| YouTube Channel

कालिङ्गं (kAliGgaM)

 
शब्दकल्पद्रुमः
Sanskrit
कालिङ्गं,
क्ली,
(केन जलेन आलिङ्ग्यतेऽसौ +लिगि + कर्म्मणि घञ् ।) फलविशेषः तरमुज्इति ख्यातम् तत्पर्य्यायः कालिन्दकम् कृष्ण-वीजम् फलवर्त्तुलम् अस्य गुणाः शीतल-त्वम् ग्राहित्वम् स्वादुपाकरसत्वम् गुरुत्वम् ।विष्टम्भित्वम् स्यन्दित्वम् दृक्शुक्रपित्तनाशि-त्वम् कफवातकारित्वञ्च पक्वस्य तस्य गुणाः ।पित्तंवृद्धिकारित्वम् उष्णत्वम् क्षारत्वम् कफ-वातनाशित्वञ्च तत्पत्रगुणौ रुधिरस्थापनत्वम् ।तिक्तत्वञ्च इति पथ्यापथ्यविवेकः