| YouTube Channel

कार्पासपर्व्वत (kArpAsaparvvata)

 
वाचस्पत्यम्
Sanskrit
कार्पासपर्व्वत
पु०
दानार्थं कल्पिते धान्यशैलादिषु दशसुअचलेषु कर्पासवस्त्रनिर्म्मिते पर्व्वतभेदे तद्विधानादिहेमा० दानख० ब्रह्माण्डपुराणे यथा“भगवानुवाच अतःपरं प्रवक्ष्यामि कार्पासाचलमुत्तसम् ।परमं सर्व्वदानानां प्रियं सर्वदिवौकसाम् देशकालौसमासाद्य धनं श्रद्धाञ्च यत्नतः देयमेतन्महादानं तार-णार्थं कुलस्य पर्वतं कल्पयेत्तत्र कार्पार्सेन विधानतः ।पूर्वोक्तेन विधानेन कृत्वा सर्व्वं विधानतः विंशद्भारस्तुकर्त्तव्य उत्तमः पर्वतो बुधैः मध्यमो दशभिःकुर्य्याज्जघन्यःपञ्चभिस्तथा सर्व्वधान्यसमूहस्य मध्ये ह्योषधिभिर्वृतः ।रसैरत्नैश्च संयुक्तो लोकपालावृतस्तथा ब्रह्मादयस्तथाशृङ्गे काञ्चनेन विनिर्मिताः कुलाचलांश्च चतुरश्चतुर्भा-गेन कल्पयेत् सौवर्णशिखरान् सर्व्वान् सर्व्वरत्नोप-शोभितान् नानाधातुविचित्राङ्गान् भक्ष्यभोज्यसमावृतान् ।कण्डे वा स्थण्डिले वापि तत्र होमो विधीयते ऋ-त्विजश्च तथा चाष्टौ कारयेद्वेदवित्तमान् होमोव्या-हृतिभिश्चैव अग्नौ तद्दैवतैरपि गन्धेन सर्पिषा तत्रतथा कृष्णतिलैरपि अयुतं होमसंख्या पालाश-समिधस्तथा शङ्खतूर्य्यनिनादैश्च तथा मङ्गलपाठकैः ।उत्सवं कारयेत्तत्र दिनमेकमतन्द्रितः पर्व्वकाले ततोदद्यात् पूजयित्वा विधानतः “नमः सर्वामरावासाभूतसङ्घैरभिष्टुताः ब्रह्वादयो मे वरदा भवन्तु विबुधाःसदा” इत्युच्चार्य्य नरो दद्यान्नारी वा विधिपूर्व्वकम् ।पूजयित्वा द्विजान् सम्यक् वासोभिर्भूषणैस्तथा अनेनविधिना यस्तु दानमेतत् प्रयच्छति गच्छेत्त्रिदशा-वासं विमानोपरि संस्थितः अप्सरोगणसंवीतो गन्ध-र्व्वैरभिसंस्तुतः तत्र मन्वन्तरं यावदुषित्वा विबुधा-लये पुण्यक्षयादिहाभ्येत्य महीम्भुङक्ते ससागराम् ।रूपवान् सुभगोवाग्मी श्रीमानतुलविक्रमः पञ्चजन्मानि नारी वा जायते नात्र संशयः भूयश्च शृणुराजेन्द्र! दिव्यं कार्पासपर्व्वतम् तञ्च भारशतेनैव कुर्य्या-दर्द्धेन वा पुनः शेषं पूर्व्वविधानेन सर्व्वं कुर्य्याद्य-थाक्रमम् फलं पूर्वोदितञ्चैव जायते नृपसत्तम!” ।कार्पासाचलकार्पासशैलादयोऽप्यत्र