| YouTube Channel

कार्त्तिकेयः (kArttikeyaH)

 
Wordnet
Sanskrit
Synonyms:
स्कन्दः, षडाननः, कुमारः, कार्त्तिकेयः, षाण्मातुरः, मयूरकेतुः, सिद्धसेनः, विशाखः, अग्निभूः, आम्बिकेयः, आग्नेयः, कामजितः, गाङ्गेयः, चन्द्राननः, तारकारिः, देवव्रतः, मयूरेशः, शिखीश्वरः, कार्तिकः, हरिहयः, क्रौञ्चारिः, महिषार्दनः, रुद्रतेजः, भवात्मजः, शाङ्करिः, शिखीभूः, षण्मुखः, कान्तः, जटाधरः, सुब्रह्मण्यः
noun
भगवतः शिवस्य ज्येष्ठपुत्रः।
"सेनानीनामहम् स्कन्दः। "
शब्दकल्पद्रुमः
Sanskrit
कार्त्तिकेयः,
पुं,
(कृत्तिकानामपत्यम् “स्त्रीभ्योढक्” ।४ १२० इति ढक् ।) शिवपुत्त्रः यथा, --“या बभूव रहःक्रीडा पार्व्वतीशिवयोः पुरा ।दृष्टस्य सुरैः शम्भोर्व्वीर्य्यं भूमौ पपात
भूमिस्तदक्षिपत् वह्नौ वह्निश्च शरकानने ।तत्त्वं लब्धःकृत्तिकाभिरघुना गच्छ साम्प्रतम्
तवाभिषेकं विष्णुश्च करिष्यति सुरैः सह ।हनिष्यसि तारकाख्यं सर्व्वशस्त्रं लभिष्यसि
पुत्त्रस्त्वं विश्वसंहर्तुस्त्वां गोप्तुमक्षमा इमाः ।नाग्निं गोप्तुं यथाशक्तः शुष्कवृक्षः स्वकोटरे”
इति ब्रह्मतैवर्त्ते गणेशखण्डम्
*
एव कल्पभेदे अग्निपुत्त्रः यथा, --“कुमारश्चाभवत् तत्र तरुणार्कसमद्युतिः ।वह्नितेजोभवः श्रीमान् गङ्गाकुक्षिपरिच्युतः
तं कुमारं ततो जातं दृष्ट्वा सेन्द्रा मरुद्गणाः ।तदा क्षीरप्रदानार्थं कृत्तिकाः संन्ययोजयन्
ताः क्षीरं तस्य देवस्य समयेन ददुस्तदा ।स्यादस्माकमयं पुत्त्रः ख्यातो नाम्नेति राघव !
अन्योन्यं पिबतस्तासां तनयस्य मुखानि षट् ।समभूवन् महाबाहो ! षण्मुखस्तेन विश्रुतः
ततस्ता देवता ऊचुः कार्त्तिकेय इति प्रभुः ।पुत्त्रोऽयं जगति ख्यातो भविष्यति संशयः”
इति वाल्मीकीयरामायणम्
*
तत्पर्य्यायः महा-सेनः शरजन्मा षडाननः पार्व्वतीनन्दनः५ स्कन्दः सेनानीः अग्निभूः गुहः बाहुलेयः १० तारकजित् ११ विशाखः १२ शिखिवा-हनः १३ षाण्मातुरः १४ शक्तिधरः १५ कुमारः १६क्रौञ्चदारणः १७ इत्यमरः ४१-४३
आग्नेयः१८ दीप्तकीर्त्तिः १९ अनमेयः २० मयूरकेतुः २१धर्म्मात्मा २२ भूतेशः २३ महिषार्दनः २४कामजित् २५ कामदः २६ कान्तः २७ सत्यवाक्२८ भुवनेश्वरः २९ शिशुः ३० शीघ्रः ३१ शुचिः३२ चण्डः ३३ दीप्तवर्णः ३४ शुभाननः ३५ अमोघः३६ अनघः ३७ रौद्रः ३८ प्रियः ३९ चन्द्राननः ४३दीप्तशक्तिः ४१ प्रशान्तात्मा ४२ भद्रकृत् ४३कूटमोहनः ४४ षष्ठीप्रियः ४५ पवित्रः ४६ मातृवत्सलः ४७ कन्याहर्त्ता ४८ विभक्तः ४९ स्वाहेयः५० रेवतीसुतः ५१ प्रभुः ५२ नेता ५३ नैगमेयः५४ सुदुश्चरः ५५ सुव्रतः ५६ ललितः ५७ बाल-क्रीडनप्रियः ५८ खचारी ५९ ब्रह्मचारी ६० शूरः६१ शरवणोद्भवः ६२ विश्वामित्रप्रियः ६३ देव-सेनाप्रियः ६४ वासुदेवप्रियः ६५ प्रियकः ६६इति वनपर्व्व
गाङ्गः ६७ स्वामी ६८ द्वादशलो-चनः ६९ इतिजटाधरः
सिद्धसेनः ७० शम्भु-तनयः ७१ देवसेनापतिः ७२ बालचर्य्यः ७३ कृक-वाकुध्वजः ७४ महाबाहुः ७५ युद्धरङ्गः ७६शिखिध्वजः ७७ इति शब्दरत्नावली
(पाव-कात्मजः ७८ रुद्रसूनुः ७९ षट्शिराः ८० ।दितिजान्तकः ८१ इति महाभारतम्
*
)अस्य ध्यानम् यथा ।“कार्त्तिकेयं महाभागं मयूरोपरिसंस्थितम् ।तप्तकाञ्चनवर्णाभं शक्तिहस्तं वरप्रदम्
द्विभुजं शत्रुहन्तारं नानालङ्कारभूषितम् ।प्रसन्नवदनं देवं सर्व्वसेनासमावृतम्”
इति कार्त्तिकेयपूजापद्धतिः