| YouTube Channel

कालीयकं (kAlIyakaM)

 
शब्दकल्पद्रुमः
Sanskrit
कालीयकं,
क्ली,
(कालीय + स्वार्थे कन् कालीयमिवकायति वा कै + कः ।) कालिया इति ख्यातंपीतवर्णसुगन्धिकाष्ठम् इत्यमरटीकासारसुन्दरी
(यथा, महाभारते ५१ १० ।“चन्दनागुरुकाष्ठानां भारान् कालीयकस्य ।चर्म्मरत्नमुवर्णानां गन्धानाञ्चैव राशयः”
)तत्पर्य्यायः जायकं कालानुसार्य्यं इत्यमरः ।२ १२६
जावकम् इति टीकासर्व्वस्वम्
कालेयम् वर्णकम् कान्तिदायकम् इतिभरतधृतव्याडिः
राजनिर्घण्टोक्तगुणपर्य्यायौ पी-तचन्दनशब्दे द्रष्टव्यौ
कृष्णचन्दनम् तत्पर्य्यायः ।कालीयम् कालिकम् हरिप्रियम् इतिशन्दचन्द्रिका
दारुहरिद्रा इति राजनिर्घण्टः
(अस्य व्यवहारो यत्र तद्यथा, “सालसाराज-कर्णस्वदिरकदरकालस्कन्धक्रमुकभूर्जमेष शृङ्गीतिनिशचन्दनकुचन्दनशिंशपा शिरीषासनधवार्ज्जु-नतालशाकनक्तमालपूतीकाश्वकर्णागुरूणि काली-यकञ्चेति”
इति सुश्रुते सूत्रस्थाने ३८च्यध्यायः
)