| YouTube Channel

कार्म्मणं (kArmmaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
कार्म्मणं,
क्ली,
(कर्म्मैव इति कर्म्मन् + “तद्युक्तत्वात्कर्म्मणोऽण्” २६ इति अण् कर्म्मणेहितमिति अण् वा ।) मूलकर्म्म इत्यमरः ।२
ओषध्यादिमूलेन यत् त्रासनोच्चाटन-स्तम्भनवशीकरणादिकर्म्म तत् इति भरतः
(यथा माघे १० ३७ ।“चाटु चाकृतकसम्रममासांकार्म्मणत्वमगमन् रमणेषु”
तथा च, काशीखण्डे ४५ ।“काचित्कार्म्मणतत्त्वज्ञा काचित्मौक्तिकगुम्फिका”
)मन्त्रतन्त्रादियोजनम् (कर्म्म साध्यत्वेन अस्त्यस्यइति अण् ।) कर्म्मठे त्रि इति मेदिनी