| YouTube Channel

कालचिह्न (kAlacihna)

 
Apte Hindi
Hindi
कालचिह्नम्
नपुं*
काल - चिह्नम् -
मृत्यु के निकट आने का समय
Shabdartha Kaustubha
Kannada
कालचिह्न
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಮರಣಲಕ್ಷಣ /ಮೃತ್ಯುವನ್ನು ಸೂಚಿಸುವ ಲಕ್ಷಣ
व्युत्पत्तिः - > कालस्य मृत्योः ज्ञापकं चिह्नम्
L R Vaidya
English
kAla-cihna {% n. %} a symptom of approaching death.
वाचस्पत्यम्
Sanskrit
कालचिह्न
न०
कालस्य मृत्योर्ज्ञापकं चिह्नम् मृत्युज्ञापकेलक्षणभेदे तल्लक्षणमुक्तं काशीख० ४१ अ० यथा“वदामि कालचिह्नानि जायन्ते यानि देहिनाम् ।मृत्यौ निकटमापन्ने मुने! तानि निशामय दक्षनासापुटे यस्य वायुर्वाति दिबानिशम् अखण्डमेकं तस्यायुःक्षयत्यब्दत्रयेण हि द्व्यहोरात्रं त्र्यहोरात्रं रवि-र्वहति सन्ततम् सार्द्धैकदर्षन्तस्येह जीवितावधिरुच्यते ।वहेन्नासापुटयुगे दशाहानि निरन्तरम् वातश्चेत् सहसं-क्रान्तिस्तया जीवेद्दिनत्रयम् नासाव्र्त्मद्वयं हित्वामातरिश्वा मुखाद्वहेत् संशेद्दिनत्रयादर्व्वाक् प्रयाणंतस्य चाध्व सूर्य्ये सप्तमराशिस्थे जन्मर्क्षस्थे निशा-चरे पौष्णः कालो द्रष्टव्यो यदा याम्ये रविर्वहेत् ।अकस्मादेव तत्काले मृत्युः सन्निहितो मवेत् वञ्चनो-यः प्रयत्नेन कालो मृत्युभीरुणा अकस्माद्वीक्षते यस्तुपुरुषं कृष्णपिङ्गलम् तस्मिन्नेव क्षणे गुप्तं सजीवेद्व-त्सरद्वयम् यस्य वीजं मलं मूत्रं, क्षुतम् मूत्रं मलन्तथा ।इहैकदा पतेद्यस्य अब्दन्तस्यायुरिष्यते इन्द्रनीलनिभंव्योम्नि नागवृन्दं यईक्षते इतस्ततः प्रसृमरं षण्मासंन जीवति व्यभ्रेऽह्नि वारिपूर्णास्यः पृष्ठीकृत्य दिवा-करम् फुत्कृत्याप्स्विन्द्रचापञ्च पश्येत् षण्मासजीवनः ।अरुन्धर्ती धुवञ्चैव विष्णोस्त्रीणि पदानि आसन्न-मृत्युर्नोपश्येच्चतुर्थं मातृमण्डलम् अरुन्धती भवेज्जिह्वाब्रुवो नासाग्रमुच्यते विष्णोः पदानि भ्रूमध्ये नेत्राग्नौमातृमण्डलम् वेत्ति नीलादिवर्णस्य कट्वम्लादिरसस्यहि अकस्म दन्यथाभावं षण्मासेन मृत्युभाक् षण्मासमृत्योर्सत्येस्य कण्ठोष्ठरसनारदा शुष्यन्ति सततं तद्वद्विच्छायास्तालुपञ्चमाः दन्तःकरजनेत्रान्ता नीलिमानंभजन्ति चेत् सहि कीनाशनगरीं षष्ठे मासि व्रजेन्नरः ।संप्रवृत्ते निधुवने मध्यान्ते क्षौति चेन्नरः निश्चितं पञ्चमे-मासि धर्म्मराजातिथिर्भवेत् द्रुतमारुह्य सरटस्त्रिवर्णोयस्य मस्तकम् प्रयाति, याति तस्यायुः षण्मासे सम्परिक्षयम् सुस्नातस्यापि यस्याशु हृदयं परिशुष्यति ।चरणौ करौ वापि त्रिमासन्तस्य जीवितम् प्रतिविम्बेभवेद्यस्य पदङ्घण्डपदाकृति पांशौ वा कर्दमे वापि पञ्च-मासान् जीवति छाया प्रकम्पते यस्य देहबन्धेऽपि निश्चले ।कृतान्तदूता बध्नन्ति चतुर्थे मासि तन्नरम् निजस्य प्रति-विम्बस्य नीराजमुकूटादिषु उत्तमाङ्गन्नयः पश्येत् मासे-न विनश्यति मतिभ्रार्म्येत्स्स्वलेद्वाणी धनुरैन्द्रं निशीक्षते ।रात्रौ, चन्द्रद्वयं वापि दिवा द्वौ चा दिवाकरौ दिवा चतारकाचक्रं रात्रौ व्योम वितारकम् युगपच्च चतुर्द्दिक्षु-शाक्रं कोदण्डमण्डलम् भूरुहे भूधराग्रे वा गन्धर्व्व-नगरोदयम् दिवा पिशाचनृत्यञ्च एते पञ्चत्वहेतवः ।सर्वेष्वैतेषु चिह्नेषु यद्येकमपि वीक्षते तदा मासावधिर्मृत्युःप्रताक्षेत नचाधिकम् करावरुद्धश्रवणः शृणोति यदाध्वनिम् स्थूलः कृशः कृशः स्थूलस्तदा मासान्निवर्त्तते ।यः पश्ये दात्मनश्छायां दक्षिणाशासमाश्रिताम् दिनानिपञ्च जीवित्वा पञ्चत्वमुपयाति सः प्रोह्यते भक्ष्यते वापिपिशाचासुरवायसैः भूतैः प्रेतैः श्वभिर्गृध्रैर्गोमायुखरशूकरैः सरभैः करभैः कीशैः श्येनैरश्वतरैवृर्कैः स्वप्नोसजोवितं त्यक्त्वा वर्षान्ते यममीक्षते गन्धपुष्पांशुकैः शोणैःस्वान्तनुं भूषितान्नरः यः पश्येत् स्वप्रसमये सौऽष्टौ-मासाननित्यहो पाशुराशिञ्च वल्मीकं यूपं दण्डम-थापि वा योऽधिरोहति वैस्वप्ने षष्ठे मासि नश्यति ।रासभारूढमात्मानं तैलाभ्यक्तञ्च मुण्डितम् नीयमानंयमाशां यः स्वप्ने पश्येत् स्वपूर्व्वजान् स्वपौलौ स्वतनौवापि यः पश्येत् स्वप्ततोनरः तृणानि शृष्ककाष्ठानिषष्ठे मासि तिष्ठति लोहदण्डधरं कृष्णं पुरुषं कृष्णवाससम् स्वयं योऽग्रे स्थितं पश्येत् त्रीन्मासान्न लङ्घयेत् काली कुमारी यं स्वप्ने बध्नीयाद्बाहुपाशकैः समासेन समीक्षेत नगरीं शमनोषिताम् नरो यो वानरा-रूढः प्रयान् प्राचीं दिशं स्वपन् दिनैः पञ्चमैरेवपश्येत् संयमर्नी पुरीम् कृपणोऽपि वदान्यः स्यात् वदान्यःकृपणोयदि प्रकृतिर्विकृतिश्चेत्सपात्तदा पञ्चत्वमृच्छति ।एतानि कालचिह्नानि सन्त्यन्यानि बहून्यपि ज्ञाताभ्य-स्येन्नरोयोगमथवा काशिकां श्रयेत् कालवञ्चनोपायंसुनेऽन्यमवयाम्यहम्”