| YouTube Channel

कारीरी (kArIrI)

 
Spoken Sanskrit
English
कारीरी kArIrI
f.
connected with the fruit of the plant karira tree [ Capparis aphylla - Bot. ]
कारीरी kArIrI
f.
sacrifice in which this fruit is used
Monier Williams Cologne
English
कारीरी॑ (ई॑),
f.
(scil. इ॑ष्टि) ‘connected with the fruit of the plant Capparis aphylla’, a sacrifice in which this fruit is used,
MaitrS.
Kāṭh.
&c.
Shabdartha Kaustubha
Kannada
कारीरी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮಳೆಗೋಸ್ಕರ ಮಾಡುವ ಒಂದುಯಾಗ
वाचस्पत्यम्
Sanskrit
कारीरी स्त्री कं जलमृच्छति ऋ--विच् कारं सजलमेघ-मीरयति ईर--अण् उप० स० गौ० ङीष् वर्षहेतौइष्टभेदे “वर्षकामेष्टिः कारीरी” “तस्यां प्रति त्यं चारु-मध्वरमीडे अग्निं स्ववसं नमोभिरिति धार्य्ये” आश्व०श्रौ० १३ “वर्षकामस्य कारीरी नाम इष्टिःकार्य्या तस्यां--कारीर्य्याम् अत्र बहुदैवत्याया आम्ना-नात् अन्यदा इयमेव कारोरी एकदैबत्या भवति तस्यामपिप्रापणार्थं तस्यां ग्रहणमिति” नारा० आरब्धायांकारीर्य्यां कृतार्द्धायां वर्षणे सति सा समापनीया नवेति सन्देहे कात्या० श्रौ० २२ सू० निर्ण्णीतंयथा “दृष्टे तत्परिमाणम्” कृतार्द्धायामिष्टौ वर्षणेदृष्टे सति तत्परिमाणमेव कर्म्म कर्त्तव्यं यत्परिमाण-मदृष्ठे वर्षणे क्रियते तु वृष्टौ दृष्टायां किमप्यन्यूनंकृतार्द्धं परित्याज्यमिति वर्षणं तत्र तस्या इष्टेः फलं, किन्तु कालस्बभावात् प्रतिबन्धकापगमाच्च स्वयं प्रवृत्तम्इत्याशयः” सं० व्या० अतएव जैमिनिना ६, २, १३, कर्मणिआरब्धे फलेच्छाराहित्ये, कथञ्चित् फलप्राप्तौ आरब्धस्यकाम्यकर्म्मणः समाप्यत्वमुक्तं यथा “प्रक्रमात्तु नियुज्ये-तारम्भस्य निमित्तत्वादिति” व्याख्यातं चेदं शवरस्वामिनायथा “प्रजाकामो यजेत, ग्रामकामो यजेत”--इत्येवमादिकर्म समाम्नायते तत्र सन्देहः--किं प्रक्रान्तं नियोगतःसमापनीयम्, उतेच्छया कार्य्यं हेयं वा?--इति कुतः?एवं प्राप्तं?--नियोगतः परिसमापयितव्यम्--इति ।कुतः? एवं हि श्रूयते, --इदंकामो यजेत--इति, एवंतस्य आख्यातस्य अर्थम् उपदिशन्ति, ‘उपक्रमप्रभृतिअपवर्गपर्यन्तम् आह--इति, उपक्रमादारभ्य यावत्परिसमाप्तिः--इत्येतावान् व्यापारविशेषः तस्य अर्थः, यथा पाकः त्यागः--इति तत्र हि पाकसत्तामात्रंनिर्द्दिश्यते आरभ्य परिसमापयितव्यम् एवं चआख्याताथैं लौकिका अपि प्रतिपद्यन्ते, तत्र आरम्भेपुरुषप्रयत्नः नोद्यते--इति गम्यते यतो नोदितं नियो-गत आरभन्ते, नियोगतः पुनः परिसमापयन्ति, तेननोभे आरम्भपरिसमाप्ती शब्दार्थः किन्तर्हि?--परिस-माप्तिः शब्दार्थः परिसमाप्त्याऽर्थप्राप्तत्वात् आरम्भस्य ।तस्मात् परिसमाप्तिः शब्दार्थः--डति गम्यते सा चेत्शब्दार्थः, सा कर्त्तव्यतया नोद्यते, आरम्भे नास्ति कर्त्त-व्यतावचनं’ तेन नियोगत आरम्भः, नियोगतस्तुपरिसमाप्तिः तेन उपक्रान्ते कर्मणि यदि वीयात्फलेच्छा, अवाप्नोति वा फलं, तस्यामप्यवस्थायां, कर्त्त-व्यमेव उपक्रान्तस्य परिसमापनम् ननु अथिनो यो-ऽर्थः सोऽत्र कर्त्तव्यतयोच्यते’ नैतदेवं, वाक्यार्थोहि भवति, यागस्य तु कर्त्तव्यता श्रुत्या गम्यते ।तस्मात् ग्रामकामेण याग आरब्धः परिसमापनीयःग्रामादिकामनावचनं निमित्तत्वेन तदा भवति निमित्तेच उत्पन्ने यत् कर्त्तव्यम्--इत्युच्यते, तद्विनष्टेऽपि निमित्तेकर्त्तव्यम्, हि तद्विनष्टम् अनुत्पन्नं भवति, उत्पत्तिश्चनिमित्तं भावः तस्मात् वीतायामपि फलेच्छायाम् उप-क्रान्तं परिसमापयितव्यम क्रियाया हि निमित्तम्आरम्भः सोऽषि परिसमाप्तेः” इति ।कारीरीष्टिं प्रकृत्थ श्रूयते “यदि वर्षेत्तावत्येव जुहु-यात्” “कारीरीमनुवृष्टिः” सि० कौ०