कालियह्नद (kAliyahnada)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritकालियह्नद ६ त० । कालियनागाधिष्ठिते वृन्दावनस्थयमुनान्तर्गते ह्रदभेदे कालियदमनशब्दे विवृतिः ।तस्य कालियस्य तप्रदाश्रयणकथाभाग० १०, १७ अ० यथा“नागालयं रमणकं कथं तत्याज कालियः । कृतं वा किंसुपर्णस्य तेनैकेनासमञ्जसम् । वादरायणिरुवा च । उप-हार्य्यः सर्पजनैर्म्मासिमासीह योबलिः । वानस्पत्यो म-हावाहो । नागानां प्राङ्निरूपितः । स्वं स्वं भागं प्रय-च्छन्ति नागाः पर्वणि पर्वणि । गोपीथायात्मनः सर्व्वेसुपर्ण्णाय महात्मने । विषवीर्य्यमदाविष्टः काद्रवेयस्तु का-लियः । कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम् । तत्श्रुत्वा कुपितोराजन्! भगवान् भगवत्प्रियः । विजिघांसु-र्म्महावेगः कालियं समुपाद्रवत् । तमापतन्तं तरसा विषा-युधः प्रत्यभ्ययादुत्थितनैकमस्तकः! दद्भिः सुपर्णं व्यदशद्द-शायुधः करालजिह्वोच्छ्वसितोग्रलोचनः । तं तार्क्षपुत्रः सनिरस्य मन्युमान् प्रचण्डवेगोमधुसूदनासनम् । पक्षेणसव्येन हिरण्यरोचिषा जघान कद्राः सुतमुग्रविक्रमः ।सुपर्णपक्षाभिहतः कालियोऽतीवविह्वलः । ह्रदं विवेश का-लिन्द्यास्तदगम्यं दुरासदम् । तत्रैकदा जलचरं गरुडोभ-क्ष्यमीप्सितम् । निवारितः सौभरिणा प्रसह्य क्षुधितोऽ-हरत् । मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ-हृते । कृपया सौभरिः प्राह तत्रत्यक्षेममाचरन् ।अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति । सद्यःप्राणैर्वियुज्येत सत्यमेतद्ब्रवीम्यहम् । तत् कालियःपरं वेद नान्यः कश्चन लेलिहः । अवात्सीद्गरुडाद्भीतःकृष्णेन च विवासितः” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
