कालिकाव्रतं (kAlikAvrataM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritकालिकाव्रतं, (कालिकायाः प्रीतये यद्व्रतं वि-हितनियमादिकम् ।) अमावास्यायां स्त्राकर्त्तव्य-व्रतविशेषः । यथा, --युधिंष्ठिर उवाच ।“कालिकाव्रतमाहात्म्यं वद वेदविदाम्बर ! ।किमेतस्य फलं देव को वा तद्विधिरेव च ॥
कस्माद्व्रतमिदं भूतं मर्त्ये केन प्रकाशितम् ।त्वत्तस्तत् श्रोतुमिच्छामि तत्सर्व्वं ब्रूहि केशव !” ॥
श्रीकृष्ण उवाच ।“पुरा मविष्यशास्त्रेषु यदुक्तं धर्म्मसंहितम् ।तत्सर्व्वं शृणु राजेन्द्र ! कालिकाव्रतमुत्तमम् ॥
स्वर्गे पुरन्दरश्चासीत्तस्यैव राजसद्मनि ।यद्वृत्तान्तमभूत्तत्र तच्छृणुष्व युधिष्ठिर ! ॥
सभायां संस्थितो राजा नृत्यासक्तो हि नित्यशः ।दिनैकस्य च वृत्तान्तं श्रुत्वा हृष्टो बभूव सः ॥
अत्यामोदं समभ्येत्य पुष्पवृष्टिरमुत्तदा ।पुरन्दरः स्वयं प्राप्य पारिजातं गृहीतवान् ॥
घ्रात्वा राज्ञा तदा पुष्पं प्रदत्तं तद्द्विजातये ।लज्जितो ब्राह्मणः सोऽपि मानहीनोऽभवत्तदा ॥
क्रोधेन महताविष्टः शप्तुं कामसमन्वितः ।क्षणं विमृष्य चेन्द्राय शापो दत्तः सुदारुणः ॥
व्याधालयेषु मार्ज्जारो द्वादशाब्दं भविष्यसि ।तेन कर्म्मविपाकेन मदयुक्तो विचेतनः ॥
प्राप्तमार्ज्जारदेहोऽसौ राजा विपिनमास्थितः ।पत्नी तस्य च तत्रासीत् पत्युः सर्व्वाधिकारिणी ॥
ततो व्याधगृहे राजा मार्ज्जारीभूय तिष्ठति ।ततः पुरन्दरपुरं राजशून्यमभूत्तदा ॥
शची तु चिन्तायामास अन्नपानं विहाय सा ।उपवासं समाचर्य्य मासमेकन्तु तिष्ठति ॥
ततो देवगणाः सर्व्वे चिन्तया व्याकुलेन्द्रियाः ।गत्वा तु राजभवनं व्याकुलां तां विलोक्य च ॥
विमृष्य चामराः सर्व्वे शच्यै वाक्यमुदाहरन् ।शचि ! त्वं राजजायासि कथमेतत् करोषि च ॥
मासमेकमनाहारं कृत्वा तिष्ठसि सुव्रते ! ।किं वा त्वदीप्सितं देवि ! सत्येन वद पण्डिते ॥
तच्छ्रुत्वा तु तदा देवी कृताञ्जलिरभाषत ।यूयमेव जगन्नाथाः सृष्टिस्थित्थन्तकारकाः ॥
क्व गतो मम भर्त्ता च तन्न जानामि कत्थताम् ।परिचिन्त्यामराः सर्व्व ध्यानमास्थाय संस्थिताः ॥
मार्ज्जाररूपमास्थाय स्थीयते चान्त्यजाश्रमे ।तच्छ्रुत्वा राजपत्नी च वेपमाना मुहुर्मुहुः ॥
उवाच कुशलं प्रश्नं राजार्थं किं करोम्यहम् ।पत्युर्यथा विमोक्षः स्यात् तत् कुरुध्वं सुधाशनाः ॥
प्रत्यूचुश्चामराः सर्व्वे याहि त्वं दिजसन्निधिम् ।संभाव्य मधुरं प्रश्नं द्विजसेवां समाचर ।द्विजगेहं समागत्य द्विजसेवापराऽभवत् ॥
स तस्याः प्रियकार्य्येण सन्तुष्टो द्विजसत्तमः ।हिंसाद्रोहविमुक्तश्च बलिहोमपरायणः ।शान्तो दान्तः क्षमायुक्तः सदा मधुरभाषितः ॥
सर्व्वप्राणिहितार्थी च लोभमोहविवर्ज्जितः ।जितेन्द्रियो जितक्रोधो वृद्धोऽसौ ब्राह्मणोत्तमः ॥
राजपत्न्याः सुसेवाभिः प्रीतोऽसौ द्विजसत्तमः ।प्रत्युवाच स तां प्रीत्या शचि ! त्वं चातिदुर्ल्लभे ।किं वा त्वदीप्सितं देवि ! सत्येन वद पण्डिते” ॥
शच्युवाच ।“पापं यज्ज्ञानतो भर्त्रा समस्तं कर्म्मणा कृतम्तत् क्षमस्व महाभाग ! रक्षस्व सुरपालकम् ॥
वासवस्तव शापेन मार्ज्जारत्वमुपागतः ।इन्द्रो व्याधगृहे देव ! विद्यते हि न संशयः ।पुरन्दरस्य शापान्तः केनोपायेन सिध्यति” ॥
ब्राह्मण उवाच ।“शचि ! त्वं पतिभक्तासि मद्वाक्यमवधारय ।पतिव्रते ! महाभागे ! कालिकाव्रतमाचर ॥
दारुणं यत् कृतं तेन व्रतेनैव विमुच्यते ।कोपात् शापो मया दत्तो तन्मोक्षं कुरु सुव्रते !” ॥
शच्युवाच ।“विधानं ब्रूहि मे ब्रह्मन् कालिकाया व्रतस्य च ।तदा तव प्रसादेन करोमि तद्व्रतं द्विज !” ॥
ब्राह्मण उवाच ।“अश्वत्थतरुमूलेऽस्ति वटको नाम हिंसकः ।तस्यैव भवनं गच्छ शापान्मोक्षं च कारय ॥
पत्नी सुभद्रा तस्यास्ति पतिशुश्रूषणे रता ।तस्याः कुलव्रतं कर्म्म तत्परा भव शोभने ।ततश्च प्राङ्मखीभूय गता सा तस्य मन्दिरम् ॥
दृष्ट्वा व्याधः शचीं देवीं प्रत्युवाच सुभद्रिकाम् ।आयान्तीयं शची देवी तस्याः सम्भाषणं कुरु ॥
इति तस्य वचः श्रुत्वा सुभद्रा हृष्टमानसा ।तस्याः सम्भाषणर्थन्तु सुभद्रा चागता वहिः ।ताञ्च दृष्ट्वा शचीं देवीं सार्घ्यपाद्यादिकं ददौ ॥
शचि ! त्वं राजभार्य्यासि कस्मादागमनं तव ।किं कार्य्यं कथय त्वं हि इत्युवाच शचीं प्रति ॥
प्रत्युवाच शची तान्तु भर्ता मे सुरपालकः ।स च ब्राह्माणशापेन मार्ज्जारश्चाभवद्द्रुतम् ॥
क्व गतः प्राणआथोऽसाविति चिन्तापरानिशम् ।ज्ञात्वा केनाप्युपायेन प्राप्ता च भवतीगृहम् ॥
इत्युक्ता राजपत्न्या च दृष्टो मार्ज्जारकस्तदा ।सा ज्ञात्वा तं प्रियं शक्रं चिन्तां प्राप्ता दुरत्ययाम् ॥
दृष्ट्वा मार्ज्जारतां प्राप्तं विललापाकुलेन्द्रिया ।विलपन्तीं शचीं दृष्ट्वा सुभद्रा प्रत्युवाच ताम् ॥
पतिव्रते महाभागे ! त्वमेव राजगेहिनी ।त्वं दुःखेन विलिप्तासि सन्देहो नास्ति तत्र वै ॥
किल तस्याप्युपायोऽस्ति कालिकाव्रतमाचर ।अतिप्रत्थक्षरूपा सा अस्माकं कुलदेवता ॥
कालिका सा महादेवी शुभसन्ततिदायिनी ।व्रतस्यास्य प्रभावेण साकल्यमुपजायते” ॥
शच्युवाच ।“विधानं चास्य मे ब्रूहि कालिकाया व्रतस्य च ।ममोपदिश्यतामेव तद्व्रतञ्च करोभ्यहम् ॥
शुद्धकाले समारभ्य कृष्णपक्षे चतुर्द्दशीम् ॥
संकल्प्य विधिना पूर्व्वममावास्यां व्रतं चरेत् ।समारभ्य गुणैकेन द्विगुणं परिशोधयेत् ॥
न रात्रौ भोजनं कार्य्यं वामहस्ते भुजिक्रिया ।सिद्धमन्नं रात्रिकाले दग्धमीनञ्च सर्व्वदा ॥
वर्ज्जयेत् पिष्टकं किञ्चित् रक्तशाकस्य चाम्लकम् ।द्विषट्कां विप्रजायाञ्च सधवां भोजयेत्ततः ॥
एवं क्रमेण कृत्वा तु कतिकालं नयेद्व्रतम् ।ततः शुद्धदिने प्राप्ते भौमाहे मन्दवासरे ॥
यथाशक्त्युपचारैश्च पूजां कुर्य्याद्विधानतः ।तथापराह्णकाले तु सन्ध्योपसमये तथा ॥
रात्रौ तु कदलीकाण्डे गृहं निर्म्माय प्राङ्गणे ।तस्य मध्ये समारोप्य कालिकां पूजयेत् सदा ॥
पाद्यार्घ्याचमनीयैश्च गन्धपुष्पादिभिस्तथा ।धूपैर्दिव्यप्रदीपैश्च नैवेद्यैर्विविधैस्तथा ॥
पिष्टकं चैव सिद्धान्नं व्यञ्जनं दग्धमीनकम् ।निवेद्य सकलं देव्यै बलिं दत्त्वा प्रणम्य च ॥
तदन्नं व्यञ्जनं सर्व्वं नैवेद्यादिबलिं तथा ।महारण्ये प्रदातव्यं कृत्वैतत् व्रतमुत्तमम् ॥
वैणवे कदलीमूले या कुर्य्यात् कालिकाव्रतम् ।कार्य्यसिद्धिर्भवेत् तस्या भविता गतिरुत्तमा ॥
एतद्व्रतविधानन्तु कृत्वा सिद्धिर्भविष्यति ।एतद्व्रतमिदं भद्रे कुरु गत्वा निजालयम् ॥
तस्यास्तद्वचनं श्रुत्वा सा शची हर्षमानसा ।गृहमागत्य सा तस्या वार्षिकं व्रतमाचरत् ॥
गन्धपुष्पैर्धूपदीपैर्नैवेद्यैरुत्तमैस्तथा ।कृत्वा चाश्ममयीं देवीं पूजयेत् भक्तिसंयुता ॥
नानासुगन्धिपुष्पाणि दिव्यरत्नाद्यलङ्कृतम् ।सिद्धान्नं पायसञ्चैव शर्करान्वितपिष्टकम् ॥
अमृतायुतहावञ्च दीयते च प्रयत्नतः ।लुलापच्छागमेषादिबलिं दत्त्वा प्रभूतकम् ॥
नानावाद्यो द्यमैर्गीतैः प्रणिपत्य पुनः पुनः ।कृताञ्जलिपुटा स्तोत्रं भक्तिनम्रा चकार सा ॥
तुष्टा प्राह महाकाली वरं वृणु शुभानने ! ।तत् श्रुत्वा राजपत्नी सा बभाषे च मुदान्विता ॥
मत्प्रभुराखुभुक् भूतस्तन्मोक्षं कुरु चेश्वरि ! ।वरं दत्त्वा हैमवती बभूवान्तर्हिता नृप ! ॥
द्वादशाब्दाच्च तत्शापान्मोचितो वत्सरे तदा ।मार्ज्जाररूपं सन्त्यज्य स गतोऽन्तेऽमरावतीम् ॥
पुष्पवृष्टिश्च दुन्दुभ्या वाद्यं देवगणैः कृतम् ।कालिकायाः प्रसादेन गतः शक्रो निजालयम् ॥
अनेनैव विधानेन या कुर्य्यात् कालिकाव्रतम् ।सत्वरं कार्य्यसिद्धिः स्यात्तस्या अत्र न संशयः” ॥
इति भविष्यपुराणे कालिकाव्रतकथा समाप्ता ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
