कालकर्णी (kAlakarNI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiकालकर्णी
काल - कर्णी -
"दुर्भाग्य, मुसीबत"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Schmidt Nachtrage zum Sanskrit Worterbuch
Germanशब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritकालकर्ण्णी स्त्री कालः कर्ण्णोऽस्याः ङीप् । अलक्ष्मीभेदे“अलक्ष्मीः कालकर्ण्णी च” पुरा० । स्वार्थेक ह्रस्वः । काल-कर्णिका तत्रार्थे हेम० । अलक्ष्मीशब्देऽनुक्तस्तदुत्पत्त्यादि-रत्राभिधीयते पाद्मे उत्तरखण्डे देवीं प्रति शिववाक्यम् ।“मां प्रणम्य पुनर्देवा ममन्थुः क्षीरसागरम् । तस्मिन्प्रमथ्यमाने तु मया देवैश्च भाविनि! । ज्येष्ठा देवी समुत्-पन्ना रक्तस्रग्वाससावृता । उत्पन्ना साऽब्रवीद्देवान् किं-कर्त्तव्यं? मयेति वै । तामब्रुवंस्तदा देवीं सर्व्वे देवगणास्तदा । येषां गृहान्तरे नित्यं कलहं संप्रवर्त्तते । तत्तेस्थानं प्रयच्छामो वासस्तत्र शुभानने! । यस्य गेहंकपालास्थिभस्मकेशादिचिह्नितम् । परुषं भाषते नित्यंवसन्त्यनृतवादिनः । सन्ध्याकाले च ये पापाः स्वपन्तिमलचेतसः । तेषां वेश्मनि संतिष्ठ दुःखदारिद्र्यदायिनी ।कपालकेशभस्मास्थितुषाङ्गाराणि यत्र तु । तत्र ते सततंस्थानं भविष्यति न संशयः । अकृत्वा पादयोःशौचं यस्त्वा-चामति दुर्म्मतिः । तं भजस्व सदा देवि! कलुषेणावृता भृ-शम् । तृणाङ्गारकपालाश्मबालुकायसचर्म्मभिः । दन्तधावनकर्त्तारो सविष्यन्ति नराधमाः । रमस्वकलिना देवि! तेषांवेश्मसु नित्यशः । तिलपिष्टञ्च नक्तञ्च कालिङ्गशिग्रुगृञ्जनम् ।छत्राकं विड्वराहञ्च विल्वकोषातकीफलम् । अलाबूं(वर्त्तुलार) श्रीफलं येवै स्वादयन्ति नराधमाः । तेषां गृहेतव स्थान देवि! दारिद्र्यदे! सदा । इत्यादिश्य सुराःसर्वे ते ज्येष्ठां कलिवल्लभाम्” । तस्या उद्दालकमुनिनासह विवाहादिकथा च पाद्मे १६१ अ० ।“समुद्रमथनाद्यानि रत्नान्यापुः सुरोत्तमाः । श्रेष्ठञ्चकौस्तुभं तेषु विष्णवे प्रददुः सुराः । यावदङ्गीचकारासौलक्ष्मीं भार्य्यार्थमात्मनः । तावद्विज्ञापयामास लक्ष्मीस्तंचक्रपाणिनम् । लक्ष्मीरुवाच । असंस्कृत्य कथं ज्येष्ठांकनिष्ठा परिणीयते । तस्मान्ममाग्रजामेतामलक्ष्मीं मधु-सूदन! । विवाह्योद्वह मां पश्चादेष धर्म्मः सनातनःतस्मात् धर्म्मव्यतिक्रामं न कुर्य्या मधुसूदन! । इति तद्द-चनं श्रुत्वा स विष्णुर्लोकभावनः । उद्दालकाय मुनये सुदीर्धतपसे तदा । आप्तवाक्यानुरोधेन तामलक्ष्मीं ददौ किल ।स्थूलोष्ठीं शुष्कवदनां विरूपां बिभ्रतीं तनुम् । स्रव-दारक्तनयनां रूक्षपक्वशिरोरुहाम् । स मुनिर्विष्णु-वाक्यात्तामङ्गीकृत्य स्वमाश्रमम् । वेदध्वनिसमायुक्तमा-नयामास धर्म्मवित् । होमधूपसुगन्धाद्यं वेदधोषेण ना-दितम् । आश्रमं तं विलोक्याथ व्यथिता साऽब्रवोदिदम् ।ज्यैष्ठोवाच । न हि वासोनुरूपोऽयं वेदध्वनियुतो मम ।नात्रागमिष्ये भो ब्रह्मन्! नयस्वान्यत्र मां ध्रुवम् । उद्दा-लक उवाच । कथं नायासि किञ्चात्र? वर्त्तते स्वमतं तव ।तवयोग्या च वसतिः का भवेत्तद्वदस्व माम् । ज्येष्ठोवाच ।वेदध्वनिर्भवेद् यस्मिन्नतिथीनाञ्च पूजनम् । यज्ञदाना-दिकं यत्र नैव, तत्र वसाम्यहम् । परस्परानुरागेण दाम्पत्यंयत्र विद्यते । पितृदेवार्च्चनं यत्र तत्र नैव वसाम्यहम् ।दानशौचे न विद्येते परद्रव्यापहारिणः । परदाररतायत्र तत्र स्थाने रतिर्मम । वृद्धसज्जनविप्राणां यत्रस्यादवमाननम् । निष्ठुरं भाषणं यत्र तत्र सम्य-ग्वसाम्यहम् । सूत उवाच । इति तद्वचनं श्रुत्रा विषण्णवदनोऽभवत् । उद्दालकस्ततोवाक्यं तामलक्ष्मीमुवाच ह ।उद्दालक उवाच । अश्वत्थवृक्षमूलेऽस्मिन् अलक्ष्मि! श्रम्य-तां क्षणम् । आश्रमस्थानमालोक्य यावदायार्म्यहं पुनः ।सूत उवाच । इति तां तत्र संस्थाप्य जागामोद्दालकोमुनिः । प्रतीक्षन्ती चिरं तत्र यदा न तं ददर्श सा ।तदा रुरोद करुणं भर्त्तुस्त्यागेन दुःखिता । तत्तस्याःक्रन्दितं लक्ष्मीर्वैकुण्ठभवनेऽशृणोत् । तदा विज्ञापयामासविष्णुमुद्विग्नमानसा । लक्ष्मीस्ववाच । स्वामिन्! मद्भ-गिनी ज्येष्ठा स्वामित्यागेन दुःखिता । तामाश्वासयितुंयाहिकृपालो! यद्यहं प्रिया । सूत उवाच । लक्ष्म्या सह-ततो विष्णुस्तत्रागात् कृपयान्वितः । आश्वासयन्नलक्ष्मीं तामिदं वाक्यमथाब्रवीत् । विष्णुरुवाच । अश्वत्थवृक्षमासाद्य सदाऽलक्ष्मि! स्थिरा भव । ममांशसम्भवोह्येष आवासस्ते सया कृतः । मन्दवारे सदा नूनं लक्ष्मीरत्रागमिष्यति । अस्पृश्योऽसौ भवेत्तस्मात् मन्दवारं विनाकिल” ।दीपान्वितामावस्यायां तत्पूजाविधानं मन्त्रलिङ्गात्यथा “अलक्ष्मीस्त्वं कुरूपासि कुत्सितस्थानवासिनि! ।सुखरात्रौ मया दत्तां गृह्ण पूजाञ्च शाश्वतीम् । दारिद्र्यकलहप्रिये देवि! त्वं धननाशिनी । याहि शत्रोगृऽहंनित्यं स्थिरा तत्र भविष्यसि । यदि त्वं मे महाभागे!प्रीता भवसि सर्व्वदा । पुत्रबन्धुकलत्रेषु कदाचिन्नागमिष्यसि । गच्छत्वं मन्दिरं शत्रोर्गृहीत्वा चाशुभं मम ।मदाश्रयं परित्यज्य स्थिता तत्र भविष्यसि” । किञ्च ।“एवं गते निशीथे तु नारीभिः स्वगृहाङ्गनात् । अलक्ष्मीश्चवहिष्कार्य्या अमन्त्रञ्च यथाविधि” इति कृत्यतत्त्वार्णवधृतब्रह्मपुराणम् । “एवं गते निशीथे तु जने निद्रार्द्धलोचने ।तावन्नगरनारीभिः शूर्पडिण्डिमवादनैः । निष्कास्यते प्रहृ-ष्टाभिरलक्ष्मीः स्वगृहाङ्गनात्” इति मदनरत्नधृतञ्च ।“ग्रहकुष्माण्डखेटाद्याः कालकर्णीशिशुग्रहाः” काशी०
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
