| YouTube Channel

कालिन्दीकर्षणः (kAlindIkarSaNaH)

 
शब्दकल्पद्रुमः
Sanskrit
कालिन्दीकर्षणः,
पुं,
(कालिन्दीं कर्षति यः कृष् +कर्त्तरि ल्युः कालिन्द्याः कर्षणो वा ।) बलदेवः ।इति हलायुधः
(कालिन्दीसङ्कर्षणकथा हरिवंशे १०२ अध्यायेउक्ता तद्यथा, --“रामस्तु यमुनामाह स्नातुमिच्छे महानदि ! ।एहि मामभिगच्छस्व रूपिणी सागरङ्गमे
सङ्कर्षणस्य मत्तोक्तां भारतीं परिभूय सा ।नाभ्यवर्त्तत तं देशं स्त्रीस्वभावेन मोहिता
ततश्चुक्रोध बलवान् रामो मदसमीरितः ।चकार हलं हस्ते कर्षणधोमुखं बली
तस्यामुपरि मेदिन्यां पेतुस्तामरसस्रजः ।मुमुचुः पुष्पकोषैश्च पुष्परेण्वरुणं जलम्
हलेनानताग्रेण कुले गृह्य महानदीम् ।चकर्ष यमुना रामो व्युत्थितां वनितामिव
सा विह्वलजलस्रोता ह्रदप्रस्थितसञ्चया ।व्यावर्त्तत नदी भीता हलमार्गानुसारिणी
लाङ्गलादिष्टमार्गा सा वेगगा वक्रगामिणी ।सङ्कर्षणभयत्रस्ता योषेवाकुलतां गता
पुलिनश्रोणिविम्बोष्ठी मृदितैस्तोयताडितैः ।फेनमेखलसूत्रैश्च वेगगाम्बुदगामिनी
तरङ्गविषभापीडा चक्रवाकोन्मुखस्तनी ।वेगगम्भीरवक्राङ्गी त्रस्तमीनविभूषणा
सितहंसेक्षणापाङ्गी काशक्षौमोच्छ्रिताम्बरा ।तीरजोद्धूतकेशान्ता जलस्खलितगामिनी
लाङ्गलोल्लिखितापाङ्गी क्षुभिता सागरङ्गमा ।मत्तेव कुटिला नारी राजमार्गेण गच्छती
कृष्यते सा स्म वेगेन स्रोतःस्खलितगामिनी ।उन्मार्गा नीतमार्गा सा येन वृन्दावनं वनम्
वृन्दावनस्य मध्येन सा नीता यमुना नदी ।रोरूयमाणेव खगैरन्विता तोयवासिभिः
सा यदा समभिक्रान्ता नदी वृन्दावनं वनम् ।तदा स्त्रीरूपिणी भूत्वा यमुना राममब्रवीत्
प्रसीद नाथ ! भीतास्मि प्रतिलोमेन कर्म्मणा ।विपरीतमिदं रूपं तोयञ्च मम जायते
असत्यहं नदीमध्ये रौहिणेय ! त्वया कृता ।कर्षणेन महाबाहो स्वमार्गव्यभिचारिणी
प्राप्तां मां सागरे नूनं सपत्न्यो वेगगर्व्विताः ।फेनहासैर्हसिष्यन्ति तोयव्यावृत्तगामिनीम्
प्रसादं कुरु मे वीर ! याचे त्वां कृष्णपूर्व्वज ! ।सुप्रसन्नमना नित्यं भव त्वं सुरसत्तम !
कर्षणायुधकृष्टास्मि रोषोऽयं विनिवर्त्त्यताम्
गच्छामि चरणौ मूर्द्ध्ना तवैषा लाङ्गलायुघ ! ।मार्गमादिष्टमिच्छामि क्व गच्छामि महाभुज !”
)