| YouTube Channel

कालाशुद्धि (kAlAzuddhi)

 
Monier Williams Cologne
English
कालाशुद्धि
f.
a season of ceremonial impurity (as at the birth of a child, the death of a relation,
&c.
, when it is considered unlawful to perform any religious rites).
Apte Hindi
Hindi
कालाशुद्धिः
स्त्री*
काल - अशुद्धिः -
"शोक मनाना, सूतक, पातक या जन्म - मरण से पैदा होने वाला अशौच"
Shabdartha Kaustubha
Kannada
कालाशुद्धि
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ವೇಳೆಯ ಅಶುದ್ಧಿ /ಮಾಡುವ ಕಾರ್ಯಕ್ಕೆ ಅನರ್ಹತೆಯನ್ನು ಕೊಡುವ ಒಂದು ಧರ್ಮ /ಗುರುಶುಕ್ರರ ವಕ್ರತೆ
प्रयोगाः - > "वक्रातिचारवृद्धास्तबालत्वे गुरुशुक्रयोः गुरौ मकरसिंहस्थे क्षयमासद्विमासयोः त्रयोदशदिने पक्षे गुर्वादित्ये तथैव लुप्ताब्दे त्रिविधोत्पाते कालाशुद्धिरुदाहृतः ॥"
L R Vaidya
English
kAla-aSudDi {% f. %} season of mourning, i.e. of ceremonial impurity on account of a birth or death in the family.
वाचस्पत्यम्
Sanskrit
कालाशुद्धि स्त्री कालस्य कर्म्मयोग्यसुमयस्याशुद्धिः ।समयाशुद्धौ कालस्य कर्म्मविशेषानर्हत्वप्रयोजके धर्म्म-भेदे सा गुरुशुक्रास्तत्वादिकृता भवति “वक्रातिचारवृद्धास्तबालत्वे गुरुशुक्रयोः गुरौ मकरसिंहस्थे क्षयमासद्विमासयोः त्रयोदशदिने पक्षे गुर्व्वादित्ये तथैवच लुप्ताब्दे त्रिविधोत्पाते कालाशुद्धिरुदाहृता” ।ज्यो० प्र० एतदुपलक्षणम् अन्यान्यपि तन्निमित्तानितत्तद्ग्रन्थे उक्तानि तत्र कालस्य शास्त्रादेव तत्तत्कर्म्म-साधनत्वेऽवगते शास्त्रेण कालविशेषस्य पर्य्युदस्तत्वाद-शुद्धत्वम् “द्रव्यक्रियागुणादीनां धर्म्मत्वं स्थापयि-ष्यते तेषामैन्द्रियकत्वेऽपि ताद्रूप्येण धर्म्मता ।श्रेयःसाधनता ह्येषां नित्यं वेदात् प्रमीयते” भट्टवार्त्ति-कोक्तेः तस्य पुण्यत्वं तच्च रिक्तादिदोषराहित्ये अष्टमचन्द्रा-दिदोषराहित्ये मलमासादिराहित्ये भवति अतस्तेषांपर्य्युदासात् कर्म्मविशेषे कालाशुद्धिः तन्निमित्तज्ञापकञ्चरत्नाकरादिधृतं न्यायरत्नवाक्यम् म० तत्त्वे यथा“तच्च मलिम्लुच--गुरुशुक्रबाल्यवृद्धास्तमय--सिंहमकरान्य-तरगुरुस्थिति--पूर्वराश्यनागतातिचारिगुरुकवतसर--पूर्व-राशिगमिष्यमाणातिचारिगुरुकपक्षत्रय--वक्रिगुरुकाष्टाविं-शतिवासर--कम्पाद्यद्भुतोत्तरसप्ताह--सिंहादित्य--गुर्वा-दित्य--पौषादिमासचतुष्टयान्यतमैकद्वित्रितदधिकान्यतम-दिनवृत्त्याकालिकवृष्ट्युत्तरैकत्रिसप्ताहान्यतमदिन--नि-षिद्धरूपसमयान्यत्वमिति” म० त० “एषु प्रमाणं वक्ष्यामः ।अत्र नव्यवर्द्धमानः “एकद्वित्रितदधिकान्यतमदिनवृत्त्या-कालिकवृष्ट्युत्तरैकत्रिसप्ताहेत्यत्र उत्तरदिनत्वस्य पूर्व-दिननिरूप्यत्वात् उत्तरत्वपूर्वत्वयोर्विरुद्धतया नानात्वात् ।अतोऽग्रिमदिनादित्वप्राप्तिरिति” जीवमिश्रेणाभिहि-तम् नचैकमेकदिनं वृष्ट्यवच्छेदानवच्छेदाभ्यां भिन्नमितिवाच्यं विशेष्यीभूतदिनस्यैकत्वेन प्रत्यभिज्ञानविरोधेनउपाधिमात्रभेदात् अन्यथा अग्रावच्छिन्नवृक्षान्मूलाव-च्छिन्नवृक्षस्याभेदेनान्योन्याभावस्याव्याप्यवृत्तित्वप्रसङ्गादि-त्याह” तन्न वृष्टिदिनोत्तरदिनस्य निषेधविषयत्वे वृष्टि-दिनस्य कर्म्मार्हता स्यात् तस्मात् विशेष्याया वृष्टेरेवो-त्तरत्वम्, तु तदवच्छेदकदिनस्यापीति तेनैकस्मिन्दिने वृष्ट्या तद्दिनमात्रत्यागः द्वितीयदिनादौ तु अन्तिमदिनमारभ्य त्र्यहसप्ताहयोस्त्यागः तथा व्यासः“नो सन्ध्यागर्जिते प्राहुर्व्रतोपनयनं बुधाः वृ-ष्टावथाकाल वृष्टावाऽऽसप्तवासरान्” आसप्तवासरा-नित्यत्र उपस्थितत्वाद्वृष्टिकालमादाय सप्ताहगणनाआसप्तबासरानिति अधिकसंख्याव्यवच्छेदार्थम् एतेन वि-ध्यनुवादभिया अधिकसंख्या निरस्ता अत्र वृष्ट्यु-त्तरमेव सप्ताहत्यागः एतद्वचनन्तु तृतीयादिदिवसीया-कालवृष्ट्यभिप्रायेण “अतोदिनेनैकदिनं त्याज्यंद्वितीयेन दिनत्रयम् तृतीयेन सप्ताहं त्यजेदकालवर्षणे” न्यायरत्नपरिगृहीतवाक्येऽपि दिनेन दिनवृत्ति-वर्षणेन एवं द्वितीयेनेत्यादौ ज्ञेयम् अतएव न्यायरत्ने-ऽपि वृष्ट्यत्तरत्वमुक्तं नतु वृष्टियुक्तदिनोत्तरत्वमिति एका-दिदिनवृत्तित्वविशेषणं दिनाल्पत्वबहुत्वज्ञापनार्थमिति ।श्रीपतिव्यवहारनिर्णये “आकालिकीं वृष्टिमवेक्ष्य गन्तापदं गच्छेच्छुभमात्मनीच्छन् क्षौरं व्रतञ्चापि शुभा-भिलाषी कदापि नैव मनसापि कुर्य्यात्” अत्र नो-सन्ध्या गर्जित इति आकालिकीवृष्टिमवेक्ष्य इत्यादि श्र-वणात् “व्रतेऽह्नि पूर्वसन्ध्यायां वारिदोयदि गर्जति ।व्रतन्तत्र तु नैव स्यादिति धर्म्मो व्यवस्थितः” इति वचनेपूर्वपदमपि कारणताग्राहकत्वेन परसन्ध्याव्यावर्त्तकम् ।अन्यथा संक्रान्तिबद्भाविनिमित्तत्वेन परसन्ध्यायां गर्जि-तेऽपि व्रतवैगुण्यं स्यात् एतेन पूर्वदिने सायं सन्ध्याग-र्जनेऽपि परदिने व्रतनिषेध इति मैथिलमतं चिन्त्यमिति ।सप्तम्यर्थानुपपत्तेः गीतायां “मयैवैते निहताःपूर्वमेव नि-मित्तमात्रं भव सव्यसाचिन्!” इतिवत् स्वरूपाख्यानपरंबा पूर्वपदम् कामरूपीयनिबन्धेऽप्येवम् योगीश्वरः“चतुर्मासे निवृत्ते तु चक्रपाणौ समुत्थिते अकालवृष्टिंजानीयात् यावन्न सुप्यते हरिः” अत्र यावद्विष्णुम-होत्सव इति जीमूतवाहनः पठति महोत्सवः फाल्गुनीपूर्णिमा इति व्याख्याति कृत्यचिन्तामणिभोजरा-जव्यवहारसमुच्चयश्रीधरसमुच्चयेषु “पौषादि चतुरोमासान् ज्ञेया वृष्टिरकालजा व्रतयज्ञादिकं तत्र वर्ज-येत् सप्त वासरान् मार्गान्मासात् प्रभृति मुनयोव्यास-बाल्मीकिगर्गाश्चैत्रं यावत् प्रवर्षणविधौ नेति कालंवदन्ति नाडीजङ्घः सुरगुरुमुनिर्वक्ति वृष्टेरकालौमासावेतौ शुभफलदौ पौषमाघौ शेषाः मार्गादि-त्यवधौ पञ्चमी नामिविधौ व्यासवाल्मीकिगर्गा इत्यत्रव्यासबाल्मीकिशिष्या इति जीमूतवाहनः पठति प्रवर्षणे-त्यत्र छन्दोभङ्ग आर्षत्वात् सोढव्यः एवं पक्षत्रये व्यव-स्थिते येन सर्वपरिग्रहः स्यात् तस्यैव ग्रहणमितिन्यायेनाद्यः पक्षः श्रेयान्, तदुत्तरन्तु पक्षद्वयमापदत्य-न्तापद्विषयमेवमन्यत्रापि अतएव राजमार्त्तण्डे“उक्तानि प्रतिषिद्धानि पुनः सम्भावितानि सापेक्ष-निरपेक्षाणि श्रुतिवाक्यानि कोविदैः” इति शेषचरणेमीमांस्यानीह कोविदैरिति कृत्यचिन्तामणौ पाठः ।यद्वा “स्पष्टस्य तु विधेर्नान्यैरुपसंहार इष्यते” इति न्यायेनदोषातिशयार्थ एव सामान्यनिषेधे विशेषनिषेधः तत्रापिविशेषौक्तो वृहस्पतिना “वृष्टिः करोति दोषं तावन्ना-कालसम्भवा राज्ञः यावन्न भवति याने नरपशुचर-णाङ्किता वसुधा” काश्यपः “ॠक्षैकमन्दिरगतौ यदिजीबभानू शुक्रीऽस्तगः सुरवरैकगुरुश्च सिंहे नारभ्यतेव्रतविवाहगृहप्रतिष्ठा क्षौरादिकर्म्म गमनागमनञ्चधीरैः” ऋक्षैकमन्दिरगताविति विशिष्टं पृथक्तथा “एकराशिगतौ स्यातामेकर्क्षविषये यदि ।गुर्वादित्यौ तदा त्याज्या यज्ञोद्वाहादिकाः क्रियाः” ।चातुर्मास्यव्रते तु प्रतिप्रसवमाह महाभारते “चातु-र्मास्यव्रतारम्भमस्तगेऽपि गुरौ भृगौ खण्डेऽवापि तिथौकुर्य्यात् एवमेव समापनम्” ।गार्ग्यः “जीवादित्ये बाले शुक्रे ऊर्द्ध्वं दशाहान्मा-ङ्गल्यं प्रतिष्ठां खातञ्च कुर्य्यात्” माङ्गल्यं विवाहादि ।खातं पुष्करिण्यादि राजमार्चण्डे हारीतः“यात्रां चूडां विवाहं श्रुतिविवरविधिं ग्रामसद्मप्रवेशंप्रासादोद्यानहर्म्म्यान् सुरनरभवनारम्भविद्याप्रदानम् ।मौञ्जीबन्धं प्रतिष्ठां मणिवरकनकाधारणं कुर्वते येमृत्युस्तेषाञ्च सिंहे गुरुदिनकरयोरेकराशिस्थयोश्च” ।सिंहे गुरुदिनकरयोः--सिंहस्थे गुरौ रवौ एकरा-शिस्थयोर्युगपत्तयोरेव “तेषाञ्च सिंह” इत्यत्र “तेषांहरीज्य” इति पाठान्तरम् हरीज्ये--सिंहे वृहस्पतौ ।सोमशेखराख्यनिबन्धे “वापीकूपतडागयागगमनक्षौर-प्रतिष्ठाव्रतं विद्यामन्दिरकर्णवेधनमहादानं वनंसेवनम् तीर्थस्नानविवाहदेवभवनञ्चानादिदेवेक्षणं दूरेणैवजिजीविषुः परिहरेदस्तं गते भार्गवे” दीपिकायाम्‘गुर्वादित्ये गुरौ सिंहे नष्टे शुक्रे मलिम्लुचे या-म्यायने हरौ सुप्ते सर्वकर्माणि वर्जयेत्’ सर्वकर्म्मा-णीति वचनान्तरोक्तप्रातिस्विकनिषिद्धकर्मपरं लाघवात्अन्यथा अतिप्रसङ्गापत्तेः वृहद्राजमार्त्तण्डः ‘यात्रावि-वाहव्रतबन्धवेश्मप्रासादचूडाकरणं हितैषी नष्टे भृगौनोपदिशेन्नराणां देवप्रतिष्ठामपि कर्णवेधम् हित्वाद्यंशुभकर्माणि कुर्य्यादस्तमिते सिते विवाहं मेखलाबन्धंयात्राञ्च परिवर्जयेत्” अत्र यात्राञ्चेति चकारःपूर्ववचनोपात्तमुन्यन्तरोक्तप्रातिस्विकनिषिद्धकर्म्माणि समुच्चिनोति “बाले शुक्रे, वृद्धे शुक्रे, नष्टे शुक्रे, जीवेनष्टे बाले जीवे, जीवे सिंहे, सिंहादित्ये जीवादित्ये ।तया मलिम्लुचे मासि सुराचार्य्येऽतिचारगे वापी-कूपतडागादिक्रियाः प्रागुदितास्त्यजेत्” एवञ्च काला-शुद्धौ विद्यारम्भं कुर्य्यात् तद्विधानञ्च विष्णुधर्म्मो-त्तरे “संप्राप्ते पञ्चमे वर्षे अप्रसुप्ते जनार्द्दने षष्ठींप्रतिपदञ्चैव वर्जयित्वा तथाष्टमीम् रिक्तां पञ्चदशीञ्चैवसौरिमौमदिनन्तथा एवं सुनिश्चिते काले विद्यारम्भःप्रशस्यते” देवलः “बाले वृद्धे तथैवास्ते कुरुते दैत्यम-न्त्रिणि उद्वाहितायां कन्यायां दम्पत्योरेकनाशनम्” ।अन्तक इति शेषः राजमार्त्तण्डे “सिंहे गुरौ परिणीतापतिमात्मानमात्मजान् हन्ति क्रमशस्त्रिषु पित्रादिषुवशिष्ठगर्गादयः प्राहुः” पित्रादिषु--सिंहघटकमघापूर्वफाल्गुन्युत्तरफाल्गुनीप्रथमपादेषु प्रतिप्रसवमाहशातातपः “माघ्यां यदि मघा नास्ति सिंहं गुरुरका-रणम्” तत्रैव हेमाद्रिधृतमाण्डव्यवचनम् “श्रुति-वेधजातकान्नप्राशनचूडादिकः सर्वः रविभवनस्थेजीवे कार्य्योवर्ज्योविवाहस्तु” माध्यां मघायोगे तु ऋ-क्षैकमन्दिरगतावित्यादिना सर्वकर्मनिषेधात् अथैवंविवाहोऽपि श्रूयते तथाच राजमार्त्तण्डे दक्षः“गुरौ हरिस्थे विवाहमाहुर्हारीतगर्गप्रमुखामु-नीन्द्राः यदा माघी मघसंयुता स्यात् तदा चकन्थोद्वहनं वदन्ति” इत्थञ्च माघ्यां मघायोगाभावेऽपिश्रुतिवेधादि, मघास्थेऽपि गुरौ भवति विवाहस्तु गुरोर्म-षापरित्यागादेव तथाच माण्डव्यः “मघाऋक्षं परि-त्यज्य यदा सिंहे गुरुर्भवेत् तत्राब्दे कन्यका चोढासुमगा सुप्रिया भवेत्” वात्स्यायनः “यात्रोद्वाहप्रति-ष्ठादिगृहचूडाव्रतादिकम् यत्नतो वर्जयेच्चैव जीवे व-क्रातिचारगे कीर्त्तिभङ्गः प्रतिष्ठायां, भयं चौरात्तथाऽ-ध्वनि चूडोद्वाहे भवेन्मृत्युर्व्रते हानि, र्भयं गृहे ।अतिचारे त्रिपक्षः स्यात् वक्रे पक्षचतुष्टयम् नकुर्य्यात्तत्र यात्रादि गुरोर्वक्रातिचारयोः” गर्गः“गुरोर्वक्रातिचारे वर्जयेत्तदनन्तरम् यज्ञव्रतविवा-हादावष्टाविंशतिवासरान्” माण्डव्यः “यदा वक्रा-तिचाराभ्यां राशिं गच्छति वाक्पतिः दिनामि सप्त-विंशानि त्यक्त्वा कर्म्म समाचरेत्” अत्रापि पूर्वः पूर्वःपक्षः श्रेयान् राशिं--राश्यन्तरम् अन्यथा व्यर्थं स्यात् ।अतएव न्यायरत्नेनापि पूर्वराशिगमिष्यमाणातिचारि-गुरुकेत्युक्तम् वृहद्राजमार्त्तण्डे “वकातिचारो-पगताः कुजाद्या यद्यन्यराशौ, परिवर्जनीयाः यथाक्र-मस्थाः स्वगृहस्थिता वा वर्जनीवा यवना वदन्ति” ।व्यवहारसमुच्चये कृत्यचिन्तामणौ हारीतः “कृत्वाऽ-तिचारं यदि पूर्वराशिं नायाति मन्त्री विबुधाधिपा-नाम् यानं विवाहं व्रतबन्धगेहं सर्वं तदा हन्ति मतंमुनीनाम् अतिचारं गते जीवे वृषे वृश्चिककुम्भयोः ।यज्ञोद्वाहादिकं कुर्य्यात्तत्र कालो लुप्यते” कृत्यकल्प-लतायां वाचस्पतिमिश्रैः “पूर्वराशिं यदा त्यक्त्वा अपूर्णेवत्सरे गुरुः लुप्तःकालः विज्ञेयः परगेहं गतो यदा ।मीने मेषे वृषे चैव तथा मिथुनकन्ययोः अतिचारान्नदोषः स्यान्नियतं काललोपजः” द्वैतनिर्णये “कन्यावृश्चि-कमेषेषु मन्थथे ऋषे वृषे अतिचारेषु कर्त्तर्व्यविवाहादिषुधैः सदा” इति अमूलकमित्युक्तम् वराहसंहितायाम्“अतिचारं गतोजीवस्तत्रैव कुरुते स्थितिम् तदा महा-तिचारः स्यात् लुप्तसंवत्सरक्रियः अतिचारेण योराशि-र्लङ्घितोदेवमन्त्रिणा तदाद्यो वत्सरोलुप्तोयोऽनर्हःसर्वकर्मसु” तत्र वर्षे कर्म्मणोलुप्तत्वात् वत्सरोलुप्त इतितदाह योऽनर्ह इति भुजबलभीमादिनिबन्धेषु“शुभं भवनमासाद्य यदातिक्रमते गुरुः अत्र संव-र्द्धिता कन्या सुखं भर्त्तुः प्रमोदते” दीपिकायाम्“त्रिकोणजायाधनलाभराशौ वक्रातिचारेण गुरुःप्रयाति यदा, तदा प्राह शुभे विलग्ने हिताय पाणि-ग्रहणं वशिष्ठः” त्रिकोणं नवपञ्चमम् जाया--सप्तमं, धनं--द्वितीयं, लाभ--एकादशगृहम् रत्नकोषे “पक्षो-दशाहानि तथा त्रिपक्षी मासत्रिभागः खलु षट् चमासाः एषोऽतिचारः कथितोग्रहाणां भौमादिकानांपरतस्तु चारः” प्रतिष्ठाकाण्डे कल्पतरौ देवीपुराणम्“यथा जीवे स्थिते सिंहे तथैव मकरस्थिते देवाराम-तडागादिपुरोद्यानगृहाणि विवाहादि महाभागभयदानि विनिर्द्दिशेत् यदा द्वादशगे जीगे अष्टमे वाथभास्करे प्रतिष्ठा कारिता विष्णोर्महाभयकरी मता” ।कृत्यचिन्तामणौ देवीपुराणम् “सिंहसंस्थं गुरुं शुक्रंसर्वारम्भेषु वर्ज्जयेत् आरब्धञ्च सिद्ध्येत महा-भयकरं भवेत् कूपारामतडागेषु पुरोद्यानगृहेषु ।सिंहस्थं मकरस्थञ्च गुरुं यत्नेन वर्जयेत् कारको-व्रजते नाशं सन्तानः क्षीयतेऽचिरात्” गुणिसर्वस्वेमकरस्थगुरौ प्रवर्त्तकं नरसिंहपुराणम् “विवाहोनैवकर्त्तव्यः सिंहसंस्थे गुरौ सदा मकरस्थे तत्कार्य्यंकल्याणं सर्व्वतोबुधैः तथा देवीपुराणम् “मकरस्थोयदा जीवो वर्जयेत् पञ्चमांशकम् शेषेष्वपि भागेषुविवाहः शोभनो मतः” एतद्वाक्यं व्यवहारापरिगृहीत-मिति कृत्यचिन्तामणिः एतेनैतदनाकरं भवति किन्तुमैथिलानामनाचारः इति स्वरसोऽवगम्यते अतएव रत्ना-वल्यादिषु नीचस्थगुरावेव दोष उक्तः गुरोर्नीच-स्थत्वमपि त्रिंशांशमकरराशेः पञ्चमांशं यावदितिज्योतिस्तत्त्वे ज्ञेयम् रत्नावल्याम् “नीचस्थः सिंह-गोवा यदि भवति गुरुः सूर्य्यरश्मौ लीनः संयुक्तोवा यदि स्यात् दशशतवृणिना क्षीणरूपोऽथ बालः ।यात्रागेहं विवाहोव्रतममरगृहं यज्ञचूडादि सर्वंवापी चोद्यानकूपम् भवति शुभदं यद्यदिष्टञ्च लोके” ।श्रीपतिरत्नमालायां कृत्यचिन्तामणौ वात्स्यः “शा-खाधिपे बलिनि केन्द्रगतेऽथ वास्मिन् वारेऽस्य चोपन-यनं कथितं द्विजानाम् नीचस्थितेऽरिगृहगेऽथ परा-जिते वा जीवे भृगौ व्रतविधौ स्मृतिकर्म्महीनः” अस्य-शाखाधिपस्य तेन सामगानां कुजबारेऽप्युपनयनम्“सामवेदाधिपो भौमः” इत्युक्तत्वात् कामरूपीयनिबन्धेस्मृतिसागरे देवीपुराणम् “मकरस्थो यदा जोवस्तदात्रिंशद्दिनं त्यजेत् त्यक्त्वा तु षष्टिदिवर्स कुर्य्यात् कर्माणिमानवः” रायमुकुटज्योतिःकालकौमुद्याम् यत्तु“मकरस्थं गुरुं यत्नात् सिंहवत् परिवर्जयेत् देवारा-मतडागेषु पुरोद्यानगृहेषु च” इत्यादि देवलवचनंतदपि सिंहवत् परिवर्जयेदित्यनेन यथा सिंहस्थस्यगुरोस्त्याज्यता तथा मकरस्थस्यापीति गम्यते सिंहस्थगुरोर्मघायुक्तमाघ्यां सत्यामेव त्याज्यता अतो मकरस्थ-स्यापि गुरोस्तस्यामेव त्याज्यता इत्यवगम्यते अतएवदेवीपुराणम् “यथा जीवस्थिते सिंहे तथैव मकर-स्थिते” इत्यत्र यथातथोपादानम् तदपि देशविशेष एवदूषणम् तथाहि “गण्डक्या उत्तरे तीरे गिरिराजस्यदक्षिणे सिंहस्थं मकरस्थञ्च गुरुं यत्नेन वर्जयेत्” ।अतएवान्यदेशाभिप्रायेण भीमपराक्रमे “वापीकूप-तडागादि निषिद्धं सिंहगे गुरौ मकरस्थे तु तत्-कार्य्यं दोषः काललोपजः कार्य्यं मकरगे जीर्वविवाहाद्यखिलं बुधैः तु सिंहगते जीवे कुर्य्या-द्विप्रः कथञ्चन” अत्र पूर्वोक्तनरसिंहपुराणवचनेमकरस्थमात्रे विवाह उक्तः अतएव तत्सारभूतंव्यवहारमात्रं विबक्षितं श्रीपतिनात्मबुद्ध्येति प्रतिज्ञाय-समयाशुद्धौ मकरस्थवृहस्पतिदोषमनभिधाय केवलमुप-नयने नीचस्थवृहस्पतिर्निषिद्धः एतेन द्वैतनिर्णयेश्रीपतिसंहितायां व्यवहारोपवृंहितमेव वचनं नचव्यवहारविरुद्धमिति एतेन यत् मकरस्थगुर्वादौ विवाहा-दिविधायकं वचनं तदाचारविरहादनादरणीयम्इति वाचस्पतिमिश्रोक्तं हेयम् मकरस्थगुरौ प्रति-ष्ठाव्यतिरिक्तकर्म्मनिषेधकश्रीपतिग्रन्थविरहात् अथतन्निषेधकमुनिवचनानि प्रामाणिकान्तरधृतत्वादुपादेया-नीति चेत् तर्हि प्रतिप्रसववचनान्यपि तथा एवञ्चाति-चारे विवाहादिनिषेधकवचनानि श्रीपतिना लिखितानिनतु तदपवादकानीति तेन तान्यप्रामाणिकानीतियदुक्तं तदपि हेयम् प्रकृते पूर्वोक्तयुक्तेस्तौल्यात्भुजबलभीमे “जीबोऽर्केण युतः करोति मरणं बालां-शुकोभागुरिः नक्षत्रैकगतो वदन्ति यवनाः पादस्थितोदेवलः प्रायोगर्गपराशरादिमुनयो नेच्छन्ति चास्तंगतेतस्मादस्तमिते सुरेन्द्रसचिवे नेष्टं विवाहादिकम्” श्रीपति-रत्नमालायाम् “प्रागुद्गतः शिशुरहस्त्रितयम् सितः स्यात्पश्चाद्दशाहमितपञ्चदिनानि वृद्धः प्राक् पक्षमेव कथितो-ऽत्रिवशिष्ठगर्गैर्जीवस्तु पक्षमपि वृद्धशिशुर्विवर्ज्यः” ।वृद्धशिशुत्वगन्तेतिक्वचित्पाठः सितः शुक्रः इह--पश्चा-द्दिशि राजमार्त्तण्डे “भवेत् सन्ध्यागतः पश्चात् अस्तमैष्यन्दिनत्रयम् दिनानि पञ्च पूर्वेण, तत्कृते कर्मवर्ज्जयेत् बाले बृद्धे सन्ध्यांशे चतुःपञ्चत्रिवासरान् ।जीवे भार्गवे चैव विवाहादिषु वर्ज्जयेत् बाले बृद्धेच सन्ध्यायां नष्टे भृगुनन्दने दुर्भगा चासती बन्ध्यामृत्युयुक्ता फलं क्रमात् बाले दुर्भगा नारी वृद्धेनष्टप्रजा भवेत् नष्टे मृत्युमाप्नोति सर्वमेवंगुरावपि” वृद्धे पञ्चदिनत्वकीर्त्तनमप्यापद्विषयं ज्योतिः-पराशरेण भृगोः पादास्तेऽपि दशाहविधानात् एवंगुरावपि रत्नमालायां पक्षविधानात् तयोर्मते नसन्ध्यायाः पृथङ्निर्देशोऽपि वृद्धत्वेनैव तद्ग्रहणात् ।दीपिकायाम् “गुर्व्वादित्ये, गुरौ सिंहे, नष्टे शुक्रेमलिम्लुचे याम्यायने हरौ सुप्ते सर्बकर्म्माणि वर्जयेत् ।तत्रैव “नो शुक्रास्तेऽष्टमेऽर्के गुरुसहितरवौ जन्ममासेऽष्ट-मेन्दौ, विष्टौ, मासेमलाख्ये, कुजशशिदिवसे, जन्मतारासुचाथ नाडीनक्षत्रहीने, गुरुरविरजनीनाथतारादिशुद्धौ, प्रातः कार्य्या परीक्षा द्वितनुचरगृहांशोदये शस्तलग्ने” ।ज्योतिषे “सिंहस्थे मकरस्थे जीवे चास्तमिते तथा ।सिंहस्थे तु रवौ नैव परीक्षा शस्यते बुधैः” गर्गः“दाहे दिशाञ्चैव धराप्रकम्पे, वज्रप्रपातेऽथ विदारणेवा धूमे, तथा पांशुकरप्रपाते कारयेन्माङ्गलिकादिकार्य्यम् उल्कापाते निर्घाते तथैवाकालवर्षणे ।छिद्रे सूर्य्ये विनिर्द्दिष्टे नं कुर्य्यान्मङ्गलक्रियाम् ।धूमकेतौ समुत्पन्ने, ग्रहणे चन्द्रसूर्य्यर्याः ग्रहाणांसङ्करे चैव कुर्य्यान्मङ्गलक्रियाम् द्विसूर्य्यं वा त्रि-सूर्य्यं वा दृष्ट्वा गगनमण्डलम् रात्रौशक्रधनुश्चैव मङ्ग-लानि विवर्जयेत् दिग्दाहेदिनमेकञ्च ग्रहे सप्त दिनानिच भूमिकम्पे सम्भूते त्र्यहाणि परिवर्जयेत् ।उल्कापाते त्रितयं, धूमे पञ्च दिनानि वज्रपातेदिनमेकंवर्जयेत् सर्वकर्म्मसु” भोजराजः “ग्रहे रवीन्द्वो-रवनिप्रकम्पे केतूद्गमोल्कापतनादिदोर्ष व्रते दशाहानिवदन्ति तज्ज्ञान्त्रयोदशाहानि वदन्ति केचित्” ग्रह-णकाले भूकम्पोल्कापातवज्रपातादिदोषसमाहारे त्र-योदशाहमशुद्धम् किञ्चिदूनतत्समाहारे दशाहम् ।ग्रहणाद्येकैकदोषे त्र्यहमिति वाचस्पतिमिश्राः ।अत्र स्मृतिसागरधृतसारसंग्रहे “राज्यादिकमहासिद्धौयज्ञदानतपःसु हामखाध्याययोश्चैव वर्जयेद्दशरा-त्रकम् लक्षहोमे महादाने वर्जयेत् सोमके मखे ।तपःस्वाध्याययोश्चैव चिरारम्भे त्रयोदश” इति व्यवस्थाअन्यत्र “उल्कापाते भुवः कम्पे अकालवर्षगर्जिते ।वज्रकेतूद्गमोत्पाते ग्रहणे चन्द्रसूर्य्ययोः प्रयाणन्तुत्यजेत् क्षत्त्रः सप्तरात्रमतः परम् ब्राह्मणः क्षत्त्रियोवैश्यस्त्यजेत् कर्म्म त्रिरात्रकम् शूद्रस्त्यक्त्वा चैकरात्रंसर्वकर्म समाचरेत्” पराशरः “प्रयाणे सप्तरात्रंस्यात् त्रिरात्रं व्रतबन्धने एकरात्रं परित्यज्य कुर्य्यात्पाणिग्रहं ग्रहे” भृगुः “कम्पे राजनि सप्ताहंब्राह्मणानां त्र्यहन्तथा शूद्रस्यार्द्धदिनं प्रोक्तं सर्वका-र्य्येषु वै भृगुः” शूद्रस्यापद्विषयम् कम्पैत्युपलक्षणम् ।ग्रहणादावप्येवमेवान्यत्रैकत्र पठितत्वात् भोजदेवव्यव-हारसमुच्चये “सर्वं कार्य्यं कुर्व्वीत गुरौ सिंहेऽस्तगेऽपिच व्रतदीक्षे कुर्व्वीत तमोयुक्ते वृहस्पतौ” तमो-युक्ते राहुयुक्ते व्रतदीक्षे इति नित्येतरकर्म्मोपलक्ष-णम् तथाच स्मृतिसागरसारे ज्योतिषम् “एकराशौस्थितौ स्यातां यदि राहुवृहस्पती विवाहव्रतयज्ञादिसर्वन्तत्र विवर्जयेत्” मलमासाद्युपक्रम्य भविष्ये “ऋ-क्षभेदेऽप्येकराशौ सम्पर्को यदि वाऽनयोः गुरोराहो-रपि तथा त्यजेद्विद्वान्न संशयः” अत्र गुरोर्लज्जितत्वंहेतुः तद्यथा “यत्र तत्र स्थितो जीवस्तमोयोगेन लज्ज-ते उपहासाय किं स्यादसत्सङ्गो मनीषिणाम्” इति ।“अनिष्टे त्रिविधोत्पाते सिंहिकासूनुदर्शने सप्तरात्रंन कुर्व्वीत यात्रोद्वाहादिमङ्गलम्” इति दोपिकाया-मनिष्टैत्यभिधानात् अनिष्टजनकोत्पात एव सर्वकर्म्मा-नधिकारः पूर्वलिखितभोजराजवचनेऽपि “केतू-ल्कापतनादिदोषे, इति दोषजनक एव तथोपरागे मण्ड-लतः शुभेऽपि यात्रानिषेधाय सिंहिकासुत इति पृथगुपा-दननम् अत्र विवाहादावपि सप्तरात्रनिषेधात् पराशरो-क्तस्वल्पकालनिषेध आपद्विषयः तेनानिष्टाजनके भूमि-कम्पादौ दोषः अतएव वृहत्संहितायां वराहेणउत्पातप्रकरणे प्रायःपदमभिहितम् तथा च” यः प्रकृ-तिविपर्य्यासः प्रायः संक्षेपतः उत्पातः क्षितिव्योमदि-व्यजातोयथोत्तरं गुरुतरो भवति” प्रायैति ऋत्वादिप्र-युक्तविपर्य्यासव्यावृत्त्यर्थं यदाह तत्रैव “ये दोषंजनयन्त्युत्पातास्तान् ऋतुस्वभावकृतान् ऋषिपुत्त्रैःकृतैः श्लोकैर्विद्यादेतैः समासोक्तैः” मनुनापि “निर्घातेभूमिचलने ज्योतिषाञ्चोपसर्पणे एतानाकालिकान्विद्यादनध्यायानृतावपि” अत्रानध्ययनार्थमृतावपोत्यु-क्तम् उत्पाते दोषभङ्गमाह श्रीपतिव्यवहारनिबन्धे “अथदिवसत्रयमध्ये मृदुजलपतनं यदा स्यात् तदोत्पात-दोषं शमयेदित्याहुराचार्य्याः” वार्हस्पत्ये “शमयन्त्यास-प्ताहात् कम्पादिकृतं निमित्तमाश्वेव अतिवर्षणोपबा-सव्रतदोक्षाजप्यहवनानि” विष्णुधर्मोत्तरे “शेतेऽत्रचतुरोनासान् यावद्भवति कार्त्तिकः विशिष्टा प्रवर्त्तन्तेतदा यज्ञादिकाः क्रियाः नाभिषेच्यो नृपश्चैत्रेनाधिमासे कदाचन सुप्ते तथा कृष्णे विशेषात्म्पवृषि द्विज!” भविष्योत्तरे “सुप्ते मयि जगन्नाथेकेशवे गरुडध्वजे निवर्त्तन्ते क्रियाः सर्वाश्चातुर्वर्ण्यस्यभारत! विवाहब्रतबन्धादिचूडासंस्कारदीक्षणम् ।यज्ञगृहप्रवेशादिदानार्च्चनप्रतिष्ठनम् पुण्यानि यानिकर्म्माणि वर्जयेद्दक्षिणायने” सर्वास्तत्तद्वाक्यगणिताःपूर्वप्रातिस्विकोक्ताः एवं पुपयानीति अन्यथाविशेषवचनवैथर्थ्या दति वदन्ति भोजराजः“वापो तडागगृहगापुरदेवसद्मपासादवारिमठकूपविवाहचै-त्यात् कर्त्तुं यथागमविघानविधिर्वधात्रा प्रोक्तस्तथैवकथयामि समासतोऽहम् सुप्ते हरौ प्रकटशेषफणोप-धाने लक्ष्मोकराब्जपरिमार्जितपादपद्मे मीने रवौधनुषि चास्तमिते तथेज्ये वास्तुक्रियाविधिरसौ मुनिभि-र्निषिद्धः” इज्योगुरुः नारदः “वापीकूपतडागा-दिप्रतिष्ठायज्ञकर्म कुर्य्यात्मलमासे महादान-व्रतानि च” दानपदं सामान्यदानपरमिति वदन्ति ।तथाच स्मृतिः ‘अस्ते सन्ध्यागते बाले भृगौ मासिमलिम्लुचे देवतादर्शनं दानं महादानं विवर्जयेत्’ ।लषुहारीतः “भृगावस्ते गुरौ सिंहे गुर्वादित्ये मलि-म्लुचे त्यजेत् दानं महादानं व्रतं देवविलोकनम्” ।एतद्वचनद्वयं कालविवेकेऽपि अत्र दानमहादानयोरु-पादानात्” ग० त० मुहूर्त्तचिन्तामणिपीयूषधारादौविशेष उक्तो विस्तरभयान्नोक्त स्ततएवावसेयः