| YouTube Channel

काव्यं (kAvyaM)

 
शब्दकल्पद्रुमः
Sanskrit
काव्यं,
क्ली,
(कवेरिदं कर्म्म भावो वा ष्यञ् ।) ग्रन्थः ।इति मेदिनी
रसयुक्तवाक्यम् यथा, --“वाक्यं रसात्मकं काव्यं दोषास्तस्यापकर्षकाः ।उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयः”
एषां प्रत्येकं लक्षणानि लिख्यन्ते तत्रादौ वाक्य-लक्षणं यथा, --“वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः”
रसलक्षणं यथा, --“विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा ।रसतामेति रत्यादिः स्थायी भावः सचेतसाम्”
दोषलक्षणं यथा, --रसापकर्षका दोषास्ते पुनः पञ्चधा मताः ।पदे तदंशे वाक्यार्थे सम्भवन्ति रसेऽपि यत्”
गुणलक्षणं यथा, --“रसस्याङ्गित्वमाप्तस्य धर्म्माः शौर्य्यादयो यथा ।गुणा माधुर्य्यमोजोऽथ प्रसाद इति ते त्रिधा”
अलङ्कारलक्षणं यथा, --“शब्दार्थयोरस्थिरा ये धर्स्माः शोभातिशायिनः
रसादीनुपकुर्व्वन्तोऽलङ्कारास्तेऽङ्गदादिवत्”
रीतिलक्षणं यथा, --“पदमंधटनारीतिरङ्गसंस्थाविशेषवत् ।उपकर्त्री रसादीनां सा पुनः स्याच्चतुर्व्विधा ।वैदर्मी चाथ गौडी पाञ्चाली लाटिका तथा”
इति माहित्यदर्पणम्
*
तत् काव्यं त्रिविधंध्वनिगुणीभूतव्यङ्ग्यचित्रमेदेन तत्राद्यास्य लक्षणम् ।“इदमुत्तममतिशयिनि व्यङ्ग्य वाच्यात् ध्वनिर्बुधैःकथितः” हितीयस्य लक्षणम् ।“अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु सध्यकम्”
तृतीयस्य लक्षणम् ।“शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्” ।इति काव्यप्रकाशः
“एतेषां विवरणानि तत्तच्छब्दे द्रष्टव्यानि”