कालहोरा (kAlahorA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaकालहोरा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಲಗ್ನದ ಅರ್ಧಕಾಲ /ಹಗಲು ಮತ್ತು ರಾತ್ರಿ ಕಾಲಗಳಲ್ಲಿ ಮೇಷಾದಿ ೧೨ ಲಗ್ನಾಧಿಪತಿಗಳ ಕಾಲ
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritकालहोरा स्त्री काले कालभेदे होरा । १ अहोरात्रोदित-द्वादशलग्नार्द्धरूपहोरायां २ समयभेदे च तत्तदीशितुरा-नयनम् मुहूर्त्तचि० यथा“वारादेर्घटिका द्विघ्नाः स्वाक्षहृच्छेषवर्जिताः । सैका-स्तष्टा नगैः कालहोरेशा दिनपात्क्रमात्” मु० चि० ।“वारादेरिति वारप्रवृत्तिप्रकारेण यस्मिन् क्षणे वार-प्रवृत्तिर्जाता तत इष्टघटिकाद्विगुणाः कार्य्यास्ता द्विस्थानेस्थाप्याः तत्र पञ्चभिर्भक्ते यल्लब्धं तत्त्याज्यं यच्छेषंतत् द्विगुणघटीमध्ये वर्जितं कार्य्यम् । एवं विधाघट्यःसैकाएकयुक्ताः कार्य्यास्ततोनगैः सप्तभिस्तष्टाभक्ता अवशिष्टाःकालहोराः स्युस्तादिनपाद्वारात् क्रमाद्गणनीयाः । यथारविवारे इष्टघटिकाः षट् ६ द्विगुणाः १२ पृथगक्षाप्तशेष२ वर्जिताः १० नगैस्तष्टाः शेषं ३ सैकं ४ रविवारक्रमगणनया चतुर्थो बुधस्तस्य होरा यथाह वसिष्ठः“वारप्रवृत्तेर्गदितादिनेशात्कालाख्यहोरापतयः क्रमेण ।सार्धेन नाडीद्वितयेन षष्ठः षष्ठश्च षष्ठश्च पुनःपुनः स्यात्”तथा कृतेऽहोरात्रे चतुर्विंशतिः कालहोरा भवन्तिअत्रानुपातः यदि घटिकानां षष्ट्या ६० चतुर्विंशति-र्होरा २४ लभ्यन्ते तदा एकया किमिति अत्रैकेन गुणेविशेषाभावाच्चतुर्विंशतिः छेदः षष्टिर्जातः उभयोर्द्वादशा-पवर्त्ते इष्टघटिकाद्विगुणाः पञ्चभक्ताः कालहोराः स्यु-रिति । तथाचोक्तं रत्नमालायाम् “वारप्रवृत्तेर्घटिका-द्विनिघ्नाः कालाख्यहोरापतयः शराप्ताः । दिनाधिपाद्या-रविशुक्रसौम्यशशाङ्कसौरेज्यकुजाः क्रमेण” अथ ग्रन्थकृतोक्तौ वासना सार्धघटीद्वगेनैका होरा द्विगुणिताः सार्ध-द्विघट्यः पञ्च भवन्ति । अतएवोक्तं “वारादेर्घटिका द्विघ्ना”इति एकयोगे षट् जाता एवं रविवारक्रमेण गणन-या द्वितीया शुक्रस्य कालहोरा प्रवृत्ता अतौक्तं सैकाइति । भवन्मतेऽपि सूर्य्यात् षष्ठः शुक्रस्तस्यैव होरा इयञ्चशुक्रहोरा पञ्चघटीपर्यन्तं स्वमते इष्टघटिकाः ४ द्विगुणाः८ अत्र पञ्चभ्य आधिक्यमनुचितमिति द्वितीयस्थानेस्थापयित्वा पञ्चभक्तावशिष्टत्रयेणोनाः पञ्च जाताः अतउक्तं स्वाक्षहृच्छेषवर्ज्जिता इति । एकयोगे षट्एवं सति पुनः सैव होरा एवमिष्टघटीभिः कालहोराऽऽ-नयनं सुगमम् । वाराणां सप्तसंख्यात्वात्तदाधिक्यमनु-चितमिति नगैस्तष्टा इत्युक्तम् । क्रमगणनायान्त्वियंयुक्तिः द्वयोर्होरास्वामिनोरन्तरं पञ्च सम्भवति । एकयोग-स्तु वर्त्तमानकालहोराज्ञानार्थमतो रविक्रमगणनयाभवद्विवक्षिता सैव होरा भवति । विवाहवृन्दावने तुकालहोरा उदयमारभ्योक्ताः यथा “तत्काला-र्कन्यूनलग्नांशपिण्डोभक्ताः पञ्चक्षौणिभिर्भुक्तहोराः । भा-स्वच्छुक्रज्ञेन्दुसौरेज्यभौमा संख्यायैरन्वारतास्ते तदीशाः”अनयोर्विषयविभागो वसिष्ठसंहितायाम् “वारप्रवृत्तेर्विज्ञानंक्षणवारार्थमेव हि । अखिलेष्यन्यकार्येषु दिनादिरुदयाद्भ-वेत्” । क्षणवारः कालहोरारूपः तदर्थं वारप्रवृत्तिः, अन्यकार्येषु दिक्शूलादिषु तिथिवारप्रयुक्तेषु नक्षत्रवारप्र-युक्तेषु चायोगेषु सुयोगेषु च सूर्योदयादेव वारा ग्राह्याः”पी० धा० । “वारे प्रोक्तं कालहोरासु तस्य धिष्ण्ये प्रोक्तंस्वामितिथ्यंशकेऽस्य” मु० ।“अथ कालहोराप्रयोजनमन्यच्च शालिन्याह ।वारे प्रोक्तमिति । यत्कर्म यस्मिन् वारे प्रोक्तं तद्दिनस्यसदोषत्वेऽत्यावश्यककृत्ये तस्य कालहोरायां कर्त्तव्यंयदाह नारदः “यस्य खेटस्य यत्कर्म वारे प्रोक्तं विधीयते ।ग्रहस्य क्षणवारेऽपि तस्य तत्कर्म सर्वदा” । अत्र केचित् यस्यवारोयत्कर्मप्रोक्तंतस्य बलिनो नवांशे सूर्यश्चन्द्रोवा चेत्ति-ष्ठेत् तदा तत्कर्म कार्यमित्याहुः उक्तञ्च “यस्य ग्रहदिने कर्मयत्किञ्चिदभिधीयते । तस्यांशसंस्थिते सूर्ये चन्द्रे वा तद्विधी-यत” इति । कैणित् प्रत्येकं होराफलान्युक्तानि “भानुहो-रा मृतिं कुर्याच्चन्द्रहोरा स्थिरासनम् । काराबन्धं भौम-होरा बुधहोरा च पुत्रदा । वस्त्रालङ्कारदा जीवहोराशौक्री विवाहदा । जडत्वं शनिहोरायां सप्तहोराफल-न्त्विदम्” उदयकाले यदा होरा तदा उदयादारभ्यहो-रानयनप्रयोजनन्तु “पादः स्ववर्षे चदलं स्वमासे दिनेस्वकीये चरणोनरूपम् । रूपं स्वहोरास्विति कालवीर्यमुक्तंहि होरानिपुणैः पुराणैरिति” । युक्तं चैतत् वर्षेशादीनामुदयादितः प्रवृत्तानां साहचर्याद्वारेशा अप्युदयादेवगणनीयाः” पी० धा० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
