| YouTube Channel

कालप्रवृत्ति (kAlapravRtti)

 
वाचस्पत्यम्
Sanskrit
कालप्रवृत्ति स्त्री त० खण्डकालस्य व्यवहारारम्भे ।तत्प्रवृत्तिकालश्च सि० शि० उक्तोयथा“लङ्कानगर्यामुदयाच्च भानोस्तस्यैव वारे प्रथमं बभूव ।मधोः सितादेर्दिनमासवर्षयुगादिकानां युगपत् प्रवृत्तिः”“कालस्य व्यक्तीनामपि दिनमासवर्षयुगादीनां युगपदेक-हेलया प्रवृत्तिर्बभूव एतदुक्तं भवति चन्द्रार्कयो-र्मेषादिस्थयोश्चैत्रस्य शुक्लपक्षादिः प्रतिपत् अतो मधोःसितादेर्दिनानां सौरादिमासानां वर्षाणां युगानां मन्व-न्तराणां कल्पस्य तदैव प्रवृत्तिः अथोदयाच्चभानोः चोदयः कस्मित् देशे लङ्कानगर्याम् ।तथा तस्यैव वारोचादित्यवार इत्यर्थः