| YouTube Channel

कार्य्यकारणभाव (kAryyakAraNabhAva)

 
वाचस्पत्यम्
Sanskrit
कार्य्यकारणभाव
पु०
कार्य्यञ्च कारणञ्च तयोर्भावः एकस्यस्वकारणापेक्षया कार्य्यत्वे तदपेक्षया चान्यस्य कारणत्वेहेतुहेतुमद्भावे यथा घददण्डयोः कार्यकारणभावः “कार्य-कारणभावाद्वा स्वभावाद्वा नियामकात् अविनाभावनियमोदर्शनान्तरदर्शनात्” सर्व्वद० बौद्धदर्शने तत्र कार्यभेदेनकारणभेदे कारणशब्दे १९३८ पृ० उक्तप्रायेऽपि किञ्चिदाधि-क्यमुच्यते कारणं त्तावत् द्विविधं मुख्यममुख्यञ्च तत्र घटा-दिकं प्रति मृदादिकं मुख्यं, तथा प्रत्यक्षे इन्द्रियमित्यादि ।तद्भिन्न ममुख्यं तच्च सहकारि कारणम् मुख्यमपि त्रिविधंन्यायमते समवायि असमायि निमित्तमिति भेदात् तत्रघटादिकं पति मृदादिकं समवायिकारणं, कपालसं-योगादि असमवायिकारणं, दण्डादयो निमित्तकार-णनि तत्राद्ये असाधारणे एव कारणे असाधा-रणकारणमपि कार्य्यभेदान्नानाविधम् निमित्तकारण-मपि द्विविधं साधारणासाधारणभेदात् तत्र साधारण-निमित्तकारणानि चाष्टविधानि ईश्वरस्तज्ज्ञानेच्छाकृतयःदिक्कालौ अदृष्टं प्रागभावश्चेति भेदात् असाधारण-निमित्तकारणानि चानेकविधानि प्रतिबन्धकाभावस्यकारणत्वं नैयायिका मन्यन्ते निमित्तकारण-मेव वेदान्तिनश्च अभावस्य कारणत्वम् इच्छन्ति“कथमसतः सज्जायेतेति” श्रुतेः नासतोविद्यते भावः”इति गीतोक्तेश्च तदेतन्निर्ण्णीतं तैत्तिरीयोपनिषद्भाष्येयथा“नित्यानाञ्चाकरणमभावस्ततः प्रत्यवायानुपपत्तिरिति ।अतः पूर्व्वोपचितदुरितेभ्यः प्राप्यमाणायाः प्रत्यवायक्रि-याया नित्याकरणं लक्षणमिति “अकुर्व्वन् विहितं कर्मेति”हि शतुर्नानुपपत्तिः अन्यथा अभावाद्भावोत्पत्तिरितिसर्व्वप्रमाणव्याकोपः” भा० ।व्याकृतञ्चैतत् आनन्दगिरिणा यथा“यच्चोक्तमकरणनिमित्तप्रत्यवायपरिहारार्थानि नित्या-नीति तत्राह नित्यानाञ्चेति आगामि दुःखं प्रत्य-वाय उच्यते तस्य भावरूपस्य नाभावो निमित्तम् “पापःपापेनेति” श्रुतेः निषिद्धाचरणनिमिटत्वाद्दुःखस्ये-त्यर्थः “अकुर्व्वन् विहितं कर्म निन्दितञ्च समाचरन् ।प्रसजंश्चेस्द्रियार्थेषु नरः पतनमृच्छतीति” शतृप्रत्ययाद-करणस्यापि प्रत्यवायनिमित्तत्वमवगतिमित्याशङ्क्याह अतःपूर्व्वेति यदि यथावन्नित्यनैमित्तिकानुष्ठानमभविष्यचदासञ्चितदुरितक्षयोऽभविष्यत् चायं विहितमकार्षीदि-त्यतः प्रत्यवायो भविष्यतीति शिष्टैर्लक्ष्यते यथा “विचि-कित्सन् श्रोत्रिय” इति ततः शतृप्रत्थयस्यान्यथाव्यु-त्पन्नत्वान्न तद्बलादकरण हेतुत्वमवगन्तुं शक्यत इत्यर्थः ।“लक्षणहेत्वोः क्रियायाः” इति (पा०) शतृप्रत्ययस्थोभथत्रविधाने सति किमिति हेतुत्वमेव गृह्यते? तत्राह अन्य-थेति अभावरूपस्य कार्य्यस्य भावरूपमेव कारणमितिप्रत्यक्षादिभिरवगतं शतृप्रत्ययादभावस्य हेतुत्वाभिधानेसर्व्वप्रमाणविरोधः स्यादित्यर्थः ।ननु त्वयाप्यकरणस्य प्रत्यवायलक्षणत्वमिष्टम् भाट्टै-श्चानुपलम्भस्याभावप्रमितिहेतुत्वमिष्यते तार्किकेश्च प्रति-बन्धकाभावस्य तत्तत्प्रागभावस्य तत्तत्कार्य्यव्यवस्था-पकत्वमिष्यते तत्कथं भावस्यैव कारणत्वम् तदुक्तम् “भा-वो यथा तथाऽभावः कारणं कार्यवन्मतम्” इति उच्यते ।“अस्मामिस्तावदभावस्य स्वरूपेण कारणत्वं नेष्टं किन्तुतद्भानस्य प्रत्यवायगमकत्वमिष्टम् तेन रूपेण प्रत्य-वायजनकत्वमिष्यते नित्याकरणाज्ञाने प्रत्यवायाभावप्रस-ङ्गात् भाट्टानामपि केषाञ्चिज्ज्ञातस्य योग्यानुपलम्भ-स्याभावप्रमितिहेतुत्वमिष्टं ज्ञानध्वंसतया तु प्रमितिहेतुत्वे-ऽभावप्रमायाः प्रत्यक्षत्वापातः तार्किकाणामपि प्रति-बन्धकाभावस्य कारणत्वेऽन्योन्याश्रयत्वप्रसङ्गान्न प्रामाणिक-त्वम् प्रागभावस्यापि ज्ञातरूपेण जन्यज्ञापकत्वमेव ।यस्मादिदं प्राङ्नासीत्तस्म दिदानीं जातमिति तुजनकत्वं प्रागभावस्य, नियतप्रागभावित्वेन कारणत्वेप्राक्कालस्य स्ववृत्तितापातः प्रागभावित्वमपि चान्यथा-सिद्धमित्युक्तं तत्त्वालोके” ।कार्य्यविवृतिश्च कार्यशब्दे उक्ता तत्र समायिकारणो-त्पाद्यं समवेताख्यमुपादेयमित्युच्यते तद्भिन्नं कार्य्यं कार्य्यो-त्पाद्यादिशब्देन व्यवह्रियते इति भेदः