| YouTube Channel

कालाग्निरुद्र (kAlAgnirudra)

 
Monier Williams Cologne
English
कालाग्नि—रुद्र
m.
=
काल-रुद्र
(scil. रस)
N.
of a particular drug or medicine
Shabdartha Kaustubha
Kannada
कालाग्निरुद्र
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪ್ರಳಯಕಾಲದ ಅಗ್ನಿಯಂತಿರುವ ರುದ್ರ
व्युत्पत्तिः - > कालाग्निरिव रुद्रः
शब्दकल्पद्रुमः
Sanskrit
कालाग्निरुद्रः,
पुं,
(कालः संहारकः अग्निः सम्बर्त्त-काग्निरित्यर्थः तस्याधिष्ठाता रुद्रः कालाग्निरिव रुद्रो वा ।) संहारकारिरुद्रः यथा ।कालाग्निरुद्र ऋषिरित्यादि वैदिकसन्ध्यायां रुद्रो-पस्थानम्
*
तद्विवरणं यथा, --शक्र उवाच ।“भगवंस्तव वाक्यानां तृप्तिर्भवते मम ।कालाग्निपार्थिवं मानं श्रोतुमिच्छामि तत्त्वतः”
भगवानुवाच ।“न हि पार्थिवद्वीपेषु मेरुपृष्ठेऽपि वासव ! ।भोगाह्लादकरा नॄणां तथा पातालवासिषु
येषु नः कालरुद्रस्य नानास्त्रीशतसंकुला ।विचित्रहर्म्म्यविन्यासा कुतस्ते मेरुपृष्टतः
सा एव कालरुद्रस्य तनुरुपेण संस्थिता ।सा पराशिवभावेन परमापददायिका
तस्या यद्दुःसहं तेजो ब्रह्मादीनां क्षयं करम् ।तं विद्धि कालरुद्रेति सौम्यरूपं सदाशिवम्
कालाग्निव्यसनं लक्षं योजनानां प्रमाणतः ।अर्द्धेनोच्छ्रयतस्तस्य पादाः पादेन वासव !
सिंहरूपा महाघोरा महानक्रा महाबलाः ।कालाग्निरुद्ररूपो यो बहुरूपसमावृतः
अनन्तपद्मरूपश्च धातारः कारणेश्वरः ।दारुणाग्निश्च रुद्रश्च यमहन्ता क्षमान्तकः
लोहितः क्रूरतेजात्मा घनो वृष्टिर्बलाहकः ।विद्युतश्चलशीघ्रश्च प्रसन्नः शान्तसौम्यदृक्
सर्व्वज्ञो विविधो बुद्धो द्युतिमान् दीप्तिसुप्रभः ।एते रुद्रा महात्मानः कालिकाशक्तिवृंहिताः
संहरन्ति समस्तेदं ब्रह्माद्यं सचराचरम् ।कालाग्निभुवनीशोऽयं बहुकोटिभिरावृतः
तस्याः पुरस्य विस्तारं शतकोटिसुवर्त्तुला ।देवगन्धर्व्वसिद्धानां तत्र भोगाः सुदुर्ल्लभाः
पूर्व्वोत्तरपरा पङ्क्तिर्याम्योत्तरस्थिता परा ।अनलानिलपरा नैरृतीशानगापरा
एतेषां मध्यतो राजन् कालरुद्रस्तु शोभने ।पङ्क्त्याकारैः पुरैः सर्व्वं कटकं तस्य संस्थितम्
समन्ताद्वेष्टितवनं प्राकाराट्टालगोपुरैः ।वज्रेन्द्रनीलवैदूर्य्यैः प्राकारैः सर्व्वतोऽन्वितम्
कालाग्निनरकान्ते तु पुरं कालस्य संस्थितम् ।पञ्चाशल्लक्षविस्तारं समन्तात् परिवर्त्तुलम्
जाम्बूनदमयैर्हेमैः खचितं रत्नधातुभिः
प्रमदाजनसंजुष्टं नानावर्णसमावृतम्
कामोन्मत्तप्रमत्तश्च तद्भाति जनसंकुलम् ।कालस्य भुवनं दिव्यं वृत्ताकारं मनोहरम्
वेष्टितं हेमप्राकारैर्योजनायुतमुच्छ्रितम् ।प्राकारावहिदण्डान्ते अन्तरं योजनायुतम्
अग्निज्वालैश्च निविडैर्भयदैः किंशुकप्रभैः ।हरितालनिभा ज्वाला सिन्दूरगैरिकाप्रभा
अत उर्द्ध्वं प्रजज्वाल वातोद्धूताग्निभास्वरा ।वीचितरङ्गकल्लोलज्वालामालाकुलाम्बरा
प्रवृत्तास्ताः प्रमाणेन योजनद्वयकोटयः ।अष्टानवतिलक्षाणि ज्वाला ऊर्द्ध्वन्ततः शिला
वज्रभूता सदा तप्ता तस्य तेजोनियामिका ।चत्वारि कोटिमानेन कारणेन तु स्थापिता
तस्यार्द्धेन भवेत् किञ्चित् कोट्यश्चत्वारि वासव ! ।एवं कालाग्निरुद्रस्य माहात्म्यं कीर्त्तितं मया
श्रवणात् सर्व्वपापानि शाम्यन्ति कालजान्यपि”
इत्याद्ये देवीपुराणे कालाग्निरुद्रपुरकथनम्
(कृष्णयजुर्व्वेदगतोपनिषद्विशेषः यथा, मुक्ति-कोपनिषदि ।“कालाग्निरुद्रमैत्रेयी सुवालक्षरि मन्त्रिका”
वटिकौषधविशेषः यथा, --“सूतकान्ताभ्रलौहानां भस्ममाक्षिकगन्धकम् ।भूधराख्ये पुटे पश्चाद्दिनैकं तद्विपाचयेत्
दशमांशं विषं योज्यं माषमात्रञ्च भक्षयेत् ।रसः कालाग्निरुद्रोऽयं दशाहेन विसपेनुत्”
कालाग्निरुद्रोरसः
इति रसेन्द्रसारसंग्रहे वीसर्पाधिकारे
*
)
वाचस्पत्यम्
Sanskrit
कालाग्निरुद्र
पु०
कालाग्निरिव रुद्रः सर्वहारके प्रल-याग्नितुल्ये रुद्रे तमधिकृत्यैव कालाग्निरुद्रोपनिषत्प्रवृत्ता अभेदोपचारात् तदुपासके ऋषिभेदे वैदिकमन्त्राणां बहूनां तद्दृष्टत्वात् तदार्षत्वम् कात्या० सर्वानु-क्रमिकायामुक्तम्