कालिन्दीकर्षण (kAlindIkarSaNa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
Englishकालिन्दीकर्षण - kAlindIkarSaNa - - diverting the yamunA stream
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams Cologne
EnglishShabdartha Kaustubha
Kannadaकालिन्दीकर्षण
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಬಲರಾಮ
निष्पत्तिः - > कृष (विलेखने) - "ल्युः" (३-१-१३४)
व्युत्पत्तिः - > कर्षति । कालिन्द्याः कर्षणः ।
अभिधानरत्नमाला
Sanskritबलदेव
बलदेव, बलभद्र, मुशलिन्, नीलाम्बर, प्रलम्बघ्न, सीरिन्, सात्वत, तालध्वज, एककुण्डल, अनन्त, सङ्कर्षण, रौहिणेय, कालिन्दीकर्षण, बल, रेवतीरमण, राम, कामपाल, हलायुध
बलदेवो बलभद्रो मुशली नीलाम्बरः प्रलम्बघ्नः ।
सीरी च सात्वतः स्यात्तालध्वज एककुण्डलोऽनन्तः ॥ २८ ॥
सङ्कर्षणो रौहिणेयः कालिन्दीकर्षणो बलः ।
रेवतीरमणो रामः कामपालो हलायुधः ॥ २९ ॥
verse 1.1.1.28
page 0004
शब्दकल्पद्रुमः
Sanskritकालिन्दीकर्षणः, (कालिन्दीं कर्षति यः । कृष् +कर्त्तरि ल्युः । कालिन्द्याः कर्षणो वा ।) बलदेवः ।इति हलायुधः ॥
(कालिन्दीसङ्कर्षणकथा हरिवंशे १०२ अध्यायेउक्ता । तद्यथा, --“रामस्तु यमुनामाह स्नातुमिच्छे महानदि ! ।एहि मामभिगच्छस्व रूपिणी सागरङ्गमे ॥
सङ्कर्षणस्य मत्तोक्तां भारतीं परिभूय सा ।नाभ्यवर्त्तत तं देशं स्त्रीस्वभावेन मोहिता ॥
ततश्चुक्रोध बलवान् रामो मदसमीरितः ।चकार स हलं हस्ते कर्षणधोमुखं बली ॥
तस्यामुपरि मेदिन्यां पेतुस्तामरसस्रजः ।मुमुचुः पुष्पकोषैश्च पुष्परेण्वरुणं जलम् ॥
स हलेनानताग्रेण कुले गृह्य महानदीम् ।चकर्ष यमुना रामो व्युत्थितां वनितामिव ॥
सा विह्वलजलस्रोता ह्रदप्रस्थितसञ्चया ।व्यावर्त्तत नदी भीता हलमार्गानुसारिणी ॥
लाङ्गलादिष्टमार्गा सा वेगगा वक्रगामिणी ।सङ्कर्षणभयत्रस्ता योषेवाकुलतां गता ॥
पुलिनश्रोणिविम्बोष्ठी मृदितैस्तोयताडितैः ।फेनमेखलसूत्रैश्च वेगगाम्बुदगामिनी ॥
तरङ्गविषभापीडा चक्रवाकोन्मुखस्तनी ।वेगगम्भीरवक्राङ्गी त्रस्तमीनविभूषणा ॥
सितहंसेक्षणापाङ्गी काशक्षौमोच्छ्रिताम्बरा ।तीरजोद्धूतकेशान्ता जलस्खलितगामिनी ॥
लाङ्गलोल्लिखितापाङ्गी क्षुभिता सागरङ्गमा ।मत्तेव कुटिला नारी राजमार्गेण गच्छती ॥
कृष्यते सा स्म वेगेन स्रोतःस्खलितगामिनी ।उन्मार्गा नीतमार्गा सा येन वृन्दावनं वनम् ॥
वृन्दावनस्य मध्येन सा नीता यमुना नदी ।रोरूयमाणेव खगैरन्विता तोयवासिभिः ॥
सा यदा समभिक्रान्ता नदी वृन्दावनं वनम् ।तदा स्त्रीरूपिणी भूत्वा यमुना राममब्रवीत् ॥
प्रसीद नाथ ! भीतास्मि प्रतिलोमेन कर्म्मणा ।विपरीतमिदं रूपं तोयञ्च मम जायते ॥
असत्यहं नदीमध्ये रौहिणेय ! त्वया कृता ।कर्षणेन महाबाहो स्वमार्गव्यभिचारिणी ॥
प्राप्तां मां सागरे नूनं सपत्न्यो वेगगर्व्विताः ।फेनहासैर्हसिष्यन्ति तोयव्यावृत्तगामिनीम् ॥
प्रसादं कुरु मे वीर ! याचे त्वां कृष्णपूर्व्वज ! ।सुप्रसन्नमना नित्यं भव त्वं सुरसत्तम ! ॥
कर्षणायुधकृष्टास्मि रोषोऽयं विनिवर्त्त्यताम् ॥
गच्छामि चरणौ मूर्द्ध्ना तवैषा लाङ्गलायुघ ! ।मार्गमादिष्टमिच्छामि क्व गच्छामि महाभुज !” ॥
)
वाचस्पत्यम्
Sanskritकालिन्दीकर्षण कालिन्दीं यमुनां कर्षति कृष--ल्यु ६ त० ।बलदेवे तत्कर्षणकथा च हरि०११२ अ० यथा“स मत्तो बलिनां श्रेष्ठो रराजाघूर्णिताननः । शैशिरीषुत्रियामासु यथा स्वेदालयः शशी । रामस्तु यमुनामाहस्नातुमिच्छे महानदि! । एहि मामभिगच्छ त्वं रूपिणीसागराङ्गने । सङ्कर्पणस्य मत्प्रोक्तां भारतीं परिभूय सा ।नाभ्यवर्त्तत तं देशं स्त्रीस्वभावेन मोहिता । ततश्चुक्रोधहलभृद्रामो मदसमीरितः । चकार स हलं हस्ते कर्ष-णाधोमुखं बली । तस्यामुपरि मेदिन्यां पेतुस्तामरसस्रजः ।मुमुचुः पुष्पकोषैश्च पुष्परेण्वरुणं जलम् । स हलेना-नताग्रेण कूले गृह्य महानदीम् । चकर्ष यमुनां रामोव्युत्थितां वनितामिव । सा विह्वलजलस्रोता ह्रदप्रस्थि-तसञ्चया । व्यावर्त्तत नदी भीता हलमार्गोनुसारिणी ।लाङ्गलादिष्टमार्गा सा वेगगा वक्रगामिणी । सङ्कर्षण-भयत्रस्ता योषेवाकुलताङ्गता । पुलिनश्रोणिविम्बोष्ठीमृदितैस्तोयताडितैः । फेनमेखलसूत्रैश्च च्छिन्नैस्तीरा-न्तगामिनी । तरङ्गविषमापीडा चक्रवाकोन्मुखस्तनी ।वेगगन्भीरवक्राङ्गी त्रस्तमीनविभूषणा । सितहंसेक्षणा-पाङ्गी काशक्षौमोञ्झिताम्बरा । तीरजोद्धृतकेशाताजलस्खलितगामिनी । लाङ्गलोल्लिखितापाङ्गी क्षुभितासागराङ्गना । मत्तेव कुटिलापाङ्गी राजमार्गेण गच्छ-ति । कृष्यते सा स्म वेगेन स्रोतस्खलितगामिनी ।उन्मार्गानीतमार्गा सा येन वृन्दावनं वनम् । वृन्दावनस्यमध्येन सा नीता यमुना नदी । रोरूयमाणेव खरै-रन्विता तोयवासिभिः । सा यदा समनुक्रान्ता नदीवृन्दावनं वनम् । तदा स्त्रीरूपिणी भूत्वा यमुना रामम-ब्रवीत् । प्रसीद नाथ! भीताऽस्मि प्रतिलोमेन कर्म्मणा ।विपरीतमिदं रूपं तोयञ्च मम जायते । असत्यहं न-दीमध्ये रौहिणेय! त्वया कृता । कर्षणेन महाबाहो!स्वमार्गव्यभिचारिणी । प्राप्तां मां सागरे नूनं सपत्न्योवेगगर्व्विताः । फेनहासैर्हसिष्यन्ति तोयव्यावृत्तगामि-नीम् । प्रसादं कुरु मे वीर! याचे त्वां कृष्णपूर्बज! ।सुप्रसन्नमना नित्यं भवस्व त्वं सुरोत्तम! । कर्षणायुध-कृष्टाऽस्मि रोषोऽयं विनिवर्त्त्यताम् । गच्छामि चरणौमूर्द्ध्ना तवाहं लाङ्गलायुध! । मार्गमादिष्टमिच्छामि क्वगच्छामि महाभुज!” । “प्रणामावनतां दृष्ट्वा यमुनां ला-ङ्गलायुधः । प्रत्युवाचार्णवबधूं मदक्लान्तमिदं वचः ।लाङ्गलादिष्टमार्गा त्वमिमं मे प्रियदर्शने! । देशमम्बुप्र-दानेन प्लावयस्वास्विलं शुभे! । एष ते सुभ्रु! सन्देशः कथितःसागराङ्गने! । शान्तिं व्रज महाभाये! गम्यताञ्च यथा-सुखम् । लोका हि यावत् स्थास्यन्ति तावत् तिष्ठतु मेयशः । यमुनाकर्षणं दृष्ट्वा सर्व्वे ते व्रजवासिनः” ।कालिर्न्दी भिनत्ति भिद--ल्यु ६ त० । कालिन्दीभेदनो-ऽप्यत्र अमरः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
