कार्य्यान्वित (kAryyAnvita)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritकार्य्यान्वित कार्य्येण कर्त्तव्येनान्वितः । १ कार्य्ययुक्ते२ कार्य्य ताबोधकपुदप्रतिपाद्यार्थान्विते च । मीमांसकनयेकार्य्यान्विते एव शब्दस्य यथा शक्तिस्तथा पूर्व्वपक्षविधयाशब्दचि० निर्ण्णीतं यथा“नन्वर्थबादानां सिद्धार्थतया न प्रामाण्यं कार्य्यान्वितएव पदानां शक्त्यवधारणात् वृद्धव्यवहारादेव हि सर्वेषा-माद्या व्युप्पत्तिः उपायान्तरस्य शब्दव्युत्पत्त्यधीनत्वात् ।तथाहि प्रयोजकवाक्योच्चारणानन्तरं प्रयोज्यस्य वृद्धस्यप्रवृत्तिमुपलभमानोबालः प्रेक्षावद्वाक्योच्चारणस्य प्रयोजन-जिज्ञासायां तदन्वयव्य तरेकानुविधायित्वादुपस्थितत्वाच्चप्रयोज्यवृद्धप्रवृत्तिमेव प्रयोजनमवधारयति नचाकिञ्चित्कुर्वतस्तादर्थ्यं सम्भवतीति च तज्जन्यं प्रवृत्त्यनुकूलं कार्य्यता-ज्ञानमेव कल्पयति स्वप्रवृत्तौ तेन कार्य्यताज्ञानस्यहेतुत्वावधारणात् नान्यतः प्रवृत्तेः कार्य्यताज्ञानावरुद्धत्वात्, नचैवं शब्दस्य स्वार्थज्ञानद्वारा प्रवृत्तिहेतुत्वम् । स्वप्र-वृत्तौ बालेन शब्दाहितविशेषस्य कार्यताज्ञानस्य हेतुत्वेना-नधारणात् । ज्ञाने च प्रत्यक्षादिनानोपायकत्वदर्श-नात् शब्दोऽपि कार्यताज्ञानहेतुरित्यवधार्य तत्रैव शक्तिंकल्पयति उपस्थितत्वात् । पश्चादावापोद्धारेण क्रिया-कारकपदानां कार्य्यान्विततत्तदर्येषु शक्तिं गृह्णातिप्रथमगृहीतसामान्यशक्त्यनुरोधात् । अथ यद्यपि वृद्धव्यव-हारादौ कार्यान्वितधीरनुमिता तथाप्यन्वतमात्रशक्त्यैवकार्य्यवाचकपदसमभिव्याहारादाकाङ्क्षादिमहिम्ना कार्य्य-त्वधीसम्भवान्न कार्य्यांशेऽपि शक्तिः परम्परयापिशब्दस्य कार्य्यान्वितज्ञानानुकूलत्वादर्थापत्तावन्यथोपपत्ति-रपि । अवश्यञ्चाकाङ्क्षादेः कारणत्वं कार्य्यांशशक्तावपि ।तद्व्यतिरेकादन्विताभिधानव्यतिरेकनियमात् सति चाका-ङ्क्षादौ कार्य्यत्वव्यतिरेकदर्शनादन्विताभिधानव्यतिरेको नक्वाप्यस्ति । अन्यथा गवादिपदानां व्यक्तावपि शक्तिःस्यात् । संस्कारादेव व्यक्तिलाभदर्शनान्न तथोत यदि, तदाकार्य्यवाचकपदादेव कार्य्यान्वितलाभ इति किं शक्त्यावृद्धव्यवहारे नियमतः कार्य्यान्वितज्ञानं दृष्टमिति तत्रशक्तिकल्पने वृद्धव्यवहारे शब्दोपस्थापितेनैवान्वयबोधदर्श-नाच्छाब्दसन्निधेरप्यन्वयहेतुत्वकल्पने द्वारमित्यादौ शब्द-एवाध्याह्रियेत । क्वचिदसंपूर्णवाक्ये वृद्धव्यवहाराद्यव्युत्-पत्तेः शब्दसन्निधिं व्यभिचरतीति चेत् तर्हि सिद्धार्थे-ऽप्यन्वयप्रतीतिदर्शनात् कार्य्यत्वमपि व्यभिचारि । न च तत्रलक्षणा, बाधकाभावात् । शक्तिकल्पनभियाह्यन्यत्र लक्षणा-मता । इह तु लधीयस्या उभयसाधारणपदार्थमात्र-शक्त्या मुख्यस्यैवोचितत्वात् । किञ्च कार्य्यवाचिलिङादी-नामा काङ्क्षाद्युपेतपदार्थान्वितस्वार्थबोधकत्वमवश्यं वाच्यम्अतोऽविशेषात् पदान्तराणामपि तथात्वमस्तु लाघवा-दिति? मैवं, व्यवहांरहेतुतयानुमिति हे कार्य्येऽन्वितज्ञाने-ऽन्वयव्यतिरेकाभ्यां शब्दस्य साक्षात्कारणत्वमधारयतिन परम्परया, साक्षात्त्वस्यौत्सर्गिकत्वेन तत्सम्भवे पर-म्पराया अन्याय्यत्वादिति तत्रैव शक्तिं कल्पयति नान्वित-ज्ञाने, पदार्थज्ञाने वाऽप्रवर्त्तकतया प्रवृत्त्या स्वकारणत्वेनतयोरनुपस्थापनात् । न चान्वितज्ञानशक्तावपि परम्परयाकार्य्यत्वधीः सम्भवतीत्यर्थापत्त्या सैव कल्प्यतां, लाघवात्, न तु विशिष्टज्ञाने शक्तिरन्यलभ्यत्वादिति वाच्यम् अर्था-पत्तेः साक्षादुपपादकमात्रविषयकत्वेन न्यूनाधिकाग्राह-कत्वात् । साक्षादुपपादककार्य्यान्वितज्ञाने शक्तिः कल्प्यतेलिङादीनां शक्तेरकल्पनादन्यलभ्यत्वस्याप्यभावात् ।आद्यव्युत्पत्तेर्विचार्य्यत्वात् । किञ्च प्रवृत्तिकारणतयोप-स्थितं कार्य्यान्वितज्ञानमपहायानुपस्थितान्वितज्ञानमात्रेशक्तिकल्पनमयुक्तं हेत्वभावात् उपस्थित्यन्तरे गौरवात् ।अथ कार्य्यान्वितज्ञानोपस्थितावाप्यन्वितज्ञानमप्यपस्थित-मिति लाघवात् कार्य्यांशमपहायान्विते शक्तिर्गृह्यतामितिचेत् न ज्ञाने हि पदानां शक्तिः शक्यत्वात्, नार्थे ।अन्यच्च कार्य्यान्विते ज्ञानमन्यदन्वितज्ञानं पिषयभेदेन ज्ञान-भेदात् । तदुक्तमभाववादे, “अन्यदुभूतलज्ञानं अन्यच्चघटवद्द्भूतलज्ञानमिति” अन्वितज्ञानमुपस्थाप्य तत शक्ति-ग्रह इति गौरवमेव लघुनि शक्ये सम्भवत्यन्यलभ्यं गुरुन, युगपदुपस्थितौ तथ त्वात् । न च तस्याप्यनुपस्थितिःपुरुषविशेषदोषात् सर्व्वैरेवाद्यप्रवृत्तौ तथानवगमात ।तथापि न कार्य्यन्विते शक्तिः कार्य्यवाचिलिङादीनांव्यभिचारादिति चेत् न सर्व्वपदानां कार्यत्वविशिष्टधी-जनकत्वात् तच्च कार्य्यान्वितस्वार्थप्रतिपादकतयेतरान्वितस्वार्थकार्य्यप्रतिपादकतया वेति । एवं कार्य्यान्वितव्युत्पत्तौसत्यामनाकाङ्क्षादौ व्यभिचारादाकाङ्क्षादेरुपाधित्वम् ।तयोचोपजीव्यप्रथमभाविकार्य्यान्वितव्युत्पत्त्यनुरोधेन विध्य-श्रुतावपि कार्य्याध्याहारः । क्वचिल्लक्षणा क्वचिदसंसर्गाग्रहइति सिद्धार्थेऽन्वयप्रतितिदर्शनादुत्तरकालमन्वितमात्रेशक्तिरेव कल्प्यतां प्राचोनकार्य्यान्वितज्ञानं बाध्यतामि-त्यप्यतएव निरस्तं पूर्व्वकल्पनातः कल्पनान्तरप्रसङ्गाच्च ।उत्तरकालभाविसिद्धार्थप्रयोगस्य लक्षणादिभिरप्युपपत्तेरन-न्यथासिद्धत्वाभावेन प्राचीनज्ञानाबाधकत्वात् उपजी-व्यव्याघाताच्च । अथ सिद्धार्थेऽपि व्युत्पत्तिः सम्भवतितथाहि उपलब्धचैत्रपुत्रजन्मा बालस्तादृशेनैव वार्त्ता-हारेण चैत्रसभीपं गतः--चैत्र! पुत्रस्ते जात, इति वार्त्ता-हारवाक्यं शृण्वन् चैत्रस्य मुखप्रसादं पश्यन् श्रोतुर्हर्ष-मनुमिनोति । हर्षाच्च तत्कारणं पुत्रजन्मज्ञानं कल्पयतिउपस्थितत्वात् उपपादकत्वात् अथोपस्थितौ गौरवाच्चतत्र वाक्यस्य कारणतां कल्पयति लाघवादिति चेत् नहर्षहेतूनां बहूनां सम्भवात् हर्षेण लिङ्गेन पुत्रजन्म-ज्ञानस्य बालेनानुमातुमशक्यत्वात् प्रियान्तरज्ञानस्य परि-शेषयितुमशक्यत्वात् । अथ पुत्रजन्मज्ञानाव्यभिचारि वृद्धिश्राद्धादिक्रियाविशेषदर्शनात् पुत्रजन्मज्ञानानुमानमितिचेत् तर्हि पुत्रस्ते जात इति वाक्यं तत्तत्क्रियाकर्त्तव्यतापरमेवेति कार्य्यान्वितज्ञानजनकत्वमेव तस्य प्रथमतोगृह्यते तदुत्तरकालं पुत्रजन्मज्ञानानुमानमिति न व्युत्पत्तिःकार्य्यं जहाति । यत्रापीह सहकारतरौ पिकोरौ-तीति प्रसिद्धार्थकपदसामानाधिकरण्यादिभिर्व्युत्पत्ति-स्तत्रापि व्यवहाराधीनव्युत्पत्तिपूर्व्विका कार्य्यान्वितएव युक्ता पिकपदशक्तिः । पूर्व्वं नावधृतेति चेत् तत्रापिपिकमानयेत्यादौ कस्यचित् कार्य्यान्विव एव व्युत्पत्तेःउपजीव्याजातीयतया च तस्याबलवत्त्वम् । किञ्चेदमपि पदंकार्य्यान्वितज्ञानशक्तम् पदत्वादिति सामान्यतोऽवगतः विशेषःत्वार्थः परं नाधिगत स इदानीं सुहृदुपदेशादिभिरव-गम्यते । अतः सिद्धप्रवृत्तिपराणां शब्दानां प्रवर्त्तकज्ञान-जनकता तच्च क्वचित् साक्षात् क्वचित् परम्परया, कार्या-न्वयात् कार्य्यान्वितस्वार्थबोधकमिति । यत्र पुराण-भारतादिपाठे फलश्रुतिरस्ति तत्रार्थवादकल्पितविधि-शेषीभूतत्वेन प्रवृत्तिपरत्वेन तेषामिति परम्परया कार्या-न्वयत् कार्यान्वितस्वार्थबेधकत्वं स्वरूपाख्यानपगाणान्तुकाव्यनाटकादीनां पदार्थासंसर्गाग्रहेण संसर्गव्यवहारो नसंसर्गग्रह इति” ।तदेतन्मतं पूर्व्वपक्षत्वेनोक्त्वा मणिकृता निराकृतं यथा-“अत्रोच्यते घटमानयेति वाक्यश्रवणानन्तरं प्रयोज्यस्य धटा-नयनगोचरप्रवृत्त्या घटानयनकार्यताज्ञानमनुमितं बालेन, नतु कार्यान्वितज्ञानं प्रवृत्तिविशेषे तस्याऽहेतुत्वात् विषया-दिपदशक्तिग्रहे तस्यानुपयोगाच्च तत्र च ज्ञानविशेषे घट-मानयेति वाक्यविशेषस्यानाकलितपदविभागस्य हेतुत्वमव-धार्य घटपदद्वितीयाधातुविधिप्रत्ययानां प्रत्येकावापोद्धा-रेण घटकर्भत्वानयनकार्यत्वज्ञानेषु प्रत्येकं कारणत्वमव-गम्य शक्तिं कल्पयति । पश्चात्प्रवृत्तिसामान्येनानुमितकार्यतान्वितज्ञाने वाक्यमात्रस्यानन्यलभ्यत्वेन कार्यांशमप-हायान्वितज्ञानमात्रे शक्तिं कल्पयति नतु प्रथमं वाक्य-मात्रस्य कार्यान्वितज्ञानमात्रहेतुत्वकल्पनम् ।अथ घटानयनक्रियायाः प्रथमं क्रियात्वज्ञानात्प्रवृत्तिमात्रानुमानं न तु कार्यान्वितज्ञानमनुमाय तत्रवाक्यमात्रस्य हेतुत्वं कल्पयित्वा शक्तिं कल्पयति तदु-त्तरं विशेषयोः कार्यकारणभाव इति चेत् नप्रथमं प्रवृत्तिमात्रकार्यान्वितज्ञानमात्रयोरनुमानं बालस्यक्रमशो भवर्त त्यत्र मानाभावात् घटादिपदशक्तिग्रहस्य तेनविनापि सम्भवात्, न च तदनुमानसामग्री तदा वृत्तेतिवाच्यम् तदा व्याप्त्यादिस्मृतौ मानाभावात् सामान्ययोःकार्यकारणभावग्रहो विशेपयोस्तथात्वग्रहे हेतुरिति चेत्न विशेषयोरन्वयव्यतिरेकाभ्यामेव तदुग्रहात् यथाधूमधह्निविशेषयोः कार्यकारणभावग्रहे तत्मामान्ययोरपिहेतुहेतुमद्भावा रासते अव्यया न सकृद्दशनगम्या व्याप्तिःस्यात् तथात्रापि । विशेषयोः कार्यकारणभावतुल्यवित्ति-वेद्य एव सासान्ययोस्तथाभाव इति चेत् न प्रत्यक्षेणविशेषग्रहे योग्यत्वात् सामान्यमपि भासते । प्रकृते चकार्यविशेषेण कारणविशेषोऽनुसितो न सामान्यमिति नयुगपदुपस्थितिः । अथ विशेषयोः कार्यकारणभावात्सामान्ययोरपि तथात्वमवधारयतीति चेत् तर्हि विशेषयोःकार्यकारणभावावगमः प्राथमिक इति तन्मूलकः प्रथमंकार्यान्वितपदविशेषशक्तिग्रह एव स्यात् निष्प्रयोजन-कत्वेनानन्तरानुमितौ मानाभावात् । यच्चोक्तं प्रवृत्तिकारण-तयोपस्थितं कार्यान्वितज्ञानमपहायान्वितज्ञानं कल्पयित्वातत्र शक्तिकल्पनमयुक्तम् उभयथा गौरवादिति तन्न कार्या-न्वितज्ञानेऽन्वितज्ञानत्वस्य सत्त्वात् तद्बाधकत्वाच्च तस्य ।अतस्तत्रैव शक्तिग्रहो न कार्यत्वांशेऽपि । अतएव घटवद्-भूतलज्ञाने भूतलज्ञानत्वमपीति तद्भिन्नं तज्ज्ञानमभावव्यवहारकारणं त्वया स्वीकृतम् । अस्त्वेवं किन्तु तदुपस्थिता-वप्यन्वितज्ञानत्वं न विषय इति तस्योपस्थित्यन्तरं कल्प्यमिति चेत् न कार्यान्वितज्ञानेऽन्वितज्ञानत्वः विशेष्यमितितदुपस्थितौ तस्यापि विषयत्वात् विशिष्टज्ञानसामग्रीतोविशेष्यभानावश्यम्भावात् । अन्ययान्यज्जातिज्ञानमन्यच्चजातिविशिष्टज्ञानमिति व्यक्तिज्ञानमपहाय जातिज्ञानंक्वापि नोप्रस्थितमिति न तव जातिरेव पदार्थः स्यात् ।जातेः केवलोपस्थितौ च न व्यक्तिसमानसंवित्वेद्यत्वम् ।अथ जातिविशिष्टज्ञानोपस्थितेर्व्यक्तिज्ञानविषयत्वेऽपि गौर-वात्, व्यक्तेरनन्यलभ्यत्वाच्च जातिविशिष्टज्ञानत्वं न शक्य-तावच्छेदकं किन्तु जातिज्ञानत्वं लाघवादिति चेत् तर्हितुल्यम् । न च युगपदुस्थितौ लाघवावतारः । नचात्र युग-पदुपस्थितिरिति वाच्यम् विशिष्टज्ञानस्य विशेष्यविषयकत्व-नियमात् । किञ्च ममेदं कार्यमिति ज्ञानं साक्षादुपपादकंप्रवृत्त्या स्वकारणत्वं नानुमितमतस्तत्र शक्तिं गृह्णीयात् ।साक्षादुपपादकविषयत्वात् कल्पनायाः, ममेदं कार्यमितिज्ञाने तस्य साक्षादुपपादकत्वात् । अथेदं कार्यमितिज्ञानशक्त्यैव परम्परयानुमानद्वरा ममेदं कार्यमितिज्ञानसम्भवादन्यलभ्यत्व न न तत्र शक्तिकल्पनमिति तर्ही-तरान्वितज्ञानशक्त्यैव कार्यवाचकपदसमभिव्याहारेण कार्या-न्वितज्ञानसम्भवादन्यलभ्यत्वेन न तत्र शक्तिकल्पनमितितुल्यम् । नन्विदं कार्यमिति ज्ञानं साक्षादेव प्रवर्त्तकंकर्त्तव्यवाप्रयोजकवातदशएषविशेपणस्य स्वगतत्वप्रतिसन्धानंसहकारि तेन नातिप्रसङ्गः न च सहकारितिलम्बेनकार्यानुत्पादे साक्षात्साधनत्वं निवर्त्तत इति चेत् नलाघवेन ममेदं कार्यमिति ज्ञानादेव प्रवृत्तेः । यथा चभविष्यद्विषया कार्यतानुमितिस्तथोक्तमधस्तात् । अपि चयादृशस्य पुरुषस्याविगीतकृतिसाध्यमिदं तादृशोऽहमितिधीर्न प्रवृत्तिहेतुः कृतक्रियमाणविषयकृतिसाध्यताज्ञानस्यसिद्धविषयस्यासिद्धविषयेच्छानुत्पादकत्वात् इच्छायाःस्वप्रकारकधीसाध्यत्वेन कृत्या साधयामीतीच्छायाः स्वकृत्यनन्तरभविष्यत्तारूपकृतिसाध्यताधीजन्यत्वाच्च । अपिचास्तु प्रथमं कार्यान्वितज्ञाने वाक्यस्य साक्षात्कारण-ताबोधात् तत्र शक्तिग्रहः तथापि पश्चादावापोद्धारेणपदविशेषस्येतरान्वितस्वार्थज्ञाने शक्तिं कल्पयति लाघवात्न तु कार्यत्वांशेऽपि गौरवात् अन्यलभ्यत्वाच्च । नचैवंप्रथमं प्रवृत्तस्य साक्षात्कारणताबोधकस्य तन्मूलककार्यान्वि-तशक्तिग्रहस्य च बाधः स्यादिति वाच्यम् इष्टत्वात् अन्यथासिद्धिमपहरतो हि बालस्य स (बाधः) भूत इति तस्याबल-वत्त्वात् गोरवान्यलभ्यत्वतर्कसहकृतप्रमाणजन्यत्वेनोत्तरस्य बल-वत्त्वात् नचोपजीव्यबाधान्न तथा प्रत्येतीति वाच्यम् उप-जीव्यत्वे मानाभावात् दैवाद्धि प्रथमं तद्वृत्तं न तु पद-विशेषशक्तिग्रहे तस्य हेतुत्वम् तेन विनापि तत्सम्भवात् ।न च प्राथमिकत्वेन बलवत्त्वं, व्यभिचारात् । नापि सर्व्वैःप्रथमं प्रतीयमानत्वेन बलवत्त्वम् । सर्व्वेषां शरीराहं-प्रत्यये, चन्द्रतारकादिपरिमाणस्य सर्वेरल्पत्वग्रहे च व्यभि-चारात् । अतएव पूर्वकल्पनातः कल्पनान्तरप्रसङ्गःस्यादिति निरस्तम् । यत्रानन्यथासिद्धतयोपजीव्यतया वाबलवत्त्वं पूर्व्वकल्पनायास्तत्र तथात्वात् । किन्तु प्रथमंकार्यान्वितज्ञाने वाक्यस्य साक्षात्परम्परोदासीनं कारण-त्वमात्रं गृह्यते न तु विशेषोऽपि उपायस्यान्वयव्यति-रेकादेरुभयविशेषसाधारणत्वेन तत्सांशयिकत्वात् । उत्स-र्गोऽपि बाधकाभावनिश्चयसहकृतीनिश्चायकः । नचाऽ-न्यलभ्यत्वस्य बाधकस्याभावमापाततः स्वतो दर्शनमात्रेणबालो निश्चेतुमर्हति अतएव प्रामाण्यस्योत्सर्गिकत्वेऽपिबाधकाभावनिश्चयादेव निश्चयः । अन्यथा प्रमाऽप्रमा वासाक्षात्परम्परासाधनं वेति संशयः क्वापि न स्यात् ।यच्च हर्षहेतूनां बहूनां सम्भवादित्यादि तन्न सतो गृहीतहर्षहेतुस्तनपानादेर्बाधावतारादन्यस्य हर्षहेतोरग्रहात् ।उपस्थितत्वादुपपादर्कत्वाच्च पुत्रजन्मज्ञानस्यव हर्षहेतुत्वेनकल्पनात् । अन्यप्रियज्ञानं हर्षकारणं भविष्यतोतिशङ्कायां कथमेवमिति चेत् एवन्तर्हि कार्यान्वितज्ञानेऽपिशक्तिर्न गृह्येत प्रयोज्यज्ञानहेतूनां बहुत्वात् । अन-न्यथासिद्धशब्दानुविधानस्य च तुल्यत्वात् अन्यप्रियज्ञान-स्याज्ञानच्च ज्ञानेऽपि वा तदुपस्थितिनियमे मानाभावात्सन्देहाभावोपपत्तेः लिङ्गाभासजन्यकाकतालीयसम्पन्नसं-वादानुमितिवद्धर्षेण लिङ्गेन पुत्रजन्मज्ञानानुमानसम्भवाच्च ।नचाभासत्वेनानुमितेभ्रमत्वे तद्धेतुशक्तिग्रहो भ्रमः, विषयस्य तथाभावेन तयोर्यथार्थत्वात् । यथा कश्चित्सूत्रसञ्चाराधिष्ठितं दारुपुत्रकं घटमानयेति नियुङ्क्तेस च तमानयति तदा चेतनव्यवहारादिवत् तद्दर्शी-बालो व्युत्पद्यते--इयं क्रिया, कृतिजन्या, सा ज्ञानजन्या, ज्ञानं तद्वाक्यजन्यमित्यन्मितिपरम्परायाः भ्रमत्वेऽपि तद्धेतुशक्तिग्रहः तज्जन्यशाब्दबोधश्च यथार्थ एव विषयस्यतथाभावादिति सिद्धः सिद्धार्थे शक्तिग्रह इति । अतएव“यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिला-षोपपन्नञ्च तत् सुखं स्वःपदास्पदम्” इत्यर्थवादोपस्थितेसुखे वेदादेवं स्वर्गपदस्य शक्तिग्रहः” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
