कालपुरुष (kAlapuruSa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
English कालपुरुष kAlapuruSa servant of the god of death
कालपुरुष kAlapuruSa time personified
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishHindi
Hindiयूनिवर्सल मूलादर्शीय मानव. समय की आत्मा
Apte Hindi
Hindiकालपुरुषः
कालः-पुरुषः -
यमराज का सेवक
Shabdartha Kaustubha
Kannadaकालपुरुष
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಾಲವ್ಯ್ವಹಾರಕ್ಕೆ ಕಾರಣವಾದ ಮೇಷಾದಿ ೧೨ ರಾಶಿರೂಪವಾದ ಪುರುಷಾಕಾರದ ಒಂದು ಚಕ್ರ
कालपुरुष
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಪ್ಪು ಬಣ್ಣದ ಮನುಷ್ಯ
शब्दकल्पद्रुमः
Sanskritकालपुरुषः (कालः कालचक्रं पुरुष इव ।) यम-सहायः । इति जटाधरः ॥
ज्योतिःशास्त्रम् । यथा“किन्त्वस्य कालपुरुषाख्यमहार्णवस्यगच्छेत् कदाचिदनृषिर्मनसापि पारम्” ॥
कालपुरुषः स चाख्या नाम यस्यासौ तस्यज्योतिःशास्त्रविस्तीर्णसमुद्रस्य । इति भट्टोत्पलः ॥
* ॥
नराणां शुभाशुभज्ञानार्थं जन्मलग्नादिद्वादशरा-शिकल्पितपुरुषाकारः । यथा, --“शीर्षमुखबाहुहृदयोदराणिकटिवस्तिगुह्यसंज्ञ-कानि । ऊरूजानुकजङ्घेचरणाविति च राशयो-ऽजाद्याः” ॥
इति दीपिका ॥
* ॥
नराणां शुभा-शुभज्ञानार्थं जन्मलग्नादिराशिद्रेक्काणघटितपुरु-षाकारः । यथा, “कं दृक्श्रोत्रनसाकपोलहनवोवक्त्रञ्च होरादयस्ते कण्ठांशकबाहुपार्श्वहृदयक्रो-डानिनाभिस्ततः । वस्तिः शिश्नगुदे ततश्च वृषणा-वूरूततो जानुनी जङ्क्षाङ्घ्री ह्युभयत्र वाममुदितै-र्द्रेक्काणभागैस्त्रिधा” ॥
इति “कालनरस्याङ्गेसद-सद्ग्रहयोगतः । पुंसामपि तदङ्गेषु शुभाशुभफलंवदेत्” ॥
इति वृहज्जातकम् ॥
वाचस्पत्यम्
Sanskritकालपुरुष कालः कालचक्रं पुरुष इव । मेषादिद्वादशराशिस्वरूपे कालव्यवहारकारके पुरुषाकारे गगनस्थे१ वायुचक्रभेदे । तस्य च जन्मादौ शुभाशुभज्ञानाययथाङ्गादिविभागः, तथा वृहज्जातके उक्तं यथा “शीर्षंमुखबाहू हृदयोदराणि कटिअस्तिगुह्यसंज्ञकानि । जानु-ऊर्ङ्घेच च ऊरू चरणाविति राशयोऽजाद्याः” तस्यार्थः ।“मेषः शिरोवृषोवक्त्रं मियुनं बाहुयुग्यकम् । कर्कटो-हृदयञ्चैब सिहस्तूदरमेव च । कन्या कटिस्तुला वस्ति-र्वृश्चिको गुह्यमेव च । धनुरूरू मृगो जानु कुम्भोजङ्घेप्रकीर्त्तिते । मीनः पादद्वयञ्चैवाङ्गानि कालनरस्य तु” ।ततश्च यदङ्गराशिराशीशौ दीर्घौ तदङ्गं दीर्घं, तयोर्लघुत्वेलघु, राशिराशीशयोर्भिन्नरूपत्वे मध्यमम् इति कल्प्यम् ।लग्नद्रेक्काणभेदेनाङ्गविशेषः तत्द्द्येक्काणे सदसद्ग्रह-योगेन फलविशेषश्च वृहज्जा० उक्तः यथा । “कं दृक्-श्रोत्रनसाकपोलहनवो वक्त्रञ्च होरादयस्ते कण्ठांसक-वाहुपार्श्वहृदयक्रोडानि नाभिस्ततः । वस्तिः शिश्नगुदेततश्च वृषणावूरू ततो जानुनी--जङ्घ्रङ्घ्री ह्युभयत्रवाममुदितैद्रेक्काणभागैस्तिधा” वचनस्यायमर्थः त्रिभि-र्द्रेक्काणभागैस्त्रिधा देहविभाग इति शेषः । तत्र प्रथ-मेन द्रेक्काणेन मूर्द्धाद्यङ्गं, द्वितीयेन कण्ठादि, तृतीयेनवस्त्यादि । तत्राप्य्वदितैर्दृश्यभागस्थैर्वाममङ्गमनुदितैर-दृश्यभागस्थैर्दक्षिणाङ्गमित्यर्थः । तथाच लग्नात् द्वाद-शैकादशदशमनवमाष्टमसप्तमाः उदितभागस्था दृश्याः ।अनुदितभागस्थोऽदृश्यः सच लग्नात् द्वितीयतृतीयचतुर्थ-पञ्चमषष्ठसप्तमांशभेदभागस्थः । तथाचायमर्थः प्रथमेद्रेक्-काण लग्नं शिरः, द्वितीये द्वादशे च क्रमेण दक्षवामेदृशौ, तृतीयैकादशयोः दक्षवामश्रोत्रे, चतुर्थपञ्चमयोः, दक्षवामे नासे, पञ्चमनवभयो, दक्षवामकपोलौ, षष्ठा-ष्टमयोः दक्षवामे हनू, सप्तमं मुखम् । लग्नगे द्वितीयेद्रेक्काणे लग्नं कण्ठः, द्वितीयद्वादशयोः दक्षवाभस्कन्धौ, तृतीयैकादशयोः दक्षवामौ बाहू, चतुर्थदशमयोः दक्षवामेपर्श्वे पञ्चमनवमयोः दक्षवमौ हृद्भागौ, षष्ठाष्टमयोःदक्षवामौ उदरभागौ, सप्तमं नाभिः । लग्नस्य तृतीयेद्रेक्काणे लग्नं वस्तिः (नाभिलिङ्गमध्यभागः) द्वितीय-द्वादशयोः दक्षवामौ शिश्नगुह्यभागौ, तृतीयैकादशयोःदक्षवामौ ऊरू । पञ्चमनवप्नयोः दक्षवामे जानुनी ।षष्ठाष्ठमयोः दक्षवामे जङ्घे, सप्तमं पादाविति । इतिमहीधरकृतव्याख्यानुसारि । तत्फलमाह तत्रैव “तस्मिन्पापयुते व्रणं, शुभयुते सौम्यं, हि लक्ष्मादिशेत् ।स्वर्क्षांशे स्थिर २, ५, ८, ११, संयुते च सहजः, स्यादन्य-थाऽऽगन्तकः । मन्दे खानिलजोऽग्निशस्त्रविषजो भौमे, बुधे (पापयुते) भूभवः, सूर्य्ये काष्ठचतुष्पदाच्च, हिमगौ(हीनचन्द्रे) शृङ्ग्यब्जजोऽन्ये शुभाः” । कालपुरुषःप्रतिपाद्यतयास्त्यस्य अच् । २ ज्योतिःशास्त्रे “किन्त्वस्यकालपुरुषस्य महार्णवस्य गच्छेत् कदाचिदन्र्षिर्मनसाऽपिपारम्” भट्टोत्पलः । कर्म्म० । ३ कृष्णवर्ण्णपुरुषे । कालःपुरुष इव । दानार्थं कल्पिते पुरुषाकारे ३ कालरूपेश्वर-मूर्त्तिभेदे तत्प्रकारो हेमा० दा० ख० उक्तो-भविष्यो० यथा“काम्योदानविधिः पार्थ! क्रियमाणो यथातथम् । फलायमुनिभिः प्रोक्तो विपरीतो भयाय च । ज्ञेयं निष्कशतंपार्थ! दानेषु विधिरुत्तमः । मध्यमस्तु तदर्द्धेन तदर्द्धे-नाधमः स्मृतः । मेष्याञ्च कालपुरुषे तथान्येषु महत्सुच । एवं वृक्षे रथेऽण्डे च धेनोः कृष्णाजिनस्य च ।अशक्तस्यापि क्लिष्टोऽयं पञ्चसौवर्णिकोविधिः । अतोऽप्यल्पेनयोदद्यात् महादानं नराधिप! । प्रतिगृह्णाति वा तस्यदुःखशोकावहं भवेत् । पुण्यन्दिनमथासाद्य भूमिभागेसमे शुमे । चतुर्द्दश्यां चतुर्थ्यां वा विष्थां व पाण्डु-नन्दन! । पुमान् कृष्णतिलैः कार्य्योरौप्यदन्तः सुवर्ण्णदृक्” ।सुवर्ण्णादिपरीमाणमत्र यथाशक्ति सम्पादनीयम् ।खड्गोद्यतकरोदीर्घोजवाकुसुमकुण्डलः । रक्ताम्बरधरःस्रग्वी शङ्खमालाविभूषितः । तीक्ष्णासिपुत्रीबन्धेन विसृ-ग्दारिकटीतटः । उपानदुयुअयुक्ताङ्घ्रिः कृष्णकम्बल-पार्श्वगः । गृहीतमांसपिण्डश्च वामे करतले तथा ।एवंविधं नरं कृत्वा गृहीतकुसुमाञ्जलिः । यजमानःप्रसन्नात्मा इमं मन्त्रमुदीरयेत । सम्पूज्य गन्धकुसुमैर्नै-वेद्यं विनिवेद्य च । सर्व्वं कलयसे यस्मात् कालस्त्वं तेनचोच्यसे । ब्रह्मविष्णुशिवादीनां त्वमाराध्योऽसि सुव्रत! ।पूजितस्त्वं मया भक्त्या पार्थिवश्च तथासुखम् । यद्बु-ध्यते तव विभो! तत्कुरुष्व नमोनमः । एवं संपूजयित्वातं ब्राह्मणाय निवेदयेत् । ब्राह्मणं प्रथमं पूज्य वासो-भिर्भूषणैस्तथा । दक्षिणां शक्तितो दद्यात् प्रणिपत्यविसर्ज्जयेत्” । दक्षिणां पूर्व्वोक्तां निष्कादिकाम् “अनेनबिधिना यस्तु दानमेतत् प्रयच्छति । न च मृत्युभयं तस्यन च व्याधिकृतं भवेत् । भवत्यव्याहतैश्वर्य्यः सर्वबाधा-विवर्ज्जितः । देहान्ते सूर्य्यभवनं भित्त्वा याति परंपदम् । पुण्यक्षयादिहागत्य राजा भवति धार्म्मिकः ।सत्रयाजी श्रिया युक्तः पुत्रपौत्रसमन्वितः । संपूज्यकालपुरुषं बिधिवद्द्विजाय दत्त्वा शुभाशुभफलोदयहेतु-भूतम् । रोगातुरे सकलदोषमयेऽत्र देहे देही न मोह-मुपगच्छति तत्प्रभावात्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
