कार्य्यकारणभाव (kAryyakAraNabhAva)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritकार्य्यकारणभाव कार्य्यञ्च कारणञ्च तयोर्भावः । एकस्यस्वकारणापेक्षया कार्य्यत्वे तदपेक्षया चान्यस्य कारणत्वेहेतुहेतुमद्भावे यथा घददण्डयोः कार्यकारणभावः । “कार्य-कारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमोदर्शनान्तरदर्शनात्” सर्व्वद० बौद्धदर्शने । तत्र कार्यभेदेनकारणभेदे कारणशब्दे १९३८ पृ० उक्तप्रायेऽपि किञ्चिदाधि-क्यमुच्यते । कारणं त्तावत् द्विविधं मुख्यममुख्यञ्च तत्र घटा-दिकं प्रति मृदादिकं मुख्यं, तथा प्रत्यक्षे इन्द्रियमित्यादि ।तद्भिन्न ममुख्यं तच्च सहकारि कारणम् । मुख्यमपि त्रिविधंन्यायमते समवायि असमायि निमित्तमिति भेदात् तत्रघटादिकं पति मृदादिकं समवायिकारणं, कपालसं-योगादि असमवायिकारणं, दण्डादयो निमित्तकार-णनि । तत्राद्ये असाधारणे एव कारणे । असाधा-रणकारणमपि कार्य्यभेदान्नानाविधम् । निमित्तकारण-मपि द्विविधं साधारणासाधारणभेदात् तत्र साधारण-निमित्तकारणानि चाष्टविधानि ईश्वरस्तज्ज्ञानेच्छाकृतयःदिक्कालौ अदृष्टं प्रागभावश्चेति भेदात् । असाधारण-निमित्तकारणानि चानेकविधानि । प्रतिबन्धकाभावस्यकारणत्वं नैयायिका मन्यन्ते । स च निमित्तकारण-मेव । वेदान्तिनश्च अभावस्य न कारणत्वम् इच्छन्ति“कथमसतः सज्जायेतेति” श्रुतेः नासतोविद्यते भावः”इति गीतोक्तेश्च । तदेतन्निर्ण्णीतं तैत्तिरीयोपनिषद्भाष्येयथा“नित्यानाञ्चाकरणमभावस्ततः प्रत्यवायानुपपत्तिरिति ।अतः पूर्व्वोपचितदुरितेभ्यः प्राप्यमाणायाः प्रत्यवायक्रि-याया नित्याकरणं लक्षणमिति “अकुर्व्वन् विहितं कर्मेति”हि शतुर्नानुपपत्तिः । अन्यथा अभावाद्भावोत्पत्तिरितिसर्व्वप्रमाणव्याकोपः” भा० ।व्याकृतञ्चैतत् आनन्दगिरिणा यथा“यच्चोक्तमकरणनिमित्तप्रत्यवायपरिहारार्थानि नित्या-नीति तत्राह नित्यानाञ्चेति । आगामि दुःखं प्रत्य-वाय उच्यते तस्य भावरूपस्य नाभावो निमित्तम् “पापःपापेनेति” श्रुतेः । निषिद्धाचरणनिमिटत्वाद्दुःखस्ये-त्यर्थः । “अकुर्व्वन् विहितं कर्म निन्दितञ्च समाचरन् ।प्रसजंश्चेस्द्रियार्थेषु नरः पतनमृच्छतीति” शतृप्रत्ययाद-करणस्यापि प्रत्यवायनिमित्तत्वमवगतिमित्याशङ्क्याह अतःपूर्व्वेति । यदि यथावन्नित्यनैमित्तिकानुष्ठानमभविष्यचदासञ्चितदुरितक्षयोऽभविष्यत् । न चायं विहितमकार्षीदि-त्यतः प्रत्यवायो भविष्यतीति शिष्टैर्लक्ष्यते । यथा “विचि-कित्सन् श्रोत्रिय” इति । ततः शतृप्रत्थयस्यान्यथाव्यु-त्पन्नत्वान्न तद्बलादकरण हेतुत्वमवगन्तुं शक्यत इत्यर्थः ।“लक्षणहेत्वोः क्रियायाः” इति (पा०) शतृप्रत्ययस्थोभथत्रविधाने सति किमिति हेतुत्वमेव न गृह्यते? तत्राह अन्य-थेति । अभावरूपस्य कार्य्यस्य भावरूपमेव कारणमितिप्रत्यक्षादिभिरवगतं शतृप्रत्ययादभावस्य हेतुत्वाभिधानेसर्व्वप्रमाणविरोधः स्यादित्यर्थः ।ननु त्वयाप्यकरणस्य प्रत्यवायलक्षणत्वमिष्टम् । भाट्टै-श्चानुपलम्भस्याभावप्रमितिहेतुत्वमिष्यते । तार्किकेश्च प्रति-बन्धकाभावस्य तत्तत्प्रागभावस्य च तत्तत्कार्य्यव्यवस्था-पकत्वमिष्यते तत्कथं भावस्यैव कारणत्वम् तदुक्तम् । “भा-वो यथा तथाऽभावः कारणं कार्यवन्मतम्” इति उच्यते ।“अस्मामिस्तावदभावस्य स्वरूपेण कारणत्वं नेष्टं किन्तुतद्भानस्य प्रत्यवायगमकत्वमिष्टम् । तेन च रूपेण न प्रत्य-वायजनकत्वमिष्यते । नित्याकरणाज्ञाने प्रत्यवायाभावप्रस-ङ्गात् । भाट्टानामपि च केषाञ्चिज्ज्ञातस्य योग्यानुपलम्भ-स्याभावप्रमितिहेतुत्वमिष्टं ज्ञानध्वंसतया तु प्रमितिहेतुत्वे-ऽभावप्रमायाः प्रत्यक्षत्वापातः । तार्किकाणामपि प्रति-बन्धकाभावस्य कारणत्वेऽन्योन्याश्रयत्वप्रसङ्गान्न प्रामाणिक-त्वम् । प्रागभावस्यापि ज्ञातरूपेण जन्यज्ञापकत्वमेव ।यस्मादिदं प्राङ्नासीत्तस्म दिदानीं जातमिति । न तुजनकत्वं प्रागभावस्य, नियतप्रागभावित्वेन कारणत्वेप्राक्कालस्य स्ववृत्तितापातः । प्रागभावित्वमपि चान्यथा-सिद्धमित्युक्तं तत्त्वालोके” ।कार्य्यविवृतिश्च कार्यशब्दे उक्ता । तत्र समायिकारणो-त्पाद्यं समवेताख्यमुपादेयमित्युच्यते तद्भिन्नं कार्य्यं कार्य्यो-त्पाद्यादिशब्देन व्यवह्रियते इति भेदः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
