| YouTube Channel

कार्तिक (kArtika)

 
शब्दसागरः
English
कार्त्तिक
m.
(-कः)
1. The month Kartik, (October-November, ) when the
moon is full near the Pleiades.
2. The deity KARTIKEYA.
E.
कृत्तिका
the Pleiades, अण्
aff.
Capeller Eng
English
कार्त्तिक
m.
a
cert.
month in autumn, also =
seq.
Yates
English
कार्त्तिक (कः) 1.
m.
The month
Kār-
tik (October-November).
Wilson
English
कार्त्तिक
m.
(-कः)
1 The month Kartik, (October-November, ) when the moon is full near the
Pleiades.
2 The deity KĀRTTIKEYA.
E.
कृत्तिका the Pleiades, अण्
aff.
Apte
English
कार्तिक [kārtika],
a.
(-की
f.
) [कृत्तिका-अण्] Belonging to the month of Kārtika
कार्तिकीषु सवितानहर्म्यभाक्
R.*
19.39.
कः
N.
of the month in which the full moon is near the कृत्तिका or Pleiades (corresponding to OctoberNovember).
An epithet of Skanda. -की The full moon day in the month of Kārtika (Mar. त्रिपुरी पौर्णिमा). कार्तिक्याः प्रभृति आग्रहायणी मासे Mbh. on
P.
II. 3.28.
Comp.
-उत्सवः a festival on the full-moon day of the month of कार्तिक.
Apte 1890
English
कार्तिक a. (की f.) [कृत्तिका-अण्] Belonging to the month of Kārtika
R. 19. 39.
कः 1 N. of the month in which the full moon is near the कृत्तिका or Pleiades (corresponding to October-November).
2 An epithet of Skanda.
की The full moon day in the month of Kārtika.
Monier Williams Cologne
English
कार्त्तिक
m.
(fr. कृत्तिका, q.v.
with or without मास),
N.
of a month corresponding to part of October and November (the twelfth month of the year, when the full moon is near the Pleiades),
Pāṇ.
Lāṭy.
MBh.
&c.
N.
of Skanda (See कार्त्तिकेय),
BrahmaP.
of a Varṣa
of a medical author
कार्त्तिक mn.
N.
of the first year in Jupiter's period of revolution,
VarBṛS.
Sūryas.
कार्त्तिक
n.
N.
of a Tīrtha,
MatsyaP.
Monier Williams 1872
English
कार्त्तिक कार्त्तिक, अस्, m. (fr. कृत्तिका, the
Pleiades), scil. मास, N. of the month Kārttika or
October-November, when the moon is full and near
the Pleiades, the twelfth month of the year
a metro-
nymic of Skanda [cf. कार्त्तिकेय]
N. of a Varṣa
N. of a medical author
(ई), f., scil. रात्रि, the night
of full moon in the month Kārttika, the day on
which the moon stands in the constellation Kṛttikā.
—कार्त्तिक-महिमन्, आ, m. ‘the greatness of the
month Kārttika, title of a treatise on the festivals of
that month.
—कार्त्तिक-माहात्म्य, अम्, n. title of
a section of the Padma-purāṇa.
—कार्त्तिक-शालि, इस्,
m. the rice which ripens in the beginning of the
cold season and forms the principal harvest in India.
—कार्त्तिक-सिद्धान्त, अस्, m., N. of a scholiast on
the Mugdhabodha.
—कार्त्तिकोत्सव (°क-उत्°), अस्,
m. the day of full moon in the month Kārttika, a
festival.
Macdonell
English
कार्त्तिक kārttika,
m.
N. of a month (October-November): 🞄ī,
f.
day of full moon in Kārttika
🞄e-ya,
m.
met. of Skanda, god of war.
Benfey
English
कार्त्तिक कार्त्तिक, i. e. कृत्तिका + अ,
I.
m.
The name of a month (October-
November), MBh. 2, 918.
II.
f.
की,
The day of this month on which the
moon is full, MBh. 3, 4073.
Apte Hindi
Hindi
कार्तिक
वि* - कृत्तिका - अण्
कार्तिक मास से संबन्ध रखने वाला
कार्तिकः
पुं*
- कृत्तिका - अण्
वह महीना जब कि पूरा चन्द्रमा कृत्तिका नक्षत्र के निकट रहता है
कार्तिकः
पुं*
- कृत्तिका - अण्
स्कन्द का विशेषण
कार्तिकः
पुं*
- कृतिका+अण्
स्कन्द का विशेषण
Shabdartha Kaustubha
Kannada
कार्तिक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಾರ್ತಿಕ ಮಾಸ /ಕೃತ್ತಿಕಾ ನಕ್ಷತ್ರದಿಂದ ಕೂಡಿದ ಹುಣ್ಣಿಮೆಯ ಮಾಸ
निष्पत्तिः - > कृत्तिका - "अण्" (४-२-३) "ङीप्" (४-१-१५) "अण्" (४-२-२१)
व्युत्पत्तिः - > कृत्तिका नक्षत्रेण युक्ता पौर्णमासी कार्तिकी सास्मिन् मासे
प्रयोगाः - > "नक्षत्रनाम्ना मासास्तु ज्ञेयाः पर्वान्तयोगतः"
उल्लेखाः - > सू० सि० १४-१५
कार्तिक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ತುಲಾರಾಶಿಯಲ್ಲಿ ಸೂರ್ಯನಿರುವ ಒಂದು ಸೌರಮಾಸ
कार्तिक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕೃತ್ತಿಕಾನಕ್ಷತ್ರದಿಂದ ಕೂಡಿದ ಪೌರ್ಣಮಾಸಿಯುಳ್ಳ ಅರ್ಧಮಾಸ /ಒಂದು ಪಕ್ಷ
कार्तिक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸ್ಕಂಧ /ಷಣ್ಮುಖ
निष्पत्तिः - > "अण्" (४-३-१२०)
व्युत्पत्तिः - > कृत्तिकाणामयं पोष्यत्वेन
L R Vaidya
English
kArtika {% (I) a. (f. की) %} Belonging to the month of Kārtīka, R.xix.39.
kArtika {% (II) m. %} 1. Name of the month in which the full moon is near the कृत्तिका (pleiades)
2. an epithet of Skanda.
भूतसङ्ख्या
Sanskrit
६, अङ्ग, अब्द, अराति अरि, ऋतु, काय, कारक, कार्तिक, काल, कुमार, कुमारवदन, कृत्तिका, कोष, क्ष्माखण्ड, खर, गुहक, गुहवक्त्र, गुहास्य, चक्रार्ध, चमू, चरक, जीव, तर्क, दर्शन, द्रव्य, भार्ध, मासार्ध, रस, राग, रासभ, रिपु, लेख्य, लेश्या, वर्ण, शक्ति, शास्त्र, शिलीमुखपद, शिशु, षट्, षण्मुख, समास, सेना, स्कन्द, स्वाद
Aufrecht Catalogus Catalogorum
English
कार्त्तिक a medical writer. Quoted by Bhāvamiśra Oxf.
311^b, by Mādhava Oxf. 314^b.
Indian Epigraphical Glossary
English
kārttika (CITD), crops reaped in the month of Kārttika.
वैजयन्तीकोषः
Sanskrit
Word: कार्तिकः
Root: कार्तिक
Gender: पुं
Number: all
अर्थः कार्तिको नाम चान्द्रमासः
Meaning(s):
Second month of the autumn season (śarad)
Shloka(s):
2|1|86|1 कार्त्तिके स्यात् कार्त्तिकिको बाहुलः शैलकुमुदौ। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|86|1 कार्तिकः (कार्तिक) (पुं) Second month of the autumn season (śarad) कार्तिको नाम चान्द्रमासः
2|1|86|1 कार्तिकिकः (कार्तिकिक) (पुं) Epithet of Kartika season कार्तिको नाम चान्द्रमासः
2|1|86|1 बाहुलः (बाहुल) (पुं) Epithet of Kartika season कार्तिको नाम चान्द्रमासः
2|1|86|1 शैलः (शैल) (पुं) Epithet of Kartika season कार्तिको नाम चान्द्रमासः
2|1|86|1 कौमुदः (कौमुद) (पुं) Epithet of Kartika season कार्तिको नाम चान्द्रमासः
Related word(s):
अवयव_अवयवीसंबन्धः कार्तिकी
परा_अपरासंबन्धः मासः
जातिः कालः
Mahabharata
English
Kārttika, name of a month. § 277 (Jarāsandhavadhap.): II, 21, 918 (ºsya tu māsasya…prathame 'hani).--§ 574 (Jambūkh.): VI, 2, 57 (paurṇamāsyāṃ Kºe).--§ 759 (Ānuśāsanik.): XIII, 106, 5161 (māsaṃ)
109, 5383 (dvādaśyāṃ Kºe māsi).--§ 766 (do.): XIII, 132, 6162 (māsi). Cf. Kaumuda.
शब्दकल्पद्रुमः
Sanskrit
कार्त्तिकः,
पुं,
(कृत्तिकानक्षत्रयुक्ता पौर्णमासी यत्रमासे इति पाक्षिको अण् ।) वैशाखादिद्वादशमासान्तर्गतसप्तममासः कृत्तिकानक्षत्रयुक्तापौणमासी यत्र मासे सः अयं तुलास्थरविप्रा-रब्धशुक्लप्रतिपदादिदर्शान्तरूपगुख्यचान्द्रः सौ-रस्तु तुलाराशिस्थरविककालः इति स्मृतिः
तत्पर्य्यायः बाहुलः ऊर्ज्जः कार्त्तिकिकः ।इत्यमरः १७
कौमुदः इति शब्द-रत्नावली
*
अथ कार्त्तिककृत्यम् ।पद्मपुराणे ।“तुलामकरमेषेषु प्रातःस्नानं विधीयते” ।तत्र संकल्पः अरुणोदयकाले मज्जनं कृत्वाचम्यओँ तत्सदद्य कार्त्तिके मासि अमुकपक्षे अमुक-तिथावारभ्य तुलास्थरविं यावत् प्रत्यहं अमुक-गोत्रः श्री अमुकदेवशर्म्मा श्रीविष्णुप्रीतिकामःप्रातःस्नानमहं करिष्ये इति संकल्प्य यथोक्तवि-धिना इतिकर्त्तव्यतां विधाय --“ओँकार्त्तिकेऽहं करिष्यामि प्रातःस्नानं जनार्द्दन ! ।प्रीत्यर्थं तव देवेश ! दामोदर ! मया सह”
इति स्नायात् मया लक्ष्म्या प्रतिदिनसंकल्पेतु आरभ्य तुलास्थरविं यावत् प्रत्यहं इति नवक्तव्यम् किन्तु मासीत्यनन्तरं तुलास्थरवा-वित्यधिकं वक्तव्यम् चान्द्रस्नानवाक्यन्तु वैशाख-कृत्ये अनुसन्धेयम् तथा वायुपुराणे ।“यदीच्छेद्विपुलान् भोगान् चन्द्रसूर्य्यग्रहोपमान् ।कार्त्तिकं सकलं व्याप्य प्रातःस्नायी भवेन्नरः”
*
तथा गारुडे ।“गवामयुतदानेन यत् फलं लभते खग ! ।तुलसीपत्रकैकेन तत् फलं कार्त्तिके स्मृतम्”
ओँअद्येत्यादि तुलसीपत्रकैकसमसंख्यायुतधेनु-दानजन्यफलसमफलप्राप्तिकामः एतानि तुलसी-पत्राणि श्रीविष्णवेऽहं ददे इत्यभिलप्य एतानितुलसीपत्राणि श्रीविष्णवे नमः इत्यनेनदद्यात्
*
ब्रह्माण्डपुपाणे ।“विष्णुवेश्मनि यो दद्यात् कार्त्तिके मासि दीपकम् ।अग्निष्टोमसहस्रस्य फलमाप्नोति मानवः
ओँदामोदराय नभसि तुलायां लोलया सह ।प्रदीपन्ते प्रयच्छामि नमोऽनन्ताय वेधसे”
लोलया लक्ष्म्या ।“इति मन्त्रेण यो दद्यात् प्रदीपं सर्पिरादिना ।आकाशे मण्डपे वापि चाक्षयफलं लभेत्”
स्नानवत् ओँअद्येत्यादि अमुकतिथावारभ्य तुला-स्थरविं यावत् प्रत्यहं अमुकगोत्रोऽमुकदेवशर्म्माअक्षयदीपदानफलप्राप्तिकामः श्रीविष्णुप्रीतिकामोवा आकाशे मण्डपे वापि श्रीविष्णवे दीपदान-महं करिष्ये इति संकल्प्य दामोदरायेत्यादिनादद्यात् द्वितीयादिदिने ओँदामोदरायेत्यनेनेतिविशेषः विष्णुगृहे तु ओँअद्येत्यादि अमुकति-थावारभ्य तुलास्थरविं यावत् प्रत्यहं अमुकगोत्रो-ऽमुकदेवशर्म्माअग्निष्टोमसहस्रजन्यफलसमफलप्रा-प्तिकामः श्रीविष्णप्रीतिकामो वा श्रीविष्णुवेश्मनिश्रीविष्णवे दीपदानमहं करिष्ये इति संकल्प्यओँ दामोदरायेत्यादिना दद्यात् द्वितीयादिदिनेओँ दामोदरायेत्यनेनेति विशेषः
*
हविष्यान्नादौ तु ब्रह्मपुराणे ।“व्रतोपवासनियमैः कार्त्तिको यस्य गच्छति ।देवो वैमानिको भूत्वा याति परमं पदम्”
तत्र अद्येत्यादि अमुकतिथावारभ्य तुलास्थरविंयावत् प्रत्यहं अमुकगोत्रोऽमुकदेवशर्म्मा वैमा-निकदेवत्वभवनपूर्व्वकपरमपदप्राप्तिकामः श्रीवि-ष्णुप्रीतिकामो वा हविष्येतरभोजननिवृत्तिमहंकरिष्ये इत्यादिवाक्ये विशेषः एवं फलाहारा-दावपि
*
हविष्यद्रव्याणि ।“हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः ।कलायकङ्गुनीवारा वास्तूकं हिलमोचिका
यष्टिका कालशाकञ्च मूलकं केमुकेतरत् ।लवणे सैन्धवसामुद्रे गव्ये दधिसर्पिषी
पयोऽनुद्धृतसारञ्च पनसाम्रहरीतकी ।तिन्तिडी जीरकञ्चैव नागरङ्गञ्च पिप्पली
कदली लवली धात्री फलान्यगुडमैक्षवम् ।अतैलपक्वं मुनयो हविष्यान्नं विदुर्ब्बुधाः”
हैमन्तिकमित्यभिधायागस्त्यसंहितायाम् ।“नारिकेलफलञ्चैव कदलीं लवलीन्तथा ।आम्रमामलकञ्चैव पनसञ्च हरीतकीम्
व्रतान्तरप्रशस्तञ्च हविष्यं मन्वते बुधाः” ।अत्र आरब्धव्रतोपवासादौ फलजलादिभक्षण-मप्याहतुरुद्योगपर्व्ववौधायनौ ।“अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।हविर्ब्राह्मणकास्या गुरोर्व्वचनमौषधम्”
*
फलाहारादावपि तुलसीराहित्ये दोषमाह ।“तुलसीं विना या क्रियते पूजास्नानं तद्यत् तुलसीं विना कृतम् ।भुक्तं तद्यत् तुलसीविवर्ज्जितंपीतं तद्यत्तुलसीविवर्ज्जितम्”
*
नारदीये ।“न मात्स्य भक्षयेन्मांसं कौर्म्मं नान्यदेव हि ।चण्डालो जायते राजन् कार्त्तिके मांसभक्षणात्”
तथा महाभारते ।“कौमुदन्तु विशेषेण शुक्लपक्षे नराधिप ! ।वर्ज्जयेत् सर्व्वमांसानि धर्म्मो ह्यत्र विधीयते”
कौमुदं कार्त्तिकम् कार्त्तिकमधिकृत्य ब्रह्म-पुराणम् ।“एकादश्यादिषु तथा तासु पञ्चसु रात्रिषु ।दिने दिने स्नातव्यं शीतलासु नदीषु ।वर्ज्जितव्या तथा हिंसा मांसभोजनमेव च”
ततश्च मांसभोजननिषेघे कार्त्तिकमासतत्शुक्ल-पक्षतदेकादश्यादिपञ्चदिनानि शक्ताशक्तभेदात्पापतारतम्याद्वा निषिद्धानि ।“कार्त्तिके शौकरं मांसं यस्तु भुञ्जीत दुर्म्मतिः ।षष्ठिवर्षसहस्राणि रौरवे परिपच्यते”
ओल-पटोलकदम्बवृन्ताककांस्यसन्धिजानि वर्ज्जयेत् ।“पटोलानि फदम्बानि वृन्ताकसहितानि ।भुञ्जानः कार्त्तिके मासि याददाहूतनारकी”
*
भूतचतुर्द्दशीकृत्यं तत्शब्दे द्रष्टव्यम् तत्र दीप-दाने विशेषो सथा, --“ततः प्रवोषसमये दीपान्दद्यात् प्रयत्नतः ।ब्रह्मविष्णुशिवादीनां भवनेषु मठेषु ।कूटागारेषु चैत्येषु गुहासु नदीषु च”
दीपदानमन्त्रः ।“ओँनमः पितृभ्यः प्रेतेभ्यो नमो धर्म्माय विष्णवे ।नमो धर्म्माय रुद्राय कान्तारपतये नमः”
*
दीपान्विताकृत्यं तत्शब्दे द्रष्टव्यम् तत्र विशेषोयथा तत्र बालातुरवृद्धव्यतिरेकेण दिवा नभोक्तव्यम् तत्र पार्व्वणश्राद्धं कृत्वा प्रदोषे प्राची-नावीती दक्षिणामुखो ज्वलदुल्काम् ।“ओँ शस्त्राशस्त्रहतानाञ्च भुतानां भूतदर्शयोः ।उज्ज्वलज्योतिषा देहं दहेयं व्योमवह्निना”
इत्यनेन गृह्णीयात् ।“ओँ अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम ।उज्ज्वलज्योतिषा दग्धास्ते यान्तु परमां गतिम्”
इत्यनेन भूमौ स्थापयेत् ।“ओँ यमलोकं परित्यज्य आगता ये महालये ।उज्ज्वलज्योतिषा वर्त्म प्रपश्यन्तो व्रजन्तु ते”
इत्यनेन पितॄन् विसर्ज्जयेत् यद्येवं पूर्व्वदिन एवप्रदोषव्यापिन्यमावास्या तदा पूर्व्वदिन एव श्राद्ध-मकृत्वापि उल्कादानं कर्त्तव्यम् आचारात्पञ्चभूतोपाख्यानञ्च श्रोतव्यम् उभयतः प्रदोष-व्याप्तौ परदिन एव युग्मात् उभयतः प्रदोषा-प्राप्तावपि उल्कादानं परदिने पार्व्वणानुरोधात् ।अत्रैव पूर्व्वदिने लक्ष्मी रात्रौ पूज्या ।“अमावस्या यदा रात्रौ दिवाभागे चतुर्द्दशी ।पूजनीया तदा लक्ष्मीर्व्विज्ञेया सुखरात्रिका”
इति वचनात् लक्ष्मीपूजाविषयेऽप्येवं व्यवस्था ।ततो गृहमध्ये उत्तराभिमुखो लक्ष्मीं पूजयेत् ।ततः स्वस्तिवाचनपूर्व्वकं ओँ सूर्य्यः सोम इतिओँ तद्विष्णोरिति पठित्वा तिलपुष्पजलान्या-दाय ओँ तत्सदित्युच्चार्य्य ओँ अद्येत्यादि अमुक-गोत्रोऽमुकदेवशर्मा परमविसूतिलाभकामो लक्ष्मी-पूजनमहं करिष्ये इति संकल्प्य शालम्रामेघटादिस्थजले वा भूतशुद्ध्यादिकं कृत्वा लक्ष्मीं-पूजयेत् तद्यथा ओँ पाशाक्षमालिकाम्भोजइत्यादिना ध्यात्त्वां ओँ भूर्मुवःस्वर्म्मह लक्ष्मि !इहागच्छ इत्याद्यावाह्य एतत्पाद्यं ओँ लक्ष्म्यै नमः ।एवमर्घ्याचमनीयगन्धपुष्पधूपदीपनैवेद्यपुनराचम-नीयताम्बूलादि प्रत्येकं दद्यात् ।“ओँ नमस्ते सर्व्वदेवानां वरदासि हरिप्रिये ! ।या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्च्चणात्”
इत्यनेन पुष्पाञ्जलित्रयं दत्त्वा प्रणमेत् ।ओँ विश्वरूपस्य भार्य्यासि पद्मे पद्मालये ! शुभे ! ।सर्व्वतः पाहि मां देवि महालक्ष्मि ! नमोऽस्तुते”
ततः “सुखरात्र्याः प्रदोषे तु कुवेरं पूजयन्ति ये”
इति रुद्रधरवचनात् कुवेरमपि पाद्यादिभिःपूजयेत् ।“ओँ धनदाय नमस्तुभ्यं निधिपद्माधिपाय ।भवन्तु त्वत्प्रसादान्मे धनधान्यादिसम्पदः”
इति पठित्वा ओँ कुवेराय नम इति त्रिः पूज-येत् ततो गृहादिषु दीपान्दद्यात् तत्र मन्त्रः ।ओँ अग्निज्योती रविज्योतिश्चन्द्रज्योतिस्तथैव ।उत्तमः सर्व्वज्योतीनां दीपोऽयं प्रतिगृह्यताम्
ततो ब्राह्मणान् बन्धूंश्च भोजयित्वा स्वयं भुञ्जीत ।तत्र प्रत्यूषे भविष्योक्तं कर्म्म कर्त्तव्यम् गोरोचना-तिलकधारणं प्रदीपवन्दनं कृत्वा लक्ष्मीं त्रिः पूज-येत्
तत्र मन्त्रः ।“ओँ विश्वरूपस्य भार्य्यासि पद्मे पद्मालये ! शुभे ! ।मलालक्ष्मि ! नमस्तुभ्यं सुखरात्रिं कुरुष्व मे
वर्षाकाले महाघोरे यन्मया दुष्कृतं कृतम् ।सुखरात्रि ! प्रभातेऽद्य तन्मे लक्ष्मीर्व्यपोहतु
या रात्रिः सर्व्वभूतानां या देवेष्ववस्थिता ।सम्बत्सरप्रिया या सा ममास्तु सुमङ्गला
माता त्वं सर्व्वलोकानां देवानां सृष्टिसम्भवा ।आख्याता भूतले देवि ! सुखरात्रि ! नमोऽस्तु ते”
ओँ लक्ष्म्यै नमः इति त्रिः पूजयेत्
अन्यत् सुख-रात्रिशब्दे द्रष्टव्यम्
*
अथ द्यूतप्रतिपत् तत्र प्रभाते अक्षक्रीडादिकंकार्य्यम् तत्र जयेवर्षं शुभम् पराजये वर्षम-शुभम् ततः संकल्प्य शालग्रामे जले वा एतत्पाद्यं ओँ बलये नमः इत्यादि संपूज्य ।“ओँ बलिराज ! नमस्तुभ्यं विरोचनसुत प्रभो ! ।भविष्येन्द्र सुराराते ! पूजेयं प्रतिगृह्यताम्”
अनेन पुष्पाञ्जलित्रयं दद्यात् ।“यो यो यादृशभावेन तिष्ठत्यस्यां युधिष्ठिर ! ।हर्षदैन्यादिना तेन तस्य वर्षं प्रयाति हि”
तथा ।“महापुण्या तिथिरियंबलिराज्यविवर्द्धिनी ।स्नानं दानं शतगुणं कार्त्तिकेऽस्यां तिथौ भवेत्
*
अथ भ्रातृद्वितीया तत्राष्टधाविभक्तदिनपञ्चम-यामार्द्धप्राप्तायां द्वितीयायां उभयादने तथाचेत्परदिने कृत्यं युग्मात् तत ओँ तत्सदि-त्युच्चार्य्य ओँ अद्येत्यादि अमुकगोत्रोऽमुकदेवशर्म्मास्वरक्षणकामो यमादिपूजनमहं करिष्ये इतिसंकल्प्य शालग्रामे घटादिस्थजले वा पूजयेत् ।एतत् पाद्यं ओँ यमाय नमः एवं क्रमेण संपूज्य ।“एह्येहि मार्त्तण्डज ! पाशहस्त !यमान्तकालोकधरामरेश ! ।भ्रातृद्वितीयाकृतदेवपूजांगृहाण चार्घ्यं भगवन्नमस्ते”
इदमर्घ्यं ओँ यमाय नमः तत आचमनीयादिकंदत्त्वा प्रणमेत् ।“ओँ धर्म्मराज ! नमस्तुभ्यं नमस्ते यमुनाग्रज ! ।पाहि मां किङ्करैः सार्द्धं सूर्य्यपुत्त्र ! नमोस्तु ते”
तत ओँ चित्रगुप्ताय नमः इत्यनेन पूजयेत् ततओँ यमदूतेभ्यो नमः इत्यनेन पाद्यादिभिःपूजयेत् यमुनाञ्च पाद्यादिभिः संपूज्य प्रणमेत् ।“ओँ यमस्वसर्नमस्तेऽस्तु यमुने ! लोकपूजिते ।वरदा भव मे नित्यं सूर्य्यपुत्त्रि ! नमोऽस्तु ते”
ततो भ्रातृभोजनकाले अन्नादिकं दत्त्वा भगिनीपठेत् ।“भ्रातस्तवानुजाताहं भुङ्क्ष्व भक्तमिदं शुभम् ।प्रीतये यमराजस्य यमुनाया विशेषतः”
ज्येष्ठा चेत् तवाग्रजाताहमिति वदेत् ततःपुष्टिकामो भ्राता भुञ्जीत “यत्नेन भगिनीह-स्तात् भोक्तव्यं पुष्टिवर्द्धनं” इति वचनात्
*
विष्णूत्थानं उत्थानैकादशीशब्दे द्रष्टव्यम् तत्रकार्त्तिकशुक्लैकादश्यादितिथिपञ्चके वकपञ्चकम् ।“वकोऽपि तत्र नाश्नीयान्मत्स्यञ्चैव कदाचन” ।इति वचनात्
कार्त्तिक्यां गोदानादौ फलाधि-क्यम् “कार्त्तिक्यां गोप्रदो भवेत्” इति वच-नात् इति कृत्यतत्त्वम्
*
*
अपि ।अथं कार्त्तिकव्रतनित्यता स्कान्देब्रह्मनारदसंवादे ।“दुष्प्राप्यं प्राप्य मानुष्यं कार्त्तिकोक्तं चरेन्न हि ।धर्म्मं धर्म्मभृतां श्रेष्ठ ! मातृपितृघातकः
अव्रतेन क्षिपेद्यस्तु मासं दामोदरप्रियम् ।तिर्य्यग्योनिमवाप्नोति सर्व्वधर्म्मवहिष्कृतः
ब्रह्महा गोघ्नश्च स्वर्णस्तेयी सदानृती ।न करोति मुनिश्रेष्ठ ! यो नरः कार्त्तिके व्रतम्
विधवा विशेषेण व्रतं यदि कार्त्तिके ।करोति मुनिशार्दूल ! नरकं याति सा ध्रुवम्
व्रतन्तु कांर्त्तिके मासि यदा कुरुते गृही ।इष्टापूर्त्तं वृथा तस्य यावदाहूतनारकी
संप्राप्ते कार्त्तिके मासे द्विजो व्रतपराङ्मुखः ।भवन्ति विमुखाः सर्व्वे तस्य देवाः सवासवाः
इष्ट्वा तहुभिर्यज्ञैः कृत्वा श्राद्धशतानि ।स्वर्गं नाप्नोति विप्रेन्द्र ! अकृत्वा कार्त्तिके व्रतम्
यतिश्च विधवा चैव विशेषेण वनाश्रमी ।कार्त्तिके नरकं यान्ति अकृत्वा वैष्णवं व्रतम्
वेदैरधीतैः किं तस्य पुराणपठनैश्च किम् ।कृतं यदि विप्रेन्द्र ! कार्त्तिके वैष्णवं व्रतम्
जन्मप्रभृति यत्पुण्यं विधिवत्समुपार्ज्जितम् ।भस्मी भवति तत्सर्व्वमकृत्वा कार्त्तिके व्रतम्
यद्दत्तञ्च परं जप्तं कृतञ्च सुमहत्तपः ।सर्व्वं विफलतामेति अकृत्वा कार्त्तिके व्रतम्
सप्तजन्मार्ज्जितं पुण्यं वृथा भवति नारद ! ।अकृत्वा कार्त्तिके मासि वैष्णवं व्रतमुत्तमम्
पापभूतास्तु ते ज्ञेया लोके मर्त्या महामुने ! ।वैष्णवाख्यं व्रतं यैस्तु कृतं कार्त्तिके शुभम्”
किञ्च ।“अकृत्वा नियमं विष्णोः कार्त्तिकं यः क्षिपेन्नरः ।जन्मार्ज्जितस्य पुण्यस्य फलं नाप्नोति नारद !”
किञ्च ।“नियमेन विना चैव यो नयेत् कार्त्तिकं मुने ! ।चातुर्म्मास्यं तथा चैव ब्रह्महा कुलाधमः”
किञ्च ।“पिण्डदानं पितॄणाञ्च पितृपक्षे वै कृतम् ।व्रतं कार्त्तिके मासि श्रावण्यामृषितर्पणम्
चैत्रे नान्दोलितो विष्णुर्म्माघस्नानं सज्जले ।न कृता मर्द्दकी पुष्ये श्रावणे रोहिणाष्टमी
सङ्गमे कृता येन द्वादशी श्रवणान्विता ।कुत्र यास्यन्ति ते मूढा नाहं जानामि नारद !”
पाद्मे श्रीसौनकादिमुनिगणसंवादे ।“मानुषः कर्म्मभूमौ यः कार्त्तिकं नयते मुधाचिन्तामणिं करे प्राप्य क्षिपते कर्द्दमाम्बुनि
नियमेन विना विप्राः कार्त्तिकं यः क्षिपेन्नरः ।कृष्णः पराङ्मुखस्तस्य यस्मादूर्ज्जोऽस्य वल्लभः”
*
तत्र विशेषेण स्नानदानादिसत्कर्म्मनित्यता ।स्कान्दे तत्रैव ।“यैर्न्न दत्तं हुतं जप्तं स्नानं हरेर्व्रतम् ।न कृतं कार्त्तिके पुत्त्र ! द्विजास्ते वै नराधमाः” ।किञ्च ।“यैन्न दत्तं हुतं जप्तं कार्त्तिके व्रतं कृतम् ।तेनात्मा हारितो नूनं प्राप्तं प्रार्थितं फलम्” ।किञ्च ।“संप्राप्ते कार्त्तिके मासि ये रता जनार्द्दने ।तेषां सौरिपुरे वासः पितृभिः सह नारद”
किञ्च ।“कार्त्तिके नार्च्चितो यैस्तु भक्तिभावेन केशवः ।नरकं ते गमिष्यन्ति यमदूतैस्तु यन्त्रिताः
जन्मकोटिसहस्रैस्तु मानुष्यं प्राप्य दुर्ल्लभम् ।कार्त्तिके नार्च्चितो विष्णुर्हारितं तेन जन्म वै
विष्णोः पूजा कथा विष्णोर्वैष्णवानाञ्च दर्शनम् ।न भवेत् कार्त्तिके यस्य हन्ति पुण्यं दशाब्दिकम्”
अथ कार्त्तिकमाहात्म्यम् स्कान्दे ।“कार्त्तिकस्य तु माहात्म्यं प्राक् सामान्येन लिख्यते ।ततो विशेषतस्तत्र कर्म्म देशादिभेदतः”
अथ सामान्यतः स्कान्दे तत्रैव ।“कार्त्तिकस्य तु मासस्य कोट्यंशेनापि नार्हति ।सर्व्वतीर्थेषु यत् स्नानं सर्व्वदानेषु यत् फलम्
एकतः सर्व्वतीर्थानि सर्व्वे यज्ञा सदक्षिणाः ।एकतः पुष्करे वासः कुरुक्षेत्रे हिमाचले
मेरुतुल्यसुवर्णानि सर्व्वदानानि चैकतः ।एकतः कार्त्तिको वत्स ! सर्व्वदा केशवप्रियः
यत् किञ्चित् क्रियते पुण्यं विष्णुमुद्दिश्य कार्त्तिकेतदक्षयं भवेत्सर्व्वं सत्योक्तं तव नारद !
कार्त्तिकं खलु वै मासं सर्व्वमासेषु चोत्तमम् ।पुण्यानां परमं पुण्यं पावनानाञ्च पावनम्
यथा नदीनां विप्रेन्द्र शैलानाञ्चैव नारद ! ।उदधीनाञ्च विप्रर्षे ! क्षयो नैवोपपद्यते
पुण्यं कार्त्तिकमासे तु यत् किञ्चित् क्रियते मुने ! ।न तस्यास्ति क्षयो ब्रह्मन् पापस्याप्येवमेव
कार्त्तिकसमो मासो कृतेन समं युगम् ।न वेदसदृशं शास्त्रं तीर्थं गङ्गया समम्
कार्त्तिकः प्रवरो मासो वैष्णवानां प्रियः सदा ।कार्त्तिकं सकलं यस्तु भक्त्या सेवेत वष्णवः
पितॄनुद्धरते सर्व्वान् नरकस्थान् महामुने” ! ।पाद्मे तत्रैव ।“द्वादशस्वपि मासेषु कार्त्तिकः कृष्णवल्लभः ।तस्मिन् संपूजितो विष्णुरल्पकैरप्युपायनैः
ददाति वैष्णवं लोकमित्येवं निश्चितं मया ।यथा दामोदरो भक्तवत्सलो विदितो जनैतस्यायन्तादृशो मासः स्वल्पमप्युरुकारकः ।दुर्ल्लभो मानुषो देहो देहिनां क्षणभङ्गुरः
तत्रापि दुर्ल्लभः कालः कार्त्तिको हरिवल्लभः ।दीपेनापि हि यत्रासौ प्रीयते हरिरीश्वरः
सुगतिञ्च ददात्येव परदीपप्रबोधनात्”
*
अथ व्रतमाहात्म्य स्कान्दे तत्रैव ।“व्रतानामिह सर्व्वेषामेकजन्मानुगं फलम् ।कार्त्तिके तु व्रतस्योक्तं फलं जन्मशतानुगम्
अक्रूरतीर्थे विप्रेन्द्र ! कार्त्तिक्यां समुपोष्य ।स्नात्वा यत् फलमाप्नोति तच्छ्रुत्वा वैष्णवं व्रतम्
वाराणस्यां कुरुक्षेत्रे नैमिषे पुष्करेऽर्ब्बुदे ।गत्वा यत् फलमाप्नोति व्रतं कृत्वा तु कार्त्तिके
अनिष्ट्वा सदा यज्ञैर्न कृत्वा पितृभिः स्वधाम् ।व्रतेन कार्त्तिके मासि वैष्णवन्तु पदं व्रजेत्
प्रवृत्तानाञ्च भक्ष्याणां कार्त्तिके नियमे कृते ।अवश्यं कृष्णरूपत्वं प्राप्यते मुक्तिदं शुभम्”
किञ्च ।“ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रो वा मुनिसत्तम ! ।वियोनिं व्रजत्येव व्रतं कृत्वा तु कार्त्तिके”
किञ्च ।“कार्त्तिके मुनिशार्दूल ! स्वशक्त्या वैष्णवं व्रतम् ।यः करोति यथोक्तन्तु मुक्तिस्तस्य करे स्थिता
सुपुण्ये कार्त्तिके मासि देवर्षिपितृसेविते ।क्रियमाणे व्रते नॄणां स्वल्पेऽपि स्यान्महाफलम्”
*
अथ कर्म्मविशेषमाहात्म्यम् स्कान्दे तत्रैव ।“दानं दत्तं हुतं जप्तं तपश्चैव तथा कृतम् ।तदक्षयफलं प्रोक्तं कार्त्तिके द्विजोत्तम” !
किञ्च ।“यत् किञ्चित् कार्त्तिके दत्तं विष्णुमुद्दिश्य मानवैः ।तदक्षयं लभ्यते वै अन्नदानं विशेषतः”
किञ्च ।“यस्तु सम्बत्सरं पूर्णमग्निहोत्रमुपासते ।कार्त्तिके स्वस्तिकं कृत्वा सममेतन्न संशयः
कार्त्तिके या करोत्येवं केशवालयमण्डलम् ।स्वर्गस्था शोभते सा तु कपोती पक्षिणी यथा
यः करोति नरो नित्यं कार्त्तिके पत्रभोजनम् ।न दुर्गतिमाप्नोति यावदिन्द्राश्चतुर्द्दश
जन्मप्रभृति यत्पापं मानवैश्च कृतं भवेत् ।तत्सर्व्वं नाशमाप्नोति ब्रह्मपत्रेषु भोजनात्
सर्व्वकामफलं तस्य सर्व्वतीर्थफलं लभेत् ।न वापि नरकं पश्येत्ब्रह्मपत्रेषु भोजनात्
ब्रह्म चैष स्मृतः साक्षात् पलाशः सर्व्वकामदः ।मध्यमं वर्ज्जितं पत्रं शूद्रस्य मुनिसत्तम !
भुञ्जन्नरकमाप्नोति यावदिन्द्राश्चतुर्द्दश ।तिलदानं नदीस्नानं सत्कथा साधुसेवनम्
भोजनं ब्रह्मपत्रेष कार्त्तिके मुक्तिदायकम् ।जागरं कार्त्तिके मासि यः करोत्यरुणोदये
दामोदराग्रे विप्रेन्द्र ! गोसहस्रफलं लभेत् ! ।जागरं पश्चिमे यामे यः करोति महामुने !
कार्त्तिके सन्निधौ विष्णोस्तत्पदं करसंस्थितम् ।साधुसेवा गवां ग्रासः कथा विष्णोरथार्च्चनम् ।जागरः पश्चिमे यामे दुर्ल्लभः कार्त्तिके कलौ”
किञ्च ।“जलधेनुसहस्रञ्च वृषसंस्थे दिवाकरे ।तोयं दत्त्वा यदाप्नोति स्नानं कृत्वा तु कार्त्तिके
सन्निहत्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे ।सूर्य्यवारेण यत्स्नानं तदेकाहेन कार्त्तिके
पितॄनुद्दिश्य यद्दत्तं कार्त्तिके कृष्णवल्लभे ।अन्नोदकं मुनिश्रेष्ठ ! अक्षयं जायते नृणाम्”
*
किञ्च ।“गीतशास्त्रविनोदेन कार्त्तिकं यो नयेन्नरः ।न तस्य पुनरावृत्तिर्मया दृष्टा कलिप्रिय !”
किञ्च ।“प्रदक्षिणञ्च यः कुर्य्यात् कार्त्तिके विष्णुसद्मनि ।पदे पदेऽश्वमेधस्य फलभागी भवेन्नरः
गीतं वाद्यञ्च नृत्यञ्च कार्त्तिके पुरतो हरेः ।यः करोति नरो भक्त्या लभते चाक्षयं फलम्
हरेर्नाम सहस्राख्यं गजेन्द्रस्य मोक्षणम् ।कार्त्तिके पठते यस्तु पुनर्जन्म विद्यते
कार्त्तिके पश्चिमे यामे स्तवं गानं करोति यः ।वसते श्वेतद्वीपे तु पितृभिः सह नारद !
नैवेद्यदानेन तु हरेः कार्त्तिके यवसंख्यया ।युगानि वसते स्वर्गे तावन्ति मुनिसत्तम !
अगुरुन्तु सकर्पूरं यो दहेत् केशवाग्रतः ।कार्त्तिके तु मुनिश्रेष्ठ ! युगान्ते पुनर्भवः”
किञ्च ।“नियमेन कथां विष्णोर्ये शृण्वन्ति भाविताः ।श्लोकार्द्ध्वं श्लोकपादं वा कार्त्तिके गोशतं फलम्
सर्व्वधर्म्मान् परित्यज्य कार्त्तिके केशवाग्रतः ।शास्त्रस्योच्चारणं पुण्यं श्रोतव्यञ्च महामुने !
श्रेयसा लोभबुद्ध्या वा यः करोति हरेः कथाम् ।कार्त्तिके मुनिशार्दूल ! कुलानां तारयेच्छतम्
नित्यं शास्त्रविनोदेन कार्त्तिकं यः क्षिपेन्नरः ।निर्द्दहेत् सर्व्वपापानि यज्ञायुतफलं लभेत्
तथा तुष्यते दानैर्न यज्ञैर्गोगजादिकैः ।यथाशास्त्रकथालापैः कार्त्तिके मधुसूदनः
कार्त्तिके मुनिशार्दूल ! यः शृणोति हरेः कथाम् ।स निस्तरति दुर्गाणि जन्मकोटिशतानि
यः पठेत् प्रयतो नित्यं श्लोकं भागवतं मुने ! ।अष्टादशपुराणानां कार्त्तिके फलमाप्नुयात्”
किञ्च ।“सर्व्वान् धर्म्मान् परित्यज्य इष्टापूर्त्तादिकान्नरः ।कार्त्तिके परया भक्त्या वैष्णवैः सह संवसेत्”
पाद्मे तत्रैव ।“कार्त्तिके भूमिशायी यो ब्रह्मचारी हविष्यभुक् ।पलाशपत्रे भुञ्जानो दामोदरमथार्च्चयेत्
सर्व्वपातकं हित्वा वैकुण्ठे हरिसन्निधौ ।मोदते विष्णुसदृशो भजनानन्दनिर्वृतः”
किञ्च ।“कार्त्तिकं सकलं मासं प्रांतःस्नायी जितेन्द्रियः ।जपन् हविष्यभुक् दान्तः सर्व्वपापैः प्रमुच्यते
कार्त्तिकन्तु नरो मासं यः कुर्य्यादेकभोजनम् ।शूरश्च बहुवीर्य्यश्च कीर्त्तिमांश्च जायते”
किञ्च ।“पलाशपत्रभोजी कार्त्तिके पुरुषो नरः ।निष्पापः स्यात्तु नैवेद्यं हरेभुक्त्वा विमुच्यते
मध्यस्थमैश्वरं पत्रं वर्जयेद्ब्राह्मणेतरः” ।किञ्च ।“अपराधसहस्राणि पातकानि महान्त्यपि ।क्षमतेऽस्य हरिर्द्देवः पूजितः कार्त्तिके प्रभुः
नैवेद्यं पायसं विष्णोः प्रियं खण्डं घृतान्वितम् ।विभज्य तच्च भुञ्जानो यज्ञसाम्यं दिने दिने”
तत्रैव श्रीकृष्णसत्या संवादे ।“स्नानं जागरणं दीपं तुलसीवनपालनम् ।कार्त्तिके ये प्रकुर्व्वन्ति ते नरा विष्णुमूर्त्तयः
इत्थं दिनत्रयमपि कार्त्तिके ये प्रकुर्व्वते ।देवानामपि ते वन्द्याः किंयैराजन्मतत् कृतम्”
*
तत्रैव कार्त्तिकव्रताङ्गानि ।“हरिजागरणं प्रातःस्नानं तुलसिसेवनम् ।उद्यापनं दीपदानं व्रतान्येतानि कार्त्तिके”
किञ्च ।“पञ्चभिर्व्रतकैरेभिः सम्पूर्णं कार्त्तिके व्रती ।फलमाप्नोति तत् प्रोक्तं भुक्तिमुक्तिफलप्रदम्
विष्णोः शिवस्य वा कुर्य्यादालये हरिजागरम् ।कुर्य्यादश्वत्थमूले वा तुलसीनां वनेषु
आपद्गतो यदाप्यम्भो लभेत् सवनाय सः ।व्याधितो वा पुनः कुर्य्याद्विष्णोर्न्नामापमार्ज्जनम्
उद्यापनविधिं कर्त्तुमशक्तो यो व्रते स्थितः ।ब्राह्मणान् भोजयेच्छक्त्या व्रतसम्पूर्णहेतवे
अशक्तो दीपदानस्य परदीपान् प्रबोधयेत् ।तेषां वा रक्षणं कुर्य्याद्वातादिभ्यः प्रयत्नतः
अभावे तुलसीनाञ्च पूजयेद्वैष्णवं द्विजम् ।सर्व्वाभावे व्रती कुर्य्याद्ब्राह्मणानां गवामपि
सेवां वा बोधिवटयोर्व्रतसम्पूर्णहेतवे”
*
अथ दीपदानमाहात्म्यम् स्कान्दे तत्रैव ।“कृत्वा कोटिसहस्राणि पातकानि बहून्यपि ।निमेषार्द्धेनदीपस्य विलयं यान्ति कार्त्तिके”
किञ्च ।“शृणु दीपस्य माहात्म्यं कार्त्तिके केशवप्रियम् ।दीपदानेन विप्रेन्द्र ! पुनर्जायते भुवि
रविग्रहे कुरुक्षेत्रे नर्म्मदायां शशिग्रहे ।तत् फलं कोटिगुणितं दीपदानेन कार्त्तिके
घृतेन दीपको यस्य तिलतैलेन वा पुनः ।ज्वलते मुनिशार्दूल ! अश्वमेधेन तस्य किम्
मन्त्रहीनं क्रियाहीनं शौचहीनं जनार्द्दने ।सर्व्वं सम्पूर्णतां याति कार्त्तिके दीपदानतः
तेनेष्टं क्रतुभिः सर्व्वैः कृतं तीर्थावगाहनम् ।दीपदानं कृतं येन कार्त्तिके केशवाग्रतः
तावद्गर्ज्जन्ति पुण्यानि स्वर्गे मर्त्ये रसातले ।यावन्न ज्वलते ज्योतिः कार्त्तिके केशवाग्रतः
श्रूयते चापि पितृभिर्गाथा गीता पुरा द्विज ! ।भविष्यति कुलेऽल्माकं पितृभक्तः सुतो भुति
कार्चिके दीपदानेन यस्तोषयति केशवम् ।मुक्तिं प्राप्स्यामहे नूनं प्रसादाच्चक्रपाणिनः”
किञ्च ।“मेरुमन्दरमात्राणि कृत्वा पापान्यशेषतः ।दहते नात्र सन्देहो दीपदानात्तु कार्त्तिके
गृहे वायतने वापि दीपं दद्याच्च कार्त्तिके ।पुरतो वासुदेवस्य महाफलविधायिनः
जातो मानुषो लोके धन्यः कीर्त्तिमान् ।प्रदत्तः कार्त्तिके मासि दीपो वै मधुहाग्रतः
निमिषार्द्धार्द्धमात्रेण दीपदानेन कार्त्तिके ।न तत् क्रतुशतैः प्राप्यं फलं तीर्थशतैरपि
सर्व्वानुष्ठानहीनोऽपि सर्व्वपापरतोऽपि सन् ।पूयते नात्र सन्देहो दीपं दत्त्वा तु कार्त्तिके
तन्नास्ति पातकं किञ्चित् त्रिषु लोकेषु नारद !यन्न शोधयते दीपः कार्त्तिके केशवाग्रतः
पुरतो वासुदेवस्य दीपं दत्त्वा तु कार्त्तिके ।प्राप्नोति शाश्वतं स्थानं सर्व्वावाधाविवर्ज्जितम्
यः कुर्य्यात् कार्त्तिके मासि कर्पूरेण तु दीपकम् ।द्वादश्याञ्च विशेषेण तस्य पुण्यं वदामि ते
कुले तस्य प्रसूता ये ये भविष्यन्ति नारद ! ।समतीताश्च ये केचिद् येषां सङ्ख्या विद्यते
क्रीडित्वा सुचिरं कालं देवलोके यदृच्छया ।ते सर्व्वे मुक्तिमायान्ति प्रसादाच्चक्रपाणिनः”
किञ्च ।“द्यूतव्याजेन विप्रेन्द्र ! कार्त्तिके केशवालयम् ।द्योतयेद् यो महाभाग ! पुनात्यासप्तमं कुलम्
कार्त्तिके दीपदानन्तु कुर्य्याद् यो वैष्णवालये ।धनं पुत्त्रो यशः कीर्त्तिर्भवेत्तस्य सर्व्वदा
यथा मथनाद्वह्निः सर्व्वकाष्ठेषु दृश्यते ।तथा दृश्यते धर्म्मो दीपदाने संशयः”
किञ्च ।“निर्द्धनेनापि विप्रेन्द्र ! कृत्वा चैवात्मविक्रयम् ।कर्त्तव्यं दीपदानन्तु यावत् कार्त्तिकपूर्णिमा
वैष्णवो मन्त्यव्यः संप्राप्ते कार्त्तिके मुने ! ।यो यच्छति मूढात्मा दीपं केशवसद्मनि”
नारदीये श्रीरुक्याङ्गदमोहिनीसंवादे ।“एकतः सर्व्वदानानि दीपदानानि चैकतः ।कार्त्तिके समं प्रोक्तं दीपदो ह्यधिकः स्मृतः”
पाद्मे तत्रैव
“कार्त्तिके खण्डदीपं यो ददाति हरिसन्निधौ ।दिव्यकान्तिविमानाग्रे रमते हरेः पुरे”
*
अथ तत्र परदीपप्रबोधनमाहात्म्यम् ।स्कान्दे तत्रैव ।“पितृपक्षेऽन्नदानेन ज्यैष्ठाषाढे वारिणा ।कार्त्तिके तत् फलं पुंसां परदीपप्रबोधनात्
बोधनात् परदीपस्य वैष्णवानाञ्च सेवनात् ।कार्त्तिके फलमाप्नोति राजसूयाश्वमेधयोः
दीयमानन्तु ये दीपं बोधयन्ति हरेर्गृहे ।परेण नृपशार्दूल ! निस्तीर्णा यमयातना
तद्भवति विप्रेन्द्र ! इष्टैरपि महामखैः ।कार्त्तिके यत् फलं प्रोक्तं परदीपप्रबोधनात्
एकादश्यां परैर्द्दत्तं दीपं प्रज्वाल्य मूषिका ।मानुष्यं दुर्ल्लभं प्राप्य परां गतिमवाप सा”
*
अथ शिखरदीपमाहात्म्यम् ।स्कान्दे तत्रैव ।“यदा यदा भासयते दीपकः कलसोपरि ।तदा तदा मुनिश्रेष्ठ ! द्रवते पापसञ्चयः
यो ददाति द्विंजातिभ्यो महीमुदधिमेखलाम् ।हरेः शिखरदीपस्य कलां नार्हति षोडशीम्
यो ददाति गवां कोटिं सवत्सां क्षीरसंयुताम् ।हरेः शिखरदीपस्य कलां नार्हति षोडशीम्
सर्व्वस्वदानं कुरुते वैष्णवानां महामुने ! ।शिखरोपरि दीपस्य कलां नार्हति षोडशीम्”
किञ्च ।“यः करोति परं दीपं मूल्येनापि महामुने ! ।शिखरोपरि मध्ये कुलानां तारयेच्छतम्
विमानं ज्योतिषा दीप्तं ये निरीक्षन्ति कार्त्तिके ।केशवस्य महाभक्त्या कुले तेषां नारकी
दिवि देवा निरीक्षन्ते विष्णुदीपप्रदं नरम् ।कदा भविष्यत्यस्माकं सङ्गमः पुण्यकर्म्मणा
कार्त्तिके कार्त्तिकीं यावत् प्रासादोपरि दीपकम् ।यो ददाति बुनिश्रेष्ठ ! तस्येन्द्रत्वं दुर्ल्लभम्”
*
अथ तत्र दीपमालामाहात्म्यम् ।स्कान्दे तत्रैव ।“दीपपङ्केश्च रचनां सवाह्याभ्यन्तरे हरेः ।विष्णोर्विमाने कुरुते नरः शङ्खवक्रघृत्
दीपपङ्क्तेश्च रचनां कुरुते केशवालये ।तस्यालये प्रसूतानां लक्षाणां नरकं हि
विष्णोर्व्विमानं दीपाढ्यं सवाह्याभ्यन्तरे मुने ! ।दीपोद्यतकरे मार्गे तेन प्राप्तं परं पदम्”
भविष्ये ।“यः कुर्य्यात् कार्त्तिके मासि शोभनां दीपमालिकाम् ।प्रबोधे चैव द्वादश्यामेकादश्यां विशेषतः
सूर्य्यायतप्रकाशस्तु तेजसा भासयन् दिशः ।तेजोराशिविमानस्थो जगदुद्योतयंस्त्विषा
यावत्प्रदीपसङ्ख्या तु घृतेनापूर्य्य बोधिता ।तावद्वर्षसहस्राणि विष्णुलोके महीयते”
*
अथ आकाशादिदीपमाहात्म्यम् ।पाद्मे तत्रैव ।“उच्चैः प्रदीपमाकाशे यो दद्यात् कार्त्तिके नरः ।सर्व्व कुलं समुद्धृत्य विष्णुलोकमवाप्नुयात्
विष्णुकेशवमुद्दिश्य दीपं दद्यात्तु कार्त्तिके ।आकाशस्थं जलस्थञ्च शृणु तस्यापि यत्फलम्
धनं धान्यं समृद्धिश्च पुत्त्रवानीश्वरो गृहे ।लोचने शुभे तस्य विद्वानपि जायते”
किञ्च ।“विप्रवेश्मनि यो दद्यात् कार्त्तिके मासि दीपकम् ।अग्निष्टोमफलं तस्य प्रवदन्ति मनीषिणः
चतुष्पथेषु रथ्यासु ब्राह्मणावसथेषु ।वृक्षमूलेषु गोष्ठेषु कान्तारे गहनेषु
दीपदानाद्धि सर्व्वत्र महाफलमवाप्नुयात्”
*आकाशदीपदानमन्त्रः तत्रैव ।“दामोदराय नभसि तुलायां लोलया सह ।प्रदीपन्ते प्रयच्छामि नमोऽनन्ताय वेधसे”
अथ देशविशेषे कार्त्तिकमाहात्म्यविशेषः
पाद्मे तत्रैव ।“यत्र कुत्रापि देशेऽयं कार्त्तिकः स्नानदानतः ।अग्निहोत्रसमफलः पूजायाञ्च विशेषतः
कुरुक्षेत्रे कोटिगुणो गङ्गायाञ्चापि तत्समः ।ततोऽधिकः पुष्करे स्याद्द्वारकायाञ्च भार्गव !
कृष्णुसालोक्यदो मासः पूजास्नानैश्च कार्त्तिकः ।अन्याः पूर्य्यास्तत्समाना मुनयो मथुरां विना
दामोदरत्वं हि हरेस्तत्रैवासीद्यतः किल ।मथुरायां ततश्चोर्ज्जो वैकुण्ठप्रीतिबर्द्धनः ।कार्त्तिको मथुरायां वै परमावधिरिष्यते ।यथा माघे प्रयागः स्याद्वैशाखे जाह्नवी यथा
कार्त्तिके मथुरा सेव्या ततोत्कर्षः परो हि
मथुराया नरैरूर्ज्जे स्नात्वा दामोदरोऽर्ञ्चितः ।कृष्णरूपा हि ते ज्ञेया नात्र कार्य्या विचारणा ।दुर्ल्लमः कार्त्तिको विप्र ! मथुरायां नृणामिह ।यत्रार्ञ्चितः स्वकं रूपं मक्तेभ्यः संप्रयच्छति
भुक्तिं मुक्तिं हरिर्द्दद्यादर्च्चितोऽन्यत्र सेविनाम् ।भक्तिञ्च ददात्येष यतो वश्यकरी हरेः
सा त्वञ्जसा हरैर्भक्तिर्लभ्यते कार्त्तिके नरैः ।मथुरायां सकृदपि श्रीदामोदरपूजनात्
मन्त्रद्रव्यविहीनञ्च विधिहीनञ्च पूजनम् ।मन्यते कार्त्तिके देवो मथुरायां सदर्च्चनम्
यस्य पापस्य युज्येत मरणान्ता हि निष्कृतिः ।तच्छद्ध्यर्थमिदं प्रोक्तं प्रायश्चित्तं सुनिश्चितम् ।कार्त्तिके मथुरायां वै श्रीदमोदरपूजनम्
कार्त्तिके मथुरायां वै पूजनाद्दर्शनं ध्रुवः ।शीध्रं संप्राप्तवान् बालो दुर्ल्लभं योगतत्परैः
सुलमा मथुरा भूमौ प्रत्यब्दं कार्त्तिकस्तथा ।तथापि संसरन्तीह नरा मूढा भवाम्बुधौ
किं यज्ञैः किं तपोभिश्च तीर्थैरन्यैश्च सेवितैः ।कार्त्तिके मथुरायाञ्चेदर्च्च्यते राधिकाप्रियः
यानि सर्व्वाणि तीर्थानि नदा नद्यः सरांसि ।कार्त्तिके निवसन्त्यत्र माथुरे सर्व्वमण्डले
कार्त्तिके जन्मसदने केशवस्य ये नराः ।सकृत्प्रविष्टाः श्रीकृष्णं ते यान्ति परमव्ययम्
परोपहासम्द्दिश्य कार्त्तिके हरिपूजया ।मथुरायां लभेद्भक्तिं किं पुनः श्रद्धया नरः”
इति
“इत्थं कार्त्तिककृत्यानि व्यक्तान्येव स्वतोऽभवन् ।तत्र किञ्चिद्विशेषेण तद्विधिर्लिख्यतेऽधुना”
*
अथ कार्त्तिककृत्यविधिः तत्रोपक्रमकालश्चोक्तःश्रीकृष्णसत्यासवादीयकार्त्तिकमाहात्म्ये ।“आश्विनस्य तु मासस्य या शुक्लैकादशी भवेत् ।कार्त्तिकस्य व्रतानीह तस्यां कुर्य्यादतन्द्रितः
नित्यं जागरणायान्ते यामे रात्रेः समुत्थितः ।शुचिर्भूत्वा प्रबोध्याथ स्तोत्रैर्नोराजयेत् प्रभुम्
निशम्य वैष्णवान् धर्म्मान् वैष्णवैः सह हर्षितः ।कृत्वा गीतादिकं प्रातर्देवं नीराजयेत् पुनः
नद्यादौ ततो गत्वाचम्य सङ्कल्पमाचरेत् ।प्रभुं प्रार्थ्याथ तस्मै दद्र्यावर्घ्यं यथाविधि
तत्र सङ्कल्पमन्त्रः ।“कार्त्तिकेऽहं करिष्यामि प्रातःस्नानं जनार्दन ! ।प्रीत्यर्थं तव देवेश दामोदर ! मया सह”
प्रार्थनमन्त्रस्तु ।“तव ध्यानेन देवेश ! जलेऽस्मिन् स्नातुमुद्यतः ।त्वत्प्रसादाच्च मे पापं दामोदर ! विनश्यतु”
अर्घ्यमन्त्रः ।“व्रतिनः कार्त्तिके मासि स्नातस्य विधिवन्मम” ।अर्घ्यं गृहाण देवेश ! नमामि त्वां सुरेश्वर !”
काशोखण्डे ।“व्रतिनः कार्त्तिके मासि स्नातस्य विधिवन्मम ।दामोदर ! गृहाणार्घ्यं दनुजेन्द्रनिसूदन !
नित्ये नैमित्तिके कृत्स्ने कार्त्तिके पापशोषणे ।गृहाणार्घ्यं मया दत्तं राधया सहितो हरे !”
*
“तिलैरालिप्य देहं स्वं नामोच्चारणपूर्व्वकम् ।स्नात्वा विधिना सन्ध्यामुपास्य गृहमाव्रजेत्
उपलिप्याथ देवाग्रे निर्म्माय स्वस्तिकं प्रभुम् ।तुलसीमालतीपद्मागस्त्यपुष्पादिनार्च्चयेत्
नित्यं वैष्णवसङ्गत्या सेवेत भगवत्कथाम् ।सर्पिषाहर्न्निशं दीपं तिलतैलेन चार्च्चयेत्
विशेषतश्च नैवेद्यान्यर्पयेदाचरेत्तथा ।प्रणामांश्च यथाशक्त्या एकभक्तादिकं व्रतम्”
तथा पाद्मे तत्रैव ।“प्रातरुत्थाय शौचादि कृत्वा गत्वा जलाशये ।कृत्वा विधिवत् स्नानं ततो दामोदरार्च्चनम्”
किञ्च ।“मौनेन भोजनं कार्य्यं कार्त्तिके व्रतधारिणा ।घृतेन दीपदानं स्यात्तिलतैलेन वा पुनः
दिनञ्च कृष्णकथया वैष्णवानाञ्च सङ्गमैः ।नीयतां कार्त्तिके मासि सङ्कल्पव्रतपालनम्
आश्विने शुक्लपक्षस्य प्रारम्भो हरिवासरे ।अथ वा पौर्णमासीतः संक्रान्तौ वा तुलागमे
दीपदानमखण्डञ्च दद्याद्वै विष्णुसन्निधौ ।देवालये तुलस्यां वा आकाशे वा तदुत्तमम्”
किञ्च ।“रजत कनकं दीपान् मणिमुक्ताफलादिकम् ।दामोदरस्य प्रीत्यर्थं प्रदद्यात् कार्त्तिके नरः”
स्कान्दे श्रीरुक्माङ्गदमोहिनीसंवादे ।“न गृहे कार्त्तिके कुर्य्याद्विशेषेण तु कार्त्तिकीम् ।तीर्थेतु कार्त्तिकीं कुर्य्यात् सर्व्वयत्नेन भाविनि !”
*
अथ कार्त्तिके वर्ज्यानि ।तत्रैवब्रह्मनारदसंवादे ।“कार्त्तिके तु विशेषेण राजमाषांश्च भक्षयन् ।निष्पावान् मुनिशार्दूल ! यावदाहूतनारकी
कलिङ्गानि पटोलानि वृन्ताकं सन्धितानि ।न त्यजेत् कार्त्तिके मासिं यावदाहूतनारकी
कार्त्तिके मासि धर्म्मात्मा मत्स्यमांसं भक्षयेत् ।तत्रैव यत्नतस्त्याज्यं शाशकं शौकरं तथा”
किञ्च ।“परान्नं परशय्याञ्च परवादं पराङ्गनाम् ।सर्व्वदा वर्ज्जयेत् प्राज्ञो विशेषेण तु कार्त्तिके
तैलाभ्यङ्गं तथा शय्यां परान्नं कांस्यभोजनम् ।कार्त्तिके वर्ज्जयेद्यस्तु परिपूर्णव्रती भवेत्
संप्राप्तं कार्त्तिकं दृष्ट्वा परान्नं यस्तु वर्ज्जयेत् ।दिने दिने तु कृच्छ्रस्य फलं प्राप्नोति मानवः”
तत्रैव श्रीरुक्माङ्गदमोहिनीसंवादे ।“कार्त्तिके वर्ज्जयेत्तैलं कार्त्तिके वर्ज्जयेन्मधु ।कार्त्तिके वर्ज्जयेत् कांस्यं कार्त्तिके शुक्लसन्धितम्
मात्स्यं भक्षयेन्मांसं कौर्म्मं नान्यदेव हि ।चाण्डालः भवेत् सुभ्रु ! कार्त्तिके मांसभक्षणात्”
अथ श्रीराधादामोदरपूजाविधिः पाद्मे तत्रैव ।“ततः प्रियतमा विष्णो राधिका गोपिकासु ।कार्त्तिके पूजनीया श्रीदामोदरसन्निधौ
द्विजं दामोदरं कृत्वा तत्पत्नीं राधिकां तथा ।कार्त्तिके पूजनीयौ तौ वासोऽलङ्कारभोजनैः
राधिकाप्रतिमां विप्राः पूजयेत् कार्त्तिके तु यः ।तस्य तुष्यति तत्प्रीत्यै श्रीमान् दामोदरो हरिः”
“दामोदराष्टकं नाम स्तोत्रं दामोदरार्च्चने ।नित्यं दामोदराकर्षि पठेत् सत्यव्रतोदितम्”
*
अथ श्रीदामोदराष्ठकम् तत्रैव ।“नमामीश्वरं सच्चिदानरूपंलसत्कुण्डलं गोकुले म्राजमानम् ।यशोदाभियोलूखलाद्धावमानंपरामृष्टमत्यन्ततो द्रुत्य गोप्या
रुदन्तं मूहुर्न्नेत्रयुग्मं मृजन्तंकराम्भोजयुग्मेन सातङ्कनेत्रम् ।मुहुः श्वासकम्पत्रिरेखाङ्ककण्ठ-स्थितग्रैवदामोदरं भक्तिबन्धम्
इतीदृक् स्वलीलाभिरानन्दकुण्डेस्वघोषं निमज्जन्तमाख्यापयन्तम् ।तदीये शितज्ञेषु भक्तैर्ज्जितत्वंपुनः प्रेमतस्त्वां शतावृत्ति वन्दे
वरं देव मोक्षं मोक्षावधिं वान चान्यं वृणेऽहं वरेशादपीह ।इदन्ते वपुर्नाथ गोपालबालंसदा मे मनस्याविरास्तां किमन्यैः
इदन्ते मुखाम्भोजमत्यन्तनीलै-र्वृतं कुन्तलैः स्निग्धरक्तैश्च गोप्या ।मुहुश्चुम्बितं विम्बरक्ताधरं मेमनस्याविरास्तामलं लक्षलाभैः
नमो देव ! दामोदरानन्त ! विष्णो !प्रसीद प्रमो ! दुःखजालाब्धिमग्नम् ।कृपादृष्टिवृष्ट्यातिदीनं वतानु-गृहाणेश मामङ्ग मेऽध्यक्षिदृश्यः
कुवेरात्मजौ बद्धमूर्त्त्यैव यद्व-त्त्वया मोचितौ भक्तिभाजौ कृतौ ।तथा प्रेमभक्तिं स्वकां मे प्रयच्छन मोक्षे ग्रहो मेऽस्ति दामोदरेह
नमस्तेऽस्तु दाम्ने स्फुरद्दीप्तिधाम्नेत्वदीयोदरायाथ विश्वस्य धाम्ने ।मनो राधिकायै त्वदीयप्रियायै-नमोऽनन्तलीलाय देवाय तुभ्यम्”
*
अथ तत्र श्रीकृष्णाष्टमीकृत्यम् ।पाद्मे तत्रैव ।“गोवर्द्धने गिरौ रम्ये राधाकुण्डं प्रियं हरेः ।कार्त्तिके बहुलाष्टम्यां तत्र स्नात्वा हरेः प्रियः
नरो भक्तो भवेद्विप्रास्तद्धि तस्य प्रतोषणम्
यथा राधा प्रिया विष्णोस्तस्याः कुण्डं प्रियं तथा ।सर्व्वगोपीषु सैवैका विष्णोरत्यन्तवल्लभा”
किञ्च तत्रैव श्रीराधिकोपाख्यानान्ते ।“वृन्दावनाधिपत्यञ्च दत्तं तस्याः प्रतुष्यता ।कृष्णेनान्यत्र देवी तु राधा वृन्दावने वने
तत्कुण्डे कार्त्ति काष्टम्या स्नात्वा पूज्यो जनार्द्दनः ।सुबोधन्यां यथा प्रीतस्तथा प्रीतस्ततो भवेत्”
*
अथ तत्र कृष्णत्रयोदशीकृत्यम् ।पाद्मे तत्रैव ।कार्त्तिके कृष्णपक्षे तु त्रयोदश्यां निशामुखे ।यमदीपं वहिर्द्दद्यादपमृत्युर्विनश्यति”
तत्र मन्त्रः ।“मृत्युना पाशदण्डाभ्यां कालः श्यामलया सह ।त्रयोदश्यां दीपदानात् सूर्य्यजः प्रीयतामिति”
*
अथ कृष्णचतुर्द्दशीकृत्यम् तत्रैव ।“चतुर्द्दश्यां धर्म्मराजपूजा कार्य्या प्रयत्नतः ।स्नानमावश्यकं कार्य्यं नरैर्नरकभीरुभिः
अरुणोदयतोऽन्यत्र रिक्तायां स्नाति यो नरः ।तस्याब्दिकभवो धर्म्मो नश्यत्येव संशयः”
स्कान्दे तत्रैव ।“कार्त्तिके कृष्णपक्षे तु चतुर्द्दश्यां विधूदये ।अवश्यमेव कर्त्तव्यं स्नानं नरकभीरुभिः”
किञ्च पाद्मे तत्रैव ।“ततश्च तर्पणं कार्य्यं धर्म्मराजस्य नामभिः ।जीवत्पिता कुर्व्वीत तर्पणं यमभीष्मयोः
यज्ञोपवीतिना कार्य्यं प्राचीनावीतिना तथादेवत्वञ्च पितृत्वञ्च यमस्यास्ते द्विरूपता
नक्तं यमचतुर्द्दश्यां यः कुर्य्याच्छिवसन्निधौ ।न तत् क्रतुशतेनापि प्राप्यते पुण्यमीदृशम्
कुमारीवटुकान् पूज्य तथा शैवतपोधनान् ।राजसूयफलं तेन प्राप्यते नात्र संशयः
कार्त्तिके भौमवारेण चित्रा कृष्णा चतुर्द्दशी ।तस्यां भूतेशमभ्यर्च्च्य गच्छेच्छिवपुरं नरः”
किञ्च ।“अमावस्याचतुर्द्दश्योः प्रदोषे दीपदानतः ।यममार्गान्धकारेभ्यो मुच्यते कार्त्तिके नरः”
*
अथामावास्याकृत्यम् पाद्मे तत्रैव ।“दिवा तत्र भोक्त्वव्यं विना बालातुरान् जनान् ।प्रदोषसमये लक्ष्मीं पूजयेञ्च यथाक्रमम्”
किञ्च ।“प्रदोषसमये विप्राः कर्त्तव्या दीपमालिका ।दीपदानात् ततः पश्चाल्लक्ष्मीं सुप्तां प्रबोधयेत्
त्वं ज्योतिः श्रीरविश्चन्द्रो विद्युत् सौवर्णतारकाः ।सर्व्वेषां ज्योतिषां ज्योतिर्दीपज्योतिःस्थिते नमः
मन्त्रेणानेन कमलां दीपहस्ताः श्रियो द्विजाः ।देवीं प्रबोधयेयुश्च ततः कुर्य्युश्च भोजनम्
प्रदोषसमये लक्ष्मीं भोजयित्वा भुनक्ति यः ।पुमान् संवत्सरं यावत् लक्ष्मीस्तं नैव मुञ्चति”
*
अथामावास्यानिर्णयः यथा निर्णयामृते ।उपवासादिष्वमावास्या प्रतिपद्युतैव ग्राह्यातदुक्तम् ।“अमावास्या तृतीया सा उपोष्या परान्विता”
इति चतुर्द्दशीविद्धानिषेधश्च निगमे ।“भूतविद्धा त्वमावास्या निष्फलं स्यात्त्रयं त्विदम्” ।स्कान्देऽपि ।“भूतविद्धा त्वमावास्या ग्राह्या मुनिपुङ्गवैः”
अथ शुक्लप्रतिपत्कृत्यम् स्कान्दे ।“प्रातर्गोवर्द्धनं पूज्य द्यूतञ्चैव समाचरेत् ।भूषणीयास्तथा गावः पूज्याश्च दोहवाहनाः
श्रीकृष्णदासवर्य्योऽयं श्रीगोवर्द्धनभूधरः ।शुक्लप्रतिपदि प्रातः कार्त्तिकेऽर्च्च्योऽत्र वैष्णवैः”
“प्रातर्गोवर्द्धनं पूज्य रात्रौ जागरणं चरेत्” इतिक्वचित् पाठः तस्मात्तदिदं कर्म्म गोवर्द्धनप्राधा-न्येन गोप्राधान्येन ख्यातमप्येकमेव ज्ञेयम् ।अत्र दिननिर्णयः यदाह देवलः ।“प्रतिपद्दर्शसंयोगे क्रीडनन्तु गवां मतम् ।परविद्धान्तु यः कुर्य्यात् पुत्त्रदारधनक्षयः”
निर्णयामृतधृतपुराणान्तरवचनम् ।“या कुहूः प्रतिपन्मिश्रा तत्र गाः पूजयेन्नृप ! ।पूजामात्रेण वर्द्धन्ते प्रजा गावो महीपतेः”
ततः प्रातर्गोवर्द्ध्वनं पूज्येति पूर्व्वाह्नतात्पर्य्यकम् ।द्वितीयासमये तु सर्व्वथा निषिद्धम् ।तत्रैव तद्यथा ।“नन्दायां दर्शने रक्षाबलिदानदशासु ।भद्रायां गोकुलक्रीडा देशनाशाय जायते”
पुराणसमुच्चये तु सम्भावितचन्द्रोदयद्वितीयासं-योग एव निषिध्यते ।“गवां क्रीडादिने यत्र रात्रौ दृश्येत चन्द्रमाः ।सोमो राजा पशून् हन्ति सुरभीपूजकांस्तथा”
तदुदयसम्भावनञ्च निर्णयामृते निर्णीतम् ।प्रतिपद्यापराह्निकत्रिमुहूर्त्तव्यापिन्यां द्वितीयायांचन्द्रदर्शनं सम्भाव्यते तदुक्तमग्न्याधानविषयेवृद्धशातातपेन ।“द्वितीया त्रिमुहूर्त्ता चेत् प्रतिपद्यापराह्णिकी ।अग्न्याधानञ्चतुर्द्दश्यां परतः सोमदर्शनात्”
इतिअपराह्णश्च पञ्चधाविभक्तस्याह्नश्चतुर्थो भागः ।ततश्च यत्र प्रतिपदि षन्मुहूर्त्त व्यापिनी द्वितीयातत्र चन्द्रदर्शनसम्भावनमिति अन्यदा तूत्तरैवप्रतिपत्तत्र गृहीता तथैव पुराणसमुच्चये ।“वर्द्धमानतिथौ नन्दा यदा सार्द्धत्रियामिका ।द्वितीयवृद्धिगामित्वादुत्त्रा तत्र चोच्यते”
किञ्च यदा पूर्णप्रतिपत् परत्र निष्क्रामतितदाप्युत्तरैव कार्य्या यथोक्तं भविष्योत्तरे ।“यथा द्वादशभिर्म्मासैर्म्मासो वृद्धो मलिम्लुचः ।तथैवाहोरात्रिवृद्ध्या तिथिः प्रोक्तो मलिम्लुचः
यथा मलिम्लुचः पूर्व्वा मासो दैवस्तथापरः ।त्याज्या तिथिस्तथा पूर्व्वा ग्राह्या चैव तथोत्तरा”
इति निर्णयामृतमतम् किन्तु बञ्जुलीन्यायेनपूर्व्वैव मन्तुं शक्यते तद्वदवापि देवलादि वचन-प्रामाण्यमस्तीति
*
अथ गोवर्र्द्धनपूजाविधिः पाद्मे तत्रैव ।“मथुरायां तथान्यत्र कृत्वा गोवर्द्धनं गिरिम् ।गोमयेन महास्थलं तत्र पूज्यो गिरिर्यथा
मथुरायां तथा साक्षात् कृत्वा चैव प्रदक्षिणम् ।वैष्णवं धाम संप्राप्य मोदते हरिसन्निधौ”
पूजामन्त्रः ।“गोवर्द्धनधराधार गोकुलत्राणकारक ! ।विष्णुबाहुकृतोच्छ्राय गवां कोटिप्रदो भव”
इतिगोपूजामन्त्रः स्कान्दे तत्रैव ।“लक्ष्मी र्या लोकपालानां धेनुरूपेण सस्थिता ।घृतं वहति यज्ञार्थं यमपाशं व्यपोहतु
अग्रतः सन्तु मे गावो गावो मे सन्तु पृष्ठतः ।गावो मे पार्श्वतः सन्तु गवां मध्ये वसाम्यहम्”
अथ गोक्रीडा तत्रैव ।“क्रोधापयेद्ध्वावयेच्च गोमहिष्यादिकं ततः ।वृषान् कर्षापयेद्गोपैरुक्तिप्रत्युक्तिवादनात्”
पाद्मे तत्रैव ।“महिष्यादेस्तथा भूषा क्रीडनं वारणन्तथा” ।तन्माहात्म्यञ्च तत्रैव ।“एवं गोवर्द्धनं गाश्च पूजनीया विधानतः ।गोवर्द्धनमखो रम्यः कृष्णसन्तोषकारकः”
*
अथ श्रीबलिदैत्यराजपूजा ।“लिखित्वा श्रीबलिं पट्टे विन्ध्यावल्यान्वितं मुदा ।प्रदोषे तत्प्रतिपदो भगवद्भक्तमर्च्चयेत्”
तथा स्कान्दे ।“बलिमालिख्य दैत्येन्द्रं वर्णकैः पञ्चरङ्गकैः ।सर्व्वाभरणसम्पूर्णं विन्ध्यावल्या सहासितम्
कुष्माण्डमयजम्भोरु मुरदानवसंवृतम् ।सम्पूर्णहृष्टवदनं किरीटोत्कटकुण्डलम्
द्विभुजं दैत्यराजानं कारयित्वार्च्चयेन्नृप !” ।तत्पूजाकारणम् पाद्मे तत्रैव ।“यथार्पितं देहमनेन विष्णवेभीतेन मिथ्यावचसो महात्मना ।दैत्येन तेनाथ कठोरचेष्टयाबद्धो बलिर्व्वामनमूर्त्तिना वत
बद्ध्वानीतोऽथ पातालं विमनाः खिन्नमानसः ।नाभ्यसूयद्धरिं दैत्यस्त्यक्ताहंममतः सुधीः
तदोवाच हरिः प्रीतस्तस्मै दैत्याय भागकृत्
अश्रोत्रिये दत्तममन्त्रकं हुतंजप्तं तथा व्यग्रधिया जनेन यत् ।तथोर्ज्जशुक्लप्रतिपद्दिनेन तुत्वामर्च्चयेत्तत्सुकृतं तवास्तु
इति तस्मै वरो दत्तो हरिणा दितिजाय ।ततोऽवश्यं प्रपूज्योऽसौ बलिराजदिने मुदा
कृष्णसान्निध्यतश्चापि पूजनीयः प्रयत्नतः”
*
अथ बलिपूजाविधिः स्कान्दे तत्रैव ।“गृहस्य मध्ये शालायां विशालायां ततोऽर्च्चयत् ।भ्रातृमातृजनैः सार्द्धं सन्तुष्टो बन्धुभिस्तथा
कमलः कुमुदैः पुष्पैः कह्लारै रक्तकोत्पलैः ।गन्धपुष्पादिनैवेद्यैरक्षतैर्गुडपूपकैः”
तत्र पूजामन्त्रः ।“बलिराज ! नमस्तुभ्यं विरोचनसुतप्रभो ! ।भविष्येन्द्रसुराराते ! पूजेयं प्रतिगृह्यताम्
दीपोत्सवैर्जनितसर्व्वजनप्रमोदैःकुर्व्वन्ति ये सुमतयो बलिराजपूजाम् ।दानोपभोगसुखवृद्धिशताकुलानांनूनं प्रयाति सकलं प्रमुदैव वर्षम्”
अथ यमद्वितीयाकृत्यम् स्कान्दे पाद्मे ।“ऊर्ज्जे शुक्लद्वितीयायां मध्याह्ने यममर्च्चयेत् ।स्नानं कृत्वा भानुजायां यमलोकं पश्यति”
किञ्च ।“तस्यां निजगृहे विप्र ! भोक्तव्यं ततो बुधैः ।स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनम्
दानानि प्रदेयानि भगिनीभ्यो विधानतः ।सर्व्वा भगिन्यः संपूज्या अभावे प्रतिपत्नजाः”
किञ्च ।“यस्यां तिथौ यमुनया यमराजदेवःसंभोजितस्त्वतिशयस्वसृसौहृदेन ।तस्यां स्वसुः करतलादिह यो मुनक्तिप्राप्नोति वित्तसुभगं धनमुत्तमं सः”
*
अथ शुक्लाष्टमीकृत्यम् ।पाद्मे तत्रैव कूर्म्मपुराणे ।“कार्त्तिके शुक्लपक्षे तु स्मृता गोपाष्टमी बुघैः ।तद्दिने वासुदेवोऽभूद्गोपः पूर्व्वन्तु वत्सपः ।तत्र कुर्य्याद्गवां पूजां गोग्रासं गोप्रदक्षिणम् ।गवानुगमनं कार्य्यं सर्व्वान् कामानभीप्सता
”प्रबोधनीकृत्यं तत्शब्दे द्रष्टव्यम् इति श्रीगोपालभट्टविलिखिते लिखिते भगवद्भक्तिविलासेश्रीदामोदरप्रियो नाम १६ षोडशविलासः
तत्र जातस्य फलम् ।“दक्षः क्रये विक्रयणे धनाट्यःस्याद्वावदूकोऽखिलकौशलज्ञः ।यः कार्त्तिके कार्त्तिकरूपधारीजातो भवेद्युद्धविशारदश्च”
इति कोष्ठीप्रदीपः
*
वर्षविशेषः कृत्ति-कारोहिण्योरेकतरस्मिन् वृहस्पतेरस्तोदयैकतर-सम्बन्धे भवति इति मलमासतत्त्वम्
कार्त्तिकेययथा, -- ब्रह्मवैवर्त्ते गणेशखण्डम्
“दृष्ट्वा तान् कृत्तिकाः सर्व्वा भयविह्वलमानसाः ।कार्त्तिकं कथयामासुर्ज्वलन्तं ब्रह्मतेजसा”
वाचस्पत्यम्
Sanskrit
कार्त्तिक
पु०
कृत्तिकानक्षत्रेण युक्ता पौर्णमासी कृत्तिका +अण् ङीप् कार्त्तिकी साऽस्मिन् मासे अण् पक्षे ठक् वैशाखावधिके सप्तमे चान्द्रेमासे यन्मासीयपौर्णमास्यां कृत्ति-कानक्षत्रसम्बन्धः सम्भवति तादृशे मासे तस्य यथा तथात्वं तथा सू० सि० रङ्गनाथाभ्यां दर्शितं यथा“नक्षत्रनाम्ना मासास्तु ज्ञेयाःपर्वान्तयोगतः” सू० सि० ।“माससञ्ज्ञा महानक्षत्रनाम्नेति पर्वान्तयोगतः पर्वान्तःपूर्णिमान्तः तस्य योगात्तत्सम्बन्धात् नक्षत्रसंज्ञया मासाः ।तुकाराच्चान्द्रामासा ज्ञेया इति तात्पर्यार्थः तथा हियद्दर्शान्तावधिकश्चान्द्रो मासस्तदभ्यन्तरस्थितपूर्णिमान्तस्थित-चन्द्रनक्षत्रसञ्ज्ञः यथाचित्रासम्बन्धाच्चैत्रः विशाखास-म्बन्धाद्वैशाखः ज्येष्ठासम्बन्धाज्ज्यैष्ठः आषाढासम्ब-न्धादाषाढः श्रवण सम्बन्धाच्छ्रावणः भाद्रपदासम्ब-न्धाद्भाद्रपदः अश्विनीसम्बन्धादाश्विनः कृत्तिकासम्ब-न्धात् कार्तिकः मृगशीर्षसम्बन्धान्मार्गशीर्षः पुष्यसम्बन्धात्पौषः मघासम्बन्धान्माघः फाल्गुनीसम्बन्धात् फाल्गुनइति ननु पूर्णिमान्ते तत्तन्नक्षत्राभावे कथं तत्सञ्ज्ञामासानामुचितेत्यत आह” रङ्ग० ।“कार्तिक्यादिषु संयोगे कृत्तिकादि द्वयं द्वयम् अन्त्यो-पान्त्यौ पञ्चमश्च त्रिधा मासत्रयं स्मृतम्” सू० सि० ।“नक्षत्रसंयोगार्थमिति निमित्तसप्तमी कार्तिक्यादिषुकार्तिकमासादीनां पौर्णमासीष्वित्यर्थः कृत्तिकादि द्वयंद्वयं नक्षत्रं कथितं कृत्तिकारोहिणीभ्यां कार्तिकः मृगा-र्द्राभ्यां मार्गशीर्षः पुनर्वसुपुष्याभ्यां पौषः अश्लेषाम-घाभ्यां माघः चित्रास्वातीभ्यां चैत्रः विशाखानुरा-धाभ्यां वैशाखः ज्येष्ठामूलाभ्यां ज्यैष्ठः पूर्वोत्तराषा-ढाभ्यामाषाढः श्रवणधनिष्ठाभ्यां श्रावण इति फलितम् ।अवशिष्टमासानामाह अन्त्योपान्त्याविति अत्र कार्ति-कस्यादित्वेन ग्रहादन्त्य आश्विनः उपान्त्यो भाद्रपदः ।एतौ मासौ पञ्चमः फालगुनः चकारः समुच्चयः इतिमासत्रयं त्रिधा स्थानत्रय उक्तम् रेवत्यश्विनीभरणीतिनक्षत्रत्रयसम्बन्धादाश्विनः शततारापूर्वोत्तराभाद्रपदेतिनक्षत्रत्रयसम्बन्धाद्भाद्रपदः पूर्वोत्तराफाल्गुनीहस्तेति नक्ष-त्रत्रयसम्बन्धात् फाल्गुन इति सिद्धम्” रङ्गनाथ ।आन्द्रकार्त्तिकत्वञ्च तुलाराशिस्थरव्यारब्धशुक्लप्रतिपदा-दिदर्शान्तत्वम् “मीनादिस्थो रविर्य्येषामारम्भप्रथमक्षणे ।भवेत्तेऽब्दे चान्द्रमासाश्चैत्राद्या द्वादश स्मृताः” व्यासवचनात् तुलास्थरविके तादृशे सौरमासे तल्लक्षणन्तुतुलास्थरविकत्रिं शद्दिनत्वं सौरकार्त्तिकत्वम् “चन्द्रमाःकृष्णपक्षान्ते सूर्य्येण सह युज्यते सन्निकर्षादथारभ्यसन्निकर्षमथापरम् चन्द्रार्कयोर्बुधैर्मासश्चन्द्रैत्यभि-धीयते आदित्यराशिभोगेन सौरोमासः प्रकीर्त्तितः”इति विष्णुध० वचनात् “चण्डालो जायते राजन्!कार्त्तिके मांसभक्षणात्” पद्म
पु०
“शेते विष्णुः सदाषाढेभाद्रे परिवर्त्तते कार्त्तिके परिबुध्येत शुक्लपक्षेहरेर्दिने” मत्स्यपु० तत्र नानार्थशब्दानामेकत्र शक्ति-रन्यत्र लक्षणेति सिद्धान्तात् चान्द्रे मुख्यत्वम्, सौरे गौण-त्वमिति रघु० उभयत्र शक्तिरिति कालमाधवीयेस्थितम् मासशब्दे विवृतिः एवं मार्गादीनां चान्द्र-सौरलक्षणमूह्यम् कृत्तिकानक्षत्रयुक्तपौर्ण्णमासीघटितेअर्द्धमासात्मके तत्पक्षे “नक्षत्रेण युक्तः कालः”“सास्मिन् पौर्ण्णमासीति संज्ञायाम्” पा० व्या० जया-दित्येन अस्मिन्निति दशरात्रादिव्यावृर्त्त्यर्थं मासार्द्धमास-संवत्सराणामिय संज्ञेति व्याख्याय उदाहृतं पौषो-मासः पोषोऽर्द्धमासः पौषः संवत्सर इति” गुरोःकृत्तिकारोहिण्योरन्यतरनक्षत्रेण पर्वान्तयोगे गुरोरस्तो-दयोपलक्षिते वर्षे यथोक्तं सू० सि० रङ्गनाथाभ्याम्“अथ प्रसङ्गात् कार्तिकादिवृहस्पतिवर्षाण्याह” रङ्ग० ।“वैशाखादिषु कृष्णे योगः पञ्चदशे तिथौ कार्तिका-दीनि वर्षाणि गुरोरस्तोदयात् तथा” सू० सि० ।“यथा पौर्णमास्यां नक्षत्रसम्बन्धेन तत्सञ्ज्ञो मासोभवति तथेति समुच्चयार्थकम् वृहस्पतेः सूर्यसान्निध्यदू-रत्वाभ्यामस्तादुदयाद्वा वैशाखादिषु द्वादशसु मासेषु कृष्ण-पक्षे पञ्चदशे तिथौ अमायामित्यर्थः चकारः पौर्ण-मासीसम्बन्धसमुच्चयार्थकः योगे उक्तनक्षत्रमम्बन्धे--कार्ति-कादीनि द्वादश वर्षाणि भवन्ति वैशाखकृष्णपक्षीया-मायां वृहस्पतेरस्त उदये वा जाते सति तदादिवृहस्पतिर्वषं कृत्तिकादिनक्षत्रसंबन्धात् कार्तिकस--ञ्-ज्ञम् एवं ज्यैष्ठाषाढश्रावणभाद्रपदाश्विनमार्गशीर्षपौष-माघफाल्गुनचैत्रामादिषु मृगपुष्यमघापूफाचित्राविशाखा-ज्येष्ठापूर्वाषाश्रवणपूभाश्विनीदिन नक्षत्रसम्बन्धान्मार्ग शीर्षा-दीनि भवन्ति अत्रापि प्रोक्तनक्षत्रद्वयत्रयसम्बन्धः प्रागु-क्तो बोध्यः अमेत्याद्युपलक्षणम् तेन यद्दिने बृह-स्पतेरुदयोऽस्तो वा तद्दिने यच्चन्द्राधिष्ठितनक्षत्रं तत्स-ञ्ज्ञं बार्हस्पत्यं वर्षं भवतीति तात्पर्यम् संहिताग्रन्थऽ-स्तोदयवशाद्वर्षोक्तिः परमिदानीमुदयवर्षव्यवहारो गणकै-र्गण्यते “येनोदितेज्य” इत्युक्तेरिति” रङ्ग० ।तस्य विवृतिः मलमासतत्त्वे यथा“यथा मासानां पौर्णमास्यां कृत्तिकादिसम्बन्धात् कार्त्ति-कादित्वं तथा वर्षाणां वृहस्पतेरस्तोदयसम्बन्धात् कार्त्तिका-दित्वम् तेन कृत्तिकारोहिण्योरेकतरस्मिन् वृहस्पतेरस्तो-दयैकतरलाभे कार्त्तिकवर्षम् एवं मार्गशीर्षादि यत्र वर्ष-द्वयघटकयोनेक्षत्रयोरेकतरस्मिन्नस्तं गतोगुरुरन्यस्मिन्नदेतितत्र का गतिरेति चेत् कार्त्तिकोत्तरं मार्गशीर्षंमार्गशीर्षोत्त्रं पौषमित्यादिकमाद्गतिः”वार्हस्पत्यवर्षप्रयोजनमुक्तं सू० सि० “वार्हस्पत्येन षष्ठ्यब्दंज्ञेयं नान्यैस्तु नित्यशः” षष्ठ्यब्दं प्रभवादिवर्षाणि ।यथा कार्त्तिकशब्दस्य कार्त्तिकीयुक्तार्द्धमासपरत्वं वर्षभेदपरत्वं जयादित्येन दर्शितं तथा आग्रहायणाश्विना-षाढ शब्दानामपि तादृशपौर्ण्णमार्साघटितपक्षवत्सरपरत्वंपूर्व्वमनुक्तमपि ज्ञेयम् ।कृत्तिकाणामयं पोष्यत्वेन अण् अग्नौ निषिक्तरुद्र-तेजोजाते स्कन्दे देवे तस्य कृत्तिकापोष्यत्वकथा चभा० आनु० ८४ अ० यथा ।“शूलपाणेभर्ग वतो रुद्रस्य महात्मनः गिरौहिमवति श्रेष्ठे तदा भृगुकुलोद्वह देव्या विवाहे निर्वृत्तेरुद्राण्या भृगुनन्दन! समागमे भगवतो देव्या सह महा-त्मनः ततः सर्व्वे समुद्विग्ना देवं रुद्रमुपागमन् तेमहादेवमासीनं देवीञ्च वरदामुमाम् प्रसाद्य शिरसा सर्व्वेरुद्रमूचुर्भृगूद्वह! अयं समागसो देव! देव्या सह तवा-नघ! तपस्विनस्तपस्विन्या तेजस्विन्याऽतितेजसः अमो-घतेजास्त्वं देव! देवी चेयमुमा तथा अपत्यं युवयोर्द्देव!बलवद्भविता विभो! तन्नूनं त्रिषु लोकेषु कञ्चिच्छे-षयिष्यति तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन! ।वरं प्रयच्छ लोकेश! त्रैलोक्यहितकाम्यया अपत्यार्थंनिगृह्णीष्वतेजः परमकं विभो! त्रैलोक्यसारौ हि युवां, लोकं सन्तापयिष्यथः तदपत्यं हि युवयोर्द्देवानभिभवे-द्ध्रुवम् हि ते पृथिवी देवी नच द्यौस्त्रिदिवं विभो! ।नेदं धारयितुं शक्ताः समस्ता इति नो मतिः तेजः प्र-भावनिर्द्दग्धं तस्मात् सर्व्वमिदं जगत् तस्मात् प्रसादंभगवन! कर्त्तुमर्हसि नः प्रभो! देव्यां सम्भवेत्पुत्त्रोभवतः सुरसत्तम! धैर्य्यादेव निगृह्लीष्व तेजो ज्वलित-मुत्तमम् इति तेषां कथयतां भगवान् गोवृषध्वजः ।एवमस्त्विति देवांबवान् विप्रर्षे प्रत्यभाषत इत्युक्त्वा चोर्द्ध्व-मनयद्रेतो वृषभवाहनः ऊर्द्ध्वरेताः समभवत्ततः प्रभृतिचापि सः रुद्राणी तु ततः क्रुद्धा प्रजोच्छेदे तथा कृते ।देवानथाब्रवीत्तत्र स्त्रीभावात् परुषं वचः यस्मादपत्य-काभो वै भर्त्ता मे विनिवर्त्तितः तस्मात् सव्व सुरा यूय-भनपत्या भविष्यथि प्रजोच्छदो मम कृतो यस्माद्यष्माभिरद्य वै तस्मात् प्रजा वः खगमाः सर्व्वेषां नभविष्यति पावकस्तु तत्रासीच्छापकाले भृगूद्वह! ।दे देवाव्यास्तथा शापादनपत्यास्तथाऽभवन् रुद्रस्तु तेजो-ऽप्रतिम धारयामास वै तदा प्रस्कन्नन्तु ततस्तस्मात् कि-ञ्चित्तत्रापतद्भुवि उत्पपात तदा वह्नौ ववृधे चाद्भु-तोपमम् तेजस्तेजसि संपृक्तमात्मयोनित्वमागतम्“ ।इत्युपक्रम्य तारकासुरेण बाधितानां देवानां ब्रह्मसमीपे वर-प्रार्थनादिकमुक्तं यथा“देवा ऊचुः असुरस्तारको नाम त्वया दत्तोवरःप्रभो! सुरानृषींश्च क्लिश्नाति बधस्तस्य विधीयताम् ।तस्माद्भयं समुत्पन्नमस्माकं वै पितामह! परित्रायस्व नोदेव! ह्यन्या गतिरस्ति नः ब्रह्मोवाच समोऽहंसर्व्वभूतानामधर्म्मं नेह रोचये हन्यतां तारकः क्षिप्रसुरर्षिगणबाधिता वेदा धर्म्माश्च नोच्छेद गच्छेयुःसुरसत्तमाः! विहितं पूर्व्वमेवात्र मया वै व्येतु वोज्वरः देवा ऊचुः वरदानाद्भगवतो दैतेयोबलग-र्व्वितः देवैर्न शक्यते हन्तुं कथं प्रशमं व्रजेत् सहि नैव स्म देवानां सुराणां रक्षसाम् बध्यः स्यामितिजग्राह वरं त्वत्तः पितामह! देवाश्च शप्ता रुद्राण्याप्रजोच्छेदे पुरा कृते भविष्यति वोऽपत्यमिति सर्व्वेजगत्पते! ब्रह्मोवाच हुताशनो तत्रासीच्छाप-काले सुरोत्तमाः! उत्पादयिताऽपत्य बधाय त्रिद-शद्विषाम् तद्वै सर्व्वानतिक्रम्य देवदानवराक्षसान् ।मनुष्यानथ गन्धर्व्वान्नागानथ पक्षिणः अस्त्रेणा-मोघपातेन शक्त्या तं घातयिष्यति यतो वो भयमुत्पन्नंये चान्ये सुरशत्रवः सनातनो हि संकल्पः कामइत्यभिधीयते रुद्रस्य रेतः प्रस्कन्नमग्नौ निपतितञ्चयत् तत्तेजोऽग्निर्म्महद्भूतं द्वितीयमिव पावकम् बधार्थंदेवशत्रूणां गङ्गायां जनयिष्यति तु नावाप तंशापं नष्टः हुतभुक् तदा तस्माद्वो भयहृद्देवाः!समुत्पत्स्यति पावकिः अन्विष्यतां वै ज्वलनस्तथाचाद्य नियुज्यताम् तारकस्य बधोपायः कथितो वैमयाऽनघाः! हि तेजस्विनां शापास्तेजःसु प्रभवन्तिवै बलान्यतिबलं प्राप्य दुर्ब्बलानि भवन्ति वै हन्या-दबध्यान् वरदानपि चैव तपस्विनः सङ्कल्पाभिरुचिःकामः सनातनतमोऽभवत् जगत्पतिरनिर्द्देश्यः सर्व्वगःसर्व्वसावनः हृच्छयः सर्व्वभूतानां ज्येष्ठो रुद्रादपिपभुः अन्विष्यतां तु क्षिप्रं तेजोराशिर्हुताशनः ।स वो मनोगतं कामं देवः सम्पादयिष्यति एतद्वाक्य-मुपश्रुत्य ततो देवा महात्मनः जग्मुः संसिद्धसङ्कल्पाःपर्य्येषन्तो विभावसुम् ततस्त्रैलोक्यमृषयो विचिन्वन्तःसुरैः सह काङ्क्षन्तो दर्शनं वह्नेः सर्व्वे तद्गतमानसाः ।परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः लोकान-न्वचरन् सिद्धाः सर्व्व एव भृगूत्तम! नष्टमात्मनि संलीनंनाधिजन्मुर्हुताशनम् ततः सञ्जातसन्त्रासानग्नेर्द्दर्शन-लालसान् जलेचरः क्लान्तमनास्तेजसाऽग्नेः प्रदीपितः ।उवाच देवान्मण्डूको रसातलतलोत्थितः” इत्युपक्रम्य ८५अ० देवैरग्निसमागमेततो देवैः प्रार्थितवरादिमुक्तं यथा ।“अग्निरुवाच ब्रत यद्भवतां कार्य्यं कर्त्ताऽस्मि तदहंसुराः! भवतन्तु वियोज्योऽस्मि मा वोऽत्रास्ति विचा-रणा देवा ऊचुः असुरस्तारको नाम ब्रह्मणो वर-दर्पितः अस्मान् प्रबाधते वीर्य्याद्बधस्तस्य विधीयताम् ।इमान् देवगणास्तात! प्रजापतिगणांस्तथा ऋषीँश्चापिमहाभाग! परित्रायस्व पावक! अपत्यं तेजसा युक्तंप्रवीरं जनय प्रभो! यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवा-हन! शप्तानां नो महादेव्या नान्यदस्ति परायणम् ।अन्यत्र भवतो वीर्य्यात्तस्मात्त्रायस्व नः प्रभो! इत्युक्तःस तथेत्युक्त्वा भगवान् हव्यबाहनः जगामाथ दुराधर्षोगङ्गां भागीरथीं प्रति तया चाप्यभवन्मिश्रो गर्भञ्चास्यादधे तदा ववृधे तदा गर्भः कक्षे कृष्णगतिर्यथा ।नेजसा तस्य देवस्य गङ्गा विह्वलचेतना सन्तापमगम-त्तीव्रं सा सोढुं शशाक आहिते ज्वलनेनाथगर्भे तेजःसमन्विते गङ्गायामसुरः कश्चिद्भैरवं नाद-मानदत् अबुद्धिपतितेनाथ नादन विपुलेन सा वित्र-स्तोद्भ्रान्तनयना गङ्गा विह्वललोचना विसज्ञा नाशकद्-गर्मं वोढुमात्मानमेव सा तु तेजःपरीताङ्गी कम्प-यन्तीव जाह्नवी उवाच ज्वलनं विप्र! तदा गर्भबलोद्धृता ।न ते शक्ताऽस्मि भगवंस्तेजसोऽस्य विधारणे विमूढाऽस्मिकृताऽनेन मे स्वास्थ्यं यथा पुरा विह्वला चास्मिभगवंश्चेतो नष्टञ्च मेऽनघ! धारणे नास्य शक्ताऽहं गर्भस्यतपतां वर! उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात् कथ-ञ्चन तेजसोऽस्ति संम्पर्शो मम देव! विभावसो! ।आपदर्थे हि सम्बन्धः सुसूक्ष्मोऽपि महाद्युते! तदन्नगुणसम्पन्नमितरद्वा हुताशन! त्वय्येव तदहं मन्येधर्म्मा-धर्म्मौ केवलौ तामुवाच ततो वह्निर्धार्य्यतां धार्य्य-तामिति गर्भो मत्तेजसा युक्तो महागुणफलोदयः ।शक्ता ह्यसि महीम् कृत्स्नां वोढुं धारयितु तथा नहि ते किञ्चिदप्राप्यमन्यतो धारणडते सा वह्निनावार्य्यमाणा देवेरपि सरिद्वारा ससुत्ससर्ज्ज तं गर्भं मेरौगिरिवरे तदा समर्था धारणे चापि रुद्रतेजःप्रधर्षिता ।नाशकत्तं तदा गर्भं संधारयितुमोजमा सा समुत्सृज्यतं दु खाद्दीप्तवैश्वानरप्रभम् दर्शयामास चाग्निस्तां तदागङ्गां भृगूद्वह! पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखो-दयः कोदृग्वर्णोऽपि वा देवी कीदृग्रूपश्च दृश्यते ।तेजसा केन वा युक्तः सर्व्वमेतद्ब्रवीतु मे” ।“गङ्गोवाच जातरूपः गर्भो वै तेजसां त्वमिवा-नघ! सुवर्ण्णो विमलो दोप्तः पर्व्वतञ्चावभासयत् पद्मो-त्पलविमिश्राणां ह्रदानामिव शीतलः गन्धोऽस्य सक-दम्बानां तुल्यो वै तपतांवर! तेजसा तस्य गर्भस्य भास्क-रस्येव रश्मिभिः यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्व्वतेषुच तत् सर्व्वं काञ्चनीभूतं समन्तात् प्रत्यदृश्यत पर्य्य-धावत शैलांश्च नदीः प्रस्रवणानि व्यादीपयँस्तेजसाच त्रैलोक्यं सचराचरम् एवं रूपः भगवन्! पुत्रस्तेहव्यवाहन! सूर्य्यवैश्वानरसमः कान्त्या सोम इवापरः ।एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत पावकश्चापितेजस्वी कृत्वा कार्य्यं दिवौकसाम् जगामेष्टं ततो देशंतदा भार्गवनन्दन! एतैः कर्म्मगुणैर्लोके नामाग्नेः परि-ग यते हिरण्यरेता इति वै ऋषिभिर्व्विबुधैस्तथा पृथिवीच तदा देवी ख्यातोवसुमतीति वै तु गर्भो महातेजागाङ्गेयः पावकोद्भवः दिव्यं शरवणं प्राप्य ववृधेऽद्भुत-दर्शनः ददृशुः कृत्तिकास्तन्तु बालार्कसदृशद्युतिम् ।पुत्रञ्चैताश्च तं बालं पुपुषुस्तन्यविस्रवैः ततः कार्त्ति-केयत्वमवाप परमद्युतिः स्कन्नत्वात् स्कन्दताञ्चापिगुहावासाद्गुहोऽभवत्” अधिकं कार्त्तिकेयशब्दे वक्ष्यते ।कार्त्तिकस्येयम् अण् ङीप् कार्त्तिकी देवीशक्तिभेदेकौमार्य्याम् नवपत्रिकान्तर्गते जयन्तीस्थे देवीभेदे चकृत्तिकानक्षत्रेण युक्ता पौर्णमासी अण् ङीप् चान्द्र-कार्त्तिकमासस्य पौर्णमास्याम् स्त्री “कार्त्तिक्याःआग्रहायणो मासे” महाभा०
Capeller
German
कार्त्तिक
m.
N. eines Herbstmonats
f.
der
Vollmondstag in dems.
Burnouf
French
कार्त्तिक कार्त्तिक
m.
(कृत्तिका) le mois
कार्त्तिक la lune est pleine dans les Pléiades
[octobre-novembre].
Stchoupak
French
कार्त्तिक-
m.
(avec ou sans मास-)
n.
d'un mois de l'automne
-ई-
f.
(avec ou sans रात्रि-) pleine lune du mois Kārttika, jour dans
lequel la lune se trouve dans la constellation Kṛttikā (Pléiades).