| YouTube Channel

कार्म्मुक (kArmmuka)

 
शब्दसागरः
English
कार्म्मुक
mfn.
(-कः-की-कं) Finishing a work, doing it well or completely.
nm. (-कं-कः) A bamboo.
n.
(-कं) A bow.
E.
कर्म्म act, action, and
उकञ्
aff.
Yates
English
कार्म्मुक (कं) 1.
n.
A bow.
m.
n.
A
bambu.
a. Finishing.
Wilson
English
कार्म्मुक
mfn.
(-कः-की-कं) Finishing a work, doing it well or
completely.
nm. (-कं-कः) A bamboo.
n.
(-कं) A bow.
E.
कर्म्म act, action, and उकञ्
aff.
वाचस्पत्यम्
Sanskrit
कार्म्मुक
न०
कर्म्मणे प्रभवति उकञ् धनुषि अमरः ।“कार्म्मुकेणेव गुणिना वाणः सन्धानमेष्यति” माषः ।“विहाय लक्ष्मीपतिलक्ष्म कार्मुकम्” किरा० ।२ कर्म्मक्षमे
त्रि०
मेदि० कार्मुकं साध्यत्वेनास्त्यस्यअच् वंशे मेदि० श्वेतखदिशे हिज्जलदृक्षे६ महानिम्बेच
पु०
राजनि० मेषादिषु नवमे राशौ“कार्मुकं तु परित्यज्य ऋषं (मकरम्”) संक्रमते रविः ।प्रभाते चार्द्धरात्रे स्नानं कुर्य्यात् परेऽहनि” कालमा०भविष्यपु० कृमुकस्येदम् अण् कृमुकसंबन्धिनित्रि० स्त्रियां ङीप् “अग्नावारूढे त्रयोदशास्यांप्रादेशमात्राः समिध आदधाति” “घृतोन्नां कार्मुकींद्र्वन्नः” इति कात्या० श्रौ० १६, ४, ३३, ३५, अत्र कृमुकःधमनवृक्ष” कर्कः श्वेतखदिरः अतएव स्वार्थेअणन्ततया श्वेतखदिरार्थतेत्युक्तं राजनि० तूलस्फोटनेतदाकारे (आचडा) (धुनारा) इतिख्याते यन्त्रेभेदे ।अग्निपुराणे धनुर्वेदप्रकरणे धन्विनां वैशाखादिस्थानपञ्च-कमुक्त्वा धनुः शिक्षाप्रकारलक्षणादिकमुक्तं यथा“कार्मुकं गृह्य वामेन वाणं दक्षिणकेन तु वैशाखेयदि वा स्थाने संस्थितोऽप्यथ वाऽऽयते गुणाढ्यं तुततः कृत्वा कार्मुकं प्रियकार्मुकः अधः कोटिन्तु धनुषःफलदेशन्तु पत्रिणः धरण्यां स्थापयित्वा तु तोलयित्वातथैव भुजाभ्यां मन्दकुब्जाभ्यां प्रकोष्ठाभ्यां दृढव्रतः ।न्यस्येत्वाणं धनुःश्रेष्ठे पुङ्घदेशञ्च पत्रिणः विन्यासो धनुष-श्चैव द्वादशाङ्गुलमन्तरम् ज्यया विशिष्टः कर्त्तव्योनातिहीनो नचाधिकः निवेश्य कार्मुकं नाभ्यां(धनुर्मध्ये) नितान्तं सशरं करम् उत्क्षिपेदुन्नतं हस्त-मन्तरेणाक्षिकर्ण्णयोः पूर्व्वेण मुष्टिना ग्राह्यं तलाग्रेदक्षिणे शरम् हरणन्तु ततः कृत्वा शीघ्रं पूर्व्वं प्रसार-येत् नाभ्यन्तरा नैव बाह्या नोर्द्धका नावरा तथा ।न कुब्जा चोत्ताना चला नातिवेष्टिता ममा-स्थैर्य्ये गुणोपेता मौर्वी दण्डैव स्थिता छादयित्वाततोलक्ष्यं पूर्व्वणानेन मुष्टिना(वाममुष्टिना) उरसातूत्थितो यन्ता त्रिकोणावनतस्थितः स्तब्धाङ्गो निश्चलग्रीवो मयूराञ्चितमस्तकः ललाटनासावक्त्रांसाः कुर्प-रोऽस्य समोभवेत् अन्तरे द्व्यङ्गुलं ज्ञेयं चिवुकस्यास्य-कस्य प्रथमं त्र्यङ्गुलं प्रोक्तं द्वितीये द्व्यङ्गुलं तथा ।तृतीयेऽङ्गुलमुद्दिष्टमायतं त्तिवुकास्ययोः गृहीत्वा सायकंतूण्या मयूराञ्चितमस्तकः तर्ज्जन्याङ्गुष्ठकेनाथ पूरयेत्सायकं पुनः अनामया पुनर्गृह्य तथा मध्यमयाऽपिच तावदाकर्षयेद्वेगात् यावद्वाणःप्रपूरितः एवंविधमुप-क्रम्य मोक्तव्योविधिवत् खगः दृष्टिमुष्टिगतं लक्ष्यंभिन्द्याद्वाणेन सुव्रतः त्यक्त्वा तु पश्चिमं हस्तं क्षिपेद्वेगेनपृष्ठतः एतदुच्छेदमिच्छन्ति ज्ञातव्यं हि त्वया द्विज! ।कुर्परं तदध कुर्य्यादाकृष्य तु धनुष्मता ऊर्द्ध्वं वै लस्तके(धनुर्मध्ये) कुर्य्यादङ्कश्लिष्टन्तु मध्यमम् ज्येष्ठं प्रकृष्टं विज्ञेयंधनुः शास्त्रविशादैः ज्येष्ठस्तु सायको ज्ञेयोभवेद्द्व्यदशमुष्टिकः एकादशस्तथा मध्यः कनीयान् दशमुष्टिकः ।चतुर्हस्तं धनुः श्रेष्ठं त्रयं सार्द्धन्तु मध्यमम् कनी-यस्तु त्रयं प्रोक्तं नित्यमेव पदातिनः अश्वे रथे गजेज्येष्ठः सदैव परिकीर्त्तितः”“पूर्णायतं द्विजः कृत्वा ततो मांसैर्गतायुषाम् ।सुनिर्धौतं ततः कृत्वा यज्ञभूमौ विधानवत् ततो वाणंसमागृह्य दंशितः सुसमाहितः तूणमासाद्य बन्धीयात्दृढां कक्ष्याञ्च दक्षिणाम् विलक्ष्यमपि लब्धा यस्तत्र चैवसुसंस्थितः ततः समुद्धरेद्वाणं तूणाद्दक्षिणपाणिना तेनैवसहितं भध्ये शरं संगृह्य धारयेत् आकृष्य ताडयेत्तत्रचन्द्रकं (चन्द्राकारलक्ष्यम्) षोडशाङ्गुलम् युक्त्वावाणं ततः पश्चाद्धनुः शिक्षा ततःस्मृता निगृह्णीयान्म-ध्यमया ततोऽङ्गुल्या पुनः पुनः अक्षिलक्ष्यात् क्षिपेत्तू-णाच्चतुरस्रं तु दक्षिणम् चतुरस्रगतं वेध्यमभ्यस्येच्चादितःस्थितम् तस्मादनन्तरं तीक्ष्णं परादृत्तगतं यत् नि-म्रमुन्नतवेध्यञ्च अभ्यस्येत् क्षिप्रकं ततः वेध्य स्थानेष्व-थैतेषु सन्न्यस्य पुटकं धनुः हस्तावापशतैश्चित्रै-स्तर्जयेद्दुर्जरैरपि तस्मिन् मध्यगते विप्र! द्वे वेध्ये दृढसङ्गरे द्वे वेध्ये द्वे तथा चित्रदुष्करे दृढदुष्करे नतु निम्नञ्च तीक्ष्णञ्च दृढवेध्ये प्रकीर्त्तिते निम्नं दुष्क-रमुद्दिष्टं वेध्यं मुर्द्ध्नि शतञ्चरेत् लस्तकायनमध्ये तुचित्रदुष्करसंज्ञके एवं वेध्यगणं कृत्वा दक्षिणेनेतरेणच आरोहेत् प्रथमं वीरोजितलक्ष्यस्ततो नरः एष एवविधिः प्रोक्तस्तत्र दृष्टः प्रयोक्तृभिः अधिकं भ्रमणं तस्यतस्माद्विष्वक् प्रकीर्त्तितम् लक्ष्य संयोजयेत्तत्र पत्रिपत्रगतं दृढम् भ्रान्तं प्रचलितं चैव स्थिरं यच्च भवे-दिति समन्तात्ताडयेद्भिन्द्याच्छेदयेद् व्यथयेदपि ।कर्म्मणा संविधानज्ञो ज्ञात्वैव विधिमाचरेत् मनसाचक्षुषा दृष्ट्वा योगसिद्धिं ध्रुवं व्रजेत्” ।१० वृत्तक्षेत्रस्य परिध्यर्द्धात्मके रेखाभेदे ११ तदीयांशभेदे चतयोर्धनुराकारत्वात्तथात्वम् तदानयनप्रकारः जीवान-यनप्रकारसुक्त्वा लीला० दर्शितोयथा ।“अथ चापानयनाय करणसूत्रं वृत्तम् व्यासाब्धिघातयुतमौर्व्विक्तया विभक्तो जीवाब्धिपञ्चगुणितः परि-धेस्तु वर्ग्गः लब्धोचितात्परिधिवर्ग्ग चतुथैभागादाप्तेपदे वृतिदलात्पतिते धनुः स्यात्” ।“उदाहरणम् विहिताइह ये गुणास्ततोवद तेषामधुना धनुर्मितिम् यदि तेऽस्ति धनुर्ग्गुणक्रियागणितेगाणितिकातिनैपुणम्”न्यासः ४२ ८२ १२० १५४ २०८ २२६ ।२२६ २४० [एता जीवासंख्या यथा भवन्ति तथाजीवाशब्दे वक्ष्यते] सएवापवर्त्तितः परिधिः १८ ।४२ जीवाङ्घ्रिणा २१/२ पञ्चभि श्च परिधेः १८ र्वर्ग्गो३२४ गुणितः १७०१० व्यासाब्धि २४० घात९६० युत ४२ भौर्विकयानया १००२ विभक्तोलब्धो १७ऽत्राङ्कलाघवाय चतुर्विंशतेर्द्व्यधिकसहस्रांशयुतोगृहीतो-ऽनेनोनितात्परिधि १८ ३२४ वर्ग्ग चतुर्थभागात् ८१(१७ उनितात्) ६४ पदे प्राप्ते वृति १८ दलात् ।पतिते जातं धनुः एवं जातानि धनूंषि ।३ एतानि परिधिष्वष्टा-दशांशेन गुणितानि स्य्ः” एवं ८२ स्ंख्यादौ कल्प्यम् ।“दलीकृतं चक्रमुशन्ति चापम्” इति सि० शि० उक्ते १२राशिचक्रस्यार्द्धरूपे खण्डे तस्य जीवाभेदेनान्यविधामितिः यथोक्त तत्रैव “ज्प्तां प्रोज्झ्य तत्त्वाश्वि २२५ हता-वशेषं यातैष्यजीवाविवरेण भक्तम् जीवा विशुद्धा यतमाच तज्ज्ञैस्तत्वाश्विभिस्तत् सहितं धनुःस्यात्” “यस्य धनुःसाध्यं तस्माद्या जीषा विशुध्यति सा शोध्या शेषात्तत्वा-श्वि २२५ गुणाद्गतागामिज्यान्तरहताद्यल्लभ्यते तत्स्थाप्यंततोयतमा जीवा विशुद्धा तद्गुणितैस्तत्त्वाश्विभिः २२५सहितं धनुः स्यात्” प्रमि०सू० सि० रङ्गनाथाभ्याञ्च तथैवोक्तं यथा ।“ज्यां प्रोज्झ्य शेषं तत्त्वाश्विहतं तद्विवरोद्धतम् सङ्क्या-तत्त्वाश्विसंवर्गे संयोज्य धनुरुच्यते” सू० सि० ।“यस्य धनुः कर्त्तुमिष्टं तस्मिन्नशुद्धपूर्वं ज्यापिण्डं न्यूनी-कृत्य शेषं पञ्चाकृति २२५ गुणं तद्विवरोद्धृतं तयोः शुद्धाऽ-शुद्धपिण्डयोरन्तरेण भक्तं फलं शुद्धा ज्या यतमा यतमसङ्ख्यातत्त्वाश्विनोः संवर्गे घाते संयोज्य सिद्धं धनुः कथ्यते ।अत्रोपपत्तिः ज्या यतमा शुद्ध्यति ततमा याश्चाप-कलास्ततमसङ्ख्यागुणिततत्त्वाश्विनः यदि ज्यान्तरेणतत्त्वाश्रिकलास्तदा शेषज्यया का? इत्यनुपातागतफलयुताइति वैपरीत्येन सुगमतरा” अधिकं जीवाशब्दे वक्ष्यते