| YouTube Channel

कालचक्रं (kAlacakraM)

 
शब्दकल्पद्रुमः
Sanskrit
कालचक्रं,
क्ली,
(कालस्य कालगतेश्चक्रमिव ।) काल-रूपचक्रम् यथाह -- हेमचन्द्रः
“कालो द्विविधोऽवसर्पिण्युत्सर्पिणीषु भेदतः ।सागरकोटिकोटीनां विंशत्या समाप्यते
अवसर्पिण्यां षडरा उत्सर्पिण्यां एव विपरीताः ।एवं द्वादशभिररैर्विवर्त्तते कालचक्रमिदम्”
ज्योतिश्चक्रविशेषः यथा, --“त्रिनाभिमति पञ्चारे षण्णेमिन्यक्षयात्मके ।सम्बत्सरमये कृत्स्नं कालचक्रं प्रतिष्ठितम्”
इति विष्णुपुराणे चक्रमेवोपासनार्थंविशिष्यन्नाह त्रिनाभिमतीति नाभिः स्तम्भःयत्राक्षः प्रोतः त्रिमेखलः अह्नश्चात्रनाभित्वेनोपास्यत्वात् मेखलारूपास्तिस्रो नाभयःपूर्व्वाह्णमध्याह्नापराह्णास्तद्युक्ते पञ्चारे पञ्च संव-त्सरपरिवत्सरादयो वक्ष्यमाणा अराः शलाकायस्य सः तस्मिन् षण्णेमिनि षट् ऋतवो नेमयःप्रान्तबलयानि तद्वति कालात्मकत्वादक्षयात्मके ।संवत्सरमये संवत्सरावयवमासा रम्भकत्वात् संव-त्सरत्वेनोपास्यत्वाच्च तन्मयम् तदुक्तं मात्स्ये ।“अहस्त्रिनाभिः सूर्य्यस्य त्वेकचक्रस्य वै स्मृतम् ।अराः संवत्सराः पञ्च नेम्यः षडृतवः स्मृताः”
इति तस्मिन् कालचक्रं कालोपलक्षणभूतं कृत्स्नंज्योतिश्चक्रं प्रतिष्ठितं आश्रितम् सूर्य्यगत्यधीन-त्वात् कालचक्रफलस्य इति तट्टीकायां श्रीधर-स्वामी
(“स एष निमेषादियुगपर्य्यन्तः कालश्चक्र-वत् परिवर्त्त मानः कालचक्रमुच्यत इत्येके”
इतिसुश्रुते सूत्रस्थाने अध्याये
)