| YouTube Channel

कालरात्रिः (kAlarAtriH)

 
Apte Hindi
Hindi
कालरात्रिः
पुं*
काल - रात्रिः -
अन्धेरी रात
कालरात्रिः
पुं*
काल - रात्रिः -
विश्व की समाप्तिसूचक महाप्रलय की रात
Wordnet
Sanskrit
Synonyms:
कालरात्रिः
noun
प्रलयस्य रात्रिः।
"धर्मग्रन्थानुसारेण कालरात्रौ जगतः नाशः भविष्यति।"
शब्दकल्पद्रुमः
Sanskrit
कालरात्रिः,
स्त्री,
(कालः कालरूपा ब्रह्मैकदिने चतु-र्द्दशमनूनामधिकारावसाने सृष्टिसंहारहेतुभूतारात्रिः ।) रात्रिविशेषः सा तु कालः संहारः ।मरणं तदुपलक्षितारात्रिः कल्पान्तरात्रिरित्यर्थः ।इति देवीमाहात्म्यटीकायां विद्याविनोदः
भीम-रथी इति हारावली
दुर्गायाः शक्तिविशेषः ।यथा, --“सा दूर्गा शक्तिभिः सार्द्धं काशीं रक्षति सर्व्वतः ।ताः प्रयत्नेन संपूज्याः कालरात्रिमुखा नरैः”
इति काशीखण्डम्
(दीपावली यथा, --“दीपावली तु या प्रोक्ता कालरात्रिश्च सा मता” ।इत्यागमवचनात् ।क्रियायोग्यकालविशेषः यदुक्तं दीपिकायाम् ।“रवौ षष्ठं विधौ वेदं कुजवारे द्वितीयकम् ।वुधे सप्त गुरौ पञ्च भृगुवारे तृतीयकम्
शनावाद्यं तथा चान्तं रात्रौ कालं विवर्जयेत्”
)