| YouTube Channel

कार्त्तवीर्य्यः (kArttavIryyaH)

 
शब्दकल्पद्रुमः
Sanskrit
कार्त्तवीर्य्यः
पुं,
(कृतवीर्य्यस्य अपत्यं अण् ।) चन्द्र-वंशीयकृतवीर्य्यराजपुत्त्रः तत्पर्य्यायः हेहयः २दोःसहस्रभृत् अर्ज्जुनः (यथा, भागवते ।२३ २४ ।“न नूनं कार्त्तवीर्य्यस्य गतिं यास्यन्ति पार्थिवाः ।यज्ञदानतपोयोगश्रुतवीर्य्यजयादिमिः”
अस्य खलु माहिष्मती नाम पुरी राजधान्या-सीत् मुजवीर्य्येणायं सप्तद्वीयां धरामजयत् ।दत्तात्त्रेययोगात् बाहुसहसस्रभावं लब्धवान् ।दिग्विजये आगतो रावणोऽनेन पराजितो निगडेबद्धः पितामहेन पुलस्त्यमुनिना ततो मोचितः ।अयन्तु जमदग्नेराश्रमं गात्वा बलात् सवत्सां होम-धेनुं जहार ततः कद्धेन जामदग्नेन सबलोनि-हतोऽसौ कार्त्तवीर्य्यः अथ वैरशुद्धिं चिकीर्षुभिःदुरात्मभिः कार्त्तवीर्य्यपुत्त्रैरागत्य स्वाश्रमे ध्यानस्थोजमदग्निर्निपातितः ततोऽनेन पितृवधामर्षात्जातक्रोधेन परुशुरामेण सर्व्वेहैहयाः निपातिताः
जैनराजचक्रवत्तिविशेषः तत्पर्य्यायः सुभूमः ।इति हेमचद्रः