| YouTube Channel

कारणोत्तरं (kAraNottaraM)

 
शब्दकल्पद्रुमः
Sanskrit
कारणोत्तरं,
क्ली,
(कारणेन उत्तरम् ।) प्रत्यव-स्कन्दनम् सत्यत्वेनाङ्गीकृत्य तत्प्रतिकूलरूप-कारणं ब्रूयात् तदा तदुत्तरम् तत्त्रिविधम् ।बलवत् तुल्यबलम् दुर्ब्बलम् आद्यं यथामया त्वत्तः शतं गृहीतमिति सत्यं किन्तु तत्परिशोधितम् द्वितीयं यथा मदीयेयं भूमिःक्रमागतत्वादिति वाद्युक्ते प्रतिवादिनोऽपि तथोत्तरम् तृतीयं यथा ममेयं भूमिः क्रमागतत्वात्इति वाद्युक्तेममेयं भूमिः दशवर्षोपभुज्यमानत्वात्इति प्रत्युत्तरम् इति व्यवहारतत्त्वम्