| YouTube Channel

कालात्ययापदिष्ट (kAlAtyayApadiSTa)

 
Spoken Sanskrit
English
कालात्ययापदिष्ट kAlAtyayApadiSTa
adj.
invalidated by lapse of time
Monier Williams Cologne
English
कालात्य°यापदिष्ट
mfn.
invalidated by lapse of time (term for a vain argument [हेत्व्-आभास], also called अतीत-काल and बाधित), Bhāṣāp.
Sarvad.
Comm. on
Nyāyam.
(wrongly spelt °त्ययोपद्°).
Shabdartha Kaustubha
Kannada
कालात्ययापदिष्ट
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವಿಧ ಹೇತ್ವಾಭಾಸಗಳಲ್ಲೊಂದಾದ ಹೇತುದೋಷ
व्युत्पत्तिः - > कालात्ययेनापदिष्टः
वाचस्पत्यम्
Sanskrit
कालात्ययापदिष्ट
पु०
कालात्ययेनापदिष्टः त०गौतमीक्ते हेत्वाभासभेदरूपे हेतुदोषे तल्लक्षणादिकंगौ० सू० भाव्यादौ दर्शितम् यथा“कालात्ययापदिष्टः कालातीतः” सू०“कालात्ययेन प्रयुक्तो यस्यार्थस्यैकदेशोऽपदिश्यमानः सकालात्ययापदिष्टः कालातीत इत्युच्यते निदर्शनम् ।नित्यःशब्दः संयोगव्यङ्ग्यत्वात् रूपवत्, प्रागूर्द्ध्वञ्च व्यक्तेर-वस्थितं रूपं प्रदीपघटसंयोगेन व्यज्यते तथा शब्दोऽप्य-वस्थितो भेरीदण्डसंयोगेन व्यज्यते दारुपरशुसंयोगेनवा तस्मात् संयोगव्यङ्ग्यत्वात् नित्यःशब्द इत्ययमहेतुःकालात्ययापदेशात् व्यञ्जकस्य संयोगस्य कालं व्यङ्ग्यस्यरूपस्य व्यक्तेरत्येति सति प्रदीपघटसंयोगे रूपस्य ग्रहणंभवति निवृत्ते संयोगे रूपं गृह्यते, निवृत्ते दारुपर-शुसंयोगे दूरस्थेन शब्दःश्रूयते विभागकाले सेयं शब्द-व्यक्तिः संयोगकालमत्येतीति संयोगनिर्मिता भवति ।कस्मात्? कारणाभावाद्धि कार्य्याभाव इति एवमुदाह-रणसाधर्म्यस्याभावादसाधनमयं हेतुर्हेत्वाभास इति” ।भा० उक्तसूत्रं बृत्तौ त्वेवं व्याख्यातं यथा ।“क्रमप्राप्तमतीतकालं लक्षयति अतीतकालस्य समा-नार्थकत्वात् कालातीतशब्देनोक्तकालस्य साधनकालस्या-त्ययेऽभावेऽपदिष्टः प्रयुक्तो हेतुः एतेन साध्याभावप्रमा-लक्षणार्थ इति सूचितं साध्याभावनिर्णये साधनासम्भवा-दयमेव बाधितसाध्यक इति गीयते तथा वह्निरनुष्णःकृतकत्वादित्यादौ बाधे आवश्यकस्य व्यभिचार-स्वरूपासिद्ध्यन्यतरस्यैव दोषत्वमुचितमिति वाच्यं तद-प्रतिसन्धानेन बाधस्य दोषत्वावश्यकत्वात् उपाधेयसङ्करे-ऽप्युपाधेरसङ्करात् उत्पत्तिकालावच्छिन्नो घटो गन्धवान्, शिखरावच्छिन्नः पर्बतोवह्निमानित्यादावसङ्कराच्च साध्या-भाववत्प्रत्यक्षतावच्छेदकावच्छिन्नकत्वस्य तत्र सत्त्वात् ।परे तु घटः सकर्तृकः कार्य्यत्वादित्यादौ यत्र लाघवोपनी-तमेकमात्रकर्तृकत्वं भासते तत्र तदभावोऽमङ्कीर्णोदाहरण-मिति वदन्ति” ।मणिकृता तु बाधत्वेनायं व्यवहृतः तल्लक्षणादिकंतत्रोक्तं यथा“बाधो साध्याभाववत्पक्षकत्वं पक्षवृत्त्यभावप्रतियोगि-साध्यकत्वं वा पक्षे साध्याभावज्ञानमात्रस्य प्रमात्वज्ञानंविना अधिकबलत्वाज्ञानेन बाधाभावादिति वक्ष्यते अतएवसाध्याभाववत्पक्षवृत्तित्वमपि न, असिद्धिसङ्कीर्णबाधाव्या-प्तेश्च किन्तु साध्याभाववत्त्वप्रमाविषयपक्षकत्वं, प्रमितसा-ध्याभाववत्पक्षकत्वं, पक्षनिष्ठप्रमाविषयत्वप्रकाराभावप्रति-योगिसाध्यकत्वं वेति विवक्षितविवेकेन साध्याभावप्रमैवदोषः सा प्रमात्वेन ज्ञाता स्वरूपसती हेत्वाभासत्वात्प्रमात्वज्ञानं विना अधिकबलत्वाभावेनादोषत्वात् अप्रमा-यामपि प्रमात्वज्ञानेऽनुमितिप्रतिबन्धाच्च” ।“कालात्ययापदिष्टश्च हेत्वाभासाश्च पञ्चधा” भाषा०