कालः (kAlaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindiमास्टर समय
Apte Hindi
Hindiकालः
- कलयति आयुः कल+णिच्+अच्
सांख्यकारिका में बताये चार पदार्थों में से एक
कालः
- कलयति आयुः कल+णिच्+अच्
समय का कोई भाग
Wordnet
Sanskrit मकारः, कालः
वर्णमालायाः पञ्चविंशतितमः वर्णः पवर्गस्य अन्तिमं व्यञ्जनञ्च।
"मकारस्य उच्चारणम् ओष्ठाभ्यां नासिकया च भवति।"
युगः, कालः
संस्कृतेः इतिहासस्य विशिष्टावधिः कालः यः पूर्वापरात् विलक्षणः अस्ति।
"अहं भारतेन्दुः नाम युगस्य रचनां गातुकामः अस्मि। "
समयः, कालः
जीवनस्य अवधिः।
"राज्ञः अन्तिमः समयः अतीव कष्टदायकः आसीत्।"
शनिः, शनैश्वरः, छायात्मजः, सौरिः, पातङ्गिः, छायासुतः, भास्करिः, सूर्यपुत्रः, कालः, क्रोडः
हिन्दूनाम् एका देवता।
"मोहनः नित्यं शनिं पूजयति।"
कालः
(व्याकरणे) तत् क्रियायाः रूपं यत् समयाधारेण क्रियायाः पौर्वापर्यं निर्धारयति।
"मुख्यरूपेण कालस्य त्रयः प्रकाराः"।"
प्रसङ्गः, अवसरः, कालः, वेला, अवकाशः, प्रस्तावः
विशिष्टः समयः।
"प्रतिवर्षे विजयादशम्याः प्रसङ्गे रामलीलायाः आयोजनं भवति।"
त्रयः, तिस्रः, त्रीणि, कालः, अग्निः, भुवनम्, गङ्गामार्गः, शिवचक्षुः, गुणः, ग्रीवारेखा, कालिदासकाव्यम्, वलिः, सन्ध्या, पुरम्, पुषकरम्, रामः, विष्णुः, ज्वरपादः
एकः अधिकः द्वौ इति कृत्वा प्राप्ता संख्या।
"पञ्च इति सङ्ख्यातः यदा द्वौ इति सङ्ख्या न्यूनीकृता तदा त्रयः इति संङ्ख्या प्राप्ता।"
कालः
भोजनस्य निश्चितः समयः।
"अद्यपि अस्माकं देशे दीनाः द्वयोः कालयोः भोजनं न प्राप्नुवन्ति।"
कालः, समयः
समयविशेषः।
"महाविद्यालयस्य कालः अस्माभिः सन्तोषेण व्यतीतः।"
युगम्, कालः, समयः
कालविशेषः- अधिकः कालः।
"तस्य प्रतीक्षायां युगं समाप्तम्।"
एकादशम्, रुद्रः, दुर्योधनसेनापतिः, कालः
एकाधिका दश सङ्ख्या।
"सप्ताधिकं चत्वारि एकादशं भवति।"
यमः, यमराट्, कृतान्तः, कालः, अन्तकः, वैवस्वतः, महिषध्वजः, महिषवाहनः, धर्मः, धर्मराजः, पितृपति, दण्डधरः, श्राद्धदेवः, शमनः, औडम्बरः, यमुनाभ्राता, दक्षिणदिक्पालः, दध्नः, भीमशासनः, शीर्णपादः, प्राणहरः, हरिः
मृत्योः देवता, दक्षिणदिक्पालः यः जीवानाम् फलाफलम् नियमयति।
"दत्ताभये त्वयियमादपि दण्डधारे। "
मृत्युः, मरणम्, निधनम्, पञ्चत्त्वम्, पञ्चता, अत्ययः, अन्तः, अन्तकालः, अन्तकः, अपगमः, नाशः, नाश, विनाशः, प्रलयः, संस्थानम्, संस्थितिः, अवसानम्, निःसरणम्, उपरतिः, अपायः, प्रयाणम्, जीवनत्यागः, तनुत्यागः, जीवोत्सर्गः, देहक्षयः, प्राणवियोगः, मृतम्, मृतिः, मरिमा, महानिद्रा, दीर्घनिद्रा, कालः, कालधर्मः, कालदण्डः, कालान्तकः, नरान्तकः, दिष्टान्तकः, व्यापदः, हान्द्रम्, कथाशेषता, कीर्तिशेषता, लोकान्तरता
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
"ध्रुवो मृत्युः जीवितस्य।"
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः, वृषाणकः, शर्वः, सतीर्थः, सुब्रह्मण्यः
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
"शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।"
कालः, समयः, वेला
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
"कालो न तिष्ठति।"
कालः
एकं सुगन्धीद्रव्यम् ।
"कालस्य वर्णनं कोशे वर्तते"
कालः
एकः काष्ठप्रकारः ।
"कालस्य वर्णनं कोशे वर्तते"
कालः
नवनिधिषु एकः निधिः ।
"कालस्य वर्णनं जैनसाहित्ये वर्तते"
कालः
एकः पर्वतः ।
"कालस्य वर्णनं ऋग्वेदे वर्तते"
कालः
एकः शिवस्य शत्रुः ।
"कालस्य वर्णनं कोशे वर्तते"
कालः
एकं रक्षः ।
"कालस्य वर्णनं ऋग्वेदे वर्तते"
कालः
एकः नागानां राजा ।
"कालस्य वर्णनं बौद्धसाहित्ये वर्तते"
कालः
एकः लेखकः ।
"कालः बौद्धसाहित्ये वर्तमानानां मन्त्राणां लेखकः अस्ति"
कालः, कालयवनः
एकः राजपुत्रः ।
"कालस्य वर्णनं भागवतपुराणे वर्तते"
कालः
प्रसेनजितः भ्राता ।
"कालस्य वर्णनं बौद्धसाहित्ये वर्तते"
कालः
ह्रदस्य एकः पुत्रः ।
"कालस्य वर्णनं हरिवंशे वर्तते"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वैजयन्तीकोषः
SanskritWord: कालः
Root: काल
Gender: पुं
Number: all
अर्थः ⇒ समयः
Meaning(s):
⇒ Time
Shloka(s):
2|1|52|1 ► कालोऽनेहा च दिष्टश्च स सूक्ष्मः स्त्री तुटिस्त्रुटिः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
➠ 2|1|52|1 ⇢ कालः (काल) (पुं) ⇒ Time ⇒ समयः
➠ 2|1|52|1 ⇢ अनेहा (अनेहस्) (पुं) ⇒ Time ⇒ समयः
➠ 2|1|52|1 ⇢ दिष्टः (दिष्ट) (पुं) ⇒ Time ⇒ समयः
Related word(s):
जातिः ➡ कालः
उपाधि ➡ अवयवः
परा_अपरासंबन्धः ➡ सन्ध्या
अमरकोशः
SanskritWord: कालः
Root: कालः
Gender: undefined
Number: undefined
Meaning(s):
⇒ law
⇒ rule
⇒ time
⇒ case
⇒ sign
⇒ hint
⇒ limit
⇒ order
⇒ terms
⇒ season
⇒ speech
⇒ treaty
⇒ ordeal
⇒ precept
⇒ compact
⇒ doctrine
⇒ practice
⇒ juncture
⇒ covenant
⇒ occasion
⇒ boundary
⇒ contract
⇒ harangue
⇒ condition
⇒ direction
⇒ agreement
⇒ observance
⇒ indication
⇒ engagement
⇒ convention
⇒ opportunity
⇒ declaration
⇒ stipulation
⇒ arrangement
⇒ circumstances
⇒ solemn address
⇒ coming together
⇒ intercourse with
⇒ established custom
⇒ account [computer]
⇒ protocol [computer]
⇒ conditions of agreement
⇒ demonstrated conclusion
⇒ appointed or proper time
⇒ conventional rule or usage
⇒ end of trouble or distress
⇒ meeting or a place of meeting
⇒ right moment for doing anything
⇒ coming to a mutual understanding
⇒ conventional meaning or scope of a word
⇒ Vedic passage which is the repetition of another one
Shloka(s):
3|3|149|2 ► समयाः शपथाचारकालसिद्धान्तसंविदः॥ (नानार्थवर्गः)
Synonym(s):
➠ 3|3|149|2 ⇢ समयः (समय) (पुं) ⇒ law, rule, time, case, sign, hint, limit, order, terms, season, speech, treaty, ordeal, precept, compact, doctrine, practice, juncture, covenant, occasion, boundary, contract, harangue, condition, direction, agreement, observance, indication, engagement, convention, opportunity, declaration, stipulation, arrangement, circumstances, solemn address, coming together, intercourse with, established custom, account [computer], protocol [computer], conditions of agreement, demonstrated conclusion, appointed or proper time, conventional rule or usage, end of trouble or distress, meeting or a place of meeting, right moment for doing anything, coming to a mutual understanding, conventional meaning or scope of a word, Vedic passage which is the repetition of another one
Related word(s):
जातिः ➡ कालः
शब्दकल्पद्रुमः
Sanskritकालः, (कलयति आयुः । कल् संख्याने पचा-द्यच् ततः प्रज्ञाद्यण् । यद्वा कालयति सर्व्वाणिभूतानि । कल् प्रेरणे ण्यन्तात् पचाद्यच् ।) क्षण-दण्डमुहूर्त्तप्रहरदिनरात्रिपक्षमासायनवत्सरादिः ।इति दुर्गादासः ॥
तत्पर्य्यायः । दिष्टः २ अनेहा ३समयः ४ । इत्यमरः । १ । ४ । १ ॥
“जन्यानां जनकः कालोजगतामाश्रयो मतः । परापरत्वधीहेतुः क्षणादिःस्यादुपाधितः” ॥
(यथा विष्णुपुराणे । १ । २ । १४ ।“परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विज ! ।व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथा परम्” ॥
)अस्य गुणाः । सङ्ख्या १ परिमितिः २ पृथक्त्वम्३ संयोगः ४ विभागः ५ । इति भाषापरिच्छेदः ॥
“अनादिनिधनः कालो रुद्रः सङ्कर्षणः स्मृतः ।कलनात् सर्व्वभूतानां स कालः परिकीर्त्तितः” ॥
इति तिथ्यादितत्त्वम् ॥
* ॥
(“कालस्तु त्रिविधो ज्ञेयोऽतीतोऽनागत एव च ।वर्त्तमानस्तृतीयस्तु वक्ष्यामि शृणु लक्षणम् ॥
कालः कलयते लोकं कालः कलयते जगत् ।कालः कलयते विश्वं तेन कालोऽभिधीयते ॥
कालस्य वशगाः सर्व्वे देवर्षिसिद्धकिन्नराः ।कालो हि भगवान्देवः स साक्षात्परमेश्वरः ॥
सर्गपालनसंहर्त्ता स कालः सर्व्वतः समः ।कालेन कल्प्यते विश्वं तेन कालोऽभिधीयते ॥
येनोत्पत्तिश्च जायेत येन वै कल्प्यते कला ।सोऽन्तवच्च भवेत्कालो जगदुत्पत्तिकारकः ॥
यः कर्म्मणि प्रपश्येत प्रकर्षे वर्त्तमानके ।सोऽपि प्रवर्त्तको ज्ञेयः कालः स्यात् प्रतिपालकः ॥
येन मृत्युवशं याति कृतं येन लयं व्रजेत् ।संहर्त्ता सोऽपि विज्ञेयः कालः स्यात् कलनापरः ॥
कालः सृजति भूतानि कालः संहरते प्रजाः ।कालः स्वपिति जागर्त्ति कालो हि दुरतिक्रमः ॥
काले देवा विनश्यन्ति काले चासुरपन्नगाः ।नरेन्द्राः सर्व्वजीवाश्च काले सव्व विनश्यति ॥
त्रिकालात् परतो ज्ञेय आगन्तुर्गतचेष्टकः ।तथा वर्षाहिमोष्णाख्या स्त्रयः काला इमे मताः ॥
तथा त्रयोऽन्येऽपि ज्ञेया उद्यन्मध्यास्तरूपिणः ।सूक्ष्मोऽपि सर्व्वगः स वै व्यक्ताद्व्यक्ततरः शुभः” ॥
इति प्रथमस्थाने ४ अः । हारीतेनोक्तम् ॥
)यमः । (यथा गोः रामायणे । ३ । ३५ । ४३ ।“आपतन्तीञ्चतां दृष्ट्वा कालदण्डोपमां गदाम्” ॥
)कृष्णवर्णः । कृष्णगुणवति त्रि । इत्यमरः । १ ।५ । १४, १६ । (यथा गोः रामायणे । ६ । ६७ । २ ।“उद्यतायुधनिस्त्रिंशे रथे च समलङ्कृते ।कालाश्वयुक्ते महति स्थितः कालान्तकोपमः” ॥
)मृत्युः । (यथा भागवते । ९ । ९ । २ ।“दिलीपस्तत्सुतस्तद्वदशक्तः कालमेयिवान्भगीरथस्तस्य पुत्त्रस्तेपे स सुमहत् तपः” ॥
)महाकालः । इति मेदिनी ॥
शनिः । इतिदीपिका ॥
कासमर्द्दः । रक्तचित्रकः । रालः ।कोकिलः । इति राजनिर्घण्ठः ॥
(सर्व्वकलनात्शिवः । यथा महाभारते । १३ । १७ । ४७ ।“गजहा दैत्यहा कालो लोकधाता गुणाकरः” ॥
कालनियन्तृत्वात् विष्णुः । यथा महाभारते । १३ ।१ । ४९ । ५८ ।“ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः” ॥
पर्व्वतविशेषः । यथा गोः राभायणे । ४ । ४४ । २१ ।“ततो महाश्रमं गत्वा देवगन्धर्व्वसेवितम् ।कालं नाम सदा शान्तं गमिष्यथ शिलोच्चयम्” ॥
)
कृदन्तरूपमाला
Sanskrit1 {@“कल शब्दसंख्यानयोः”@} 2 ‘कलेः कालयति क्षेपे, गतिसंख्यानयोर्द्वयोः।
कलयेत्, शब्दसंख्यानविषये कलते शपि।।’ 3 इति देवः।
कालकः-लिका, कालकः-लिका, चिकलिषकः-षिका, चाकलकः-लिका
कलिता-त्री, कालयिता-त्री, चिकलिषिता-त्री, चाकलिता-त्री
-- कालयन्-न्ती, कालयिष्यन्-न्ती-ती
-- कलमानः, कालयमानः, चिकलिषमाणः, चाकल्यमानः
कलिष्यमाणः, कालयिष्यमाणः, चिकलिषिष्यमाणः, चाकलिष्यमाणः
कल्-कलौ-कलः
-- -- -- कलितम्-तः, कालितः-तम्, चिकलिषितः, चाकलितः-तवान्
4 कलः, विकलः, सकलः, 5 कलनः, कालः, चिकलिषुः, चिकालयिषुः, चाकलः
कलितव्यम्, कालयितव्यम्, चिकलिषितव्यम्, चाकलितव्यम्
6 प्रनिकलनीयम्, प्रनिकालनीयम्, चिकलिषणीयम्, चाकलनीयम्
काल्यम्, काल्यम्, चिकलिष्यम्, चाकल्यम्
ईषत्कलः-दुष्कलः-सुकलः
-- -- कल्यमानः, काल्यमानः, चिकलिष्यमाणः, चाकल्यमानः
7 कालः-काली, कालः, चिकलिषः, चाकलः
कलितुम्, कालयितुम्, चिकलिषितुम्, चाकलितुम्
कल्तिः, 8 कला, कालना, चिकलिषा, चिकालयिषा, चाकला
कलनम्, कालनम्, चिकलिषणम्, चाकलनम्
कलित्वा, कालयित्वा, चिकलिषित्वा, चाकलित्वा
9 संकल्य, प्रकाल्य, प्रचिकलिष्य, प्रचाकल्य
कालम् २, कलित्वा २, कालम् २, कालयित्वा २, चिकलिषम् २, चिकलिषित्वा २, चाकलम् २
चाकलित्वा २।
01 (१७४)
02 (१-भ्वादिः-४९७। सक। सेट्। आत्म।)
03 (श्लो-१५५)
04 [[आ। ‘मामल्यमानं स्मितमल्लिकावलीमाभाल्यदैत्याधिपभल्लनोद्धुरम्। कलोरुकल्लोलकलिन्दजाजले बालैस्तयूभिस्सह देवनोत्सुकम्।।’ धा। का। १-६४।]]
05 [[१। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति युच् ताच्छीलिकः।]]
06 [[२। ‘शेषे विभाषा--’ (८-४-१८) इति णत्वनिषेधः।]]
07 [[३। ‘अकर्तरि च कारके संज्ञायाम्’ (३-३-१९) इति घञ्। स्त्रियां ‘जानपद--’ (४-१-४२) इत्यादिना ङीष् वर्णे विवक्षिते, काली। अन्यत्र काला।]]
08 [[४। बाहुलकात् अङ्।]]
09 [पृष्ठम्०१७१+ २६]
1 {@“कल क्षेपे”@} 2 ‘कलेः कालयति क्षेपे, गतिसंख्यानयोर्द्वयोः।
कलयेत्, शब्दसंख्यानविषये कलने शपि।।’ 3 इति देवः।
कालकः-लिका, 4 चिकालयिषकः-षिका
कालयिता-त्री, चिकालयिषिता-त्री
कालयन्-न्ती, चिकालयिषन्-न्ती
कालयिष्यन्-न्ती-ती, चिकालयिषिष्यन्-न्ती-ती
कालयमानः, चिकालयिषमाणः
कालयिष्यमाणः, चिकालयिषिष्यमाणः
काल्-कालौ-कालः
-- कालितम्-तः, चिकालयिषितः-तवान्
कालः, चिकालयिषुः
कालयितव्यम्, चिकालयिषितव्यम्
कालनीयम्, चिकालयिषणीयम्
5 काल्यम्, चिकालयिष्यम्
ईषत्कालः-दुष्कालः-सुकालः
-- काल्यमानः, चिकालयिष्यमाणः
कालः, चिकालयिषः
कालयितुम्, चिकालयिषितुम्
कालना, चिकालयिषा
कालनम्, चिकालयिषणम्
कालयित्वा, चिकालयिषित्वा
6 प्रकाल्य, प्रचिकालयिष्य
कालम् २, कालयित्वा २, चिकालयिषम् २
चिकालयिषित्वा २।
01 (१७५)
02 (१०-चुरादिः-१६०४। सक। सेट्। उभ।)
03 (श्लो-१५५)
04 [[१। अनेकाचूत्वात् यङ् न।]]
05 [[आ। ‘काल्यप्रवेलनकरोऽयमवेलयद् द्रागन्यांश्च तेलितकृपः खलु कंसचाल्यान्। सम्पा- लयेद् विमतलूष्यपशुल्बभूमा क्ष्मामेष राम इव शूर्पनखाविचोटी।।’ धा। का। ३। २२।]]
06 [पृष्ठम्०१७२+ २५]
1 {@“काल उपदेशे”@} 2 3 ‘वेल कालोपदेशे’ 4 इत्यत्र ‘काल’ इति पृथग् धातुरिति आत्रेयादीनां पक्षः।
तदवलम्ब्य रूपाणि लिख्यन्ते।
‘उपयोगे’ इति मा।
धा।
वृत्तौ पाठः।]] कालकः-लिका, चिकालयिषकः-षिका
कालयिता-त्री, चिकालयिषिता-त्री
कालयन्-न्ती, चिकालयिषन्-न्ती
कालयिष्यन्-न्ती-ती, चिकालयिषिष्यन्-न्ती-ती
कालयमानः, चिकालयिषमाणः
कालयिष्यमाणः, चिकालयिषिष्यमाणः
काल्-कालौ-कालः
-- कालितम्-तः, चिकालयिषितः-तवान्
कालः, चिकालयिषुः
कालयितव्यम्, चिकालयिषितव्यम्
कालनीयम्, चिकालयिषणीयम्
कालयम्, चिकालयिष्यम्
ईषत्कालः-दुष्कालः-सुकालः
-- काल्यमानः, चिकालयिष्यमाणः
कालः, चिकालयिषः
कालयितुम्, चिकालयिषितुम्
कालना, चिकालयिषा
कालनम्, चिकालयिषणम्
कालयित्वा, चिकालयिषित्वा
संकाल्य, संचिकालयिष्य
कालम् २, कालयित्वा २, चिकालयिषम् २
चिकालयिषित्वा २। 5
01 (१८५)
02 (१०-चुरादिः-१८८१। सक। सेट्। उभ। अदन्तः।)
03 [[[अ]
04 (चुरादिः-१८८१)
05 [पृष्ठम्०१८१+ २७]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
