| YouTube Channel

कारवेल्लं (kAravellaM)

 
शब्दकल्पद्रुमः
Sanskrit
कारवेल्लं,
क्ली,
(कारं वेल्लति वेल्ल चलने कर्म्म-ण्यण् यद्वा कारेण वातगमनेन वेल्लति चलतिगच्छति वा वेल्ल चलने अच् ।) कठिल्लकम् ।करला इति भाषा तत्पर्य्यायगुणाः ।“कारवेल्लं कठिल्लं स्यात् कारवेल्ली ततो लघुः ।कारवेल्लं हिमं भेदि लघु तिक्तमवातलम्
ज्वरपित्तकफास्रध्नं पाण्डुमेहकृमीन् हरेत् ।तद्गणा कारवेल्ली स्याद्विशेषाद्दीपनी लघुः”
इति भावप्रकाशः
अमरे पुंलिङ्गोऽयम्