| YouTube Channel

कालिकापुराण (kAlikApurANa)

 
Spoken Sanskrit
English
कालिकापुराण kAlikApurANa
n.
purANa of kAlikA
कालिकेय kAlikeya
adj.
relating to kAlikA
आकालिकातीरम् AkAlikAtIram
ind.
as far as the bank of the kAlikA river
Monier Williams Cologne
English
कालिका—पुराण
n.
‘the Purāṇa of Kālikā (i.e. of Durgā)’,
N.
of an Upa-purāṇa.
Aufrecht Catalogus Catalogorum
English
कालिकापुराण or कालीपुराण or चण्डीपुराण Jones 406.
Mack. 49. IO. 1515. W. p. 127. Oxf. 78. Paris
(B 2. 3). L. 149. 370. K. 22. Kh. 64. B. 2, 4.
Ben. 56. Bik. 200. Tüb. 13. Kāṭm. 2. Pheh 4.
Oudh V, 2. VIII, 4. Burnell 187^b. D 2.
कालिकापुराण Ulwar 773.
Kālikāpurāṇe Mahāmāyākalpakavaca. Ulwar 2280.
कालिकापुराण AK 118. AS p. 41 (3 MSS.). BC 388.
CS 4, 13. 14. IO. 919. 952. 1515. 2563 (fr.). 2943.
Tb. 50. 51.
Kālikāpurāṇe Trailokyamohanakavaca. Lz. 1290, 8.
--Malamāsamāhātmya. AK 212.
कालिकापुराण different from the preceding. IO. 2488.
वाचस्पत्यम्
Sanskrit
कालिकापुराण
न०
कालिकाया माहात्म्यादिप्रतिपादकंपुराणम् उपपुराणभेदे उपपुराणशब्दे पृ० तस्य तथात्व-मुक्तं तत्प्रतिपाद्यविषयाश्च१ अ० ब्रह्मणोनारदादिक्रमेण तत्पुराणवंशवर्ण्णनम् ।ऋषिप्रश्ने मार्कण्डेयोक्तिः प्रजासृष्टिः--व्रह्ममनसःसन्ध्यासृष्टिः कन्दर्पसृष्टिः तस्य ब्रह्मणा स्त्रीपुरषयोर्मेल-नाय निदेशः अ० तस्य मन्मथनामादिनिरुक्तिः तस्यहर्षणरोचनद्रावणशोषणमारणाख्यपञ्चवाणोक्तिः सन्ध्यां-दृष्ट्वा ब्रह्मणो मनोविकारः सन्ध्यादर्शनेन जातसात्विक-पर्म्मात् अग्निष्वात्तादीनामुत्पत्तिः तां दृष्ट्वा विकारा-न्वितदक्षधर्म्मतः रतिनामककन्योत्पत्तिः ।३ अ० ब्रह्मणः कामदेवशापः रत्याः कामेन विवाहः ।४ अ० शिवमोहनाय ब्रह्मणा कामस्य नियोगः शिवमोह-नाय ब्रह्मणा विष्णुमायायाः स्तुतिः दक्षकन्यासतीत्वेनतस्याः प्रादुभावप्रार्थनः दक्षेण महामायायाः स्तुतिः अ०विष्णुमायाया दक्षाय वरदानम् त० शम्भोर्दारग्रह-णाय ब्रह्मणा कामस्य नियोजनम् तेन सह मारादिगणस्य प्रेरणम् अ० कामेन हरमोहनप्रकारोक्तिः ।८ अ० दक्षकृतमहामायास्तवः सतीजन्मतत्पालन प्रकारःतन्नामनिरुक्तिः नारदेन सत्या हररूपवर-प्राप्त्युक्तिः अ० सतीकृतशिवव्रतम् ब्रह्मणः शिवसमीपेदारग्रहणप्रार्थनम् तदङ्गीकारे तत्परिणययोग्यतयादक्षकन्यायाः कथनम् १० अ० सत्या नन्दीव्रतसमाप्तौशिवेन तस्यै स्वस्य भार्य्याभवनरूपवरदानम् दक्षसमीपेस्वेन सतीविवाहार्थं शिवेन ब्रह्मणःप्रेरणम् ब्रह्मणो-दक्षं प्रति तयाप्रार्थने तेन तदङ्गीकारः सती-विवाहार्थं ब्रह्मादिभिः सह शिवस्य दक्षपुरगतिः ।११ अ० विवाहकाले सतीरूपं दृष्ट्वा ब्रह्मणोमनोविकारः ।ततः संवर्त्तादिमेवादीनामुत्पत्तिः ततोदक्षवाक्येन ब्र-ह्माणं प्रति शिवस्य कोपः विष्णुना सान्त्वनम् १२ अ०ऋषिप्रश्ने ब्रह्मविष्णुशिवानामभेदोक्तिः १३ अ० शिवायविष्णुना ब्रह्माण्डसंस्थानस्य दर्शनम् तथा रूपदर्श-नेन तेषामेकत्वोक्त्या ब्रह्माणं प्रति तस्य कोपनिंवृत्तिः ।१४ अ० शिवसतीविहारवर्णनम् १६ अ० दक्षयज्ञप्रारम्भः तत्रशिवसतीनिमन्त्रणाभावे सत्याः पितरं प्रति कोपः तत्रदक्षकोपेन सत्या देहत्यागः १७ तेन क्रुद्धशिवेन वीर-भद्रं सृष्ट्वा तं प्रति दक्षयक्षनाशनायादेशः तेन तद्यज्ञस्य-नाशनम् सतीविरहे शिवविलापः १८ अ० शिवस्य सती-विरहवर्ण्णनम् शिवरोदनाम्बुनो भूमौ पतने तन्नाशा-शङ्कया देवानां शनिं प्रति तच्छोषणप्रार्थने तेन तस्या-ङ्गीकारः तद्वाष्पेण वैतरणीनदीप्रादुर्भावः सतीमृत-देहग्रहणपूर्व्वकं शिवस्यभ्रमणम् शनिना सतीशवदेहा-वयवानां क्रमशःखण्डने अङ्ग भेदेन तत्तत्स्थानानां पीठत्व-प्राप्तिः क्रमशः सर्व्वसतीदेहपतते शिवस्य लिङ्गत्वप्राप्तिः ।ब्रह्मणा तस्य सान्त्वनम् १९ चन्द्रभागान्तिके शिप्रसरःशिप्रानदीसमुतपत्तिः चन्द्रभागानद्युत्पत्तिः चन्द्रभागानामनिरुक्तिः सप्तविंशतौ अश्विन्यादिषु स्त्रीषु रोहि-ण्यामिन्दोरत्यनुरागे अश्विन्यादीनां चन्द्रेण विवादः तत्र२ १० १२ १६ २१ २६ भरण्यादिभिर्नवभिश्चन्द्रस्यभर्त्सने कृते चन्द्रस्य ताः प्रति यात्रायां वर्ज्जनीयता-रूपशापदानम् सर्व्वासांदक्षसमीपे गतिः ताभिः चन्द्रदौ-रात्म्यस्यकथने दक्षेण चन्द्रं प्रति सर्व्वासुतुल्यवर्त्तनोपदेशे-ऽपि चन्द्रेण तथानाचरणे दक्षेण राजयक्ष्माणं गदमुत्-पाद्यचन्द्राभिभवाय तस्य नियोगः तस्य प्रवेशेन चन्द्रस्यक्षयः चन्द्रक्षये ओषधीनामपुष्टौ यज्ञाभावात् वृष्ट्यभावेनप्रजाक्षयोक्तिः २१ तदालोक्य दक्षसमीपे देवानांगमने तदुपदेशेन राजयक्ष्मणा गीर्णकलानां ज्योत्-स्नादीनाञ्च निष्कासनम् बृहल्लोहितानदीस्नानात् चन्द्र-यक्ष्ममीक्षः राजयक्ष्मस्थितिस्थानकथनम् तत्पत्नी-कथनम् दक्षवाक्यानुसारेण चन्द्रमसो मासार्द्धंह्रासवृद्धिप्रकारकथनम् सूर्य्यविम्बेन चन्द्रबृद्धिकथनम् ।शिवेन चन्द्रस्यैककलाधारणं ततएव ज्योत् स्नायाः क्षीणचन्द्रे प्रवेशेन चन्द्रबृद्धिकथनम् सीतानदीप्रादुर्भावः ।चन्द्रभागानामप्राप्तिसमर्थनम् निर्विर्ण्णां सन्ध्यां प्रति विष्णू-पासनार्थं वसिष्ठोपदेशः सन्ध्यां प्रति विष्णोः प्रसादे तयातस्य स्तुतिः तस्यै तेन वरस्य दानम् विष्णोरुपदेशा-न्मेधातिथियज्ञाग्नौ तस्या देहत्यागः तच्छरीरस्य विष्णोरा-ज्ञया सूर्य्यमण्डले नयनम् सूर्य्येण तस्य त्रिधाकरणेनसन्ध्यात्रयकल्पनम् मेधातिथियज्ञाग्नः अरुन्धतीसमुत्थानंतन्नामनिरुक्तिः २३ अ० चन्द्रभागानदीमाहात्म्यम् अरु-न्धत्या वसिष्ठेन सह विवाहः २४ अ० ब्रह्मादिभिः शिव-वैकल्यवारणार्थं योगनिद्रायाः स्तुतिः विष्णुना शिवस्यसान्त्वनम् निमेषादिपरार्द्धपर्य्यन्तकालमानोक्तिः मन्वन्त-रोक्तिः प्रलयप्रकारः सृष्टिप्रकारः २५ अ० सृष्टेर्विवृतिः ।ब्रह्माण्डादिसंस्थानम् २६ अ० वराहकल्पे प्रतिसर्गः २७ अ०यज्ञवराहेण पृथ्वीधारणप्रकारः २८ अ० जगतोनिःसारत्वोक्त्या तत्त्वज्ञानेन मोक्षोपदेशः २९ शिवगणानामुत्पत्त्यादि ३० यज्ञवराहस्य धरारूपया वाराह्यासह क्रीडनेन तदनुरागात् तद्देहत्यागेऽनिच्छा तद्देह-त्यागार्थं देवैर्विष्णोः स्त्रवः वराहदेहनाशार्थं शिवस्यशरभमूर्त्तिधारणम् तेन तस्य युद्धे पृथिव्या नष्टप्रायताशङ्कयारोहितमत्स्यरूपेण विष्णोराविर्भावः तेन पृथिवीवेद-मुन्यादीनां धारणम् शिवेन नानाविधगणानां सृष्टिः ।वराहमूर्त्तेः शरभेण सह युद्धे तस्यांशतोनरनारायणयोरुत्-पत्तिः शिवेन वराहस्य बधः शिवगणानां स्वरूपगुणादि ।३१ अ० मृतवराहदेहावयवेभ्यो ज्योतिष्टोमादियज्ञकल्प-नम् वराहपुत्रत्रयस्य त्रेताग्निरूपेणोत्पत्तिः ३२ अ०स्वायम्भुवमनुं प्रति कपिलशापः मनोर्बिष्णूपासनम् ।तत्समीपे विष्णोर्मत्स्यरूपेणागत्य वासस्थानप्रार्थनं, क्षुद्रपात्रादिवृहत्सरोवरपर्य्यन्ते क्रमशो वर्द्धमानस्यमत्स्यदेहस्याधारत्वाभावोक्तिः ३३ अ० मनुनाऽद्भुतदर्शनेनतं प्रति तस्य स्वरूपज्ञानाय प्रश्नेतस्मैतेन आत्मस्वरूपस्यकथनम् कपिलवाक्यानुसारेणाचिरेण भाविखण्डप्रलयापद्वारणार्थं मत्स्येन वृहन्नौकानिर्म्माणस्य तत्रवीजसञ्च-यस्थापनस्योपदेशः स्वशृङ्गेण तन्नौकायाः समाकर्षणंकर्त्तव्यमित्युक्तिः प्रलयान्ते जगतां शेषरूपेण धार्य्यतोक्तिः ।३४ अ० कूर्म्मरूपेण वराहशरभयुद्धेन नष्टप्रायायाभूमेःसमीकरणम् नरनारायणाभ्यां तपसा सूर्य्यादिस्थिति-करणम् पूर्व्वसञ्चितवीजैः मनुना पुनः शस्यप्रवर्द्धनम् ।३५ अ० शिवस्य पूर्व्वगृहीतशरभमूर्त्तित्यागकाले अष्टाभिःपादैः सूर्य्याद्यष्टमूर्त्तिग्रहणम् तेन तस्याष्टमूर्त्तिनामता ।शारभकायात् कपालिभैरवप्रादुर्भावः तद्यजनप्रकारः ।३६ अ० रजस्वलायाः पृथिवीरूपवराहपत्न्याः वराहेणसङ्गमात् नरकासुरोत्पत्तिः ३७ अ० जनकनृपात् सीता-द्युत्पत्तिः धरोपदेशेन जनकेन नरकस्य प्रतिपाल-नादि ३८ अ० तस्य प्राग्ज्योतिषदेशे राज्यकरणम्तद्देशसीमादि ३९ अ० द्वापरयुगे उत्पन्नवाणासुरसं-सर्गात् नरकस्यात्याचारः नीलकूटे स्थितदेवीदर्शनार्थमागतवसिष्ठदर्शननिवृत्तये नरकेण तद्देवीद्वाराच्छादाने कृतेतंप्रति “येन जनितस्त्वं मानुषरूपेण तेनैव तव बधो भविष्य-तीति, वसिष्ठस्य शापदानम् ४० अ० तस्य भगदत्तादिपुत्रो-त्पत्तिः वसिष्ठशापानुसारेण कृष्णेन द्वापरयुगे नरकस्यबधः ४१ अ० मेनकायाः मैनकादिपुत्रशतस्य कालीनामककन्यायाश्चोत्पत्तिः नारदेन तस्याः शिवविवाहयोग्यत्वस्यतद्देहाईहरत्वस्य हिमाचलसमीपे कथनम् ४२ अ०शिप्रसरस्त्यागेन हिमवत्प्रस्थे शिवगतिः शिवशुश्रूषार्थंहिमाद्रिणा स्वसुताकालीनियोजनम् देवानां तारकासुर-पीडनकथा तद्बधाय देवप्रार्थि तब्रह्मणा शिवस्य पार्व-तीसङ्गप्ताच्च्युत तेजोजात् कुमारात् तस्य बधो भविष्यती-त्युक्तौ तया सह शिवस्य मेलनार्थं शक्रेण कामस्य प्रेषणेकृते तेन कालीसन्निधाने हरस्य मनसोविकारे जनितेशिवेन ललाटनोत्रोत्थापितेन वह्निना तस्य दाहः तद्भस्म-धारणञ्च हरनेत्रोत्थिताग्नेः वाडवाग्निरूपेण सिन्धुप्रवे-शः ४३ त० नारदोपदेशेन काल्याः शिवाराधनार्थं पित्रोः समीपेबनगमनप्रार्थना तस्याउमानामप्राप्तिकारणोक्तिः तदांराधने-न तुष्टस्य हरस्य ब्रह्मचारिवेशेन तदन्तिके आगतस्य तत्सखींप्रति कालीतपस्याप्रयोजनप्रश्नः तच्छ्रुत्वा ब्रह्मचारिणाहरस्य निन्दनेन अन्यपतिवरणीयतोपदेशः तच्छ्रवणे तंप्रति क्रोधात् काल्या शिवस्वरूपादेः कथनम् शिवस्यनिन्दाश्रवणापराधमार्ज्जनाय काल्या तस्य स्तुतिः, अन्यत्रगमनोद्योगश्च स्वरूपग्रहणेन शिवेन तस्याः निवारणम्वरदानञ्च ४४ अ० काल्या शिवं प्रति कन्यायाः पितृदेयत्वोक्त्यापितृसमीपे प्रार्थनकर्त्तव्यतोक्तिः काल्यास्तपःफललाभे स्वगृहगतिः शिवेन सारुन्धतीकसप्तर्षीणां तत्कृत्ये नियो-जनम् तैर्हिमाचलं प्रति काल्याः शिवेन विवाहदानार्थ-प्रार्थना तेन तथाङ्गीकारे शिवेन कालीविवाहः भिन्ना-ञ्जननिभायाः काल्याः गौराङ्गात्वप्राप्तिकथा ४५ अ० अर्द्ध-नारीश्वरमूर्त्तिप्रादुर्भावः तन्मूर्त्तिवर्ण्णनम् अ० ४६ काली-शिवयोर्महामैथुनानिवृत्तौ देवप्रार्थितेन हरेण अनले तेज-सौत्सर्गः तदुत्सर्गकालेऽणुद्वयस्य हिमप्रस्थे पतनात्ततोभृङ्गिमहाकालभैरवयोरुत्पत्तिः देवैर्महामैथुन-विघ्ने कृते कुपितया काल्या देवानां स्वस्वभार्य्यासु अप-त्याभावरूपशापदानम् हरोपदेशेन कालीज्येष्ठाभगिन्यांगङ्गायां वह्निना हरोत्सृष्टतेजोनिषेकः गङ्गयास्कन्द-विशाखयोर्द्वयोः पुत्रयोःप्रसवः ततस्तयोरेकत्वोक्तिः जात-मात्रस्य तस्य शरवणे तया त्यागः कृत्तिकाभिः स्तनदानेनतस्य पोषणम् ततः काल्यै तत्पुत्रदानम् मैथुनात् निवृ-त्तया गलितवस्त्रया पूर्वं द्वारिनियुक्त योर्भृङ्गिमहाकालयोःस्वपुत्रयोर्दर्शनेन लज्जितया काल्या तयोर्मर्त्यजन्मप्राप्तिरूपेशापे दत्ते निरागोभ्यां ताभ्यामपि शिवाशिवयोर्मानुष्यप्राप्तिशापस्य दानम् पौष्यपुत्रत्वेन चन्द्रशेखरनाम्ना शिवजन्म ।४८ अ० काल्याः ककुत्स्थभार्य्यायां जन्म तस्यास्ताराव-तीति नाम पौष्यतारावत्योर्विवाहः ४९ अ० तारा-वत्यां कामुकस्य कापोतमुनेर्वञ्चनाथं चित्राङ्गदानामस्वभगिन्याः स्ववेशेन प्रेरणे तेन तस्यां सुतद्वयस्योत्पाद-नम् चित्राङ्गदोत्पत्तिकथा ।५० अ० पश्चात् तस्याः खवञ्चनं ज्ञात्वा क्रुद्धकापोतमु-निनां कपालिना ते पुत्रौ जनयिष्येते इति तारावतींप्रति शापे दत्ते तदनुसारेण कपालिवेशधारिणा शिवेनतारावतीदेहे कालीं प्रवेश्य तया सह सङ्गम्य वेताल-भैरवयोरुत्पादनकथा नारदात् श्रुतवृत्तान्तेन चन्द्रशे-खरनृपेण तयोः ज्येष्ठस्य भैरवेति कनिष्ठस्य वेतालेतिनामकरणम् तयोःपूर्व्वतः उपरिचरः दमनः अलर्कइति त्रयः पुत्रास्तारावत्यां चन्द्रशेखरस्य बभूवुः ५१ अ०चन्द्रशेखरस्य औरसपुत्रेष्विव शिवपुत्रयोर्वेतालभैरवयोःस्नेहा भावेन तयोर्निर्वेदः कापोतमुनेरुपदेशात् तयोःशिवाराधनाय प्रवृत्तयोस्तदाराधनस्थानप्रश्ने कापोतेनतदुपासनास्थानकथनम् तत्रादौ वाराणस्याः मुख्यत्वमुक्त्वाअन्यानि कामरूपादीनि तीर्थानि तत्स्थानत्वेन कथितानिशिवोपासनाप्रकारः तदुपदेशानुसारेण ताभ्यां स्वजनकस्यशिवस्याराधनम् ताभ्यां तथाचरणे शिवेन तद्देहेनगाणपत्यपदलाभवरदानम् ५२ अ० कालीपूजनायै शिवेनतयोर्नियोगः ५३, ५४, ५५, ५६, ५७, अ० कालीपूजातत्पूजास्थानविशेषोक्तिः ५८ अ० कामाख्यादेः विशेषफलोक्तिः ।५९ अ० तस्याअङ्गमन्त्रादि महिषमर्द्दिनीध्यानपूजादि ।तस्याः पूजाविधिः महिषासुरबृत्तान्तकथनन्! ६० अ० देव्याःसमीपे हननकाले महिषासुरवरप्रार्थना महिषस्य पूर्व्व-सृष्टौ उग्रचण्डामूर्त्त्या, पश्चात् कालीमूर्त्त्या, एतत्कल्पेदुर्गामूर्त्त्या विनाशनोक्तिः शिववरात् रम्भासुरात्महिष्यां महिषासुरोत्पत्तिः पित्राराधितशिववरेण तस्यै-श्वर्य्यप्राप्तिः ६१ अ० अष्टादशमुजीग्रचण्डायाः प्रादुर्भावः ।तस्या एव उग्रतारारूपत्वम् तस्याध्यानपूजापीठशक्त्यादि ।कौशिकीप्रादुर्भावः तद्रूपमन्त्रादि शिवदूतीप्रादुर्भावःतद्रूपमन्त्रपूजादि ६२ अ० कामाख्यानामनिरुक्तिः मधु-कैटभोत्पत्तितन्नामनिरुक्ती विष्णुना तयोर्बधप्रकारः ।तन्मेदसोलेपनेन पृथिव्यादृढताकरणात्मेदिनीति नामप्राप्तिः कामाख्यातीर्थोत्पत्तिः नीलादिपर्वतोत्पत्तिःशिलारूपेण ब्रह्मादीनां तत्र स्थितिः तत्रत्यकालकुण्डादिनानातीर्थकथनम् ६३ अ० कामाख्यामन्त्रपूजाविधिः ।तत्र जयन्त्याद्येकादशमुर्त्तिपूजा--उग्रचण्डादिनवशक्तिपूजा-विधा त्रिपुराध्यानपूजाप्रकारः ६४ अ० कामेश्वरीमू-र्त्तिध्यानपूजाविधा ६५ अ० शारदीयापूजाविशेषविधिः ६६अ० कामाख्याङ्गन्यासादिविधा ६७ अ० वलिच्छदनप्रकारनि-रूपणम् देव्यै दत्तवलेस्तद्गणत्वप्राप्तिः काणव्यङ्गादीनांबलिदाने निषेधः ६८ अ० षोडशोपचाराः तत्रासनादिषुवर्ज्ज्यावर्ज्ये गन्धपुष्पादौविशेषः ७० अ० नेवद्यद्रव्यादि ।७१ अ० प्रदक्षिणप्रणामप्रकारः ७२ अ० कामाख्याकवचम् ।७३ अ० मातृकान्यासबिधा ७४ अ० अष्टधा योनिमुद्रास्वरूपा-णि तद्दर्शनफलञ्च मन्त्ररहस्यम् तथ्यन्त्रधारणविधा ।बालात्रिपुरासन्त्ररूपपूजाविधा त्रिपुरभैरव्याः पूजादि ।७५ अ० त्रिपुरभैरव्याः पुरश्चरणहोमादिविधा ७६ अ०मन्त्रशोधनप्रकारः तत्र सिद्धसाध्यादिचक्रवर्ण्णचक्रादि-कथनम् एवं शिवोपदेशं प्राप्तयोवेतालभैरवयोर्वसिष्ठोप-देशेन कामाख्यातीर्यगतिस्तत्र पुरश्चरणादिसमाप्तौदेव्याः प्रसादे तयोर्मानुषत्वत्यागेन देवत्वप्राप्तिः! शिवाशिवयोः सेवकत्वप्राप्तिश्च ७७ अ० कामरूपस्थनन्दिकुण्डाद-नानातीर्थमाहात्म्यम् तत्रत्यजटोदकानदीनामनिरुक्तिः ।नवतोयानदीनामनिरुक्तिः” अगदनदमाहात्म्यादि जल्पी-शनामनिरुक्तिमाहात्म्यादि ७८ अ० तत्रत्यबहुरोकानदीमाहात्म्यादि कृत्तिवासगिरिचन्द्रिकानदीफेनिला-स्वमदनानदीमाहात्म्यादि भद्रानदीसुभद्रानदीमानसवैरटगिरिभैरवीनदी वर्ण्णलानदीमाहात्म्यादि त्रिस्रोतःकपोतकुण्डवारुणकुण्डतत्त्वाचलमाहात्म्यादि सुरनदी-क्षीरोदानीलानदीचण्डिकाचन्द्रिकानदीमाहात्म्यादि ।अन्तरालककुण्डशृङ्गेशकुब्जपीठमणिकूटगिरिलौहित्यब्र-ह्मपुत्रादिमाहात्म्यादि भद्रकामाचलकालहर-लिङ्गपुनर्भवकुण्डहयग्रीवशिलागोकर्ण्णशिवलिङ्गकेदारलि-ङ्गकमललिङ्गमाहात्म्यादि हयग्रीवमन्त्रादि ७९ अ०तत्रत्यदर्पणरोहणदर्पटनदाग्निमानगिरिवरुणकुण्डकंसक-रवायुकूटाचलचन्द्रकूटाचलसोमकुण्डनन्दनाचलभस्मकूटा-चलोर्वशीकुण्डसदामृतकुण्डमणिकूटमणिकर्ण्णलिङ्गसुमङ्ग-लानदीमत्स्यध्वजकुलाचलस्थश्वेतानदीकामधरसरःसुका-न्ताचलरक्षःकूटाचलपाण्डुनाधमैरवपाण्डुनाथाचलब्रह्म-कुण्डनीलकूटाचलोग्रतारास्थानमाहात्म्यपूजादि कर्प-टाचलचित्राचलकज्जलाचलशक्राचलकपिलभङ्गिकानदी-दमनानदीवृद्धाचलाकाशगङ्गास्थावरसरोदुर्जयाचलक्षोभ-काचलकान्तानदीदिव्यकुण्डपुष्करिणीहेरुकलिङ्गसन्ध्याच-लललितानदीमाहात्म्यादि ८० अ० दीपवतीनदी-शृङ्गाटगिरिसिद्धत्रिस्रोतोनदीगृहवेदिकाभट्टारिकानदी-नाटकाचलस्थसरःसरित्त्रयदिक्करिकानदीवृद्धगङ्गास्वर्ण्ण-नदीश्रीनदीविश्वनाथलिङ्गविश्वदेवीमूर्त्तिमाहात्म्यादि ।सोमाशनानदी सितगङ्गाललितकान्तलिङ्गतीक्ष्णकान्ताख्योग्रतारामूर्त्ति पूजामाहात्म्यादि ललितकान्तलिङ्ग-मङ्गलचण्डिकापूजाविधा तत्र स्थविष्णुमूर्त्तिभेद-तत्पूजाप्रकारादि ८१ अ० कामरूपस्थतत्तीर्थसे-वनेन सर्वेषां निर्वाणादिप्राप्तौ यमेन स्वकार्य्याभावाकलनेब्रह्मादिसमीपगमनेन तन्निवारणोपायचिन्तनम् ब्रह्मप्रा-र्थितेन शिवेन कामरूपस्थतीर्थेभ्यः सर्व्वलोकोत्सारणार्थंगणैः सह उग्रतारायानियोजनम् उग्रतारया तत्र-स्थवसिष्ठस्योत्सारणे कृते वसिष्ठेन तां प्रति म्लेच्छाद्युपास्य-तावाममार्गोपास्यतादिरूपशापदानम् कानरूपस्य म्लेच्छा-वृतत्वशापदानम् कामाख्यातारागमयोश्च विरलत्वादि-शापदानम् तेन शापेन उग्रतारा सहितागतागणाश्चम्लेच्छतां प्राप्ता उग्रताराऽपि तदवधि वाममार्गरताशिवस्य म्लेच्छरतिस्तदवधि जाता वमिष्ठशापाच्च तत्रत्यस-र्व्वतीर्थगुप्तिः लौहित्यमात्रस्य तत्रमाहात्म्यस्थितिः ।८२ अ० लौहित्योत्पत्तितन्माहात्म्यादि जाम-दग्न्योपाख्यानम् ८३ अ० तत्कृतमातृबधपापनिर्मो-चनेन लौहित्यप्रशंसा पूर्व्वकल्पेऽन्जकवाणासुर-योर्भृङ्गिमहाकालरूपगणत्वप्राप्तिकथा ८४ अ० राज-नीतिकथनम् दुर्गादिकरणप्रकारः ८५ अ० प्र-जासु राजावृत्तिप्रकारः नृपकर्त्तव्यदुर्गापूजाविशेषकालाः तत्पूजाप्रकारः नीरजनप्रकारः ८६ अ० पुष्याभि-षेकप्रकारः ८७ अ० शक्रध्वजोत्थानविधिः ८८ दशहरा-यां विष्णोरिष्टिप्रकारः श्रीपञ्चम्यां लक्ष्मीपूजाविधिःबृद्ध्यर्थकाचारविशेषाः द्वादशविधपुत्रविधिः दत्तकादीनांग्रहीत्रा संस्कारकरणे पुत्रत्वप्राप्तिः पितृगोत्रेण संस्कारेगृहीतुः पुत्रत्वाभावः ग्रहीवृगोत्रेण चूडादिसंस्का-राभावे दासत्वम्, पञ्चमवर्षादूर्द्ध्वग्रहणे पुत्रत्वसिद्धिः ।पञ्चमवर्षीयग्रहणे तत्र पुत्रेष्टिविधानम् दासीपुत्रेविशेषः शूद्राणां पुराणादिवाचनेऽनधिकारः वर्ज्यपुरोहितलक्षणम् विशिष्य नृपकर्त्तव्याचारभेदः आ-युष्कामस्य कर्त्तव्याचारः ८९ अ० अपुत्रस्य गतिर्नास्तीतिनन्दिनौपदेशात् वेतालभैरवयोः पुत्रोत्पादनाभिलाषे जाते-भैरवस्य उर्वश्याः सङ्गमे सुरेशनामपुत्रोत्पत्तिः तपसा तस्य-विद्याधराध्यक्षताप्राप्तिः तस्य धृतराष्ट्रकन्यायां देवसेनना-मपुत्रोत्पत्तिः ततः देवसेनादिवंशवर्ण्णनम् तद्वंश्यविजयेनखाण्डवनस्य निर्म्माणम् अर्ज्जुनेन वह्निप्रीत्यर्थं तस्यदाहनम् ९० अ० वेतालस्य कामधेनौ वृषभरूपपुत्रोत्-पादनम् तस्व भृङ्गनाम्ना भृङ्गित्वेन शिववाह-नताप्राप्तिः तस्य वंशवर्ण्णनम् वेतालबंशोद्भवाएव सर्वे गावैत्युक्तिः ततौपसंहारः” इ्येते प्रधानभूताः पदार्थास्तत्रत्याः प्रसङ्गागताश्चान्येऽपि पदार्था अ-भिघेयाः सन्ति विस्तरभयान्नोक्ताःअत्रेटंचिन्त्यते ८९, ९० अ० वेतालभैरवयोर्विभिन्नवं शकथतेस्थिते दतकचन्द्रिकादौ भैरवपुत्रस्यैव वेतालेन द्व्यामु-ष्मायणपुत्रकरणप्रतिपादकवाक्यानि यान्युद्धृतानि तानिनिर्मूलानीत्यवगम्यते पितुर्गोत्रेणेत्यादिवचनानां तत्रया निर्भूलत्वाशङ्का कृता सापि कालिकापुराणाद-र्शनमूलिकैव ८९ अ० तद्वचनानां प्रत्यक्षत उपल-भ्यमानत्वात् इति कालीपुराणमप्यत्र
न०