| YouTube Channel

कालायसं (kAlAyasaM)

 
शब्दकल्पद्रुमः
Sanskrit
कालायसं,
क्ली,
(कालञ्च तत् अयश्चेति “अनो-श्मायः सरसां जातिसंज्ञयोः” ९४ ।इति टच् ।) लौहम् इत्यमरः ९८ ।(यथा, गोः रामायणे ४९ ३२ ।“ददर्श वीक्षमाणश्च परिघं तोरणाश्रयम् ।तमादाय महाबाहुः कालायसमयं दृढम्”
अस्य पर्य्याया यथा, --“लोहोऽस्त्री शस्त्रकं तीक्ष्णंपिण्डं कालायसायसी” ।अस्य सप्तदोषा यथा, --“गुरुता दृढतोत्क्लेदः कश्मलं दाहकारिता ।अश्मदोषः सुदुर्गन्धो दोषाः सप्तायसस्य तु”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)