| YouTube Channel

कार्त्तवीर्य्यदीप (kArttavIryyadIpa)

 
वाचस्पत्यम्
Sanskrit
कार्त्तवीर्य्यदीप
पु०
त० कार्त्तवीर्य्यार्ज्जुनोद्देशेन दीय-माने दीपे तद्दानविधानादि विधानपारिजाते उड्डा-मेश्वरतन्त्रे उक्तं यथा“गोमयेनोपलिप्तायां शुद्धभूमौ समाहितः तन्मध्येमण्डलं कार्य्यं त्रिकोणं विन्दुसंयुतम् षट्कोणं तद्बहिःकार्यं मध्ये मूलं समालिखेत् तण्डुलैः कुङ्कुमाक्तैर्वारक्तचन्दनमिश्रितैः तस्योपरि न्यसेद्दापं घृतपूरितवर्त्ति-कम् तं दीपं विधिनायुज्य पश्चात्सङ्कल्पयेत्ततः कार्त्त-वीर्य! महाबाहो! भक्तानामभयप्रद! गृहाण दीपंमद्दत्तं कल्याणं कुरु सर्वदा अनेन दीपदानेन कार्त-वीर्यस्तु प्रीयताम् पश्चिमाभिमुखं दीपं कारयेत् शुभ-कर्मणि अभिचारे तु त्रितयं दक्षिणोत्तरपश्चिमे ।नष्टप्राप्तौ कुर्वीत पञ्चादिविषमान् पुनः वश्या-भिकाक्षी कुर्वीत गुर्वाज्ञां प्राप्य साधकः चतुर्वर्गफला-यैव शतदीपाबलिं ततः मारणे तु सहस्रं स्याद्द-शासाहस्रमेव दीपावलिं प्रकुवीर्त गुर्वाज्ञां प्राप्यसाधकः चतुर्वर्गफलावाप्त्यै कुर्वीत प्रतिवासरम् ।अनेन दीपदानेन कार्त्तवीर्यः प्रसीदति एवं दीपंसुरेशानि! कुर्वीत गुरुशासनात्! महाभये समुत्पन्नेचिन्ताव्याकुलितेक्षणे लवणं स्वर्णसंयुक्तं देयं रात्रौविचक्षणैः पूर्णमासीदिने कुर्यान्नगरैका प्रदक्षिणा ग्रामेपुरे गोव्रजे वा साधकः सर्वकालतः एतत् सारतरंदेवि! देयं यस्य कस्यचित् गुरुभक्ताय शान्ताय साध-काय प्रकाशयेत् नास्तिकाय दातव्यं परशिष्याय नोवदेदिति” तद्दीपपात्रादिविवृतिः तत्रैव“राजचोरादिपीडासु ग्रहरोगभयेषु नाना-दु स्वेषु देवेशि! सुखप्राप्त्यै तथैव दीपं कुर्वीत विधिव-दुगुरुदर्शितमार्गतः दीपपात्रं नवं कार्यं महाकार्ये विशे-षतः सौवर्णं राजतं ताम्रं कांस्यं लौहं मृण्मयम् ।गोधूममाषमुद्गानां चूर्णेन घटितेऽथवा सौवर्णे कार्य-सिद्धिः स्यात् रौप्ये वश्य जगत् भवेत् ताम्रे रिपोभयाभावःकांस्ये विद्वेषणं भवेत् मारणे लोहपात्रं उच्चाटेमृण्मयं तथा गोधूमचूर्ण्घटिते विवादे विजयो घ्रुवम् ।माषे शत्रुमुखस्तम्भो मुद्गे स्याच्छान्तिरुत्तमा सन्धिकार्येनदीकूलद्वयोर्मृत्स्नां तु कारयेत् अलाभे सर्वपात्राणांताम्रे कुर्याद्विचक्षणः सप्त पञ्च तथा तिस्र एका वावर्तिका भवेत् अयुग्मा बर्त्तिका ग्राह्या एकोत्तरशता-वधिः गुरुकार्येऽधिका कार्या स्वल्पे स्वल्पतमा प्रिये! ।सूत्रं श्वेतं तथा पीतं माञ्जिष्ठञ्च कुसुम्भजम् कृष्णञ्चकर्वुरञ्चैव क्रमतो विनियोजयेत् सर्वाभावे सितेनैवकुर्याद्वर्त्तीः पृथक् भवेत् दणपञ्चाधिकाश्चैव विंशत्रिंशास्तथैव चत्वारिंशत्तथा कार्याः पञ्चाशदपि वा भवेत् ।अष्टोत्तरसहस्रं वा शतं पञ्चाशदेव तत्तत्कार्यवशाद्देवि! कुर्यात्तन्तून् समाहितः षट्कर्म्माणि तथा कुर्यात्साधकश्च सुबुद्धिमान् चत्वारिंशदधिकांश्च नित्यदीपे तुकारयेत् तदर्द्धमपि प्रोक्तं देवि! विश्वार्तिहारिणि! ।गोघृतेन प्रकर्त्तव्यो दीपः सर्वार्थसिद्धये गोमयेनोपलि-प्तायां भूमौ यन्त्रं समालिखेत् कपिलागोमयेनैव षट्कोणञ्चलिखेत्ततः मारवीजं (क्लाँ) कर्णिकायां षट्पात्रे वोज-षट्ककम् दिक्षुवीजचतुष्कञ्च शेषैः संवेष्टयेद्धि तत् तत्रप्रत्यड्मुखो दीपः स्थाप्यः सर्वाङ्गसुन्द्ररि! प्राणानायन्यविधिवन्मूलेनाङ्गं समाचरेत् मन्त्रराजं लिखित्वा तुताम्रपात्रेऽष्टगन्धकैः स्थापयेत्पूर्वतस्तस्य कुर्यात्सङ्कल्पमाद-रात्” “अनेन विधिना देवि! कार्त्तवीर्यस्य गोपतेः ।दीपोदेयः प्रयत्नेन सर्वकार्यमभीप्सता गुरोराज्ञां पुरस्कृत्यकुर्यादुदेवि! प्रयत्नतः अन्यथा तु कृतं लोके विपरीतफलंभवेत् विधानं दीपदानस्य कृतघ्नपिशुनाय ब्रह्म-कर्मविहीनाय वक्तव्यं कदाचन सुभक्ताय सुशिष्याय-साधकाय विशेषतः वक्तव्यं देवि! विधिना मम प्रीतिकरंशिवम् किं बहूक्तेन भो देवि! कल्पोऽयमखिलार्थदः ।अथाभिधोयते मानमाज्यस्य वरवर्णिनि! साधकानांहितार्थाय सर्वार्थस्य सिद्धये पलानां पञ्चविंशस्तु दीपोदेयोऽर्थसिद्धये पञ्चाशता घोरशान्त्यै शत्रुवश्याय चेष्यते ।पञ्चसप्ततिर्देवेशि! शत्रूणां स्यात् पराजये एतेनरोगनाशः स्यात् सहस्रेणाखिलाः क्रियाः सिध्यन्तिसाधकानां हि प्रयोगा येऽतिदुष्कराः नित्यदीपे नमानं हि कार्यः सोऽत्र स्वशक्तितः यथाकथञ्चिद्देवेशि!नित्यं दीपं प्रकल्पयेत् कार्त्तवीर्याय देवेशि! सर्वकल्पाणसिद्धये गुरुकार्य्येऽधिकं मानं कर्त्तव्यं देवि! सर्व्वदशिलघुद्रव्यैः प्रकर्तव्यः लघुकार्ये वरानने! विना मानंन कुर्वीत कार्तवीर्यस्य गोपतेः” ।अधिकं तत्र दृश्यम् मन्त्रमहोदधौ १७ तरङ्गे ।कार्त्तवोर्य्यमन्त्रादिकमुक्त्वा विशेषो दर्शितो यथा“अथ दीपविधिं वक्ष्ये कार्त्तवीर्य्यप्रियङ्करम् वैशाखे श्रावणेमार्गे कार्त्तिकाश्विनपौषतः माघफाल्गुनयोर्मासोर्दी-पारम्भ समाचरेत् तिथौ रिक्ताविहीनायां वारे शनि-कुजौ विना हस्तोत्तराश्विरौद्रेषु पुष्पवैष्णव २२वायुभे१५ द्विदैवते १६ रोहिण्यां दीपारम्भो हितार्थि-नाम् चरमे २७ च, व्यतीपाते धृतौ वृद्धौ सुकर्म्मणि प्रीतौहर्षे सौभाग्ये शोभनायुष्मतोरपि करणे विष्टिरहितेग्रहणेऽर्द्धोदयादिषु योगेषु रात्रौ पूर्व्वाह्णे दीपारम्भःकृतः शुभः कार्त्तिके शुक्लसप्तम्यां निशीथेऽतीव शोभनः ।यदि तत्र रवेर्व्वारः श्रवणं तत्र दुर्लभम् अत्यावश्यक-कार्य्यषु मासादीनां शोधनम् आद्येऽह्न्युपोष्य नियतोब्रह्मचारी शयीत कौ प्रातः स्नात्वा शुद्धभूभौ लिप्तायांगोमयोदकैः प्राणानायम्य सङ्कल्प्य न्यासान् पूर्व्वोदितां-श्चरेत् षट्कोणं रचयेद्भूमौ रक्तचन्दनतण्डुलैः ।अन्तःस्मरं (क्लाँ) समालिख्य षट्कोणेषु समालिखेत् ।मन्त्रराजस्य षड्वर्ण्णान् कामवीजविवर्ज्जितान् सृणिपद्मं वर्म्म चास्त्रं पूर्व्वाद्याशास्तु संलिखेत् नवार्णै-र्वेष्टयेत्तच्च त्रिकोणं तद्बहिः पुनः एवं विलिखिते यन्त्रेनिदध्याद्दीपभाजनम् स्वर्णजं रजतोत्थं वा ताम्रजंतदभावतः कांस्यपात्रं मृण्मयञ्च कनिष्ठं लौहजं मृतौ ।शान्तये मुद्गचूर्णोत्थं सन्धौ गोधूमचूर्णजम् बुध्नेषूर्द्ध्वंसमानं तु पात्रं कुर्य्यात् प्रयत्नतः अर्कदिग्वसुषट्पञ्चचतूरामाङ्गुलैर्मितम् आज्य पलसहस्रे तु पात्रंशतपलैः कृतम् आज्येऽयुतपले पात्रं पलपञ्चशती-कृतम् पञ्चसप्रतिसंख्ये तु पात्रं षष्टिपलं मतम् ।त्रिसहस्रीकृतपले शरार्क १२५ पलभाजनम् द्वि-सहस्र्यां शरशिवं ११५ शतार्द्धे त्रिंशता मितम् शठे-ऽक्षिशर ५५ संख्यातमेवमन्यत्र कल्पयेत् नित्यदीपेवह्निपलं पात्रमाज्ये स्मृतं पलम् एवं पात्रं प्रति-ष्ठाप्य वर्त्तीः सूत्रोत्थिताः क्षिपेत् एका तिस्रोऽथ वापञ्च सप्ताद्या विषमाअपि तिथि १५ माद्या ऽऽसहस्रन्तु तन्तुसंख्या विनिर्म्मिता गोघृतं प्रक्षिपेत्तत्रशुद्धवस्त्रविशोधितम् सहस्रपलसंख्यादि दशान्तंकार्य्यगौरवात् सुवर्णादिकृतां रम्यां शलाकां षोडशा-ङ्गुलाम् तदर्द्धां वा तदर्द्धां वा सूक्ष्माग्रां स्थूल-मूलिकाम् विसुञ्चेद्दक्षिणे भागे पात्रमध्ये कृताग्रकाम् ।पात्राद्दक्षिणदिग्भागे मुक्त्वाऽङ्गुलचतुष्टयम् अधोऽग्रांदक्षिणाधारां निखनेच्छुरिकां शुभाम् दीपं प्रज्वा-लयेत्तत्र गणेशस्मृतिपूर्व्वकम् दीपात् पूर्व्वत्र दिग्भागे सर्व्वतो भद्रमण्डले तण्डुलाष्टदले वापिविधिवत् स्थापयेद्घटम् तत्रावाह्य नृपाधीशं पूर्व्ववत्पूजयेत् सुधीः लाजाक्षतान् समादाय दीपं सङ्कल्प-येत्ततः दीपसङ्कल्पमन्त्रोऽथ कथ्यते द्वीषु ५२भूमितः” ततस्तन्मन्त्रादिकमुक्त्वा शेषविधिर्दर्शितो यथा“एवं दीपप्रदानस्य कर्त्ताप्नोत्यखिलेप्सितम् दीपप्रबोधकाले तु वर्ज्जयेदशुभाङ्गिरम् विप्रस्य दर्शनं तत्रशुभदं परिकीर्त्तितम् शूद्राणां मध्यमं प्रोक्तं म्लेच्छस्यबधबन्धनम् आखोत्वोर्दर्शनं दुष्टं गवाश्वस्य सुखावहम् ।दीपज्वाला समा सिद्ध्यै, वका नाशविधायिनी कृते दीपेयदा पात्र भग्नं दृश्येत दैवतः पक्षादर्व्वाक् तदा गच्छेदुयजमानोयमालयम् वर्त्त्यन्तरं यदा कुर्य्यात् कार्य्यं सिध्ये-द्विलम्बतः नेत्रहीनो भवेत् कर्त्ता तस्मिन् दीपान्तरेकृते अशुचिस्पर्शने व्याधिर्दीपनाशे तु चौरभीः ।श्वमार्जाराखुसंस्पर्शे भवेद्भूपतितोभयम् यात्रारम्भेवसुपलेः कृतोदीपोऽखिलेष्टदः तस्माद्दीपः प्रयत्नेनरक्षणीयोऽन्तरायतः समाप्तेः प्रकुर्व्वीत ब्रह्मचर्य्यञ्चभूशयः स्त्रीशूद्रपतितादीनां सम्भाषामपि वर्जयेत् ।जपेत् सहस्रं प्रत्यह्नि मन्त्रराजं नवाक्षरम् स्त्रोत्र-पाठं प्रतिदिनं निशीथिन्यां विशेषतः एकपादेनदीपाग्रे स्थित्वा यो मन्त्रनायकम् सहस्रं प्रजपेद्रात्रौसोऽभीष्टं क्षिप्रमाप्नुयात् समाप्य शोभने घस्रे संभोज्यद्विजनायकान् कुम्भोदकेन कर्त्तारमभिषिञेन्मनुं स्मरन् ।कर्त्ता तु दक्षिणां दद्यात् पुष्कलां तोषहेतवे गुरौ तुष्टेददातीष्टं कृतवीर्य्यसुतोनृपः गुर्व्वाज्ञया स्वयं कुर्य्याद्यदिवा कारयेद्गुरुम् कृत्वा रत्नादिदानेन दीपदानं धरा-पतेः गुर्व्वाज्ञामन्तरा कुर्य्याद्यो दीपं स्वेष्टसिद्धये ।प्रत्युतानुभवत्येष हानिमेव पदे पदे दीपदानविधिंब्रूयात् कृतघ्नादिषु नो गुरुः दुष्टेभ्यः कथितोमन्त्रो वक्तुर्दुःखावहो भवेत् उत्तमं गोघृतं, प्रोक्तं मध्यमं महि-षीभवम् तिलतैलन्तु तादृक् स्यात् कनीयोऽजादिजंघृतम् आस्यरोगे सुगन्धेन दद्यात्तैलेन दीपकम् ।सिद्धार्थसम्भवेनाथ द्विषतां नाशसिद्धये सहस्रेण पल-र्दीपे विहिते चेन्न दृश्यते कार्य्यसिद्धिस्तदा कुर्य्याद्द्विवारंदीपजं विधिम् तदा सुदुर्लभं कार्य्यं सिध्यत्येव नसंशयः यथा कथञ्चिद्यः कुर्य्याद्दीपदानं स्ववेश्मनि ।विघ्नाः सर्व्वेऽरिभिः साकं तस्य नश्यन्ति द्वरतः सर्व्वदाजयमाप्नोति पुत्रान् पौत्रान् धनं यशः यथा कथञ्चि-द्यो गेहे नित्यं दीपं समाचरेत् कार्त्तवीर्य्यार्जुनप्रीत्यैसोऽभीष्टं लभते नरः दीपप्रियः कार्त्तवीर्य्योमार्त्तण्डोनतिवल्लभः स्तुतिप्रियो महाविष्णुर्गणेशस्तर्पणप्रियः ।दुर्गाऽर्चनप्रिया नूनमभिषेकप्रियः शिवः” ।कार्त्तवीर्य्यस्य दत्तात्रेयलब्धयोगप्रभावात् हरेश्चक्रावता-राच्च उपास्यत्वम् यथा चास्य हरेश्चक्रांवतारत्वं तथा तस्यध्याने वर्णिर्त यथा “उद्यत्सूर्य्यसहस्रकान्तिरखिलक्षौणी-धवैर्वन्दितो हस्तानां शतपञ्चकेन दधच्चापानिषूं-स्तावता कण्ठेहाटकमालया परिवृतश्चक्रावतारो हरेःपायात् स्यन्दनगोऽरुणाभवसनः श्रीकार्त्तवीर्य्यो नृपः” ।२ सुभूमाख्ये जैनराजचक्रवर्त्तिभेदे हेमच०