| YouTube Channel

कार्पासधेनुः (kArpAsadhenuH)

 
शब्दकल्पद्रुमः
Sanskrit
कार्पासधेनुः,
स्त्री,
(दानार्थं कल्पिता कार्पासवस्त्र-निर्म्मिता धेनुः ।) दानार्थकार्पासादिनिर्म्मित-धेनुः यथा ।होतोवाच ।“अथातः संप्रवक्ष्यामि धेनुं कार्पासिकीं नृप ! ।यत्प्रदानान्नरा यान्ति ऐन्द्रलोकमनुत्तमम्
विषुवे त्वयने पुण्ये युगादिग्रहणे तथा ।ग्रहपीडासु चोग्रासु दुःस्वप्नारिष्टदर्शने
पुण्ये ह्यायतने राजन् शुचिदेशे गवां गणे ।गोमयेनोपलिप्तायां दर्भानास्तीर्य्य तै तिलान्
तन्मध्ये स्थापयेत् धेनुं वस्त्रमाल्यानुलेपनैः ।नैवेद्यधूपदीपाद्यैः पूजयेच्च विमत्सरः
उत्तमा चतुर्भिर्भारैस्तदर्द्धेन तु मध्यमा ।भारेण चाधमा प्रोक्ता वित्तशाठ्यं विवर्जयेत्
चतुर्थांशेन कृत्वा वै वत्सन्तु परिकल्पयेत् ।कर्त्तव्या रुक्मशृङ्गैस्तु रजतक्षुरसंयुता
नानाफलमया दन्ता रत्नगर्भसमन्विता ।इत्येवं सर्व्वसंपूर्णं कृत्वा श्रद्धासमन्वितः
आवाहयेत्तां कार्पासधेनुं मन्त्रैर्द्विजातये ।दद्यादथ दर्भपाणिः प्रयतः श्रद्धयान्वितः
पूर्व्वोक्तस्तु विधिः कार्य्यो दानमन्त्रपुरःरः”
पूर्व्वोक्तविधिः लवणधेनूक्तविधिः ।“यथा देवगणः सर्व्वस्त्वया हीनो वर्त्तते ।तथा मामुद्धरेर्द्देवि ! पाहि संसारसागरात्”
इत्यादिवराहपुराणे श्वेतोपाख्याने कार्पासधेनु-माहात्म्यम्