
याप्यो वा बलिनां तद्वत् क्षतजोऽपि नवौ च तौ ।सिथ्येतामपि सामर्थ्यात् साध्यादौ च पृथक्क्रमः ॥
मिश्रायाप्याशु ये सर्व्वे जरसः स्थविरस्य च ।काशश्वासक्षयच्छर्द्दिस्वरसादादयो गदाः ॥
भवन्त्युपेक्षया यस्मात् तस्मात्तं त्वरया जयेत् ।इति गारुडे काशरोगनिदानं १५४ अध्यायः ॥
* ॥
अथ काशस्य चिकित्सा ।तत्र वातकाशस्य चिकित्सा ॥
“वास्तूको वायसीशाकं मूलकं सुनिषण्णकम् ।स्नेहास्तैलादयो भक्ष्याः क्षीरेक्षुरसगौडिकाः ॥
दध्यारणालाम्लफलं प्रसन्नापानमेव च ।शस्यते वातकाशेषु स्वाद्वम्ललवणानि च ॥
वायसी काकमाची कवई इति लोके । सुनिषण्णकंसिनुयारि इति लोके शाकविशेषः । चाङ्गेरी-सदृशचतुष्पत्रा सजलदेशे भवति । चौपति इतिलोके ॥
“ग्राग्यानूपोदकैः शालियवगोधूमषष्टिकान् ।रसैर्म्माषात्मगुप्तानां यूषैर्व्वा भोजयेद्धितान्” ॥
ग्राम्यानूपोदकैः रसैरित्यन्वयः । आत्मगुप्ता कि-वाच्छ इति लोके ॥
“दशमूलीकृता काशश्वासहिक्कारुजापहा ।यवागूर्दीपनी वृष्या वातरोगविनाशिनी ॥
रसः कर्क्कटकानां वा घृतभृष्टः स नागरः ।वातकाशप्रशमनः शृङ्गिमत्स्यस्य वा पुनः” ॥
* ॥
अथ पित्तकाशस्य चिकित्सा ।“कण्टकारीयुगद्राक्षावासाकर्चूरवालकैः ।नागरेण च पिप्पल्या क्वथितं सलिलं पिबेत् ॥
शर्करामधुसंयुक्तं पित्तकाशहरं परम्” ॥
* ॥
अथ कफकाशस्य चिकित्सा ।“पिप्पली कट्फलं शुण्ठी शृङ्गी भार्गी तथोषणम् ।कारवी कण्टकारी च सिन्धुवारो यवानिका ॥
चित्रको वासकश्चैषां कषायं विधिवत् कृतम् ।कफकाशविनाशाय पिबेत् कृष्णारजोयुतम्” ॥
पिप्पल्यादिक्वाथः ॥
* ॥
अथ क्षतजकाशस्य चिकित्सा ।“इक्ष्विक्षुरालिकापद्ममृणालोत्पलचन्दनम् ।मधुकं पिप्पली द्राक्षा लाक्षा शृङ्गी शतावरी ॥
द्विगुणा च तुगाक्षीरी सिता सर्व्वचतुर्गुणा ।लिह्यात्तन्मधुसर्पिर्भ्यां क्षतकाशनिवृत्तये” ॥
इक्षुरालिका इक्षुभेदः । चन्द्र इति लोके । पद्मंपद्मकाष्ठम् । मृणालं विशम् । उत्पलं कमलम् ।चन्दनमत्र धवलम् चूर्णत्वात् । शृङ्गी कर्कट-शृङ्गी । तुगाक्षीरी वंशलोचना । सा चेक्षोर्द्वि-गुणा ॥
* ॥
अथ क्षयकाशचिकित्सा । “चूर्णं काकु-भमिष्टं वासकरसभावितं बहून् वारान् । मधु-घृतसितोपलाभिर्लेह्यं क्षयकाशरक्तपित्तहरम्” ॥
काकुभं चूर्णं ककुभत्वक्चूर्णम् ॥
* ॥
अथ काशस्य सामान्यतश्चिकित्सा ।“ताम्यमानस्य काशेन नासास्रावे स्वरे जडे ।क्षवथौ गन्धनाशे च धूमपानं प्रयोजयेत् ॥
मनःशिलालमरिचं मांसीमुस्तेङ्गुदैः पिबेत् ।धूमं त्र्यहं च तस्यानु पयश्च सगुडं पिबेत् ॥
एष काशान् पृथक् द्वन्द्वसर्व्वदोषसमुद्भवान् ।शतैरपि प्रयोगाणामसाध्यान् साधयेत् ध्रुवम्” ॥
आलं हरितालम् ॥
इङ्गुदमिह पुत्त्रजीवकफलम् ॥
“बदरीदलमालिप्तं शिलाया घर्म्मशोषितम् ।तद्धूमपानं सक्षीरं महाकाशनिवारणम् ॥
कण्टकारिकृतक्वाथः सकृष्णः सर्व्वकाशहा ।कण्टकार्य्याः कणायाश्च चूर्णं समधु काशहृत् ॥
लवङ्गजातीफलपिप्पलीनांभागान् प्रकल्प्याक्षसमानमीषाम् ।पलार्द्धमानं मरिचं प्रदेयंप्रलानि चत्वारि महौषधस्य ॥
सितासमस्तेन समाप्य चूर्णंरोगानिमानाशु बलान्निहन्ति ।काशज्वरारोचकमेहगुल्म-श्वासाग्निमान्द्यग्रहणीविकारान्” ॥
समशर्करचूर्णं वटिका वा ॥
“कुनटीसैन्धवव्योषविडङ्गामयहिङ्गुभिः ।लेहः साज्यमधुः काशश्वासहिक्कानिवारणः” ॥
* ॥
“हरीतकीकणा शुण्ठी मरिचं गुडसंयुतम् ।काशघ्नो मोदकः प्रोक्तः परं वह्नेः प्रदीपनः” ॥
* ॥
“कर्षः कर्षाशौ पलं पलद्वयं स्यात्ततोऽर्द्धकर्षश्च ।मरिचस्य पिप्पलीनां दाडिमगुडयावशूकानाम्” ॥
सर्व्वौषधैरसाध्याः काशा ये वैद्यनिर्म्मुक्ताः ।अपि यूयं छर्द्दयतां तेषामिदमौषधम्” ॥
पथ्यम् ॥
वङ्गसेनस्तु कर्षांश इति पाठे कर्षांशःकर्षार्द्धमिति व्याचष्टे ॥
“मरिचं कर्षमात्रं स्यात् पिप्पली कर्षसंमिता ।अर्द्धकर्षो यवक्षारः कर्षयुग्मञ्च दाडिमम् ॥
एतच्चूर्णीकृतं युञ्ज्यादष्टकर्षगुडेन हि ।शाणप्रमाणं गुटिकां कृत्वा वक्त्रे विधारयेत् ॥
अस्याः प्रभावात् सर्व्वेऽपि कासा यान्त्येव संक्षयम्” ॥
दाडिमं दाडिमफलवल्कलं ग्राह्यम् । मरिचादि-वटिका ॥
* ॥
“समूलवल्कच्छदकण्टकार्य्या-स्तुलां ततो द्रोणमितं जलञ्च ।हरीतकीनां शतमेकपात्रेविपच्य कुर्य्याच्चरणाम्बुशेषम् ॥
तस्मिन् कषाये तनुवस्त्रपूतेहरीतकीभिः सहितो गुडस्य ।तुलां विनिःक्षिप्य पचेत् सुपक्व-मेतत् समुत्तार्य्य सुर्शीतले च ॥
पलं पलञ्चापि कटुत्रयञ्चतथा चतुर्जातपलं विचूर्ण्य ।पलानि षट् पुष्परसस्य चापिविनिःक्षिपेत्तत्र विमिश्रयेच्च ॥
प्रयुज्यमानो विधिनष लेहोयथाबलञ्चापि यथानलञ्च ।वातात्मकं पित्तकृतं कफोत्थंद्विदोषजातानपि च त्रिदोषम् ॥
क्षतोद्भवञ्च क्षयजञ्च काशंश्वासञ्च हन्यात् सह पीनसेन ।यक्ष्माणमेकादशमुग्ररूपंहरीतकीयं भृगणोपदिष्टा” ॥
पुष्परसो मधु । चतुर्जातं त्वगेलापत्रनागकेशराः ।भृगुहरीतकी ॥
* ॥
“कण्टकारीतुलां नीरद्रीणे पक्त्वा कषायकम् ।पादशेषं गृहीत्वा च तत्र चूर्णानि दापयेत् ॥
पृथक् पलांशान्येतानि गुडूचीचव्यचित्रकाः ।मुस्तं कर्कटशृङ्गी च त्र्युषणं धन्वयासकः ॥
भार्गी रास्ना सटी चैव शर्करा पलविंशतिः ।प्रत्येकञ्च पलान्यष्टौ प्रदद्यात् घृततैलयोः ॥
पक्त्वा लेहत्वमानीय शीते मधुपलाष्टकम् ।चतुष्पलं तुगाक्षीर्य्याः पिप्पलीञ्च चतुष्पलाम् ॥
क्षिप्त्वा निदध्यात् सुदृढे मृण्मये भाजने शुभे ।लेहोऽयं हन्ति हिक्कार्त्तिकासश्वासानशेषतः” ॥
कण्टकार्य्यावलेहः । इति कासाधिकारः । इतिभावप्रकाशः ॥
* ॥
अपि च ।“हरीतकीकणा शुण्ठी मरिचं गुडसंयुतम् ।काशघ्नो मोदकः प्रोक्तस्तृष्णारोचकनाशनः ॥
कण्टकारीगुडूचीभ्यां पृथक् त्रिंशत्पलाद्रसे ।प्रस्थसिद्धो घृताद्वातकाशनुद्दह्निदीपनः” ॥
इति गारुडे १७४ अध्यायः ॥
“मनःशिला बलापूलं काकपर्णञ्च गुग्गुलुम् ।जातिपत्रं कोलिपत्रं तथा चैव मनःशिला ॥
एभिश्चैव कृता वर्त्तिर्बदराग्नौ महेश्वर ! ।धूमपानं काशहरं नात्र कार्य्या विचारणा” ॥
इति च गारुडे १९४ अध्यायः ॥
“कतकस्य फलं शङ्खं सैन्धवं त्र्युषणं वचा ।फेनोरसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला ।एषां वर्त्तिर्हन्ति काशं तिमिरं पटलं यथा” ॥
इति तत्रैव १९८ अध्यायः ॥
“अभयामलकं द्राक्षा पिप्पली कण्टकारिका ।शृङ्गं पुनर्नवा शुण्ठी जग्धा काशं निहन्ति वै” ॥
इति च तत्रैव १९९ अध्यायः ॥
कृदन्तरूपमाला
Sanskrit1 {@“कश गतिशासनयोः”@} 2 ‘कसि’ ‘कस’ इत्यनयोः पाठान्तरम्।
काशकः-शिका, काशकः-शिका, चिकशिषकः-षिका, 3 चाकशकः-शिका
कशिता-त्री, काशयिता-त्री, चिकशिषिता-त्री, चाकशिता-त्री
-- काशयन्-न्ती, काशयिष्यन्-न्ती-ती
-- 4 कशानः, काशयमानः, चिकशिषमाणः, चाकश्यमानः
कशिष्यमाणः, काशयिष्यमाणः, चिकशिषिष्यमाणः, चाकशिष्यमाणः
5 कट्-कड्-कशौ-कशः
-- -- कशितम्-तः, काशितः-तम्, चिकशिषितः, चाकशितः-तवान्
कशः, 6 कशा, प्रतिष्कशः, 7 काशः, चिकशिषुः, चिकाशयिषुः, चाकशः
कशितव्यम्, काशयितव्यम्, चिकशिषितव्यम्, चाकशितव्यम्
8 कशनीयम्, प्रनिकाशनीयम्, चिकशिषणीयम्, चाकशनीयम्
काश्यम्, काश्यम्, चिकशिष्यम्, चाकश्यम्
9 ईषत्कशः-दुष्कशः-सुकशः
-- -- कश्यमानः, काश्यमानः, चिकशिष्यमाणः, चाकश्यमानः
काशः, काशः, चिकशिषः, चाकशः
कशितुम्, काशयितुम्, चिकशिषितुम्, चाकशितुम्
कष्टिः, काशना, चिकशिषा, चिकाशयिषा, चाकशा
कशनम्, काशनम्, चिकशिषणम्, चाकशनम्
कशित्वा, काशयित्वा, चिकशिषित्वा, चाकशित्वा
प्रकश्य, प्रकाश्य, प्रचिकशिष्य, प्रचाकश्य
काशम् २, कशित्वा २, काशम् २, काशयित्वा २, चिकशिषम् २, चिकशिषित्वा २, चाकशम् २
चाकशित्वा २।
01 (१७८)
02 (२-अदादिः-१०२४। अक। सेट्। आत्म।)
03 [[२। ‘दीर्घोऽकितः’ (७-४-८३) इति अभ्यासे दीर्घः।]]
04 [[३। ‘अदिप्रभृतिभ्यः शपः’ (२-४-७२) इति शपो लुक्।]]
05 [[४। ‘व्रश्चभ्रस्ज--’ (८-२-३६) इति षत्वम्। जश्त्वम्।]]
06 [[५। पचाद्यचि टाप्।]]
07 [[६। ‘प्रतिष्कशश्च कशेः’ (६-१-१५२) इति पचाद्यचि सुट्। षत्वं च। वार्ता- पुरुषः सहायः पुरोयायी वा प्रतिष्कश इत्युच्यते। ‘प्राममद्य प्रवेक्ष्यामि भव- मेत्वं प्रतिष्कशः।’ इति काशिका।]]
08 [[आ। ‘स्वीयैश्चकंसे कशनीयकासी रमोष्ठनिंसी नतचितनिञ्जी।।’ धा। का। २-४५।]]
09 [पृष्ठम्०१७४+ २९]
1 {@“काशृ दीप्तौ”@} 2 ‘--काशेर्दीप्तौ काश्येत काशते।’ 3 इति देवः।
काशकः-शिका, 4 काशिका 5, प्रकाशकः-शिका, चिकाशिषकः-षिका, चाकाशकः-शिका
काशिता-त्री, काशयिता-त्री, चिकाशिषिता-त्री, चाकाशिता-त्री
-- काशयन्-न्ती, काशयिष्यन्-न्ती-ती
-- काशमानः, काशयमानः, चिकाशिषमाणः, चाकाश्यमानः
काशिष्यमाणः, काशयिष्यमाणः, चिकाशिषिष्यमाणः, चाकाशिष्यमाणः
6 काट्-काङ्-काशौ-काशः
-- -- काशितम्-तः, काशितः-तम्, चिकाशिषितः, चाकाशितः-तवान्
काशः- 7 काशी, प्रकाशी, 8 नीकाशः 9, वीकाशः, अनूकाशः, 10 जितकाशी
11 प्रकाशनः, काशः, चिकाशिषुः, चिकाशयिषुः, चाकाशः
काशितव्यम्, काशयितव्यम्, चिकाशिषितव्यम्, चाकाशितव्यम्
काशनीयम्, 12 प्रनिकाशनीयम्, चिकाशिषणीयम्, चाकाशनीयम्
प्रकाश्यम्, काश्यम्, चिकाशिष्यम्, चाकाश्यम्
ईषत्काशः-दुष्काशः-सुकाशः
-- -- 13 काश्यमानः, काश्यमानः, चिकाशिष्यमाणः, चाकाश्यमानः
प्रकाशः, काशः, चिकाशिषः, चाकाशः
काशितुम्, काशयितुम्, चिकाशिषितुम्, चाकाशितुम्
काशा, काशना, चिकाशिषा, चिकाशयिषा, चाकाशा
14 प्रकाशनम्, काशनम्, चिकाशिषणम्, चाकाशनम्
काशित्वा, काशयित्वा, चिकाशिषित्वा, चाकाशित्वा
प्रकाश्य, संकाश्य, प्रचिकाशिष्य, प्रचाकाश्य
काशम् २, काशित्वा २, काशम् २, काशयित्वा २, चिकाशिषम् २, चिकाशिषित्वा २, चाकाशम् २
चाकाशित्वा २।
01 (१८६)
02 (१-भ्वादिः-६४७। अक। सेट्। आत्म।)
03 (श्लो। १६५)
04 [[आ। ‘मनोनिवृत्तिः परमोपशान्तिः सा तीर्थवर्या मणिकर्णिका वै। ज्ञानप्रवाहा विमला हि गङ्गा सा काशिकाऽहं निजबोधरूपः।।’ इति पारिभाषिककाशिकायाः लक्षणमुक्तं शङ्कराचार्येण।’ इति शब्दकल्पद्रुमे।]]
05 [[१। ‘संज्ञायाम्’ (३-३-१०९) इति भावे ण्वुल्। ण्वुलन्तात् टाप्। अत इत्त्वम्। काशिका = वामन-जयादित्यकृता पाणिनिसूत्रवृत्तिः। काश्यां विरचनाद्वा काशिका।]]
06 [[२। ‘व्रश्चभ्रस्ज--’ (८-२-३६) इति षत्वम्। जश्त्वचर्त्वे।]]
07 [[३। काशते इति काशी। पचाद्यजन्तात् गौरादि (४-१-४१) पाठात् ङीष्।]]
08 [[४। ‘इकः काशे’ (६-३-१२३) इति उपसर्गस्य दीर्घः।]]
09 [[B। ‘तापिञ्छनीकाशरुचि प्रतीचि स्ववैरिमर्माविधि पुंसि रागात्।’ वा। वि। ३-२१।]]
10 [[५। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति णिनिः। जितेन = जयेन काशते इति जितकाशी = जययुक्तः।]]
11 [[६। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छीलिको युच्।]]
12 [[७। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति णत्वं न
\n\n ‘अकखादा’ वित्युक्तेः।]]
13 [पृष्ठम्०१८२+ २५]
14 [[आ। ‘द्राहितः शुभपथप्रकाशने सस्वजेऽथ तमनूह्यवैभवः।’ धा। का। १-८२।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
