कार्त्तिकव्रत (kArttikavrata)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritकार्त्तिकव्रत कार्त्तिके कर्त्तव्यं व्रतम् । कार्त्तिकमासेकर्तव्ये नियमभेदे । तन्माहात्म्यव्रतादि पाद्मस्कान्दयोर्दर्शितं तत्रादौ तस्य नित्यत्वमुक्तम् स्कान्दे“दुष्प्रापं प्राप्य मानुष्यं कार्त्तिकोक्तं चरेन्न हि ।धर्म्मं धर्म्मभृतां श्रेष्ठ! स मातृपितृधातकः । अव्र-तेन क्षिपेद् यस्तु मासं दामोदरप्रियम् । तिर्य्यग्यी-निमवाप्नोति सर्व्वधर्म्मबहिस्कृतः । स ब्रह्महा सगोघ्नश्च स्वर्णस्तेयी सदाऽनृती । न करोति मुनिश्रेष्ठ!यो नरः कार्त्तिकव्रतम् । विधवा च विशेषेण व्रतं यदि नकार्त्तिके । करोति मुनिशार्द्दूल । नरकं याति सा ध्रुवम् ।व्रतन्तु कार्त्तिके मासि यदा न कुरुते गृही । इष्टापूर्त्तंवृथा तस्य यावदाहूतनारकी । संप्राप्ते कार्त्तिके मासेद्विजो व्रतपराङ्मुखः । भवन्ति विमुखाः सर्व्वे तस्य देवाःसवासवाः । इष्ट्वा च बहुभिर्यज्ञैः कृत्वा श्राद्धशतानिच । स्वर्गं नाप्नोति विप्रेन्द्र! अकृत्वा कार्त्तिके व्रतम् ।यतिश्च विधवा चैव विशेषेण वनाश्रमी । कार्त्तिके नरकंयाति अकृत्वा वैष्णवं व्रतम् । वेदैरधीतैः किं तस्य?पुराणपठनैश्च किम्? । कृतं यदि न विप्रेन्द्र! कार्त्तिकेवैष्णवं व्रतम् । जन्मप्रभृति यत् पुण्यं विधिवत् समु-पार्ज्जितम् । भस्मीभवति तत् सर्व्वमकृत्वा कार्त्तिकेव्रतम् । यद्दत्तञ्च् परं जप्तं कृतञ्च सुमहत्तपः । सर्व्वंविफलतामेति अकृत्वा कार्त्तिके व्रतम् । सप्तजन्मार्ज्जितंपुण्यं वृथा भवति नारद! । अकृत्वा कार्त्तिके मामिर्वष्णवं व्रतमुत्तमम् । पापभूतास्तु ते ज्ञेया लोके मर्त्यामहामुने! । वैष्णवाख्य व्रतं यैस्तु न कृतं कार्त्तिकेशुभम्” । किञ्च “अकृत्वा नियमं विष्णोः कार्त्तिकं यःक्षिपेन्नरः । जन्मार्ज्जितस्य पुण्यस्य फलं नाप्नोति नार-द!” । किञ्च “नियमेन विना चैव यो नयेत् कार्त्तिकंमुने! । चातुर्म्मास्यं तथा चैव ब्रह्महा स कुलाधमः” ।किञ्च “पिण्डदानं पितॄणाञ्च पितृपक्षे न वै कृतम् ।व्रतं ना कार्त्तिके मासि श्रावण्यामृषितर्पणम् । चैत्रेनान्दोलितो विष्णुर्म्माधस्नानं न सज्जले । न कृतांमज्जन पुष्ये, श्राव रोहिणाष्टमी । सङ्गमे न कृता येनद्वादशी श्रवणान्विता । कुत्र यास्यन्ति ते मूढा नाहं वेद्मिकलिप्रिय!” । पाद्मे च “सौनकादिमुनिगणसंवादे“मानुषः कर्म्मभूमौ यः कार्त्तिकं नयते मुधा । चिन्ता-मणिं करे प्राप्य क्षिपते कर्द्दमाम्बुनि । नियमेन विनाविप्राः! कार्त्तिकं यः क्षिपेन्नरः । कृष्णः पराङ्मुखस्तस्ययस्मादूर्जोऽस्य वल्लभः । यै र्न्न दत्तं हुतं जप्तं नस्नानं न हरेर्व्रतम् । न कृतं कार्त्तिके पुत्र! द्विजास्तेवै नराधमाः” । किञ्च “यै र्न दत्तं हुतं जप्तं कार्त्तिंकेन व्रतं कृतम् । तेनात्मा हारितो नूनं न प्राप्तं प्रार्थितंफलम्” । अन्यत्र च “संप्राप्ते कार्त्तिके मासि ये रता नजनार्दने । तेषां सौरिपुरे वासः पितृभिः सह नारद!” ।किञ्च “कार्त्तिके नार्च्चितो यैस्तु भक्तिभावेन केशवः ।नरकं ते गमिष्यन्ति यमदूतै स्तु यन्त्रिताः । जन्मकोटि-सहस्रस्तु मानुष्यं प्राप्य दुर्ल्लभम् । कार्त्तिके नार्च्चि-तो धिष्णुर्हारितं तेन जन्म वै । विष्णोः पूजा कथा विष्णोर्वैष्णवानाञ्च दर्शनम् । न भवेत् कार्त्तिके यम्य हन्तिपुण्यं दशाब्दिकम्” । कार्त्तिकसाहात्म्यं स्कान्दे “का-र्त्तिकस्य तु माहात्म्यं प्राक् सामान्येन लिख्यते । ततोविशेषतस्तत्र कर्म देशादिभेदतः” इत्युपक्रम्य “कार्त्तिकस्य तुमासस्य कोद्यंशेनापि नार्हति । सर्व्वतीर्थेषु यत् स्नानंसर्व्व-दानेषु यत्फलम् । एकतःसर्व्वतीर्थानिसर्व्वेयज्ञाः सद-क्षिणाः । एकतःपुष्करे वासः कुरुक्षेत्रे हिमाचले । मेरुतुल्य-सुवर्णानि सर्व्वदानानि चेकतः । एकतः कार्त्तिको वत्स ।सर्व्वदः केशवप्रियः । यत् किञ्चित् क्रियते पुण्यं विष्णुसुद्दिश्य कार्त्तिके । तदक्षयं भवेत् सर्वं सत्योक्तं तव नारद! ।कार्तिकः खलु वै मासः सर्वमासेषु चोत्तमः । पुण्यानांपरम पुण्यं पावनानाञ्च पावनः । यथा नदीनां विपेन्द्र!शैलानाञ्चैव नारद! । उदधीनाञ्च विप्रर्षे! क्षयोनैवोपपद्यते । पुण्यं कार्त्तिकमासे तु यत्किञ्चित क्रियतेमुने! । न तस्यास्ति क्षयो ब्रह्मम्! पापस्याप्येवमेवच । न कार्तिकसमो मासो न कृतेन समं युगम् । नवेदसदृशं शास्त्रं न तीर्थं गङ्गया समम् । कार्तिकःप्रवरो मासो वैष्णवानां प्रियः सदा । कार्तिकं सकलं यस्तुभक्त्या सेवेत वैष्णवः । पितॄनुद्धरते सर्वान् नरकस्थान्महामुने!” । पाद्मे “द्वादशस्वपि मासेषु कार्तिकःकृष्णवल्लभः! । तस्मिन् संपूजितो विष्णुरल्पकैरप्यु-पायनैः । ददाति वैष्णवं लोकमित्येवं निश्चितं मया ।यथा दामोदरो भक्तवत्सलो विदितो जनैः । तस्यायन्ता-दृशो मासः स्वल्पमप्युरुकारकः । दुर्लभो मानुषो देहोदेहिनां क्षणभङ्गुरः । तत्रापि दुर्लभः कालः कार्तिकोहरिवल्लभः । दीपेनापि हि तत्रासौ प्रीयते हरिरीश्वरः ।सुगतिञ्च ददात्येब परदीपप्रबोधनात् ।”“अथ तद्व्रतमाहात्म्यं स्कान्दे” “व्रतानामिहसर्वेषामेकजन्मानुगं फलम् । कार्त्तिके तु व्रतस्योक्तं फलंजन्मशतानुगम् । अक्रूरतीर्थे विप्रेन्द्र! कार्त्तिक्यां समु-पोष्य च । स्नात्वा यत् फलमाप्नोति तत् श्रुत्वा वैष्णवं व्रतम् ।वाराणस्यां कुरुक्षेत्रे नैमिषे पुष्करेऽर्वुदे । गत्वा यत्फलमाप्नोति व्रतं कृत्वा तु कार्तिके । अनिष्ट्वा च सदायज्ञैर्न कृत्वा पितृषु स्वधाम् । व्रतेन कार्त्तिके मासिवैष्णवन्तु पदं व्रजेत् । प्रवृत्तानाञ्च भक्ष्याणां कार्त्तिकेनियमे कृते । अवश्यं कृष्णरूपत्वं प्राप्यते मुक्तिदं शुभम्” ।किञ्च “ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा मुनिमत्तम!वियोनिं न व्रजत्येव व्रतं कृत्वा तु कार्त्तिके” । किञ्च“कार्त्तिके मुनिशार्दूल! स्वशक्त्या वैष्णवं व्रतम् । यःकरोति यथोक्तन्तु मुक्तिस्तस्य करे स्थिता । सुपुण्ये कार्त्ति-के मासि देवर्षिपितृसेविते । क्रियमाणे व्रते नॄणां स्वल्पेऽपिस्यान्महाफलम्” । तत्र कमविशेषमाहात्म्यं स्कान्दे“दानं दत्त हुतं जप्तं तपश्चैव तथा कृतम् । तदक्षयफलं प्रो-क्तं कार्त्तिके च द्विजसत्तम!” । किञ्च “यत्किञ्चित् कातिकेदत्तं विष्णुमुद्दिश्य मानवैः । तदक्षयं लभ्यते वै अन्नदानंविशेषतः” । किञ्च “ये तु सवत्सरं पूर्णमग्निहोत्रमुपा-सते । कार्तिके स्वस्तिकं कृत्वा सममेतन्न संशयः ।कार्तिके या करोत्येवं केशवालयमण्डनम् । स्वर्गस्थाशोभत सा तु कपौतो पक्षिणी यया । वः करोति नरोनित्यं कार्त्तिके पत्रभोजनम । न स दुर्गतिमाप्नोति याव-दिन्दाश्चतुर्दश । जन्मप्रभृति यत् पापं मानवैश्च कृतंभवत् तत् सर्व्व नाशमाप्नोति ब्रह्म(पलाश)पत्रेषु भो-जनात् । सर्व्वकामफलं तस्य सर्वतीर्थफलं भवेत् । न चापिनरकं पश्येद्ब्रह्मपत्रेषु भोजनात् । ब्रह्म चैष स्मृतः साक्षात्पलाशः सर्वकामदः । मध्यमं वर्ज्जितं पत्रं शूद्रस्य मुनिसत्तम! । भुञ्जन्नरकमाप्नोति यावदिन्द्राश्चतुर्दश ।तिलदानं नदीस्नानं सत्कथा साधुसेवनम् । भोजनं ब्रह्मपत्रेषु कार्तिके मुक्तिदायकम् । जागरं कार्तिके मासि यःकरोत्यरुणोदये । दामोदराग्रेविप्रेन्द्र! गोसहस्रफलं लभेत् ।जागरं पश्चिमे यामे यः करोति महामुने! । कार्तिकेसन्निधौ विष्णोस्तत्पदं करसंस्थितम् । साधुसेवा गवांग्रासः कथा विष्णोरथार्च्चनम् । जागरः पश्चिमे यामेदुर्ल्लभः कार्तिके कलौ” । किञ्च “जलधेनुसहस्रञ्चवृषसंस्थे दिवाकरे । तोयं दत्त्वा यदाप्नोति स्नानं कृत्वातु कार्तिके । सन्निहत्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे ।सूर्य्यवारेण यत् स्नानं तदेकाहेन कार्तिके । पितॄनुदिश्ययद्दत्तं कार्तिके कृष्णवल्लभे! अन्नोदकं मुनिश्रेष्ठ । अक्षयंजायते नृणां” किञ्च “गीतशास्त्रविनोदेन कार्तिकंयो नयेन्नरः । न तस्य पुनरावृत्तिर्मया दृष्टा कलिप्रिय!” ।किञ्च “प्रदक्षिणञ्च यः कुर्य्यात् कार्तिके विष्णुसद्मनि ।पदेपदेऽश्वमेधस्य फलभागी भवेन्नरः । गीतं वाद्यञ्चमृत्यञ्च कार्त्तिके पुरतो हरेः । यः करोति नरो भक्त्यालभते चाक्षयं फलम् । हरेर्नाम सहस्राख्य गजेन्द्रस्य चमोक्षणम् । कार्त्तिके पठते यस्तु पुनर्जन्म न विद्यते ।कार्त्तिके पश्चिमे यामे स्तव गानं करोति यः । वसते श्वेत-द्वीपे तु पितृभिः सह नारद! । नैवेद्यदानेन हरेःकार्त्तिके यवसंख्यया । युगानि वसते स्वर्गे तावन्ति मुनि-सत्तम! अपुरुन्तु सकर्पूरं यो देहत् केशवाग्रतः ।कार्त्तिके तु मुनिश्रेष्ठ । युगान्ते न पुनर्भवः” किञ्च“नियमेन कथां विष्णोर्ये शृण्वन्ति च भाविताः । श्लोकार्द्धंश्लोकपादं वा कार्त्तिके गोशतं फलम् । सर्व्वधर्म्मान्परित्यज्य कार्त्तिके केशवाग्रतः । शास्त्रस्योच्चारणं पुण्यंश्रोतव्यञ्च महामुने! । श्रेयसा लोभबुद्ध्या वा यः करोतिहरेः कथाम् । कार्त्तिके मुनिशार्द्दूल! कुलानां तारयेच्छ-तम् । नित्यं शास्त्रविनोदेन कार्तिकं यः क्षिपेन्नरः । निर्द्द-हेत् सर्वपापानि यज्ञायुतफलं लभेत् । न तथा तुष्यते दानैर्न यज्ञैर्गोगजादिकैः । यथा शास्त्रकथालापैः कार्त्तिकेमधुसूदनः । कार्त्तिके मुनिशार्द्दूल! यः शृणोतिहरेः कथाम् । स निस्तरति दूर्गाणि जन्मकोटिगतानिच । यः पठेत् प्रयतो नित्यं श्लोकं भागवतं मुनेः ।अष्टादशपुराणानां कार्त्तिके फलमाप्नुयात्” किञ्च“सर्व्वान् धर्म्मान् परित्यज्य इष्टापूर्त्तादिकान्नरः । कार्त्तिकेपरया भक्त्या वैष्णवैःसह संवसेत्” । पद्मे“कार्त्तिके मूमिशायी यो ब्रह्मचारीहविष्यभुक् । पला-शपत्त्रे भुञ्जानो दामोदरमघार्च्चयेत् । स सर्व्वपातकंहित्वा वैकुण्ठे हरिसन्निधौ । मोदते विष्णुसदृशोभजनानन्दनिर्वृतः” किञ्च “कार्त्तिकं सकलं मास प्रातःस्नायी जितेन्द्रियः । जपन् हविष्यभुक् दान्तः सर्व्व-पापैः प्रमुच्यते । कार्त्तिकन्तु नरोः मासं यः कुर्य्या-देकभोजनम् । शूरश्च बहुवीर्य्यश्च कीर्त्तिमांश्च स जा-यते” । किञ्च “पलाशपत्रभोजी च कार्त्तिके पुरुषोनरः । निष्पापः स्यात्तु नैवेद्यं हरेर्भुक्त्वा विमुच्यते ।मध्यस्थमैश्वरं पत्रं वर्जयेद्व्राह्मणेतरः” । किञ्च “अप-राधसहस्राणि पातकानि महान्त्यपि । क्षमतेऽस्य हरिर्द्देवः पूजितः कार्त्तिके प्रभुः । नैवेद्यं पायसो विष्णोःप्रियं खण्डं घृतान्वितम् । विभज्य तच्च भुञ्जानो यज्ञ-साम्यं दिने दिने” । तत्रैव श्रीकृष्णसत्यासंवादे “स्नानंजागरणं दीपं तुलसीवनपालनम् । कार्त्तिके ये प्रकु-र्व्वन्ति ते नरा विष्णुमूर्त्तयः । इत्थं दिनत्रयमपिकार्त्तिके ये प्रकुर्व्वते । देवानामपि ते वन्द्याः किं यै-राजन्म तत् कृतम्” । स्कान्देकार्त्तिकव्रताङ्गानि” “हरि-जागरणं प्रातःस्नानं तुलसिसेवनम् । उद्यापनं दीपदानंव्रतान्येतानि कार्त्तिके” । किञ्च “पञ्चभिर्व्रतकैरेभिःसम्पूर्णं कार्त्तिके व्रतो । फलमाप्नोति तत्प्रोक्तं भुक्तिसुक्तिफलप्रदम् । विष्णोः शिवस्य वा कुर्य्यादालये हरि-जागरम् । कुर्य्यादश्वत्थमूले वा तुलसीनां वनेषु च ।आपद्गतो यदाप्यम्भो न लभेत् सवनाय सः । व्याधितोवा पुनः कुर्य्याद्विष्णोर्न्नाम्नाऽघमार्ज्जनम् । उद्यापनविधिंकर्त्तुमशक्तो यो व्रते स्थितः । ब्राह्मणान् भोजयेच्छक्त्याव्रतसम्पूर्णहेतवे । अशक्तो दीपदानस्य परदीपान् प्रबो-धयेत् । तेषां वा रक्षणं कुर्य्याद्वातादिभ्यः प्रयत्नतः ।अभावे तुलसीनाञ्च पूजयेद्वैष्णवं द्विजम् । सर्व्वाभावेव्रती कुर्य्याद्ब्राह्मणानां गवामपि । सेवां बा बोधिवटयोर्व्रतसम्पूर्ण्णहेतवे” । तत्र दीपदानमाहात्म्यम्” स्कान्दे“कृत्वा कोटिसहस्राणि पातकानि बहून्यपि ।निमेषार्द्धेन दीपस्य विलयं यान्ति कार्त्तिके” किञ्च“शृणु दीपस्य माहात्म्यं कार्त्तिके केशवप्रियम् । दीप-दानेन विप्रेन्द्र! न पुनर्जायते भुवि । रविग्रहे कूरुक्षेत्रेनर्म्मदायां शशिग्रहे । तत् फलं कोटिगुणितं दीपदानेनकार्त्तिके । घृतेन दीपको यस्य तिलतैलेन् वा पुनः ।ज्वाल्यते मुनिशार्द्दूल! अश्वमेधेन तस्य किम्? । मन्त्रहीनंक्रियाहीनं शौचहीनं जनार्द्दने । सर्व्वे संपूर्णतां यातिकार्त्तिके दीपदानतः । तेनेष्टं क्रतुभिः सर्व्वैः कृतं तीर्था-वगाहनम् । दीपदानं कृतं येन कार्त्तिके केशवाग्रतः ।तावद्गर्ज्जन्ति पुण्यानि स्वर्गे मर्त्ये रसातले । यावन्न ज्वलतेज्योतिः कार्त्तिके केशवाग्रतः । श्रूयते चापि पितृभिर्गाथा गीता पुरा द्विज! । भविष्यति कुलेऽस्माकं पितृ-भक्तः सुतो भुवि । कार्त्तिके दीपदानेन यस्तोषयति केश-वम् । मुक्तिं प्राप्स्यामहे नूनं प्रसादाच्चक्रपाणिनः”किञ्च “मेरुमन्दरमात्राणि कृत्वा पापान्यशेवतः । दहतेनात्र सन्देहो दीपदानात्तु कार्त्तिके । गृहे वाऽऽयतनेवापि दीपं दद्याच्च कार्त्तिके । पुरती वासुदेवस्य महा-फलविधायिनः । स जातो मानुषो लोके स धन्यः सच कीर्त्तिमान् । प्रदत्तः कार्त्तिके मासि दीपो वै मध्-हाग्रतः । निमेषार्द्धार्द्धमात्रेण दीपदानेन कार्त्तिके ।न तत् क्रतुशतैः प्राप्यं फलं तीर्थशतैरपि । सर्वानुष्ठान-हीनोऽपिसर्वपापरतोऽपि सन् । पूयते नात्र सन्देहो दीपंदत्त्वा तु कार्त्तिके । तन्नास्ति पातकं किञ्चित् त्रिषु लोकेषुनारद! यन्न शोधयते दीपः कार्त्तिके केशवाग्रतः ।पुरतो वासुदेवस्य दीपं दत्त्वा तु कार्त्तिके । प्राप्नोतिशाश्वतं स्थानं सर्वबाधाविवर्ज्जितम् । यः कुर्य्यात् का-र्त्तिके मासि कर्पूरेण तु दीपकम् । द्वादश्याञ्च विशेषेणतस्य पुण्यं वदामि ते । कुले तस्य प्रसूता ये ये भविष्यन्तिनारद! । समतीताश्च ये केचिद्येषां सङ्ख्या न विद्यते ।क्रीडित्वा सुचिरं कालं देवलोके यदृच्छया । ते सर्वे मुक्तिमायान्ति प्रसादाचक्रपाणिनः” किञ्च “द्यूतव्याजेनविप्रेन्द्र! कार्त्तिके केशवालयम् । द्योतयेद्वा महाभागाः!पुनात्यासप्तम कुलम् । कार्त्तिके दीपदानन्तु कुर्य्याद्योवैष्णवालये । धन पुत्रो यशः कीर्त्तिर्भवेत्तस्य च सर्वदा ।यथा च मथनाद्वह्निः सर्व्वकाष्ठेषु दृश्यते । तथा च दृश्यतेधर्म्मो दीपदाने न संशयः” किञ्च “निर्द्धनेनापि विप्रेन्द्र!कृत्वा चैवात्मविक्रयम् । कर्त्तव्यं दीपदानन्तु यावत् का-र्त्तिकपूर्णिमा । वैष्णवो न स मन्तव्यः संप्राप्ते कार्त्तिकेमुने! । यो न यच्छति मूढात्मा दीपं केशवसद्मनि” ।नारदीये श्रीरुक्माङ्गदमोहिनीसंवादे “एकतः सर्वदा-नानि दीपदानानि चैकतः । कार्त्तिके न समं प्रोक्तंदीपदो ह्यधिकः स्मृतः” । कार्त्तिके “कार्त्तिके खण्ड-दीपं यो ददाति हरिसन्निधौ । दिव्यकान्तिविमानाग्रेरमते स हरेः पुरे” । तत्र परदीपप्रबोधनमाहा-त्म्यं स्कान्दे “पितृपक्षेऽन्नदानेन ज्यैष्ठाषाढे चवारिणा । कार्त्तिके तत्फलं पुंसां परदीपप्रबो-धनात् । बोधनात् परदीपस्य वैष्णवानाञ्च सेवनात् ।कार्त्तिके फलमाप्नोति राजसूयाश्वमेधयोः । दोयमानन्तुये दीपं बोधयन्ति हरेर्गृहे । परेण नृपशार्द्दूल! नि-स्तीर्णा यमयातनां । न तद्भवति विप्रेन्द्र! इष्टैरपिमहामखैः । कर्त्तिके यत् फलं प्रोक्तं परदीपप्रबोधनात् ।एकादश्यां परैर्द्दत्तं दीपं प्रज्वाल्य मूषिका । मानुष्यंदुर्ल्लभं प्राप्य परां गतिमवाप सा” । तत्र शिखरदीप-माहास्त्र्यं स्कान्दे । “यदा यदा भासयते दोपकःकलसोपरि । तदा तदा मुनिश्रेष्ठ! द्रवते पाप-सञ्चयः । यो ददाति द्विजातिभ्यो महीमुदधिमेख-लाम् । हरेः शिखरदीपस्य कलां नार्हति षोडशीम् ।यो ददाति गवां कोटिं सवत्सां क्षीरसंयुताम् । हरेःशिखरदोपस्य कलां नार्हति षोडशीम् । सर्व्वस्वदानंकुरुते वैष्ण्वानां महामुने! शिखरोपरि दीपस्य कलांनार्हति शोडशीम् “किञ्च “यः करोति परं दीपं मूल्येनापिमहामुने! । शिखरोपरि मध्ये च कुलानां तारयेच्छ-तम् । विमानं ज्योतिषा दीप्रं ये निरोक्षन्ति कार्त्तिके ।केशवस्य महाभक्त्या कुले तेषां न नारकी । दिवि देवानिरोक्षन्ते विष्णुदीपप्रदं नरम् । कदा भविष्यत्यस्माकं सङ्गमःपुण्यकर्म्मणा । कार्त्तिके कार्त्तिको यावत् प्रासादोपरिदीपकम् । यो ददाति मुनिश्रेष्ठ! तस्येन्द्रत्वं न दुर्ल्ल-भम्” । तत्र दीपमालामाहात्म्यं स्कान्दे “दीप-पङ्क्तेश्च रचना सबाह्याभ्यन्तरे हरेः । विष्णोविमानेकुरुते स नरः शङ्खचक्रधृक् । दीपपङ्क्तेश्च रचनां कुरुतेकेशवालये । तस्यालये प्रसूतानां लक्षाणां नरकं न हि ।विष्णोर्विमानं दीपाढ्यं सबाह्याभ्यन्तरे मुने! । दीपोद्द्योतकरेमार्गे तेन प्राप्तं परं पदम्” । भविष्येच “यः कुर्य्यात्कार्त्तिके मासि शोभनां दीपमालिकाम् । प्रबोधे चैवद्घादश्यामेकादश्यां विशेषतः । सूर्य्यायतप्रकाशस्तु तेजसाभासयन् दिशः । तेजोराशिविमानस्थो जगदुदुद्योतयं-स्त्विषा । यावत् प्रदीपसंख्या तु घृतेनापूर्य्य बोधिता ।तावद्वर्षसहस्राणि विष्णुलोके महीयते” ।तत्र आकाशादिदीपमाहात्म्यं पाद्मे “उच्चैःप्रदीपमाकाशे यो दद्यात् कार्तिके नरः । सर्वं वलंसमुद्धृत्य विष्णुलोकमवाप्नुयात् । विष्णुकेशवमुदृश्य दीपंदद्यात् तु कार्तिके । आकाशस्थ जलस्थञ्च शृणुतस्यापि यत् फलम् । धनं धान्यं समृद्धिश्च पुत्रवानीश्वरोगृहे! लोचने च शुभे तस्य विद्वानपि च जायते” किंच“विप्रवेश्मनि यो दद्यात् कार्तिके मासि दीपकम् । अग्नि-ष्टोमफलं तस्य प्रवदन्ति मनीषिणः । चतुष्पथेषुय् रथ्यासुब्राह्मणावसथेषु च । वृक्षमूलेषु गोष्ठेषु कान्तारे गहनेषुच । दोपदानाद्धि सर्वत्र महाफलमवाप्नुयात्” ।देशविशेषे कार्तिकमाहात्म्यविशेषः पाद्मे । “यत्रकुत्रापि देशेऽयं कार्तिकः स्नानदानतः । अग्निहोत्रसमफलः पूजायाञ्च विशेषतः । कुरुक्षेत्रे कोटिगुणोगङ्गायां चापि तत्समः । ततोऽधिकः पुष्करे स्याद् द्वार-कायाञ्च भार्गव । । कृष्णसालोक्यदो मासः पूजास्नानैश्चकार्तिकः । अन्याः पुर्य्यस्तत्समाना मुनयो मथुरां विना ।दामोदरत्वं हि हरेस्तत्रैवासीद्यतः किल । मथुरायांततश्चोर्ज्जो वैकुण्ठप्रीतिवर्द्धनः । कार्तिको मथुरायां वैपरमावधिरिष्यते । यथा माघे प्रयागः स्याद्वैशाखेजाह्नवीयथा । कार्तिके मथुरा सेव्या तथोत्कर्षः परो नहि । मथु-रायां नरैरूर्जे स्नात्वा दामोदरोऽर्चितः । कृष्णरूपा हिते ज्ञेया नात्र कार्य्या विचारणा । दुर्लभः कार्तिको विप्र!मथुरायां नृणामिह । यत्रार्चितः स्वकं रूपं भक्तेभ्यःसंप्रयच्छति । भुक्तिं मुक्तिं हरिर्दद्यादर्चितोऽन्यत्र सेविनाम् ।भक्तिञ्च न ददात्येष यतो वश्यकरी हरेः । सा त्वञ्जसाहरे र्भक्तिर्लभ्यते कार्त्तिके नरैः । मथुरायां सकृदपिश्रीदामोदरपूजनात् । मन्त्रद्रव्यविहीनञ्च विधिहीनञ्चपूजनम् । मन्यते कार्तिके देवो मथूरायां सदर्च्चनम् ।यस्य पापस्य युज्येत मरणान्ता हि निष्कृतिः । तच्छुद्ध्यर्थमिदं प्रोक्तं प्रायश्चित्तं सुनिश्चितम् । कार्तिके मथुरायांवै श्रीदामोदरपूजनम् । कार्तिके मथुरायां वै पूजना-ददर्शनं ध्रुवः । शीघ्रं संप्राप्तवान् बालो दुर्ल्लभं योगवत्परैः । सुलभा मथुरा भूमौ प्रत्यब्दं कार्तिकस्तथा । तथापिसंसरन्तीह नरा मूढा भवाम्बुधौ । किं यज्ञैः किं तपो-भिश्च तीर्थैरन्यैश्च सेवितैः । कार्तिके मथुरायाञ्चेदर्च्च्यतेराधिकाप्रियः । यानि सर्व्वाणि तीर्थानि नदा नद्यःसरांसि च । कार्तिके निवसन्त्यत्र माथुरे सर्व्वमण्डले ।कार्तिके जन्मसदने केशवस्य च ये नराः । सकृत्प्रविष्टाःश्रीकृष्णं ते यान्ति परमव्ययम् । परोपहासमुदिदश्यकार्तिके हरिपूजया । मथुरायां लभेद्भक्तिं किं पुनः श्रद्धयानरः” इति ।अथ कार्त्तिकव्रतारम्भकालक्रमौ । पाद्मे “आश्विनस्यतु मासस्य या शुक्लैकादशी भवेत् । कार्तिकस्य व्रतानीहतस्यां कुर्य्यादतन्द्रितः । नित्यं जागरणायान्त्ये यामे रात्रेःसमुत्थितः । शुचिर्भूत्वा प्रबोध्याथ स्तोत्रैर्नीराजयेत् प्रभुम् ।निशम्य वैष्णवान् धर्मान् वैष्णवैः सह हर्षितः । कृत्वागीतादिकं प्रातदवं नीराजयेत् पुनः । नद्यादौ च ततोगत्वाचम्य सङ्कल्पमाचरेत् “प्रभुं प्रार्थ्याथ तस्मै च दद्या-दर्व्यं यथाविधि । तत्र सङ्कल्पमन्त्रः । कार्तिकेऽहं करि-ष्यामि प्रातःस्नानं जनार्दन! । प्रीत्यर्थं तव देवेश! दामोदर! मया (लक्ष्म्या) सह” इति । “प्रार्थनामन्त्रस्तु--तवध्यानेन देवेश! जलेऽस्मिन् स्नातुमुद्यतः । त्वत्प्रसादाच्च मेपापं दामोदर! विनश्यतु” । अर्ध्यमन्त्रः--“व्रतिनः कार्तिकेमासि स्नातस्य विधिवन् मम । अर्ध्यं गृहाण देवेश!त्वां नमामि सुरेश्वर!” । काशीस्वण्डे “व्रतिनः कार्तिकेमासि स्नातस्य विधिवन् मम । दामोदर! गृहाणार्ध्यंदनुजेन्द्रनिसूदन! नित्ये नैमित्तिके कृत्स्ने कार्तिके पाप-शोषणे । गृहाणार्ध्यं मया दत्तं राधया सहितो हरे!” ।इति । पाद्मे तिलैरालिप्य देहं स्वं नामोच्चारणपूर्वकम् ।स्नात्वा तु विधिना सन्ध्यामुपास्य गृहमाब्रजेत् । उपलि-प्याथ देवाग्रे निर्माय स्वस्तिकं प्रभुम् । तुलसीमालतीपद्मागस्त्यपुष्पादिनार्चयेत् । नित्यं वैष्णवसङ्गत्या सेवेतभगवत्कथाम् । सर्पिषाहर्निशं दीपं तिलतैलेन चार्च्च-येत् । विशेषतश्च नैवेद्यान्यर्पयेदाचरेत्तथा । प्रणामांश्चयथाशक्ति एकभक्तादिकं व्रतम्” । पाद्मेऽन्यत्र“प्रातरुत्थाय शौचादि कृत्वा गत्वा जलाशयम् । कृत्वा चविधिवत् स्नानं ततो दामीदरार्च्चनम्” । किञ्च “मौनेनभोजनं कार्यं कार्त्तिके व्रतधारिणा । घृतेन दीपदानंस्यात् तिलतैलेन वा पुनः । दिनञ्च कृष्णकथया वैष्णवानांच सङ्गमैः । नीयतां कार्तिके मासि मङ्कल्पव्रतपालनम् ।आश्विने शुक्ललक्षस्य प्रारम्भो हरिवासरे । अथ वापौर्णमासीतः संक्रान्तौ वा तुलागमे । दीपदानमखण्डञ्चदद्याद्वै विष्णुसन्निधौ । देवालये तुलस्यां वा आकाशेवा तदुत्तमम्” । किञ्च “रजतं कनकं दीपान् मणि-मुक्ताफलादिकम् । दामोदरस्य प्रीत्यर्थं प्रदद्यात् कार्तिकेनरः” । स्कान्दे च “न गृहे कार्तिके कुर्य्याद्वेशे-षेण तु कार्तिकोम् । तीर्थेतु कार्तिकीं कुर्य्यात् सर्व-यत्नेन भाविनि!” । कार्तिके वर्ज्यानि स्कान्दे ब्रह्म-नारदसंवादे “कार्तिके तु विशेषेण राजमाषांश्च भक्ष-यन् । निष्पावान् मुनिशार्दूल! यावदाहूतनारकी ।कलिङ्गानि पटोलानि वृन्ताकं सन्धितानि च । न त्यजेत्कार्तिके मासि यावदाहूतनारकी । कार्तिके मासि धर्मात्मामत्स्यमांसं न भक्षयेत् । तत्रैव यत्नतस्त्याज्य शाशकंशौकरं तथा” । किञ्च--परान्नं परशय्याञ्च प्ररीवादंपराङ्गनाम् । सर्वदा वर्ज्जयेत् प्राज्ञो विशेषेण तुकार्तिके । तैलाभ्यङ्गं तथा शय्यां परान्नं कांस्यभोजनम् ।कार्त्तिके वर्ज्जयेद्यस्तु परिपूर्णब्रती भवेत् । संप्राप्तंकार्त्तिकं दृष्ट्वा परान्नं यस्तु वर्ज्जयेत् । दिने दिनेतु कृच्छस्य फलं प्राप्नोति मानवः” । तत्रैव श्रीरुक्याङ्गद-मोहिनीसंवादे “कार्त्तिके वर्ज्जयेन्मधु । कार्त्तिकेवर्ज्जयेत् कांस्यं कार्त्तिके शुक्तसन्धितम् । न मत्स्यंभक्षयेन्मांसं न कौर्म्मं नान्यदेव हि । चाण्डालः सभवेत् सुभ्रु! कार्तिके मांसभक्षणात् ।”
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
