| YouTube Channel

कार्य्यं (kAryyaM)

 
शब्दकल्पद्रुमः
Sanskrit
कार्य्यं,
क्ली,
(क्रियते यत् तत् कृ + “विभाषा कृवृषोः” १२० इति क्यवभावे “ऋहलो-र्ण्यत्” १२५ इति ण्यत् ततो वृद्धिः ।)क्रियते यत् इति व्याकरणम् काज इति भाषा ।(“कार्य्यन्तु तद्यस्याभिनिर्वृत्तिरभिसन्धाय प्रवर्त्ततेकर्त्ता” इति चरके विमानस्थाने अध्यायः
तथा मनुः २९९ ।“आरभेत ततः कार्य्यं सञ्चिन्त्य गुरुलाघवम्”
कर्त्तव्यम् यथा तत्रैव ८० ।“आशासते कुटुम्बिभ्यस्तेभ्यः कार्य्यं विजानता”
)तत्प्रति कारणम् त्रिविधम् समवायिकारणम् १यथा घटकार्य्यं प्रति कपालम् असमवायिकार-णम् यथा घटकार्य्यं प्रति कपालसंयोगादि ।निमित्तकारणम् यथा घटं प्रति दण्डचक्रादि ।इति तर्कशास्त्रम्
हेतुः प्रयोजनम् इतिमेदिनी
ऋणादिविवादः यथा, --“यस्मात् कार्य्यसमारम्भश्चिरात्तेन विनिश्चितः ।तस्मान्न लभते कालमभियुक्तश्च कालभाक्”
इति व्यवहारतत्त्वे कात्यायनः
(तथा मनुः ४३ ।“नोत्पादयेत् स्वयं कार्य्यं राजा नाप्यस्य पूरुषः”
)अपूर्व्वम् यथा, --“विधिप्रत्ययस्य कार्य्ये शक्तिरिति मीमांसकाः”
व्याकरणमते आदेशप्रत्ययागमाः इति दुर्गा-दासः
(त्रि, करणीयम् कर्त्तव्यम् यथा मनुः ।२ २४८ ।“सहपिण्डक्रियायान्तु कृतायामस्य धर्म्मतः ।अनयैवावृता कार्य्यं पिण्डनिर्व्वपनं सुतैः”
)