| YouTube Channel

कार्पासधेनु (kArpAsadhenu)

 
शब्दकल्पद्रुमः
Sanskrit
कार्पासधेनुः,
स्त्री,
(दानार्थं कल्पिता कार्पासवस्त्र-निर्म्मिता धेनुः ।) दानार्थकार्पासादिनिर्म्मित-धेनुः यथा ।होतोवाच ।“अथातः संप्रवक्ष्यामि धेनुं कार्पासिकीं नृप ! ।यत्प्रदानान्नरा यान्ति ऐन्द्रलोकमनुत्तमम्
विषुवे त्वयने पुण्ये युगादिग्रहणे तथा ।ग्रहपीडासु चोग्रासु दुःस्वप्नारिष्टदर्शने
पुण्ये ह्यायतने राजन् शुचिदेशे गवां गणे ।गोमयेनोपलिप्तायां दर्भानास्तीर्य्य तै तिलान्
तन्मध्ये स्थापयेत् धेनुं वस्त्रमाल्यानुलेपनैः ।नैवेद्यधूपदीपाद्यैः पूजयेच्च विमत्सरः
उत्तमा चतुर्भिर्भारैस्तदर्द्धेन तु मध्यमा ।भारेण चाधमा प्रोक्ता वित्तशाठ्यं विवर्जयेत्
चतुर्थांशेन कृत्वा वै वत्सन्तु परिकल्पयेत् ।कर्त्तव्या रुक्मशृङ्गैस्तु रजतक्षुरसंयुता
नानाफलमया दन्ता रत्नगर्भसमन्विता ।इत्येवं सर्व्वसंपूर्णं कृत्वा श्रद्धासमन्वितः
आवाहयेत्तां कार्पासधेनुं मन्त्रैर्द्विजातये ।दद्यादथ दर्भपाणिः प्रयतः श्रद्धयान्वितः
पूर्व्वोक्तस्तु विधिः कार्य्यो दानमन्त्रपुरःरः”
पूर्व्वोक्तविधिः लवणधेनूक्तविधिः ।“यथा देवगणः सर्व्वस्त्वया हीनो वर्त्तते ।तथा मामुद्धरेर्द्देवि ! पाहि संसारसागरात्”
इत्यादिवराहपुराणे श्वेतोपाख्याने कार्पासधेनु-माहात्म्यम्
वाचस्पत्यम्
Sanskrit
कार्पासधेनु स्त्री स्त्री कार्पासरचिता धेनुः दानार्थं कल्पि-तायां कार्पासवस्त्रादिनिर्म्मितायां धेनौ तद्विधानं हेमा०दा० ख० वराहपुराणे यथा“अतःपरं प्रवक्ष्यामि धेनुं कार्पासिकीं शुभाम् विश्वस्यगुह्यगुप्त्यर्थं ब्रह्मणा चांशुकङ्कृतम् कार्पासमूलन्तच्चापितेनासावुत्तमा स्मृता सा कार्पासभारेण धेनुः श्रेष्ठाप्रकीर्त्तिता मध्यमा तदर्द्धेन कन्यसी (कनिष्ठा) तद-र्द्धतः पूर्ववद्वस्त्रधान्यञ्च हिरण्यञ्च तथैव वत्सकन्तु चतु-र्थांशैर्दानमन्त्रोऽभिधीयते” पूर्व्ववदिति वराहपुराणोक्तति-लधेनुवदित्यर्थः “हेमकुन्देन्दुदेवेशि! क्षीरार्णवसमुद्भवे! ।सोमप्रिये! सुधेन्वाख्ये! सौरभेयि! नमोऽस्तु ते ।दत्तेयमिन्दुनाथाय शशाङ्कायामृताय अत्रिनेत्र-प्रजाताय सोमराजाय वै नमः” “यस्त्वेवं परया भक्त्याब्राह्मणाय प्रयच्छति याति सोमलोकन्तु सोमेनसह मोदते रोगी ज्वरी कुष्ठी कुले तस्य प्रजा-यते पुत्रदारसमोपेतो जीवेच्च शरदां शतम्” वस्त्रधेन्वादयोप्यत्र