कार्य्यता (kAryyatA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritकार्य्यता स्त्री कार्य्यस्यभावः तल् । १ कर्त्तव्यतायां २ कृतिसाध्यता-याम् । त्वकार्यत्व तत्राथे गुरुमते यथा च तज्ज्ञानस्यैवप्रवर्त्तकत्वं तथा शब्दचि० गुरुमतप्रदर्शने दर्शितं यथा ।“कार्य्यत्वज्ञानं प्रवर्त्तकमिति गुरवः तथाहि ज्ञानस्य कृतौजनयितव्यायां चिकीर्षातिरिक्तं न कर्त्त व्यमस्ति तत्सत्त्वेकृतिविलम्बहेत्वन्तरभावात् । चिकीर्षा च कृतिसाध्यत्व-प्रकारिका कृतिसाध्यक्रियाविषयेच्छा पाकं कृत्या साधया-मीति तदनुभवात् । सा च स्वकृतिसाध्यताज्ञानसाध्याइच्छायाः स्वप्रकारकधीसाध्यत्वनिवमात् अतएव स्वकृति-साध्ये पाके प्रवर्त्तते न त्विष्टसाधनताज्ञानसाध्या, स्वकृत्य-साध्ये चिकोर्षापत्तेः । स्वकृत्यसाध्यताज्ञानं प्रतिबन्धकमितिचेत् न तदभावस्य कारणत्वे गौरवात् अथाभाव उभयसिद्धःकृतिसाध्यताधोरसिद्धेत्यतो न लाघवावसर इति चेत् न यत्रशब्दादनुमानाद्वा दैवात् सा, तत्र लाघवावतारात् इच्छा-याः स्वप्रकाशकज्ञानसाध्यत्वनियमेन कृतिसाध्यत्वज्ञान-स्यावश्यकत्वात् जनकज्ञानं विघटयतएव ज्ञानस्य प्रति-बन्धकत्वाच्च व्याप्तिधीविघटनद्वारानुमितिप्रतिबन्धकानैकान्त-ज्ञानवत् अन्यथा स्वकृत्यसाध्यत्वानिष्टसाधनत्वोपेक्षणोयत्वनिष्फलत्वज्ञानं प्रतिबन्धकं क्रियाज्ञानमेव प्रव-र्त्तकं कल्प्येत । ननु सनोधात्वर्थगोचरेच्छावाचि-त्वाल्लाघवाच्च कृताविच्छा चिकोर्षा सा च वृष्टाविवेष्टसाध-नताज्ञानादिति चेत् न वह्निना साधयामीतिवत् कृत्या-साधयामीतीच्छायाः कृतिपूर्व्वमनुभूयमानायाः सनन्त-वाच्यत्वेन गौरवेण च प्रत्याख्यातुमशक्यत्वात् । किञ्चपाकं चिकीर्षतोत्यत्र प्राधान्येन पाकस्येच्छाविषयत्वमनुभूयतेन तु कृतेः, धाताश्च सन्प्रत्ययाभिधयेच्छाप्रकारवाचित्वम्ओदनं बुभुक्षत इत्यत्र भोजनविषयतयोदनस्येच्छाविषय-त्वानुभवात् इष्टसाधनत्वेन वृष्टाविव कृताविच्छासम्भवेऽपिकृतीच्छा न प्रवर्त्तिका किन्तु कृतिसाध्येच्छैव । घटं जनातिचिकीर्षति करोतोति ज्ञानचिकोर्षाप्रवृत्तीनामेकविषय-त्वानुभवात् । अथ यदि कृत्या साधयितुमिच्छा सा तदाचिकीर्षितस्य पाकस्यान्यतः सिद्धौ सा नापगच्छेत् नह्युपायविशेषसाध्यत्वेनेच्छोपायान्तराधीनफललाभेन निवार्यतेप्रीत्या धनलाभेऽपि प्रतिग्रहेण तल्लिप्साया अनिवृत्तेरितिचत् न स्वविषयसिद्धत्वस्य फलेच्छाविच्छेदस्य चोपायेच्छाविरोधित्वात् अस्ति च तत्र पाकोदनयोः सिद्धता । अन्यौ-दनेच्छायां पाकचिकोर्षा भवत्येव प्रत्युत असिद्धन्पात् कृतावेवेच्छा न विच्छिद्येत यदि कृतिविषयसिद्धत्पफलेच्छा-विच्छेदौ न विरोधिनौ प्रीत्या धनलाभेऽपि तदधिकधनेच्छा न विच्छिद्यते तस्य असिद्धत्वात् तत्फलेच्छाया-श्च सत्त्वात् धनमात्रार्थिनश्च प्रीत्या तल्लाभे प्रतिग्रहेणतल्लिप्सा नास्त्येव धनमात्रस्य सिद्धत्वात् किञ्चिद्विशेषस्यसिद्धैव हि सामान्येच्छाविच्छेदः । अन्यथा सकलस्वविषयसिद्धेरसम्भवेन तद्विच्छेदो न स्यादेव । वस्तुतस्तु क्रियानु-कूला कृतिरिष्टोपाय इति ज्ञाने क्रियायाः कृतिसाध्य-त्वम् इष्टीपायत्वञ्च भातं क्रियाद्वारैव कृतेरिष्टसाधनत्वा-दिति तद्बोधात् कृताविव कृतिसाध्यत्वेन क्रियायामपिसैवेच्छेति चिकीर्षायां कृतिसाध्यताप्रकारनैययम् । अतःकृतिसमानविषयचिकीर्षात्वेन चिकीर्षायाः कृतिका-रणत्वं न तु कृतीच्छात्वेन भिन्नविषयतया गौरवात्तथापि येन रूपेण यस्येष्टसाधनत्वं तेन प्रकारेण त-त्रेच्छा यथा स्वकेदारवृष्टित्वेनेष्टसाधनत्वात्तथैवेच्छा तथाकृतिसाध्यत्वेन पाकस्येष्टसाधनत्वम् अतः कृतिसाध्य-त्वेन तत्रेच्छा भवतीति कृतौ कृतिविषये वा चिकीर्षायांन वृष्टीच्छाविलक्षणसामग्य्रन्तरकल्पनमिति चेत् भवेदेवंयदि कृतिसाध्यत्वेन पाकस्यौदनसाधनता स्यात् न चैवं, गौरवात् किन्तु पाकत्वेन, सा तु कृतिं विना नेत्य-न्यदेतत् । वह्निना साधयामीति वत् कृत्या साधया-मीतीच्छा इष्टसाधनताज्ञानादेवेति चेत् तर्हि तत्रवह्निसाध्यताज्ञानवदत्रापि कृतिसाध्यताज्ञानं कारणमा-वश्यकं कृतौ चानुभवसिद्धं चिकीर्षाधीनत्वं विशेषः, तेनप्राणपञ्चकसञ्चारे जीवनयोनिकृतिसाध्ये न प्रवृत्तिः ।अन्यथा कृतिसाध्येष्टसाधनतापक्षेऽपि तत्र प्रवर्त्तेतननु चिकीर्षाधीनत्वस्य उपलक्षणत्वे उपलक्ष्यमात्रगतान-तिप्रसक्तधर्माभावात् कृतिमात्रस्य चातिप्रसङ्गात् तत्तत्-कृतिविशेषा उपलक्ष्याः तथा च तदननुगमात् प्रवृत्तेरननुगमः विशेषणत्वे चिकीर्षायां प्रवृत्तौ च चिकीर्षा-ज्ञानकारणत्वे गौरवं प्रमाणाभावश्च । किञ्च चिकीर्षा-साध्यावस्थायाः कृतेः सिद्धाबस्थसाधनञ्च विरोधेन कृति-साध्यता पाकादौ न ज्ञायेतेति चेत् न, अस्ति हि कृति-विशेषो मानसप्रयक्षसिद्धो जीवनयोनियत्नव्यावृत्तः स्वचि-कीर्षोपलक्ष्यः यत्र चिकीर्षाकारणत्वग्रहः स च तव जातिरूपो मम त्वनुगतकारणोपाधिरूपः । एवञ्च निकीर्षाधीन-त्वेनानुगतेन कृतिविशेषाणामुपलक्ष्यमाणानामनुगतत्वमपियथा गोत्वेन तटस्थेनोपलक्षिता महिष्यादिव्यावृत्ता धानकर्मव्यक्तिविशेषा धेनुपदेनोच्यन्त्ये नतु गोत्वमपि, तथाचिकीर्षापि एवं जीवनयोनिव्यावृत्तकृतिविशेषाणां कृति-त्वेन ज्ञानं कारणमिति नाननुगमः । ननु कृतिसाध्ये नकृतिर्विशेषणम् असत्त्वात् सत्त्वे वा कृतौ सत्यां ज्ञानं ज्ञानेच कृतिरित्यन्योन्याश्रयः नोपलक्षणम् अतिप्रसङ्गादिति चेत्न कृतिर्हि ज्ञाने विषयतया विशेषणमेव साध्ये च परि-चायकतयोपलक्षणम् अन्यथेष्टसाधजेऽपीष्टं न विशेषणम्असत्त्वान्नोपलक्षणम् अतिप्रसङ्गात् लिङ्गज्ञानादौ वा का-गतिः । नन्वेवं श्रमेऽपि चिकीर्षा स्यात् तस्यापि चिकीर्षा-धीनकृतिसाध्यत्वात् । श्रमस्तु भोजनादिक्रियामाध्यो नतत्कृतिसाध्योऽचिकीर्षितत्वात् कृतेः स्वध्वंससाक्षात्-कारातिरिक्ते चिकीर्षाविषयमात्रे जनकत्वात् नहि भोज-नादिचिकीर्षाधीनकृत्या गमनं साध्यत इति केचित् तन्नगुरुतरभारोत्तोलने कृत्यसाध्ये भ्रमात् प्रवृत्तस्य निगड-निश्चलबद्धदेहस्य वा कृतौ सत्यामुद्देलनचलनक्रियानुत्पादेऽपिश्रमानुभवात् कृतेरेव कारणत्वात् । न तु तज्जन्यक्रियायाःसुखे व्यभिचाराच्च न हि सुखं कृतिसाधनचिकीर्षाविषयःउपायचिकीर्षाजन्या हि कृतिः न तु सुखचिकीर्षाजन्या ।चिकीर्षाजन्यकृतिसाध्यत्वं न श्रमे, द्वेषयोनियत्नाद-पि तदुत्पत्तेरित्यपरे तन्न शत्रुबधस्येष्टसाधनत्वेन चिकीर्षा-जन्यकृतिसाध्यत्वात् द्वेषस्य यत्राजनकत्वात् द्वेप्रसिद्धिस्तुशत्रुं द्वेष्मीत्यबाधितानुभवबलात् । यत्तु श्रमः कृतित्वेनकृतिसाध्यो न चिकीर्षाधीनकृतित्वेन, यद्यचिकीर्षितेऽपि श्रमेचिकीर्षाधीनकृतित्वेन कारणता स्यात्तदा चिकीर्षितमेवभोजनं कृत्या साध्यते नाचिकोर्षितं गमनादीति न स्यात्श्रमवद्गमनेऽपि तज्जन्यत्वप्रसङ्गात् भोजनादिश्च चिकी-र्षाधीनकृतिविशेषात् सहि कृतिमात्रं व्यभिचरति जीव-योनिकृतेस्तदनुत्पादात् । यद्वा श्रमो न भोजनकृतिसाध्यःकिन्तु तन्निरन्तरोत्पन्नाज्जीवनयोनियत्नादेवेति तन्ननहि कृतित्वेन श्रमजनकत्वं नापि कृत्यन्तरादेव श्रमोत्-पत्तिः जीवनयोनियत्नेन चापि भारोद्वहनादि कर्मकुर्व्वतस्तादृशश्रमानुभवेन तस्य श्रमाजनकत्वात् । तस्मा-द्भोजनादिवत् श्रमविशेषाणामपि भोजनादिकृतिसाध्यत्वमनन्यगतिकत्वात् । सुप्तस्य स्वेदाद्यनुमितः श्रमस्तज्जन्यइति चेत् न स्वेदादेः श्चमान्यहेतुकत्वात् अन्यथाजागरेऽपि तदनुवृत्तौ श्रमानुवृत्तिप्रसङ्गादिति मैवं स्वे-च्छाधीनत्वस्य कृतिविशेषणत्वात् । श्रमश्च नियमतोऽन्येच्छाधीनकृतिसाध्यः श्रमे दुःखत्वेन इच्छाविरहात् ।अतएवान्येच्छाजन्यकृतिसाध्यत्वेन त्रमोनान्तरीयक इत्यु-च्यते । स्वचिकीर्षाधीनत्वन्तु न कृतौ विशेषणं, गौरवात् ।अन्ये तु कृतिगतधर्मान्तरमेवोद्देष्यत्वं तद्विशिष्टकृतिसा-ध्यश्च न श्रमः अचिकीर्षितत्वात् किन्तु कृतिमात्र-साध्यः अतएव कष्टं कर्मेत्यनुभवोलोकानाम् । एवं चिकी-र्षायां ममैकं कृतिसाध्यत्वं प्रयोजकं तव तु कृतिसा-ध्यत्वे सतीष्टसाधनत्वं सुखत्वं दुःखाभावत्वञ्चेति चतु-ष्टयम् इच्छाप्रयोजकन्तु मम सुखत्वं दुःखाभावत्वञ्चेतिद्वयं वृष्टिसाध्ये सुखे हीच्छा वृष्टिमपि विषयीकरोति ।नत्विष्टसाधनत्वेन तत्रेच्छासाधनत्वस्य इच्छाविरोधित्वात्तव तु त्रयम् विषभक्षणे कृतिसाध्यत्वेऽपि बलवदनिष्टसाधनत्वेन चिकीर्षा नास्तीति कृतौ चिकीर्षाजन्यत्वं विशेष-णमिति कश्चित् तत्तुच्छं विषभक्षणे कृतिसाध्यत्वमेवन स्यात् जीवनयोनिकृतेस्तस्यानुत्पत्तेरिति व्यर्थविशे-षणम् । स्थादेतत् इष्टसाधनताभ्रमाद्विषभक्षणे चैत्यवन्दने चचिकोर्षाजन्यकृतिसाध्यत्वमस्ति ज्ञानप्रयुक्तत्वात् कार्य-त्वस्य, तथाच सञ्जातबाधोऽपि तत्र कार्यज्ञानात् प्रवर्त्तेततथा तृप्तोऽपि भोजने नतु कृतिसाध्यतानुभवस्तथा, अन्यथेष्टसाधनतास्मरणे विषभक्षणेऽपि प्रवर्त्तेत । नचेष्टसाधनताज्ञानं वेदोवानुमावकोऽस्त्विति चेत् न वस्तुतस्तत्रकृतिसाध्यत्वे लिङ्गान्तरेणाप्तबाक्यन वा तदन्भवासम्भवात्लिङ्गाभासाच्छब्दभासाद्वा प्रवृत्तिप्रसङ्गाच्च भेदाग्रहवादिनस्तत्र तव तदनुभवाभावात् मैवं स्वविशेषणवत्ताप्रतिसन्धानजन्यं हि कार्यताज्ञानं प्रवर्त्तकं तथाहि काम्ये पुरुष-विशेषणं कामना ततः काम्यसाधनाज्ञानेन यागपाकादौकार्यताज्ञानं नित्ये च कालशौचादि स्वविशेषणं तथाचैतत्-सन्ध्यायामहं कृतिसाध्यसन्ध्यावन्दनः सन्ध्यासमये शौचादि-मत्त्वात् पूर्वसन्ध्यायामहमिवेति, कार्यताज्ञानं शौचा-दिस्वविशेषणज्ञानजन्यम् । तदुक्तं “स कार्यविशेषः पुरुष-विशेषभावगतः प्रवृत्तिहेतुरिति” । संजातबाधस्य च विष-भक्षणे चैत्यवन्दने च भ्रमदशायामिव नेष्टमाधनताज्ञा-नमस्ति येन तज्जन्यकार्यताज्ञानात् प्रवर्त्तेत । तृप्तस्य चतृप्तौ कामनाविरहेणेष्टसाधनताज्ञानाभावान्न तथा बोधः ।अन्ये त्वात्मनो जीवत्वप्रतिसन्धानजन्यं श्रमे कृतिसाध्य-ताज्ञानं न सम्भवतीति जीवनव्यतिरिक्तत्वं स्वविशेषणेविशेषणमिति, तन्न श्रमे खेच्छाधीनकृतिसाध्यत्वज्ञानाभा-वेन साध्यत्वाभावात् । इष्टसाधनतालिङ्गं कार्य्यताज्ञानंप्रवर्त्तकमित्यपरे तन्न नित्ये तदभावात् । ननु विषभक्षणव्या-वृत्तमिष्टसाधनत्वमेव कृतिसाध्यताज्ञाने विषयतया विशेष-णमस्तु स्वविशेषणवत्ताज्ञानजन्यत्वापेक्षया लघुत्वात् । कि-ञ्चोपायविप्रया चिकीर्षा इष्टसाधनताज्ञानसाध्या उपाये-च्छावत् वृष्टीच्छावत् । भोगचिकीर्षायां तदभावादप्रयोजकमिष्टसाधनत्वमिति चेत् न तवापि स्वविशेषणधीजन्यत्वाभावेनतत्र तस्याप्रयोजकत्वात् कृतिहेतुचिकीर्षायां तत्प्रयोजकं नभोगचिकीर्षायां तथा, उपायचिकीर्षातएव कृतिसम्मवा-दिति चेत् तुल्यमिति मैवं साध्यत्वसाधनत्वयोर्विरोधेनैकत्रज्ञातुमशक्यत्वात् असिद्धावस्थस्य हि साध्यत्वं, सिद्ध-तादशायां तदभावात् सिद्धतादशायाञ्च साधनत्वम्असिद्धावस्थावतः कार्य्यानुत्पत्तेः । तथा च पाकादेर-सिद्धत्वसिद्धत्वज्ञाने साध्यत्वसाधनत्वग्रहः नचैकमेकेनैकदासिद्धमसिद्धञ्चेति ज्ञायते । न च स्वरूपगतता साध्यत्व-साधनत्वयोरतो न विरोध इति वाच्यं यदि हिस्वरूपनिबन्धनं तदुभयं तत्स्वरूपं सदैव सिद्धमसिद्धञ्चस्यात् । भिन्ननिरूपितत्वेऽपि तयो तिद्धत्वासिद्धत्वेऽ-नवगम्याज्ञानात् । तस्मात् समयभेदोपाधिकएव तदुभय-सम्बन्धः । पाके इदानीं साध्यत्वम् अग्रे च साधनत्वंज्ञायत इति चेत्? न इदानीमग्रिमपदार्थयोर्नाना-त्वादननुगमेन व्याप्त्यग्रहात्, शब्देन तथा प्रतिपादयितु-मशक्यत्वात् गौरवाच्च । स्वकृतितः सिद्धमिष्टसाधन-मिति ज्ञानाच्चिकार्षा, न हि सिं किश्चिच्चिकीर्षिति, कृतेःपूर्व्वं कृतितः तिद्धमिति ज्ञानाभावाच्च । न च कृतिसाध्यत्वन पाकादेरिष्टसाधनत्वात् साधनत्वमपि साध्यं न हिकृतिसाध्यत्वेन पाकस्यौदनसाधनतेत्यक्तम् । तस्मात् कृतिक्रियमाणविलक्षणं कृत्यनन्तरभविष्यत्तारूपं कृतिसाध्यत्वंचिकोर्षाप्रयोजकं तादृशञ्च साधनत्वविरोध्येव किञ्च-साधनत्वस्य सिद्धमात्रधर्म्मत्वात् साधनत्वज्ञानमिच्छावि-रोधि । न हि कश्चित् सिद्धमिच्छतीत्युक्तम् । एतेन वृष्ट्या-दाविष्टसाधनताज्ञानमुपायेच्छाकारणत्वेन कॢप्तमिति निर-स्तम् कथं तर्हि स्वतोऽसुन्दरे वृष्ट्यादाविच्छा? तत्सा-ध्येष्टज्ञानादिति गृहाण । अन्येतु सुखदुःखाभावतत्-साधनेष्विच्छाप्रयोजकमनुगतमुद्देश्यत्वं पुरुषार्चपदवेद्यंधर्म्मान्तरमस्ति अनुगतकार्य्यस्यानुगतकारणगियस्य-त्वात् तदेव दुःखसाधनव्यावृत्तसुखतत्साधनादौ चिकी-र्षाप्रयोजकमिति । न च दुःखविरोधित्वमेव तथा-ऽस्त्विति वाच्यं सहानवस्थाननियमविरोधस्यासम्भवात् ।बध्यधातकभावस्यैकसमये सामानाधिकरण्याभावस्य चयत्नादिसाधारणत्वादिति तन्न तदज्ञानेऽपि मुखत्वज्ञाना-दिच्छोत्पत्तेः न हि सुखे ज्ञाते धर्म्मान्तरज्ञानं विनानेच्छा । तथात्वे स्वतः प्रयोजनत्वहान्यापत्तेः तदेव हि-स्वतः प्रयोजन--यदवगतं सत् स्ववृत्तितयेष्यते । किञ्चानग-तधर्म्मकल्पनापि कारणैः, न च सुखादाविच्छाकारणत्वंअनागतत्वात् किन्तु तदवगमः । तर्हि सुखादिज्ञाने तत्-स्वरूपसदेवेच्छाप्रयोजकमस्त्विति चेत्? न, यथाह्युद्देश्य-त्वं सुखज्ञानादिषूत्पद्यते अन्यतरत्वात् तृणारणिमणिन्यायाद्वा तथेच्छैव जायताम् । कृतिसाध्यत्वञ्च कृतौसत्यामग्रिमक्षणे स्वरूपं न कृति विना । क्षेमसाधारणञ्चैतत्कृतिसाध्यत्वं न तु कृतेः पूर्व्वम् । ननु कृतौ नष्टायां सन्न-पि धर्म्मी न कार्य्यः, तथा च कथं कार्य्येऽपूर्व्वे कामिनो-ऽन्वथः क्षणिकत्वेन क्रियातुल्यत्वादितिचेत्? न, यद्वृत्तिकाम्यसाधनत्वं तत्र कार्य्यताबुद्धेः प्रयोजकत्वात् न तुकार्यताविशिष्टस्य काम्यसाधनतेति व्याप्तिः । ननु पाकादौकृतिसाध्यताज्ञानं न प्रत्यक्षेण, कृत्यनन्तरं पाके सति कृति-साध्यताज्ञानं तस्मिन् सति कृतिरित्यन्योन्यश्रयात् ।कृतिसाध्यतोत्तीर्ण्णे चिकीर्षाकृत्योरसम्भवाच्चेति चेत् नपाकोमत्कृतिसाध्योमत्कृतिं विनाऽसत्वे सति मदिष्ट-साधनत्वात् दैवाद्यनधीनत्वे सति मदिष्टसाधनत्वाद्वा मद्-भोजनवत् इन्यनुमानात् स्वकृतिसाध्यत्वज्ञानं यस्य यदिष्ट-साधनं यत्कृति विना यदा न सम्भवति तत्तदा तत्कृतिसाध्यमिति व्याप्तेः असिद्धस्येष्टसाधनत्वाभावात् । बलवदनिष्टाजनकत्वञ्च लिङ्गविशेषणं तेन मधुविषसम्पृक्तान्नभोजने न व्यभिचारः अतीतपाके कृतिसाध्यतोत्तीर्ण्णे चन व्यभिचारः सामान्यतस्तस्याऽपि कृतिसाध्यत्वात् । अ-तोततादशायाञ्चातीतोदने इच्छाविरहे स्वष्टसाधनत्वा-भावात् अतएव निदाघदूनदेहोर्षषति वारिदे तोयदात्तोय-लाभसम्भावनायां वा सरोवगाहने न प्रवर्त्तते इष्टसन्ताप-शान्तिसाधनस्य तोयसम्बन्धस्य स्वकृतिं विनाऽपि सिद्धिप्रति-सन्धाने लिङ्गाभावेन स्वकृतिसाध्यत्वज्ञानाभावात् । यदा चमत्कृतिं विना स न सम्भवतीति प्रतिप्तन्धत्ते, तदा प्रवर्त्तते ।यस्य सन्तापशान्तिमात्रमिष्टं स सरोवगाहनस्येष्टसाधनत्व-मेव न प्रत्तिसन्धत्ते । उपस्थितवृष्टितोऽपि तत्सम्भवादितिकश्चित् । तन्नतोयसम्बन्धत्वेन न सन्तापशान्तिसाधनत्वं तस्यसरोऽवगाहनेऽपि सत्त्वात् अन्यथा वृष्टिरपि तत्साधनं नस्यात् सरोऽवगाहनादपि तत्सिद्धेः किन्तुकार्य्यभेदसाधनत्वंकृतिसाध्यत्वेन लिङ्गं पाकादिवदोदनादेरपि प्रवृत्तेःपूर्व्वं कृतिसाध्यत्रज्ञाने हेत्वभावात् । नन्वेवं लिङ्गज्ञान-मेव प्रवर्त्तकमस्तु प्राथमिकत्वादावश्यकत्वाच्च । न च ला-घवात् कृतिसाध्यताज्ञानं तथा, कृतिसाध्यतानुमितौतदा मानाभावेन युगपदुपस्थित्यभावात् प्रवृत्तिसामग्र्याअनुमितिप्रतिबन्धाच्चेति चेत् न लिङ्*गज्ञाने कृतिसाध्य-ताप्रकाशे तत्प्रकारकचिकीर्षायां तस्याहेतुत्वात् । अत-एव लिङ्गान्तरज्ञानमपि न प्रवर्त्तकम् । ननु पाकादिःकृतः क्रियमाणोवा न पक्षः तस्य कृतिसाध्यत्वे बाधात्नाप्यनागतः भाविपाके मानाभावेनाश्रयासिद्धेः । पाकत्वंभविष्यद्वृत्ति सामान्यत्वात् गोत्ववदिति मानमिति चेत्न मानाभावेन गोत्वेऽपि तस्याप्रसिद्धेः । पाकमात्रं पक्षःइति चेत् न मात्रार्यो यदि पाकत्वं तदा बाधो लङ्गासि-द्धिश्व । सर्व्वपाकपरत्वे च तस्यसिद्धपाकभागे बाधः, अनागतभःगे चाश्रयासिद्धिः । वर्त्तमानाद्युदासीनः पाकःपक्षः पकतामान्ये च कृतिसाध्यत्वं बाधितमित्यनेनसिद्धस्य पक्षत्वं नासिद्धस्येत्यनुमितेश्च सिद्धविषयत्वे बाधात्-भिन्नविषयत्वे चामिद्धविषयेच्छाप्रवृत्त्यनुत्पादकत्वात् ।कृतक्रियमाणसाधारणकृतिसाध्यताज्ञानादेवासिद्धविषयाचिकार्षा कृतिश्चोत्पद्यते अनन्यगतिकत्वेन तथा कारण-स्वभावकल्पनादिति चेत् तर्हि यादृशं कृतिसाध्यत्वंचिकीर्षायां प्रकारः तादृशं ज्ञाने नास्तीत्यन्यप्रकारकज्ञानादेव विकोर्षा स्यात् । तथा च लिङ्गज्ञानमेव प्रवृत्ति-हेतुरस्तु प्राथमिकत्वात् । यत्त् स्मृतपाकेकृतिसाध्यत्वासंस-र्गाग्रहात् प्रवृत्तिः, सचासंसर्गाग्रह इष्टसाधनताज्ञाना-दिति, तन्न स्मृतपाकस्य सिद्धत्वेन तत्र कार्यत्वासंसर्गा-ग्रहानुमानबाधात् । स्मृतपाकस्य सिद्धत्वं तदा न गृह्यतेइति चेत् तहिं स्मृतपाकस्य सिद्धत्वग्रहे ओदनार्थी पाके-न प्रवर्त्तेत सिद्धौदनोऽपि पाके तृप्तोऽपि भोजने प्रवर्त्तेत ।ननु तत्र पाकादौ सिद्धत्वग्रहात् तदसंसर्गाग्रह इति चेत्तुल्यम् । अपि च स्मृतपाके कार्यत्वासंसर्गाग्रहाद्विद्य-मानासंसर्गाग्रहाद्विसंवादिनी प्रवृत्तिः स्यात् । किञ्चैवंसिद्धपाकज्ञानादज्ञानेऽसिद्धे पाक इच्छाप्रवृत्तीस्यातामिति ।अत्र ब्रूमः । पाके कृतिसाध्यत्वं सिद्ध्यत् सिद्ध्ये बाधाद-नागतं पाकमादाय सिद्ध्यति । पक्षतावच्छेदकधर्म्मसामा-नाधिकरण्यं साध्यमानस्य सिद्धे न सिद्ध्यतीत्यनुमाने कॢप्त-त्वात् यथा प्रसिद्धवह्निबाधेऽपि वह्निमात्रं न बाधि-तमित्यप्रसिद्धोऽपि वह्निः सिध्यति । अप्रसिद्धयोः पक्ष-साध्ययोः सिद्धावविशेषात् तस्मात् “असिद्धस्य क्वचित् सिद्धेःसिद्धे सिद्धस्य च क्वचित् । अप्रसिद्धस्य चासिद्धे सिद्धि-स्तेनानुमा त्रिधा” । अन्यथा कृतिसाध्येष्टसाधनतापक्षेऽपिपाकादौ कृतिसाध्यत्वं कथमवगम्यते? । किञ्च तवापीष्टसा-धनंताज्ञानात् कथं वृष्टादाविच्छा? सिद्धत्वस्येच्छाविरोधित्वादनागतस्य ज्ञातुमशक्यत्वात् । अतएव सिद्धासिद्धवि-षयनिरासेन सुखादिज्ञानात् फलेऽपि नेच्छेति न वृष्ट्या-दाविष्टसाधनतापि । न च वृष्ट्यादिसाध्येष्टज्ञानाद्वृष्ट्यादा-विच्छा इच्छायाः सिद्धासिद्धवृष्ट्यादितत्फलविषयकत्वविकल्पग्रासात् । अथ सामान्यलक्षणाप्रत्यासत्त्या वृष्ट्यादित्वेनसुखादित्वेन व सिद्धासिद्धवृष्ट्यादितत्फलविषयकज्ञान-मुपन्नं तेन सिद्धं विरोधिनं त्यक्त्वाऽसिद्धविषयेच्छोत्पद्यते ।यदि च सामान्यलक्षणा नास्ति तदा येन रूपेण इष्ट-साधनताग्रहस्तेन रूपेण ज्ञातेऽसिद्धे चेच्छोत्पद्यते अन्वयव्यतिरेकाभ्यां तादृशज्ञानस्य तादृशेच्छाजनकत्वावधार-णात् । सुखेच्छायामप्येवमिति चेत् तर्हि ममापि पाकत्वाव-च्छेदेन कृतिसाध्यताज्ञानादनागते चिकीर्षा । तच्च ज्ञानंसकलपाकविषय सन्निकृष्टपाकविषय वेत्यन्यदेतत् । बाल-स्य व्याप्ताग्रहेऽप्याद्या प्रवृत्तिर्जीवनादृष्टोद्वोधितजन्मा-न्तरीयसंस्कारजन्यात् स्तनपानं कार्यमिति स्मरणात् तत्रापीष्टसाधनतास्मरणात्तत्र प्रवृत्तिरनन्यगतिकत्वात् । न चजन्मान्तरेऽपि पर्यनुयोगः, जन्मधाराया अनादित्वात् ।प्रत्यक्षानुमानमूलत्वाच्च नान्धपरम्परा । वस्तुतस्तु शुष्ककण्ठ-तया बालो दुःखमनुभवन् विरोधितया सुखं स्मरति ततःसुखवृत्ति कार्यत्वं सुखवृत्तितया अन्तरङ्गत्वात्मातुःम्तनपानमिष्टसाधनमिति स्मरणं सुखावृत्तित्वेन बहिरङ्गत्वात् ।सुखकार्यत्वञ्च स्तनपानद्वारा जन्मान्तरानुभूतमिति कार्यत्व-स्मरणे स्तनपानमपि विषयः तेन स्तनपाने कार्यत्वज्ञांना-देव प्रवृत्तिः इष्टसाधनताज्ञानस्य तदानीं सामग्य्रभावात् ।एवञ्चाद्यप्रवृत्तौ कार्यताज्ञानं प्रयोजकं कॢप्तमित्यग्रेऽपितदेव प्रवर्त्तकं कॢप्तत्वात्” ।अत्र दिङमात्रं मथुरानाथव्याख्या प्रदर्श्यते ।“कार्य्यताज्ञानमिति कृतिसाध्यताज्ञानमित्यर्थः, नच कृतिसाध्यताज्ञानं विनापि घटयागपाकादिकर्त्तुस्तदु-पायकपालहविस्तण्डुलादिसिद्धविशेष्यकप्रवृत्तिदर्शनाद्व्य-भिचार इति वाच्यं प्रवृत्तेर्हि विषयता त्रयी एका सा-ध्यत्वाख्यविषयता सा च यन्निष्ठकृतिसाध्यताज्ञानचिकी-र्षादिना प्रवृत्तिस्तन्निष्ठा, तच्चघटयागपाकाद्येव न तु तज्ज-नकीभूतकपालहविस्तण्डुलादिसिद्धनिष्ठा अदएव घटंकरोमि याग करोमीत्याद्येवानुव्यवसायो । न तु कपालहविरादेः सिद्धतादशायां कपालं करोमि हविः करोमीत्या-द्यनुव्यवसायः व्यवहारो वा कृतिवाचिधातुयोगिद्विती-यायाः साध्यताख्यविषयतार्थकत्वनियमात् । न च सा-ध्यताख्याया एव विषयतायाः कृतिवाचिधातुयोगिद्वि-तीयार्थत्वनियमे कपालतन्त्वादेः सिद्धतादशायां कपालंकरोति तन्तुं करोतीत्यादि व्यवहाराभाववत् कपालं घटवत्करोति, तन्तुं पटवन्तं करोतीत्यादि व्यवहारोऽपि न स्या-दितिवाच्यं साध्यवैशिष्ट्यबोधकपदासमभिव्याहृतकृतिवाचि-धातुयोगिद्वितीयाया एव तथानियमात् तत्र कपालादि-पदोत्तरद्वितीयाया आधेयचमर्थः घटादिपदञ्च घट-त्वादिपरं धावाख्यातयोर्व्यापारप्रयत्नौ यथायोग्य-मर्थः तथा च कपालवृत्तिघटचाश्रयानुकूलव्याप रजनकयत्नवानिन्याद्यन्वयधीः कपाल घटवत् करोमीत्यादिवत्कपाले घट करामीत्यादिप्रयोगोऽप ष्यतएवेत्यपि वदन्ति ।अपरा च उपादानतापेरनाम्नी सिद्धत्वाख्यविषयतास च सिद्धकपालहविस्तण्डुलाद्यपाय नष्ठा । कपालेन घटंकरोमि हविषा य गं करोमीत्याद्यनुव्यचसायात् तत्रउपादानत्वाख्यविषयताया एव तृतीयार्थत्वात् तस्य चधात्वर्थकृतावन्वयात् । न च तत्रजन्यत्वं विषयत्ववा तृती-यार्थस्तस्य च घटयागादावेवान्वय इति वाच्यम सर्व्वत्रतृत यार्थस्य ध त्वर्थएवान्रयम्य व्युत्पन्नत्वात् अन्यथातण्डुलाबयवेन तण्डुलं पचतीत्यपि व्यवहारापत्तेः ।अन्या च उद्देश्यचाख्यविषयता सा च यतसाधनता-ज्ञानाधीना चिकीर्षा तन्निष्ठा तच्च जलाहरणस्वर्गाद-नादिरूपं जलाहरणार्थितया घटं करोमि स्वर्गा-र्थितया यागं करोतित्यनव्यवसायात् । जलाहरणमुद्देश्यघटं कारोमि स्वर्गमुद्विश्य यागं करोमोत्यनुव्यवसायाच्चएवञ्च तत्तत्साध्यतावच्छेदकतत्तत् साध्यकप्रवृत्तित्वावच्छिन्नंप्रति कत्ततसाध्यतावच्छदकविशष्यवावच्छेदककतत्तत्साध्य-विशेष्यककृतिसाध्यताज्ञानं हेतुरिति न व्यभिचारः एवंचिकीर्षाया अपि हेतुत्वमवसेयं तेन तस्या अपि कपाल-हविस्तण्डुश्चादौ न व्यभिचार” अन्यथा नैयायिकभतेऽपिव्यभिचारस्य दुर्वारत्वात् तैरपि कृतिसाध्यत ज्ञानचिकीर्ष-योर्हेतुत्वोप्रगमादिति भाव । यत्तुप्रवृत्तेर्विषयवात्रैविध्येमानाभावः किन्तु कपालहविस्तण्डुलाद्युपाय एवप्रवत्तिग्षियः प्रवत्तिविशेष्यत्वमेव चोपादानत्वम् । नचैवंषटं करोति यागं कारोतात्यादिव्य ह रानुपपात्तः कृति-बाचिधातयो गद्ववीयाया विशष्यवार्थकत्वादन्यथा कपालंकरोतोत्यादिव्याहारापत्तिरिति वाच्यम् तत्र घटयाग-पाकादिपदस्य कप लहविस्तण्डुलादौ लक्षणिकत्वात्कृतिवाचिध--तुयो गद्वितीयाया विशेष्यतानुकूलतान्यतरार्थ-कत्वनियमेनानुकूलत्वं विशष्यता वा तत्र द्वितायार्थः इतिप्राञ्चोनैयायिका बदन्ति । तदसत् लक्षणया शब्दप्रयोगरूप-व्यवहारसमथत्तेऽपि घटादिविशेष्यकत्वावगाहित्वेनानुभूय-मानाया घटं करोमीत्यादिप्रात्यक्षिकप्रतीतेरनुपपादनात्लक्षणायां मानाभावाच्च । किञ्च जलाहरणस्वर्गादिरूपकलस्य उद्देश्यताख्यविषयताया घटयागपाकादेश्च सा-ध्याताख्यविषयताया अनभ्युपगमे इष्टसाधनताज्ञानकृतिसाधाताचिकीर्षाणां कार्यकारणभावोऽपि दुर्व्वचइत्युक्तप्रायएव वक्ष्यमाणश्चोपरिष्टात् इति दिक् । अत्रच तत्प्रकारकतद्विशेष्यकतत्साधनताज्ञानत्वं तत्साध्यता-वच्छेदककतत्साध्यकतदर्थिप्रवृत्तिकारणतावच्छेदक न वा, ज्ञानतदर्थिप्रवृत्तित्वं तत्साधनताज्ञानजन्यवृत्ति नवेत्यादिविप्रतिपत्तयः तेन नैयायिकैरपि कृत्तिसाध्यताज्ञानस्थप्रवत्तकत्वाभ्यपगमेऽपि न क्षति । तदर्थित्वञ्च तदुद श्यकत्वंन तु इष्टस--धनताज्ञानं प्रवर्त्तकं न वा तत्साधनताज्ञानंतदर्पिप्रवत्तिकारणं नवेत्यादिविप्रतिपत्तिः पररपि हवि-राद्यपादाननिष्ठयागादिरूपचिकार्षाविषयसाधनताज्ञानस्ययागादिगोचरप्रवृत्तौ हेतुत्वस्याभ्यपगमात् इष्टसाधनत्व-कृतिसाध्यत्वोभयविषयकसमूहालम्बनस्य प्रवृत्तिहेतुत्वाभ्यु-पगमाच्चेति ध्येयम् । चिकीर्षातिरिकं न कर्त्तव्यमस्तीतिकर्त्तव्यं द्वारं चिकीर्षा अवश्यं द्वारमिति समुदितार्थःतथैव प्रकृतोपयोगात् । नचैवं प्रवर्त्तकज्ञानत्वव्यापकं चि-कीर्षाव्यापारकत्वमिति फलितार्थः तच्चायुक्तं उपादानप्रत्यक्षे व्यभिचारात् तस्य साक्षादेव प्रवृत्तिहेतुत्वात उपा-दानेच्छयोस्तस्य द्वारत्वमतेऽपि चिकीर्षाया अद्वारत्वाच्चइति वाच्यं ज्ञानस्येत्यस्य प्रवृत्तिं प्रति साक्षादसाधनीभूतस्यज्ञानस्येत्यर्थात् उपादानप्रत्यक्षञ्च न साक्षात् साधनंउपादानप्रत्यक्षविरहे प्रवृत्त्यनुदयात् उपादानेच्छाय स्त-द्द्वारत्वमतेऽपि तस्य साक्षात्साधनत्वावश्यकत्वात् । न चतथापि फलज्ञाने व्यभिचारः फलचिकीर्षायाः प्रवृत्ताव-हेतुत्वात् इति वाच्यं फलज्ञानस्य फलेच्छाद्वारा उपा-येच्छामात्रसम्पादकत्वनात्यथासिद्धतया प्रवृत्तिजनकत्वस्यैवतत्रासिद्धेः । यदि च फलज्ञानमपि प्रवृत्तिजनकं तदाउपायचिकीर्षाया एव तद्व्यापारत्वेन चिकीर्षाव्यापारकत्वरूपसाध्यस्यापि तत्र सुतरां सत्त्वाच्च न हि स्वममान-विशेष्यकचिकीर्षाव्यापारकत्वपर्यन्तं साध्यमनुपयोगा-दिति ध्येयम् । ननु चिकार्षारूपव्यापारसत्त्वेऽपि कुतोन क्वचित् कृत्युत्पादैयत आह तत्सत्त्वे इति । हेत्वन्त-रेति हेत्वन्तर दण्डकपालाद्युपादानलौकिकप्रत्यक्षं, प्रतिब-न्धकाभावश्चति भावः । ननु तत्तदुपादनतावच्छेदककतत्त-दुपादानकप्रवृत्तित्वेन तत्तदुप्रादानतावच्छेदकप्रकारकतत्तदुपादानविशेष्यकलौकिकसाक्षात्कारत्वेनोप्रादानप्रत्यक्षस्यहेतुहेतुमद्भावात् दण्डकपालाद्युपादानप्रत्यक्षाभावे तदु-षादानकप्रवृत्तिर्मास्तु घटादिसाध्यकप्रवृत्तिं विनापिसंयोगादिसाध्यकप्रवृत्तौ दण्डाद्युपादानकप्रधत्तिसत्त्वेनतदुप दानक्यवृत्तिसामग्य्राः घटादिसाध्यकप्रवृत्तिसाम-ग्र्यपेक्षया विशेषसाभग्रत्विचिरहात् दण्डोपादानकप्रवृत्तिं विनापि कपालोपादानकघटसाध्यकप्रवृत्ता घटसाध्यकपवृत्तिसत्त्वेन तदुपादानकप्रवृत्तिसामग्र्या घटादिसाध्यकप्रवृत्तिसामग्य्रपेक्षया सामान्यसामग्रीत्वविवहाच्चतिचेन्न सामग्र्याः सामान्यविशेषभावानापन्नत्वेऽपिदण्डचक कप लाद्यन्यतमोपादानकप्रवृत्त्यतिरिक्ताया घटा-दिसाध्यकप्रव्रतेरल कतया तादृशान्थतभोपादानकप्रवृत्तिसामग्रीविरहादेव तादृशान्यतमोपाद नप्रत्यक्षाभावदशायांतदनुत्पत्तस्तदर्मावच्छिन्नयत्किञ्चिद्व्यक्तिसामग्रीसहितायाएव तद्धर्म्मावच्छिन्नसामग्र्यास्तद्धर्म्मावच्छिन्नकार्य्योपधायक-त्वात् इदमेव च कारणसमाजाधीना कार्योत्पत्ति-रिति गीयते । एतेन घटादिचिक र्षाविरहेऽपि दण्ड-गोचरप्रत्यक्षात् दण्डोपादानकपवृत्त्यापत्तिस्तदवच्छिन्नस्यसत्त्वादित्यपि निरस्तं संयोगभ्रम्याद्यन्यतमसाध्यकप्रवृ-त्त्यतिरिक्ताया दण्डोपादानकप्रवृत्तेरलीकतया तादृ-शान्यतमसाध्यकपवृत्तिसामग्रीविरहादेव तदनुत्पादात्कार्योत्पत्तेः कारणसमाजाधीनत्वात् । नव्यास्तु उपा-दानप्रत्यक्षम्य हि स्वातन्त्र्येण न हेतुता किन्तु घटादि-निष्ठचिकीर्षाया दण्डाद्युपादानकलौकिकसाक्षात्कारस्य चसत्त्व ऽपि दण्डादौ घटसाधनत्वज्ञानाभावदशायां घट-साध्यकदण्डोपादानकप्रवृत्तिवारणीय दण्डोपादाननिष्ठ-चिकार्षाविषयघटादिसाधनताज्ञानस्यापि घटादिसाध्यकदण्डाद्युपादानकपवृत्तित्व वाच्छन्न प्रति न्यायनये परनये चविशेषकारणत्वावश्यकत्वात्तदेव चिकोर्षाविषयसाधनताज्ञानमुपादानांशे लौकिकप्रत्यक्षात्मक हेतुरुपेयते क र्यकारण-भावदृयकल्पनामपेक्ष्य लाघवात् । न च घटसाध्यक-कपालोपादानकघटध्वं ससाध्यकदण्डोपादानकसमूहालम्ब-नप्रवृत्तौ दण्डनिष्ठघटसाधनताज्ञानस्याहेतुचात् तत्रव्यभिचारवारणाय घटत्वावच्छिन्नसाध्यतानिरूपितदण्डत्वाबच्छिन्नोपादनताशालिवत्त्तित्वमेव कार्यतावच्छेदकमुपेयंतथाच दण्डत्वावच्छिन्नोपादनतानिरूपतष्ठटत्वावच्च्छि-न्नसाध्यताशालिप्रवृत्तित्वमादाय विनिगमनाविरहात्तवापिगुरुतरकार्यकारणभावद्वयमावश्यकमिति वाच्य दण्डाद्यु-पादाननिष्ठचिकीर्षाविषयघटसधिनताज्ञानस्य घटादिसा-ध्यकदण्डाद्युपादनकप्रवृत्ति प्रति विशेषकारनत्वावश्यकतयाविनिगमनाविरहात् तादृशकार्यक रणभावद्वयस्य सर्वसम्मत-त्वात् । इत्यञ्च विशषसामग्रोविरहादेव उपादानपत्यक्षा-भावदशायां न घटादिस ध्यकावृत्त्युत्पत्तिप्रसङ्गः । एतेनघटादिनिष्ठचिर्कार्षाविरहेऽपि दण्डगोचरपत्यक्षात् दण्ड-निष्ठघटसाधनताज्ञानात्मकविशेषसामग्रीसहकृतात दण्डो-पादानकप्रवत्त्य पत्तिस्तदवच्छिन्नसामग्रीसत्त्वादिति द्विर्ताया-तिप्रसङ्गोऽपि निरस्तः, केवलदण्डोपादानकावृत्तित्वस्य का-यतानवचछेदकत्वात् घटादिसाध्यकदण्डाद्यपादःनकपवृत्तेश्चघटादिनिष्ठचिकीर्षालक्षणघटादिसाध्यकप्रवृत्तसामान्यसा-मग्रीविरहादेवासम्भव दिति प्र हुः । अथ प्रत्यजविषय-कपालव्यक्तो इदं न कपालमित्यमसर्गग्रहसत्त्वेऽपि कपाल-त्वप्रक रेण कपालं घटसाधनभिति कपालत्वांश निर्द्धर्मि-तावच्छेदककतत्कपालावषयकलाकिकप्रत्यक्षात कपालत्व-प्रक रेण तत्कपालोपादनकप्रवृत्त्यापत्तिः । न च कपाल-त्वप्रकारेण तद्व्यक्तौ वृष्टाविवेष्ट पत्तिरित वाच्यम्अनुभवविरोधादि त चेन्न तदुपादनतावच्छेदकांशेइदन्त्वधम्मितावच्छेदककतदुपादानविशेष्यकप्रत्यक्षस्येदं घट-साधनमित्याकारस्य वा तत्तदुपादानतावच्छेदककतदुपादानकप्रवृत्तिं प्रति हेतुत्वेन निर्द्धर्म्मितावच्छेदक-कज्ञानस्याहेतुत्वात् । नचैवमिद घटसाधनमिति लौ-किकप्रत्यक्षादिदन्त्वप्रकारेणेतद्व्यक्त्युपाद नकावृत्तिर्न स्यात्तस्य इदन्त्वांशे निर्द्धर्म्मितावच्छेदककत्वादिति वाच्यम्उपादानतावच्छेदकभदेन कार्य्यकारणभावभेदादिदन्त्वस्थले निर्द्ध र्म्मता च्छेदककज्ञानस्यापि प्रवर्त्तकत्वात्इदमिदं नेत्यमंसर्गाग्रहासम्भवेन तत्रापि प्रमङ्ग-विरहादित्यास्तां विस्तरः । चिकीर्षा चेति व्यापारीभूतचिकीर्षा चेत्यर्थः । अन्यथा--चिकार्षासामान्यम्य स्सक्ष्यत्वे ।लक्षणे फलचिकीर्षायामतिव्याप्तिवारकं कृतिसाध्याक्रयाविषयत्वं विशेषणं व्यर्थं स्यादित्यनुपदमेव स्फुटीभवि-ष्यति । कृतिसाध्यत्वप्रकारिकेति । अत्र फलचिकीर्षाया-व्यापारत्वाभावेन लक्ष्यचात्तत्रातिव्याप्तिवारणाय कृतिसाध्यक्रियेति क्रियापदं धर्म्मिमात्रपरम् कृतिस ध्यत्वञ्चसाध्यत्वाख्यफलीमूतविषयताशालिनिष्ठत्व नथा च स ध्यत्वाख्यफलीभूतकृतिविषयताशालिधर्म्मिविषयिकेत्यर्थः फ-लञ्च न तादृशविषयताशालीति भावः । केचित्तु क्रिया-पदमेव साध्यचाख्यफलीभूतकृतिविषयताशालिपरम् नचैव पृथक् कृतिसाध्यत्वं क्रियाविशेषणं व्यर्थमितिवाच्यं कृतिसाध्यत्वप्रकारकज्ञानस्य व्यापारीभूता या चि-कोर्षा सर्व प्रकृते लक्ष्या सा च संवादिनी चिकार्षैव, विसं-वादिचिकीर्षायां तत्प्रकारकज्ञानस्य हेतुत्वेऽन्यथाख्या-त्यापत्तेः । तथा च पृष्थादिविसंवादिचिकीर्षायामति-व्याप्तिवारणाय तद्विशेषणस्यावश्यकत्वात् इत्याहुः । पाक-मिति पाकं कृत्या साधयामीत्याकारिकायां तस्यां तदनु-भवात् कृतिसाध्यत्वप्रकारकत्वस्यानुभवमिद्धत्वादित्यर्थःकृतिसाध्यत्वेन पाकमिच्छामीति तदनुव्यवसायसत्त्वादितिभावः । इच्छाया इत्यादि । इच्छायाः स्वप्रकारकसंवा-दीच्छायाः तत्प्रकारकसंवादीच्छायास्तत्प्रकारकधोसाध्य-त्वनियमादिति फलितार्थः । गुरुनये रजतादिप्रका-रकविसंवादीच्छायां रजतादिप्रकारकज्ञानाजन्यायांव्यभिचारवारणाय संवादित्वोपादानं कूटलिङ्गस्थले-ऽप्यनायत्त्या तदिच्छाया विषयान्तरचिषयकत्वकल्पनेन वि-संवादः कल्प्यते । न चैवं संवादिविकोर्षायां तज्जन्यप्रवृत्तौ च कृतिसाध्यवप्रकारकज्ञानस्य हेतुत्वेऽपि चि-कोर्षासामान्ये च कृतिसाध्यत्वज्ञानस्य न हेतुत्वसिद्धि-रिति वाच्यं संवादिचिकोर्षादौ कृतिसाध्यताप्रकारक-ज्ञानस्य हेतुत्ये सिद्वे यद्विशेषयोरिति (यद्विशेषयोः कार्य्यकारणभावस्तत्सामान्ययोरपीति) न्यायात् चिकीर्षादि-मात्रं प्रत्येव कृतिसाध्यताविषयकज्ञानस्य हेतुत्वंसिद्धेरितिभावः एवमग्रेऽपि । केचित्तुया यत्प्रकारिकेच्छा सातद्विषयकज्ञानसाध्येति नियमः न तु प्रकारतापर्य्यन्तप्रवेशः मूलेऽपि स्वप्रकारकेत्यस्य स्वविषयकेत्यर्थः एवञ्चरजतादिविसंवादीच्छायां न व्यभिचारः तत्र तन्नये इच्छाविशेष्यविशेष्यकरजतप्रकारकज्ञानस्याहेतुत्वेऽपि स्वातन्त्र्येणरजतोपस्थितेरवश्यं हेतुत्वात् । न च तन्नये विसंवादी-च्छायामुपस्थितेष्टतावच्छेदकासंसर्गाग्रहस्यैव हेतुतया रजतज्ञानं तत्र कारणतांवच्छेदकमेव न तु कारणमितिव्यभिचारो दुर्वारएवेति वाच्यं कारणकारणतावच्छेदकसाधारणप्रयोज्यत्वरूपस्य साध्यत्वस्य नियमघटकत्वात् ।नचैवं प्रकृतेऽपि कृतिसाध्यताज्ञानस्यैककालावच्छिन्नैकात्म-वृत्तित्वसम्बन्धेन इष्टसाधनताज्ञाननिष्ठकारणतावच्छेदकत्वमेवायातु कुतः कारणत्वम्? इति वाच्यं वक्ष्यमाणक्रमेणतन्नये इष्टसाधनत्वज्ञानस्येच्छाविरोधितया इष्टसाधनता-ज्ञानस्य चिकीर्षाहेतुत्वासम्भवात् परिशेषेण जन्यतारूप-स्यैव कृतिसाध्यताज्ञानप्रयोज्यत्वस्य चिकीर्षायां सिद्धेः ।नचेष्टसाधनताज्ञानस्याजनकत्वेऽपि बलवदनिष्टाननुबन्धित्व-ज्ञाननिष्ठजनकतावच्छेदकत्वमेवायात्विति वाच्यं बलवद्द्वेष-स्यैवेच्छाविरोधितया तज्ज्ञानस्यापि चिकीर्षाहेतुत्वासिद्धेः ।वस्तुतस्तु विशेष्यविशेषणभावे विनिगमकाभावादुपस्थितेष्ट-तावच्छेदकासंसर्गाग्रहवदुअगृहोतासंसर्गकेष्टतावच्छेदकोप-स्थितेरपि विसंवादीच्छाजनकतया जन्यत्वरूपसाध्यत्वमेवनियमघटकमिति न कोऽपि दोष इति प्राहुः । अत-एवेति चिकीर्षायाः स्वकृतिसाध्यताज्ञानसाध्यत्वादेवेत्यर्थः ।स्वकृतिसाध्ये--स्वकृतिसाध्यत्वेन ज्ञाते । इदञ्चापाततःवस्तुतो लाघवात्पाको मत्कृतिमान् भवत्वित्याकारिका सा-ध्यतासंसर्गेण कृतिप्रकारिका इच्छैव व्यापारो न तु कृति-साध्यत्वप्रकारिका गौरवादतएव ज्ञानमपि साध्यतासंसर्गेणकृतिप्रकारकमेव हेतुरिति तत्त्वम् । यद्यप्युक्तनियमवलेनकृतिसाध्यताज्ञानस्य हेतुत्वं साधितमेव तथापि युक्त्यन्तर-दानाय पुनरनुवदति न द्विष्टेति इष्टसाधनताज्ञानसाध्या-कृतिसाध्यताज्ञानं विनापि इष्टसाधनताज्ञानसाध्या यथा-श्रुतेऽग्रिमहेत्वसङ्गतेः । स्वकृथसाध्ये--स्वकृत्यसाध्यत्वेन नि-श्चिते स्वकृत्यसाध्यताज्ञानभिति स्वकृत्यसाध्यतानिश्चयइत्यर्थः कृतिसाध्यतासंशयेऽपि प्रवृत्तेरनुभवाद्यथाश्रुतासङ्गतेः । न च कृतिसाध्यतासंशये प्रवृत्तिर्स्वकारे बहु-वित्तव्ययायाससाध्येऽपि प्रवृत्त्वापत्तिरिति वाच्यं बलव-दनिष्टानुबन्धित्वज्ञानस्य विरोधित्वादेव तत्रेच्छाप्रवृत्त्योर-भावादिति ध्येयम् । तदभावकारणत्व इति कृतिमाध्यता-ज्ञानत्वेन कारणत्वमपेक्ष्य कृत्यसाध्यतानिश्चयाभावत्वेन-कारणत्वे गौरवात् इत्यर्थः । नचाप्रामाण्यनिश्चयानास्क-न्दितकृतिसाध्यताज्ञानत्वापेक्षयाऽप्रामाण्यज्ञानानास्कन्दितकृत्यसाध्यतानिश्चयाभावत्वमेव लघ्विति वाच्यं कृति-साध्यताज्ञानस्याप्रामाण्यनिश्चये बलवदनिष्टानुबन्धिता-ज्ञानोदयादेव प्रवृत्त्यभावसम्भवात्तत्र तदनास्कन्दितत्वस्याप्रवेशात् स्वकृतत्यसाध्यतानिश्चयवत्तदभावव्याप्यादिनि-निश्चयस्यापि प्रतिबन्धकत्वावश्यकतया बहुतरकार्य्यकारणभावकल्पनागोरवाच्चेति भावः । केचित्तु ननूक्तनि-यमबलादस्तु कृतिसाध्यताज्ञानं हेतुस्तथापि कृतिसाध्यता-ज्ञानत्वेन तस्य न हेतुता अपि तु इष्टसाधनताज्ञानत्वेनसर्व्वत्रेष्टसाधनताकृतिसाध्यतोभयविषयकसमूहालम्बना-देव चिकीर्षेत्यत आह न द्विष्टसाधनताज्ञानसाध्येतिन द्विष्टसाधनताज्ञानत्वावच्छिन्नकृतिसाध्यताज्ञानकारणताकेत्यर्थः । स्वकृत्यसाध्ये स्वकृत्यसाध्यत्वेन निश्चिते । चि-कीर्षापत्तेः--केवलेष्टसाधनताज्ञानाच्चिकीर्षापत्तेः कार-णतावच्छिन्नसत्त्वादिष्टापत्तौ चोक्तनियमभङ्गादिति भावः ।तदभावकारणत्वे गौरवादिति । इदमुपलक्षणं कृत्य-साध्यतानिश्चयस्य प्रतिबन्धकत्वेऽपि यत्र कारणान्तरा-भावादिटसाधनताज्ञाने कृतिसाध्यत्वस्य न भानं तत्रकवलेष्टसाधनताज्ञानाच्चिकीर्षापत्तेर्दुर्व्वार्रत्वाच्च इत्यपि-बोध्यम् । उक्तनियममस्मृत्वैव तटस्थः शङ्कते अथेतीति ।अभावः--कृत्यसाध्यतानिश्चयाभावः । उभयसिद्धः--चिकी-र्षापूर्व्वमुभयसिद्धः, असिद्धा--चिकीर्षापूर्व्वमुभयासिद्धा । नलाघवावसरः इति कृतिसाध्यताज्ञानत्वस्य सदपि लाघवंन कारणतावच्छेदकतायां विनिगमकम् इत्यर्थः लघु गुरु-धर्म्मद्वयावच्छिन्नं यदि फलपूर्व्वमुभयबादिसिद्धं तदेवलाथास्य कारणतावच्छेदकतायां विनिगमकत्वादिति भावः ।दैवात्प्रतिबन्धकविरहात् । सा--चिकीर्षापूर्व्वकृतिसाध्य-ताधीः । लाधवावतारादिति कृतिसाध्यताज्ञानत्वरूपलघु-धर्म्मावच्छिन्नस्य चिकीर्षापूर्व्वमुभयमतं सत्त्वादित्यर्थः ।इच्छाया इति तत्प्रकारकसंवादीच्छायास्तत्प्रकारकज्ञानजन्यतानियमेनेत्यर्थः । आवश्यकत्वात्--चिकीर्षा-हेतुतावश्यकत्वात् अपि च कृत्यसाध्यताज्ञानप्रतिबन्ध-कतान्यथानुपपत्त्या कृतिसाध्यताज्ञानस्य चिकीर्षाहेतुतासिद्धिरित्याह जनकज्ञानमिति । तज्जनकीभूतज्ञान-विघटकस्यैव ज्ञानस्य विधिप्रतिबन्धकत्वाच्चेत्यर्थः । अत्रव्याप्तौ दृष्टान्तमाह व्याप्तिज्ञानविघटनद्वारेति अनुमितिजनकव्याप्तिज्ञानविघटनेनेत्यर्थः । तथा च यत् यत्प्रति-बन्धकं ज्ञानं भवति तत्तज्जनकज्ञानविघटकं यथाव्यभिचारज्ञानमनुमितिप्रतिबन्धकं ज्ञानं भवत् अनु-मितिजनकव्याप्तिज्ञानविघटकमपि भवति इति सामा-न्यतोव्याप्त्या कृत्यसाध्यतानिश्चयस्य चिकीर्षाप्रतिब-न्धकज्ञानत्वेन हेतुना चिकीर्षाजनकज्ञानविघटकत्वसाधने पक्षधर्म्मताबलात्कृतिसाध्यताज्ञानस्यैव चिकीर्षाजन-कत्वसिद्धिरिति भावः । न च जनकज्ञानविघटकत्वेना-ऽन्यथासिद्धतया तदभावस्याहेतुत्वात् स्वरूपासिद्धिर्दृष्टान्ता-सिद्धिश्च इति वाच्यं प्रतिबन्धकत्वं हि न कारणीभूता-भावप्रतियोगित्वम् किन्तु प्रयोजकीभूताभावप्रतियोगित्वम् ।प्रयोजकत्वं च कारणकारणव्यावृत्तान्यथासिद्धिचतुष्टय-राहित्ये सति नियतपूर्ववर्त्तित्वम्--कारणतत्कारणसाधा-रणम् । हेतौ ज्ञानपदोपादानादेव च विषयान्तरसञ्चारादौन व्यभिचारः । साध्य च ज्ञानपदं स्वरूपकथनम् । विघट-कत्वञ्च प्रतिबन्धकत्वमेव नत्वेककालावच्छेदेन तदधिकरणा-वृत्तित्वरूपविरोधित्वं गुरुनयेऽधिकरणज्ञानरूपतया कृति-साध्यताज्ञानस्यापि कृत्यसाध्यताज्ञानाभावस्य ज्ञानात्मकस्यविरोधितया सिद्धसाधनापत्तेः । नचासाधुत्वज्ञाने साधु-त्वज्ञानाजन्यशाब्दधीप्रतिबन्धके व्यभिचार इति वाच्यम्निराकाङ्क्षत्वरूपासाधुत्वज्ञाने आकाङ्क्षाज्ञानमादायसाध्यस्यापि सत्त्वात् असाधुत्वज्ञानस्य च प्रतिबन्धकत्वे मा-नाभावात् । न च तथापि सिद्धौ व्यभिचार इति वाच्यम्गुरुनये सिद्धेरप्रतिबन्धकत्वात् तद्व्यावृत्तप्रतिबन्धकताया वाहेतौ निवेशात् । अतएवासिद्धत्वज्ञानाजन्येच्छाप्रतिबन्धक-सिद्धत्वज्ञानेऽपि न व्यभिचारः तद्व्यावृत्तप्रतिबन्धकतायाएव हेतौ निवेशात् असिद्धत्वनिश्चयस्यापि इच्छाहेतुत्वाद्वा ।अथ तथापि बाधसत्प्रतिपक्षादौ व्यभिचारः । न चतद्व्यावृत्ताऽपि प्रतिबन्धकत हेतौ निवेशनायेति वाच्यम्कृत्यसाध्यताज्ञानाभावव्यभिचारज्ञानाभावयोरपि बाधा-भावतयैव चिकीर्षानुमित्योः प्रयोजकतया स्वरूपासिद्धिदृष्टान्तासिद्ध्योरापत्तेः । न च साक्षादविरोधित्वे सती-त्यनेन हेतुर्विशेषणीय इति बाच्यम् साक्षादविरोधित्वंहि न ग्राह्याभावतद्व्याप्याद्यनवगाहित्वं, प्रकृतेऽपि तद-सिद्धेः कृत्यसाध्यताज्ञानस्य चिकीर्षाप्रकारीभूतकृतिसाध्य-त्वाभावावगाहित्वात् अतएव न कारणीभूताभावप्रति-योगित्वमपि, प्रकृतेऽपि तदसिद्धेः पूर्वपक्षिणा कृत्यसाध्यताधियः साक्षादेव प्रतिबन्धकत्वाभ्युपगमात् न च हेतौप्रतिबन्धकज्ञानत्वपदेन ज्ञानत्वावच्छिन्नप्रतिबन्धकताशालित्वंविवक्षितं बाधसत्प्रतिपक्षादेश्च निश्चयत्वेन प्रतिबन्धकत्वमितिवाच्यम् प्रकृते तदसिद्धेः उक्तयुक्त्या कृत्यसाध्यतानिश्चयस्यैव पूर्वपक्षिमते प्रतिबन्धकत्वादिति चेन्न हेतौ स्वग्राह्य-विरोधावगाहिज्ञानभिन्नत्वेन यत्पदार्थविशेषणात् । स्वपदंप्रतिबन्धकज्ञानपरं चिकीर्षायाश्च ज्ञानभिन्नत्वादेव संग्रहःस्वग्राह्यविरोधावगाहित्वन्तु स्वं यत्र यदभावतद्व्याप्यतदवच्छेदकाद्यन्यतममवगाहते तत्र तदवगाहित्वं संवादि-त्वेनापि हेतौ यत्पदार्थो विशेषणीयः तेन इष्टभेदग्रहेप्रवृत्त्यादिप्रतिबन्धके तन्नये न व्यभिचारः । संवादि-प्रवृत्तौ विशिष्टज्ञावमेव हेतुरिति साध्यसत्त्वादेव न तमा-दाय व्यभिचारः । न च तथापि कूटभ्रमपरामर्शलिङ्ग-स्थले लिङ्गासंसर्गाग्रहेण लैङ्गिकासंसर्गाग्रहाधीनसंवादी-च्छाप्रबृत्तिप्रतिबन्धकेष्टभेदग्रहे जनकीभूतविशिष्टज्ञानविघ-टकत्वाभावाद्व्यभिचार इति वाच्यम् विशिष्टज्ञानस्यसंवादीच्छाप्रवृत्तिहेतुत्वेनानायत्या तत्रापीच्छाप्रवृत्त्योर्विष-यान्तरविषयकत्वकल्पनेन विसंवादित्वस्य तैः स्वीकारादितिदिक् । अन्यथा--एतादृशव्याप्त्यनङ्गीकारे । उपेक्षणीयत्वम्-इष्टसाधनतावच्छेदकरूपशून्यत्वम् । निष्फलत्वम् इष्टफलोपधानशून्यत्वम्, प्रतिबन्धकं--चिकार्षापतिबन्धकम् । क्रिया-ज्ञानमेवेयोकारेण इष्टसाधनत्वादिज्ञानव्यवच्छेदः । सोन्द-डः शङ्कते नन्विति । सन इति । वाचिचात् बोधकतात् पतच्चचिर्कर्षापदस्य यौगिकत्वपक्षे चिक र्षापदस्याखण्डरूढत्व-पक्षे त्वाहलाघवातिति, कृतिस ध्यत्वप्रकारकेच्छात्व पेज्ञयाकृतीच्छात्वस्य प्रवृत्तिनिमित्तस्य लघु वादिथर्यः । चिकीर्षा-चिकर्षापदप्रतिपाद्या । वृष्टाविवेति वृष्टिर्भवत्विताच्छैवेत्यर्थः ।इष्टसःधनताज्ञानात्--इष्टसाधनताज्ञानमात्रात् कृतिसा-ध्यवाज्ञानं विनापीष्टसाधनताज्ञानादिति यावत् । तत्रकृतिसाध्यत्वस्याप्रकारतया कृत्यसाध्यत निश्चयस्याप्रतिबन्धकतया च कृतिसाध्यताज्ञानस्य हेतुत्वे मानाभावादितिमावः । अत्र वृष्टिर्भवत्वित च्छेवेति प्रकृतसाध्याङ्गको दृष्टान्तःगुरुनये वृष्टिसाध्यं सुखं भवत्वितीच्छैव विशेषणतया सुख-त्वमिव वृष्टिमपि विषय करोति न तु वृष्टिर्भवत्विति स्वात-न्त्र्येणेच्छा कृतिसाध्यत्वप्रकारकेच्छां प्रति सुखत्वदुःखा-भावत्वप्रकारकज्ञानयोर्हेतुत्वेन कृतिसाध्यत्वाप्रकारकोपायेच्छाया अलीकत्वात् वृष्टिसाध्यं सुखं भवत्वितोच्छायान्तुसुखेवृष्टिसाध्यत्वज्ञानमेव हेतु रति मन्तव्यम् । वह्निनासाधयामीतिवदिति साध्यत्वप्रकारिकाया इति शेषः । अनु-भूयमानायाः--नियमतोऽनुभूयमानायः । सनन्तावाच्यधेन-सनन्ताप्रतिपाद्यत्वेन । गौरवेण--प्रवृत्तिनिमित्तगौरवेण ।प्रत्याख्यातुप्तशक्त्यत्वातिति कारणतायाः प्रत्याख्यातुमशक्य-त्वादित्यर्थः तथाच चिकीर्षापदाप्रतिपाद्यापि सा प्रवृ-त्तिहेत्तुरिति भावः । प्राधान्येनेति विशेष्यवयेत्यर्थः ।अप्राधान्येन विषयत्वस्य तत्र द्वितीयार्थत्वे पाकत्वं चिकी-र्षति इत्यपि प्रयोगापत्तेरिति भावः । न तु कृतेरितिअतो न कृतीच्छा चिकीषाप्रतिपाद्येति भावः । ननु चिको-र्षतीत्यत्र पाकस्य विशष्यतया इच्छाविषयत्वमनुभूयते इत्य-युक्तं सत्प्रथयसमभिव्याहृतधातोरिच्छाविशेषवाचितयाधात्वर्थस्यौ विशेष्यत्वातित्यतआह धातोश्चेति । इच्छाप्रकारवाचित्वमिति न तु विशेष्यपाचित्वमिति शेषः । पकारश्चकृतिसाध्यत्वं साध्यतासंसर्गेण कृतिर्वा । आद्ये तु लक्षणा-दिकं शरणमित्यन्यदेतत् । भोजनविशेष्यतयेति भोजनप्रका-रकेच्छाविशेष्यवयेत्यर्थः । ओदनविशेष्यकभोजनप्रकारके-च्छाश्रय इत्यन्वयबोधादिति भावः । ननु कृतिसाध्यत्व-प्रकारकेच्छायानियमतः कृतिपूर्व्वमनुभवसिद्धत्वेऽपि न साप्रवृत्तेर्हेतुरवच्छेदकगौरवात्, किन्तु कृतीच्छैव इष्ट साधनताज्ञानेन, तस्या अपि पूर्व्वं सम्भवात् । नचैवं क्रियायाइष्टासाधनतादिज्ञानेऽपि कृतेरिष्टोपायत्वादिस्तानात् प्रवृ-त्त्यापत्तिरिति वाच्यम् इष्टत्वात् । अन्यथा तवापि कृते-रिष्टाजनकत्वादिज्ञानदशायामपि क्रियाया इष्टजनकत्वादिज्ञान त्प्रग्त्त्यापत्तेस्तुल्यत्वादतआह इष्टभाष्टनत्वेनेति इष्ट-साधनत्वज्ञानेनेत्यर्थः । वुष्टाविवेति प्रवृत्तिपूर्व्वमिति शेषः ।करोतीति तादृशानुव्यवसायेनेत्यर्थः । ज्ञानचिकीर्षा-प्रवृत्तीनामिति प्रवृत्त्या सह प्रवृत्तिकारणज्ञानचिकीर्षायाःसमानविशेष्यकत्वस्य विषयोकरणात इत्यर्थः । इदमुपलक्षणम्अतिप्रमङ्गभङ्गाय तद्विगेष्यककृतौ तद कूलकृतोच्छायाएवहेतुताया वक्तव्यत्वात् पाकानुकूलकृतीच्छात्वस्वकृतिसाध्यत्व-प्रकारके च्छात्वयोः समशरोरत्वेन लाघवगौर मपि नास्ती-त्यवधयम् । कृत्या साधयितुमिति कृतिसधदत्वप्रकारिके-त्यर्थः । सा--चिकोर्षा चिकीर्षतस्य पाकस्यतिचिकीर्षाविष-यताचच्छेदकपाकत्वावच्छिन्नस्येर्त्यथः । अन्यतः सिद्धौ अन्यतःसिद्धत्वग्रहे, सा--पाकत्वपृकरिका नापगच्छेत् न न जायेतजायेतेति यावत् । उपायविशेषसाध्यत्वेनेति एकोपाय-साध्यत्वप्रकारिकेत्यर्थः । उपायान्तराधोनेति उपायान्तरा-धोनसिद्धत्वज्ञानेनेत्यर्थः । प्रोत्येति प्रत्याधनलाभस्य प्रीत्यासिद्धत्वज्ञानेऽपीत्यर्थः । प्रतिग्रहेणेति प्रतिग्रहसाध्यत्व-प्रकारकधनलाभेच्छाया इत्यर्थः । अनिवृत्तेरुत्पत्त्यनिवृत्ते-रुत्पत्तेरिति यावत् । तथा च तदुपायसाध्यत्वप्रकारके-च्छां प्रति तदुपायतःसिद्धत्वज्ञानस्यैव प्रतिबन्धकतया उपा-यान्तराधीनसिद्धत्वज्ञानेऽपि कृ तसाध्यत्वज्ञकारकेच्छोत्-पत्तौ न बाधकमिति भावः । स्वविषयसिद्धत्वस्येति स्वविषय-तावच्छेदकावच्छिन्न वशेष्यताकसिद्धत्वज्ञानस्येत्यर्थः यथाश्रुते पाकं कृत्या साधयामीतीच्छाया अन्यतः सिद्धपाकाषियतया तत्सिद्धौ तन्निवृत्तेरनुपपादनात् । न च तस्याअन्यतः सिद्धपाकोऽपि विषयः व्यधिकरण कारकेच्छायाअभ्युपगमात् इति वाच्यं तथापि पाकत्वरूप्रेणान्यतः सिद्ध-पाके सिद्धत्वज्ञाने तेन रूपेण सिद्धपाकमात्रे तदापत्ते-स्तादवस्थ्यात् भिन्नप्रकारकस्यापि सिद्धत्वज्ञानस्य प्रति-बन्धकत्वापाताच्च । सिद्धत्वञ्च क्वचिदुत्पन्नत्वं, क्वचिद्विद्य-भानत्वं, क्वचिच्च क्षेमसाध्यताविरोधित्वरूपं, यथा दुःख-प्रागभावादौ प्रतिबन्धकाभावकूटस्य हेतुत्वाच्च नाननुग-मोदोषाय । नचैवं सिद्धे ग्रामादौ कथमिच्छेति वाच्यं तत्रग्रामादिलाभस्यासिद्धस्यैव इच्छाविषयत्वात् न तु ग्रामा-देरिति भावः । उपायेच्छाविरोधित्वात् उपायेच्छगनुतपाप्रयोजकवात्, फलेच्छाविच्छेदस्य प्रतिबन्धकत्वाभावेन यथाश्रुतासङ्गतेः । तत्र--चिक र्षतस्य पाकस्यान्यवः सिद्धत्वज्ञानस्थले । सिद्धत्वम्--मिद्धत्वग्रहः पाकस्य सिद्धत्वज्ञानात् स्वविषय सद्धत्वज्ञानम् ओदनस्य सिद्धत्वज्ञानात् फलेच्छा वच्छेदइति भावः । ननुस्वपिषयताबच्छेदकावच्छिन्नविशेष्यताकसिद्ध-त्वज्ञानत्वेन पतिबन्धकत्वे स्ववान्तर्भावात् अननुगमः नच तद्धर्म्माश्रयविशेष्यकेच्छां प्रति तादृशसिद्धत्वज्ञानं विरो-धीति वाच्यं विसंवादोच्छाया असंग्रहात् । अथ तदर्म्मावच्छिन्नविशेष्यताकसिद्धत्वज्ञानं विरोधि नचै । शूद्रादि-पाके सिद्धत्वज्ञानेऽपि ब्राह्मणस्य पाके चिक र्षा न स्यादितिवाच्यं तदानीं स्वीयपाकत्वादिरूपेणैव” ब्राह्मणस्य चिकी-र्षोत्पादात् पाकत्वरूपेण तदनुत्पादात् इति चेन्न ग्रामेस्वत्वं मे भवत्विय दिसिद्धग्रामादिगोचरेच्छायां ग्रामत्वादिरूपेण सिद्धत्वज्ञानेऽपि ज यमानायां व्यभिचारात् कपाल-हविरादिरूपेण सिद्धत्वज्ञानेऽपि कपालहविराद्य पादाने-च्छायां व्यभिचारात् सिद्धत्वज्ञानदशायां तदनभ्युपगमे तदानीं प्रवृत्तेरप्यपलापप्रसङ्गात् उपादानेच्छायाः प्रवृत्तौ-हेतुवादतएव तद्वर्म्मप्रकारकचावच्छिन्नमुख्यविशेष्यता-केच्छां प्रति तद्वर्म्मावच्छिन्नविशेष्यनाकसिद्धत्वज्ञान विरोधिनातो ग्रामे स्वत्वंमे भवत्विति सिद्धग्रामादिगाचरेचछायांव्यभिचार इति कस्यचित् प्रलपितमपास्तं, कपालहविराद्युपादानेच्छायां व्यभिचरात् पाकत्वादिरूपेण सिद्धत्व-ज्ञानदशायां मम कृतिसाध्यपाकोभवत्विति चिकीर्षायाअनुत्पादवत् घटत्वादिरूपेण सिद्धत्वज्ञानदशायामपि नी-णोघटोभवत्वितीच्छाया अनुत्पत्तिप्रसङ्गाच्च इति चेत्? मैवंतद्धर्म्मेद्देश्यतावच्छेदककेच्छां प्रति तद्धर्म्मप्रकारकसिद्धत्व-ज्ञानस्य प्रतिबन्धकत्वात् । उद्देश्यत्वञ्च भवत्वित्यादिपदाभि-लप्यनानो विषवताविशेषः ग्रामे स्वत्वमे भवत्वित्यादौग्रामादिर्नोद्देश्यः किन्तु स्वचमेव एवं कपालाद्युपादानगोचरेच्छायामपि कपाल दिर्नोद्दश्यः । उद्देश्यतावच्छदकत्वञ्चतत्पर्याप्त्यधिकरणत्वं तेन घटत्वादिरूपेण सिद्धत्वज्ञान-दशायां नीलोघटोभवत्वितीच्छोत्पत्तिः । अतएव यस्यांपाकादिविशेष्यकधिकीर्षायां, पाकत्वादिमात्रेणोद्देश्यतापाकत्वादिरूपेण सिद्धत्वज्ञानादेव सापैति यस्यान्तु स्वकृति-साध्यपाकत्वादिरूपेण, सा तु स्वकृतिसाध्यपाकत्वादिरूपेणसिद्धत्वज्ञानादेवापैति इति विभागः । तादृशविलक्षण-विषयतानङ्गीकार तु तत्तद्व्यक्तित्वेनैव प्रतिबध्यता, प्रति-बन्धकता तु सामान्यतस्तद्धर्म्मावच्छिन्नविशेष्यताकसिद्धत्व-ज्ञानत्वेन तत्तद्व्यक्तित्वेन वेत्यन्यदेतत् । केचित्त यद्धर्मा-वच्छेदेनेष्टसाधनताज्ञानाधीना इच्छा तद्धर्म्मप्रकारकसिद्ध-त्व नश्चयो विरोध । इष्टसाधनषियत्वञ्च यत्र पाकत्व-रूपेण गृहोतं तत्र पाकत्वप्रकारकसिद्धत्वधियोव सापगच्छतियत्र मत्कृतिसाध्यपाकत्वादिना तदवगतं, तत्र तदवच्छिन्न-सिद्धचधियैवेति विभागः । तेन प्रतिग्रहसाध्यधनलाभत्व-स्येष्टसाधनत्व वच्छेदकत्वात् प्रकारान्तरेण तल्ल भेऽपि नतदपगमः । न च सिद्धत्वज्ञानदशायां घटयागदिसाध्यकप्र-वृत्तिजनककपालहविराद्युपादानेच्छायां व्यभिचार इतिवाच्यम् गुरुनये उपादाननिष्ठचिकोर्षाविषयसाधनताज्ञानस्य साक्षादेव प्रवृत्तिहेतुत्वेन तादृशेच्छायां मानाभावात् ।तच्छाग्रे स्फटभविष्यति एवं न्यायनयेऽपि न च तथापियथा पाकचरूपेण इष्टसाधनताज्ञानात् कृतिसाध्यत्वप्र-कारकज्ञानसहकृतात् पाकः कृतिसाध्यो भवतु इतीच्छायाग्रामत्वादिरूपेण सिद्धग्राम दाविष्टसाधनताज्ञानात् स्वीय-स्वत्वप्रक रकज्ञानसहकृतात् ग्रामो मे स्वत्ववान् भवतु इतिसिद्धग्रामविशेष्यकेच्छायाश्चोत्पत्तौबाधकभावात् तत्र व्यभि-चारः ग्रामत्वादिरूपेण सिद्धत्वज्ञानेऽपि तदुत्पत्तेरितिवाच्यम् स्वकृ तसाध्यतातिरिक्तस्थले तत्प्रक रकफलार्थीच्छायां तत्प्रकारकफलसाधनताज्ञानस्य फलबलेन हेतुतयाग्रामत्वरूपेणेष्टसाधनताज्ञाने तादृशेच्छाया एवासिद्धेरि-त्याहुः, तदसत् गुरुनये नित्यविषयकेच्छाया असंग्रहात् ।घटादिसाघ्यकप्रवृत्तौ घटादिचिकीर्षावत् कपालाद्युपा-दानकप्रवृत्तौ घटादिचिकीर्षावत्कपालाद्युपादानकप्रवृत्तौकपालादीच्छाया अपि हे त्वेन कपालाद्युदानकेच्छायाव्यभिचारस्य दुर्वारत्वाच्च, अन्यथा चिकीर्षाविषयसाधनताज्ञानस्य लौकिकप्रत्यक्षस्य चाविशिष्टत्वेऽपि यत्रेच्छा तत्रै-वोपादानतया प्रवृत्तिर्यव नेच्छा तत्र नेति नियमानुप-पत्तेः । न्य यमीमांसासिद्धान्तस्य च युक्तिविरुद्धत्वेनानुपा-देयत्वादिति संक्षेवः” । अधिकं तद्ग्रन्थे दृश्यम् ।न्यावयते तु कार्य्यत्वज्ञानमिष्टसाधनत्वज्ञानं बलवदनिष्टाननुबन्धित्वज्ञानं चेति यथाययम् प्रवर्त्तकमिति भेदःविस्तरस्तु आकरे दृश्यः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
