| YouTube Channel

कारणा (kAraNA)

 
Spoken Sanskrit
English
कारणा - kAraNA -
f.
- astronomical period
कारणा - kAraNA -
f.
- pain
कारणा - kAraNA -
f.
- agony
Monier Williams Cologne
English
कारणा
f.
pain, agony,
Daś.
an astronomical period,
W.
[कारणात्, from some cause or reason,
RPrāt.
iii, 13
Mn.
viii, 355
कस्मात् कारणात्, from what cause? मम-कारणात्, for my sake,
R.
&c.
अ-कारणेन, without a reason,
Yājñ.
ii, 234
येन कारणेन, because
यस्मिन् कारणे, from which motive, wherefore.]
Macdonell
English
कारणा kār-aṇā,
f.
action.
Apte Hindi
Hindi
कारणा
स्त्री*
- कृ - णिच् - युच् - टाप्
"पीड़ा, वेदना"
कारणा
स्त्री*
- कृ - णिच् - युच् - टाप्
नरक में डालना
Shabdartha Kaustubha
Kannada
कारणा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಯಾತನೆ /ನೋವು
विस्तारः - > "कारणं करणे हेतुवधयोश्च नपुंसकम् स्त्री यातनायाम्" - मेदि०
कारणा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಯಾತನೆ /ಅತಿಯಾದ ನೋವು
निष्पत्तिः - > कॄ (हिंसायाम्) + णिच् - "युच्" (३-३-१०७)
कारणा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪ್ರೇರಣೆ /ಒತ್ತಾಯ
L R Vaidya
English
kAraRA {% f. %} Pain, agony.
Edgerton Buddhist Hybrid
English
kāraṇā (= Pali id.
essentially Buddhist word, tho cited in Skt. Lexx. and once from Daśak., BR s.v.), torture, torment, esp. applied to torments of hell: with kārayati, causes to undergo, inflicts, °ṇāṃ kārayanti Divy 〔376.12〕
°ṇāḥ (so with mss.) sattvānām ārabdhāḥ kārayitum id. 16
kāraṇāviśeṣāḥ (in hell) pratiprasrabhyante, are allayed, quieted, Divy 〔68.3〕
〔138.10〕
〔265.23〕 (°srabdhāḥ)
〔568.15〕
Av 〔i.4.10—11〕
〔10.10—11〕, etc.
kāraṇābhiḥ kārito, tortured with torments (in hell and elsewhere) Śikṣ 〔186.11〕
of earthly torments, kāraṇāś ca kārenti LV 〔259.19〕 (vs), they make him (the Bodhisattva, practising austerities) undergo (physical) torments
ātmanaḥ kāraṇāṃ kārayasi Śikṣ 〔39.3〕
you inflict torture on yourself.
अभिधानचिन्तामणिः
Sanskrit
--source--
आजूर्विष्टिर्यातना तु कारणा तीव्रदेवना १३५८
-wordlist-
आजू (स्त्री), विष्टि (स्त्री), यातना (स्त्री), कारणा (स्त्री), तीव्रवेदना (स्त्री)
अभिधानरत्नमाला
Sanskrit
यातना
यातना, कारणा
यातना कारणा प्रोक्ता कारा बन्धनमुच्यते
verse 3.1.1.626
page 0071
शब्दकल्पद्रुमः
Sanskrit
कारणा,
स्त्री,
(कृ हिंसायाम् णिजन्तात् कृञो“ण्यासश्रन्थेति” १०७ युच् ततःटाप् ।) यातना गाढवेदना इत्यमरः
नरकरुजा यमयातना इति केचित् इतिभरतः
वाचस्पत्यम्
Sanskrit
कारणा स्त्री कृ--हिंसाया स्वार्थे णिच्--भावे युच् तीव्र-वेदनायाम् अमरः कृ--णिच्--युच् प्रेरणायाम्
कृदन्तरूपमाला
Sanskrit
1 {@“कृञ् हिंसायाम्”@} 2 ‘हिंसाकरणयोः श्नावौ कृणोति कृणुते कृञः।
करोति कुरुते द्वे द्वे सम्पद्येते पदे क्रमात्।।’ 3 इति देवः।
कारकः-रिका, कारकः-रिका, 4 चिकीर्षकः-र्षिका, 5 चेक्रीयकः-यिका
कर्ता-त्री, कारयिता-त्री, चिकीर्षिता-त्री, चेक्रीयिता-त्री
6 कृण्वन्-ती, कारयन्-न्ती, चिकीर्षन्-न्ती
-- 7 करिष्यन्-न्ती-ती, कारयिष्यन्-न्ती-ती, चिकीर्षिष्यन्-न्ती-ती
-- कृण्वानः, कारयमाणः, चिकीर्षमाणः, चेक्रीयमाणः
करिष्यमाणः, कारयिष्यमाणः, चिकीर्षिष्यमाणः, चेक्रीयिष्यमाणः
8 कृत्-कृतौ-कृतः
-- -- -- 9 कृतम्-तः-तवान्, कारितः, चिकीर्षितः, चेक्रीयितः-तवान्
करः, कारः, चिकीर्षुः, चेक्रियः
कर्तव्यम्, कारयितव्यम्, चिकीर्षितव्यम्, चेक्रीयितव्यम्
करणीयम्, कारणीयम्, चिकीर्षणीयम्, चेक्रीयणीयम्
कार्यम्, कार्यम्, चिकीर्ष्यम्, चेक्रीय्यम्
ईषत्करः-दुष्करः-सुकरः
-- -- 10 क्रियमाणः, कार्यमाणः, चिकीर्ष्यमाणः, चेक्रीय्यमाणः
कारः, कारः, चिकीर्षः, चेक्रीयः
कर्तुम्, कारयितुम्, चिकीर्षितुम्, चेक्रीयितुम्
कृतिः, 11 कारा, कारणा, चिकीर्षा, चेक्रिया
12 करणम्, कारणम्, चिकीर्षणम्, चेक्रीयणम्
कृत्वा, कारयित्वा, चिकीर्षित्वा, चेक्रीयित्वा
विकृत्य, विकार्य, प्रचिकीर्ष्य, प्रचेक्रीय्य
कारम् २, कृत्वा २, कारम् २, कारयित्वा २, चिकीर्षम् २, चिकीर्षित्वा २, चोक्रीयम्
चेक्रीयित्वा २।
प्रासङ्गिक्यः
01
=>
(२४५)
02
=>
(५-स्वादिः-१२५३। सक। अनि। उभ।)
03
=>
(श्लो-३१)
04
=>
[[१। ‘इको झल्’ (१-२-९) इति कित्त्वम्। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। ‘ॠत इद्धातोः’ (७-१-१००) इतीत्त्वम्। रपरत्वम्।]]
05
=>
[[२। ‘रीङृतः’ (७-४-२७) इति रीङ्। गुणोऽभ्यासस्य।]]
06
=>
[[३। ‘स्वादिभ्यः श्नुः’ (३-१-७३) इति श्नुः विकरणप्रत्ययः। ‘हुश्नुबोः सार्वधातुके’ (६-४-८७) इति यण्। णत्वम्।]]
07
=>
[[४। ‘ऋद्धनोः स्ये’ (७-२-७०) इतीट्।]]
08
=>
[[५। ‘ह्रस्वस्य पिति कृति तुक्’ (६-१-७१) इति तुक्।]]
09
=>
[[आ। ‘कुब्जा कृतारिबलमैक्षत वृण्वती सा पात्रं समीरधुतसौरभधूतभृङ्गम्।।’ धा। का। २-६८।]]
10
=>
[[६। ‘रिङ् शयग्लिङ्क्षु’ (७-४-२८) इति रिङ्।]]
11
=>
[[७। ‘कारा बन्धने’ (ग। सू। ३-३-१०४) इति भिदादिवाठादङ्।]]
12
=>
[पृष्ठम्०२३४+ २७]
1 {@“डु कृञ् करणे”@} 2 ‘हिंसाकरणयोः श्नावौ कृणोति कृणुते कृञः।
करोति कुरुते द्वे द्वे सम्पद्येते पदे क्रमात्।।’ 3 इति देवः।
अयं घातुः भ्वादिगणेऽपि पठ्यते।
तेन करति, करते इति रूपद्वयमपि साधु--इति क्षीरस्वामी मन्यते।
अत एव, कस्याञ्चिदुणादिवृत्तौ ‘करति, कृणोति, करोतीति वा कारुः’ इति कारुशब्दव्युत्पादनं कृतं सङ्गच्छते।
पुरुषकारोऽप्यस्यानुकूलः।
अन्ये तु बहवः भ्वादिपाठं नाभ्युपगच्छन्ति।
अत एव, न्यासग्रन्थे ‘कः करत्करति--’ 4 इत्यत्र, ‘करतिरिति छान्दसत्वात् व्यत्ययेन शप्।’ इति प्रोक्तम्।
यदि भ्वादिपाठोऽभिमतः स्यात्, तदा शपो व्यत्ययकल्पनमसङ्गतं भवेत्।
अत एव, देवः श्नुप्रत्यये, उप्रत्यये साधुत्वमभ्युपैति।
कारकः-रिका, कारकः-रिका, 5 चिकीर्षकः-र्षिका, 6 चेक्रीयकः-यिका
कर्ता-र्त्री, कारयिता-त्री, चिकीर्षिता-त्री, चेक्रीयिता-त्री
7 कुर्वन्, 8 उपकुर्वन्, 9 10 विकुर्वन्, 11 अनुकुर्वन्, 12 13 पराकुर्वन्-ती, कारयन्-न्ती, चिकीर्षन्-न्ती
14 करिष्यन्-न्ती-ती, कारयिष्यन्-न्ती-ती, चिकीर्षिष्यन्-न्ती-ती
कुर्वाणः, 15 इत्यनेन सूचनादिषु सप्तस्वर्थेषु गम्यमानेषु शानज् विधीयते।
गन्धनम् = सूचनम्।
अवक्षेपणम् = भर्त्सनम्।
सेवनम् = भजनम्।
साहसिक्यम् = बलात्कारेण प्रवर्तनम्।
प्रतियत्नः = गुणाधानम्।
प्रकथनम् = प्रकर्षेण कथनम्।
उपयोगः = धर्मार्थं विनियोगः।
‘दोषमुत्कुर्वाणः’ इत्यारभ्य, ‘शतं प्रकुर्वाणः’ इत्यन्तानि कमेणोदाहरणानि बोध्यानि।]] दोषम्) उत्कुर्वाणः, 16 उदाकुर्वाणः, 17 उपकुर्वाणः, 18 प्रकुर्वाणः, 19 20 उपस्कुर्वाणः, 21 प्रकुर्वाणः, 22 प्रकुर्वाणः, 23 इति शानच्।
प्रसहनम् = क्षमा, अभिभवश्च।]] शत्रुम्) अधिकुर्वाणः, 24 इति शानच्।]] स्वरान्) 25 विकुर्वाणः, 26 इति शानच्।]] सैन्धवः) विकुर्वाणः, कारयमाणः, चिकीर्षमाणः, चेक्रीयमाणः, 27 संचेस्क्रीयमाणः, 28 करिष्यमाणः, कारयिष्यमाणः, चिकीर्षिष्यमाणः, चेक्रीयिष्यमाणः
29 सुकृत्- 30 कर्मकृत्- 31 पापकृत्-मन्त्रकृत्-पुण्यकृत्, 32 शास्त्रकृत्-भाष्यकृत्-कृतौ-कृतः
-- -- 33 कृतम्-कृतः-कृतवान्, 34 ओजसाकृतम्-सहसाकृतम्-अम्भसाकृतम्-तमसाकृतम्, 35 अञ्जसाकृतम्, 36 उपस्कृताः 37, 38 परिष्कृता 39, 40 उपस्कृतं 41, उपस्कृतं 42, कारितम्, 43 चिकीर्षितः, चेक्रीयितः-तवान्, 44 करः, 45 क्षेमकरः, 46 किङ्करः-किङ्करा-किङ्करी-यत्करः-यत्करा-तत्करः-तत्करा- 47 तस्करः-तस्करा-बहुकरः-बहुकरा, 48 कुम्भकारः, अन्धकारः, 49 सत्यङ्कारः, 50 अगदङ्कारः, 51 अस्तुङ्कारः, 52 शङ्करः 53 -शङ्करा-शङ्करी, 54 55 यशस्करः 56 यशस्करी 57 शोककरः-दवींकरः- 58 त्रासकरी, ज्योतिष्करः- क्रीडाकरः-श्राद्धकरः, वचनकरः-कार्यकरः, 59 पारस्करः 60, 61 मस्करः 62, 63 दिवाकरः 64 -विभाकरः- 65 निशाकरः- 66 प्रभाकरः- 67 भास्करः 68 -कारकरः-कारस्करः 69, अन्तकरः-अनन्तकरः-आदिकरः-नान्दीकरः-लिपिकरः-लिबिकरः- बलिकरः-भक्तिकरः-कर्तृकरः-चित्रकरः-क्षेत्रकरः- 70 एककरः- 71 72 73 जङ्घाकरः- 74 बाहुकरः- 75 अहस्करः- 76 धनुष्करः-अरुष्करः, 77 कर्मकरः-कर्मकारः, 78 शब्दकारः-श्लोककारः-कलहकारः-गाधाकारः- 79 वैरकारः-चाटुकारः-सूत्रकारः- मन्त्रकारः पदकारः, 80 स्तम्बकरिः 81 शकृत्करिः 82, स्तम्बकारः-शकृ- त्कारः, 83 मेघङ्करः 84 -ऋतिङ्करः-भयङ्करः, अभयङ्करः, 85 शिवङ्करः, 86 क्षेमङ्करः 87 प्रिय- 88 ङ्करः-मद्रङ्करः, क्षेमकारः-प्रियकारः-मद्रकारः, 89 कडङ्करः, 90 91 मस्करी, 92 अकारी, 93 अपकारी-प्रियकारी- 94 अनपकारी-उपकारी, 95 राजकृत्वा, 96 राजकृत्वरी, 97 सहकृत्वा, सहकृत्वरी, 98 विश्वकर्मा, 99 अलङ्करिष्णुः 100 निराकरिष्णुः, 101 चक्रिः, 102 कारकः- 103 कारिका, कारः, चिकीर्षुः, चिकारयिषुः, चेक्रियः
कर्तव्यम्, कारयितव्यम्, चिकीर्षितव्यम्, चेक्रीयितव्यम्
करणीयम्, कारणीयम्, चिकीर्षणीयम्, चेक्रीयणीयम्
104 105 कृत्यम्- 106 कार्यम्, कार्यम्, चिकीर्ष्यम्, चेक्रीय्यम्
ईषत्करः- 107 दुष्करः-सुकरः, 108 ईषदाढ्यङ्करः 109 -दुराढ्यङ्करः-स्वाढ्यङ्करः
110 क्रियमाणः-संस्क्रियमाणः, कार्यमाणः, चिकीर्ष्यमाणः, चेक्रीय्यमाणः
कारः-उपकारः- 111 अपकारः- 112 प्राकारः, 113 चक्रम्, 114 कृत्रिमम्- 115 असंस्कृत्रिमम्, कारः, चिकीर्षः, चेक्रीयः
कर्तुम्- 116 व्याकर्तुम्, 117 -- 118 कारयितुम्, चिकीर्षितुम्, चेक्रीयितुम्
कृतिः, 119 क्रिया, कृत्या, 120 कारिः 121 -कारिका, कारणा, चिकीर्षा, चिकारयिषा, चेक्रीया
करणम्, 122 आढ्यङ्करणम्-सुभगङ्करणम्-स्थूलङ्करणम्-पलितङ्करणम्- नग्नङ्करणम्-अन्धङ्करणम्- 123 अन्धङ्करणी, प्रियङ्करणम्, 124 उष्णङ्करणम्-भद्रङ्करणम्, कारणम्, चिकीर्षणम्, चेक्रीयणम्
125 स्वाढ्यङ्करणम्, कृत्वा, 126 तिरस्कृत्वा-तिरःकृत्वा, 127 उपाजेकृत्वा-अन्वाजेकृत्वा, 128 साक्षात्कृत्वा, 129 उरसिकृत्वा, मनसिकृत्वा, 130 मध्येकृत्वा-पदेकृत्वा-निवचने- 131 कृत्वा 132 नीचैःकृत्वा-उच्चैःकृत्वा, 133 तिर्यक्कृत्वा, 134 मुखतःकृत्वा, 135 नाना- कृत्वा-विनाकृत्वा-द्विधाकृत्वा-द्वैधंकृत्वा-द्वेधाकृत्वा, कारयित्वा, चिकीर्षित्वा, चेक्रीयित्वा
अुपकृत्य, नीचैःकृत्य-उच्चैःकृत्य, तिर्यक्कृत्य, 136 गलतःकृत्य, नानाकृत्य-विनाकृत्य-द्विधाकृत्य-द्वैधंकृत्य-द्वेधाकृत्य, 137 कारिकाकृत्य, 138 ऊरी- कृत्य-उररीकृत्य-शुक्लीकृत्य-वषट्कृत्य-पटपटाकृत्य, 139 खाट्कृत्य, 140 सत्कृत्य- असत्कृत्य, 141 अलङ्कृत्य, 142 पुरस्कृत्य, नमस्कृत्य 143 हस्तेकृत्य 144 -पाणौकृत्य, 145 146 प्राध्वंकृत्य, 147 जीविंकाकृत्य-उपनिषत्कृत्य, तिरस्कृत्य-तिरःकृत्य, उपाजे- कृत्य-अन्वाजेकृत्य, 148 साक्षात्कृत्य, उरसिकृत्य-मनसिकृत्य, मध्येकृत्य-पदेकृत्य-विकार्य, प्रचिकीर्ष्य, प्रचेक्रीय्य
निवचनेकृत्य, 149 लवणङ्कृत्य, 150 151 भीतङ्कारं- 152 चोरङ्कारं 153, 154 स्वादुङ्कारं 155 156, सम्पन्नङ्कारम्-लवणङ्कारम्, 157 अन्यथाकारं-एवङ्कारं- 158 कथङ्कारं-इत्थङ्कारं 159, 160 यथाकारं 161 162 तथाकारं 163, 164 अकृतकारं 165, नीचैःकारं- 166 उच्चैःकारं, तिर्यक्कारम्, करतः- 167 कारम्, मुखतःकारम्, नानाकारं-विनाकारं-द्विधाकारं-द्वैधंकारं-द्वेधाकारम्
कारम् २, कृत्वा २, कारम् २, कारयित्वा २, चिकीर्षम् २, चिकीर्षित्वा २, चेक्रीयम्
चेक्रीयित्वा
168 उण् प्रत्यये रूपम्।]] कारुः, 169 कतुः प्रत्ययः।]] क्रतुः, 170 इति एणुः प्रत्ययः।
करेणुः = इभी।
‘के = मस्तके रेणुर्यस्य करेणुः’ इति व्युत्पत्त्याऽपि साधयन्ति।]] करेणुः, 171 इति मनिनि रूपम्।
क्रियते यत् फलार्थिभिस्तत् कर्म।]] कर्म।
प्रासङ्गिक्यः
01
=>
(२४६)
02
=>
(८-तनादिः-१४७२-सक। अनि। उभ।)
03
=>
(श्लो। ३१)
04
=>
(८-३-५०)
05
=>
[[१। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे, ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, ‘ऋत इद् धातोः’ (७-१-१००) इति इत्त्वे रपरत्वे, ‘सन्यङोः’ (६-१-९) इति द्वित्वादिकम्।]]
06
=>
[[२। ‘रिङ् शयग्लिङ्क्षु’ (७-४-२८) इति रिङादेशे, द्वित्वे, ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासस्य गुणे, ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः।]]
07
=>
[[३। ‘तनादिकृञ्भ्य उः’ (३-१-७९) इत्युप्रत्यये, गुणे, ‘अत उत् सार्वधातुके’ (६-४-११०) इत्युत्वे, उप्रत्ययस्य यणादेशः।]]
08
=>
[[आ। ‘उपकुर्वन्तमत्यर्थं प्रकुर्वाणोऽनुजीविवत्।।’ भ। का। ८-१८।]]
09
=>
(चित्तं)
10
=>
[[४। ‘वेः शब्दकर्मणः’ (१-३-३४) इत्यत्र ‘शब्दकर्मणः’ इत्युक्तत्वादत्र शानच्।]]
100
=>
[[ड्। ‘निराकरिष्णवो भानुं दिवं वर्तिष्णवोऽभितः। अलङ्करिष्णवो भान्तस्तडित्वन्तश्चरिष्णवः।।’ भ। का। ७। ३।]]
101
=>
[[९। ‘भाषायां धाञ्कृ--’ (वा। ३-२-१७१) इत्यनेन किः, किन् वा प्रत्ययः। तस्य लिडूवद्भावातिदेशाद्द्विर्वचनम्। कर्तर्येष प्रत्ययः। चक्रिः = कर्ता।]]
102
=>
[[१०। ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ (३-३-१०) इति भविष्यति कर्तरि ण्वुल्।]]
103
=>
[[E। ‘कारका मित्रकार्याणि सीतालाभाय सोऽब्रवीत्।।’ भ। का। ७। २९।]]
104
=>
[पृष्ठम्०२४०+ २६]
105
=>
[[१। ‘विभाषा कृवृषोः’ (३-१-१२०) इति क्यप् वा भवति। पक्षे, ‘ऋहलोः--’ (३-१-१२४) इति ण्यत्। क्यपि तुक्।]]
106
=>
[[आ। ‘धर्मकृत्यरतां नित्यम् अवृष्यफलभोजनाम्।’ भ। का। ६-६२।]]
107
=>
[[B। ‘अरण्ययाने सुकरे पिता मां प्रायुङ्क्त राज्ये बत दुष्करे त्वाम्।’ भ। का। ३। ५१।]]
108
=>
[[२। ‘कर्तृकर्मणोश्च भूकृञोः’ (३-३-१२५) इति खल्। ‘कर्तृकर्मणोश्च्व्यर्थयोरिति वक्तव्यम्’ (वा। ३-३-१२७) इति वार्तिकात् च्व्यर्थे। ‘ईषन्मालङ्करं पुष्पं सुपिण्डङ्कर ओदनः। दुस्सेनानिङ्करो भीरुः, खित्त्वाद्ध्रस्वमुमागमौ।।’ इति प्रक्रियासर्वस्वे।]]
109
=>
[[C। ‘ईषदाढ्यङ्करोऽप्येष परत्राशुभक्रियः।’ भ। का। ७-८४।]]
11
=>
[[५। ‘अनुपराभ्यां कृञः’ (१-३-७९) इति शतृप्रत्ययः।]]
110
=>
[[३। यकि, ‘रिङ् शयग्लिङ्क्षु’ (७-४-२८) इति रिङादेशः। ‘रीङि प्रकृते रिङादेश- विधानसामर्थ्यात् ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घो न।’ इति सिद्धान्तकौमुदी।]]
111
=>
[[ड्। ‘अपकारे कृतेऽप्यज्ञो विजिगीषुर्न वा भवान्।।’ भ। का। ५-९।]]
112
=>
[[४। ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ (६-३-१२२) इति उपसर्गस्य दीर्घः। प्रकियते इति प्राकारः = सालः। कर्मणि घञ्।]]
113
=>
[[५। ‘घञ्र्थे कविधानम्--’ (वा। ३-३-१९) इति वार्तिकात् घञर्थे कः प्रत्ययः। ‘द्वित्वप्रकरणे के कृञादीनामिति वक्तव्यम्’ (वा। ६-१-१२) इति द्वित्वम्। यण्।]]
114
=>
[[६। ‘ड्वितः क्त्रिः’ (३-३-८८) इति भावे क्त्रिः। ‘क्त्रेर्मम्नित्यम्’ (४-४-२०) इति सूत्रेण, ‘निर्वृत्ते--’ (४-४-१९) इत्यस्मिन्नर्थे मप्प्रत्ययः। ‘नित्यम्’ इत्युक्तेः मप्प्रत्ययान्त एव प्रयोज्यः।]]
115
=>
[[E। ‘असंस्कृत्रिमसंख्यानौ अनुप्त्रिमफलाशिनौ।’ भ। का। ४-३७।]]
116
=>
[[F। ‘प्रन्थानधीत्य व्याकर्तुमिति दुर्मेधसोऽप्यलम्।।’ शिशुपालवधे २-२६।]]
117
=>
[पृष्ठम्०२४१+ २९]
118
=>
[[आ। ‘ऐहिष्ट तं कारयितुं कृतात्मा क्रतुं नृपः पुत्रफलं मुनीन्द्रम्।’ भ। का। १-११।]]
119
=>
[[१। ‘कृञः च’ (३-३-१००) इति स्त्रियां भावादौ शप्रत्यये, रिङादेशे क्रिया इति सिद्ध्यति। सूत्रे चकारात् क्यपि तुकि, कृत्या इत्यपि भवति।]]
12
=>
[पृष्ठम्०२३५+ २९]
120
=>
[[२। ‘विभाषाऽऽख्यानपरिप्रश्नयोरिञ् च’ (३-३-११०) इति इञ् प्रत्यये कारिः इति भवति। चकारात् ण्वुलि कारिका इति रूपमपि भवति।]]
121
=>
[[B। ‘यां कारिं राजपुत्रोऽयमनुतिष्ठति तां क्रियाम्।’ भ। का। ७-७५।]]
122
=>
[[३। ‘आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्’ (३-२-५६) इति ख्युन् प्रत्ययः। खित्त्वान्मुम्। एवं प्रियङ्करणमिति पर्यन्तम्।]]
123
=>
[[C। ‘पुराऽयमैति श्रुतसम्भवस्ते क्रुधं धियोऽन्धङ्करणीं दधानः।।’ वा। वि। ३-३०।]]
124
=>
[[४। ‘उष्णभद्रयोः करणे’ (वा। ६-३-७०) इति ल्युडन्ते पदे परतः, मुम्।]]
125
=>
[[५। ‘भयाढ्यादिषु तदन्तग्रहणम्’ (भाष्यम् १-१-७२) इति वचनात् तदन्तविधिः।]]
126
=>
[[६। ‘विभाषा कृञि’ (१-४-७२) इति गतिसंज्ञाविकल्पः। यदा गतिसंज्ञा, तदानीं ‘तिरसोऽन्यतरस्याम्’ (८-३-४२) इति विसर्जनीयस्य सत्वविकल्पः। यदा गतिसंज्ञा न, तदानीं विसर्जनीयः, समासोऽपि न। एवं ल्यप्यपि।]]
127
=>
[[७। ‘उपाजेऽन्बाजे’ (१-४-७३) इति गतिसंज्ञायां समासविकल्पः। यदा समासः, तदानीं ल्यवपि।]]
128
=>
[[८। ‘साक्षात्प्रभृतीनि च’ (१-४-७४) इति गतिसंज्ञा। ‘साक्षात्प्रभृतिषु च्व्यर्थवचनम्’ (वा। १-४-७४) इति वचनात् च्व्यर्थे एव गतिसंज्ञा। समासे तु ल्यप्।]]
129
=>
[[९। ‘अनत्याधान उरसिमनसी’ (१-४-७५) इति गतिसंज्ञायां समासविकल्पः। एवं ल्यप्यपि। अत्याधानम् = उपश्लेषणम्। तदभावोऽनत्याधानम्।]]
13
=>
[[आ। ‘ता हनूमान् पराकुर्वन् अगमत् पुष्पकं प्रति। विमानं मन्दरस्याद्रेरनुकुर्वदिव श्रियम्।।’ भ। का। ८-५०।]]
130
=>
[[१०। ‘मध्ये पदे निवचने च’ (१-४-७६) इति गतिसंज्ञायां समासविकल्पः। अत्रापि चकारात् ‘अनत्याधाने’ (१-४-७६) इति गतिसंज्ञायां समासविकल्पः। अत्रापि चकारात् ‘अनत्याधाने’ इत्यनुवर्तते। निवचनम् = वचनाभावः। निवचने- कृत्वा = वाचं नियम्येत्यर्थः।]]
131
=>
[पृष्ठम्०२४२+ ३३]
132
=>
[[१। ‘अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ’ (३-४-५९) इति क्त्वाणमुलौ। ‘तृतीयाप्रभृतीन्यन्यतरस्याम्’ (२-२-२१) इति समासविकल्पः। ततश्च ल्यबपि। अयथाभिप्रेताख्यानं नाम = अप्रियस्योच्चैः, प्रियस्य नीचैः कथनम्।]]
133
=>
[[२। ‘तिर्यच्यपवर्गे’ (३-४-६०) इति कृञः क्त्वाणमुलौ। अपवर्गः = समाप्तिः। ल्यबप्येवम्।]]
134
=>
[[३। ‘स्वाङ्गे तस्प्रत्यये कृभ्वोः’ (३-४-६१) इति कृञः क्त्वाणमुलौ, ल्यबपि। सूत्रे यथासंख्यं नेष्यते।]]
135
=>
[[४। ‘नाधार्थप्रत्यये च्व्यर्थे’ (३-४-६२) इति कृञः क्त्वाणमुलौ, ल्यबपि। धार्थत्वेन ‘द्विञ्योश्च-’ (५-३-४५) इति धमुञः, ‘एधाच्च’ (५-३-४६) इति एधाचश्च ग्रहणम्।]]
136
=>
[[आ। ‘सा माला करतःकारं मुखतोभावमागता। तां पत्युर्गलतःकृत्य पार्श्वतोभूय स्थिता।।’ इति प्रक्रियासर्वस्वे।]]
137
=>
[[५। ‘कारिकाशब्दस्योपसंख्यानम्--’ (वा। १-४-६०) इति गतिसंज्ञायां समासे ल्पप्।]]
138
=>
[[६। ‘ऊर्व्यादिच्विडाचश्च’ (१-४-६१) इति, ऊरी उररी इत्यादीनां गतिसंज्ञायां, ‘कुगतिप्रादयः’ (२-२-१८) इति समासे, ल्यप्। तुक्। ऊरी उररी शब्दौ, अङ्गीकरणे, विस्तारे वर्तेते। शुक्लीकृत्येत्येतत् च्विप्रत्ययान्तस्य, पटपटा- कृत्येत्येतत् डाजन्तस्य चोदाहरणम्। ‘डाचि बहुलं द्वे भवतः--’ (वा। ८-१-१२) इति डाजन्ते द्वित्वम्।]]
139
=>
[[७। ‘अनुकरणं चानितिपरम्’ (१-४-६२) इति गतिसंज्ञायां समासे ल्यपि रूपम्।]]
14
=>
[[१। ‘ऋद्धनोः स्ये’ (७-२-७०) इतीडागमः स्यप्रत्ययस्य।]]
140
=>
[[८। ‘आदरानादरयोः सदसती’ (१-४-६३) इति गतिसंज्ञायां समासे ल्यपि रूपम्। प्रीत्यतिशयः = आदरः। परिभवः, औदासीन्यं वा अनादरः।]]
141
=>
[[९। अनेकार्थकस्यालंशब्दस्य ‘भूषणेऽलम्’ (१-४-६४) इति भूषणेऽर्थे गतिसंज्ञायां समासे ल्यप्।]]
142
=>
[[१०। ‘पुरोऽव्ययम्’ (१-४-६७) इति गतिसंज्ञायां, ‘नमस्पुरसोर्गत्योः’ (८-३-४०) इति विसर्जनीयस्य सत्वे रूपम्।]]
143
=>
[[११। ‘नित्यं हस्ते पाणावुपयमने’ (१-४-७७) इति नित्यं गतिसंज्ञायां समासे ल्यप्। उपयमनम् = दारकर्म।]]
144
=>
[[B। ‘श्रियमाशासते लोलां तां हस्तेकृत्य मा श्वसीः।।’ भ। का। ५-१६।]]
145
=>
[पृष्ठम्०२४३+ २९]
146
=>
[[१। ‘प्राध्वं बन्धने’ (१-४-७८) इति नित्यं गतिसंज्ञायां समासे ल्यप्। प्राध्वंकृत्य = बन्धनेनाकूलं कृत्वेत्यर्थः।]]
147
=>
[[२। ‘जीविकोपनिषदावौपम्ये’ (१-४-७९) इति नित्यगतिसंज्ञायां समासे ल्यप्।]]
148
=>
[[आ। ‘साक्षात्कृत्याभिमन्येऽहं त्वां हरन्तीं श्रियं श्रियः।।’ भ। का। ५-७१।]]
149
=>
[[३। साक्षात्प्रभृतिषु (१-४-७४) लवणशब्दस्य गतिसंज्ञासन्नियोगेन मान्तत्वं निपात्यते, तेन लवणंकृत्येति भवति।]]
15
=>
([[२। ‘गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः’ (१-३-३२)
150
=>
[[४। ‘कर्मण्याकोशे कृञः खमुञ्’ (३-४-२५) इति खमुञ् खित्त्वात् पूर्वपदस्य मुम्।]]
151
=>
[[B। ‘तं भीतङ्कारमाक्रुश्य रावणः प्रत्यभाषत।’ भ। का। ५-३९।]]
152
=>
[[C। ‘भुजविटपमदेन व्यर्थमन्धम्भविष्णुः धिगपसरसि चोरङ्कारमाक्रुश्यमानः। त्वदुरसि विदधातु स्वामपस्कारकेलिं कुटिलकरजकोटिकूरकर्मा जटायुः।।’ अनर्घराघवे ५। ११।]]
153
=>
(आक्रोशति)
154
=>
[[५। ‘स्वादुमि णमुल्’ (३-४-२६) इति णमुल्। ‘स्वादुमि’ इति स्वादुपर्या- याणामपि प्रहणम्
\n\n तेन लवणङ्कारं, सम्पन्नङ्कारम् इत्यपि सिध्यति। उपपदस्य मान्तत्वं निपातनात्।]]
155
=>
[[ड्। ‘स्वादुङ्कारं कालखण्डोपदंशं क्रोष्टा डिम्भं व्यष्वणत् व्यस्वनच्च।।’ शिशुपालवधे-१८-७७।]]
156
=>
(भुङ्क्ते)
157
=>
[[६। ‘अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्’ (३-४-२७) इति णमुल्। अन्यथा भुङ्क्ते इत्यर्थः।]]
158
=>
[[E। ‘अकृत्वा हेलया पादम् उच्चैर्मूर्धसु विद्विषाम्। कथङ्कारमनालम्बा कीर्तिर्द्यामधिरोहति।।’ शिशुपालवधे २-५२।]]
159
=>
(भुङ्क्ते)
16
=>
(श्येनो वर्तिकाम्)
160
=>
[[७। ‘यथातथयोरसूयाप्रतिवचने’ (३-४-२८) इति णमुल्।]]
161
=>
[[F। ‘किं त्वमेवं ब्रवीषीति पृष्टेऽन्यो वक्त्यमर्षतः। यथाकारमहं जाने तथाकारं वदाम्यहम्।।’ इति प्रक्रियासर्वस्वे।]]
162
=>
(अहं भोक्ष्ये)
163
=>
(भोक्ष्ये, किं तवानेन?)
164
=>
[[८। ‘समूलाकृतजीवेषु हन्कृञ्ग्रहः’ (३-४-३६) इति णमुल्। ‘कषादिषु यथावि- ध्यनुप्रयोगः’ (३-४-४६) इत्यनुप्रयोगः।]]
165
=>
(करोति)
166
=>
[[ङ्। ‘समूलकाषं चकष् रुदन्तो रामान्तिकं बृंहितमन्युवेगाः। आवेदयन्तः क्षितिपालमुच्चैःकारं मृतं रामवियोगशोकात्।।’ भ। का। ३-४९।]]
167
=>
[पृष्ठम्०२४४+ २७]
168
=>
[[१। करोतीति कारुः = शिल्पी। औणादिके [द। उ। १-८६]
169
=>
[[२। क्रियतेऽसौ धर्मार्थिभिरिति क्रतुः = यज्ञः। औणादिकः [द। उ। १-१३०]
17
=>
(हरिम्)
170
=>
[[३। ‘कृहृभ्यामेणुः’ [द। उ। १-१३३]
171
=>
[[४। ‘मनिन्’ [द। उ। ६-७३]
18
=>
(परदारान्)
19
=>
(एधो दकस्य)
20
=>
[[३। ‘उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु च’ (६-१-१३९) इति सुट्। ‘कृञः प्रति- यन्ते’ (२-३-५३) इत्यनेन ‘एधोदकस्य’ इत्यत्र षष्ठी।]]
21
=>
(गाधाः)
22
=>
(शतं)
23
=>
([[४। ‘अधेः प्रसहने’ (१-३-३३)
24
=>
([[५। ‘वेः शब्दकर्मणः’ (१-३-३४)
25
=>
[[B। ‘योऽपचके बनात् सीताम् अधिचके यं हरिः। विकुर्वाणः स्वरानद्य बलं तस्य निहन्म्यहम्।।’ भ। का। ८-२०।]]
26
=>
([[६। ‘अकर्मकाच्च’ (१-३-३५)
27
=>
[[७। ‘संपरिभ्यां करोतौ भूषणे’ (६-१-१३७) इति सुट्। ‘सुट् कात् पूर्वः’ (६-१-१३५) इति कात् पूर्वः सुट्।]]
28
=>
[[C। ‘करिष्यमाणं विज्ञेयं कार्यं किं नु कृतं परैः।’ भ। का। ५-९।]]
29
=>
[[ड्। ‘सुकृतं प्रियकारी त्वं कं रहस्युपतिष्ठसे। पुण्यकृच्चाटुकारस्ते किङ्करः सुरतेषु कः।।’ भ। का। ५। ६८।]]
30
=>
[[८। ‘सुकर्मपापमन्त्रपुण्येषु कृञः’ (३-२-८९) इति स्वादिषु भूते कर्तरि क्विप्। तुक्।]]
31
=>
[[E। ‘पापकृत् सुकृतां मध्ये राज्ञः पुण्यकृतः सुतः। मामपापं दुराचार! किं निहत्याभिधास्यसि।।’ भ। का। ६-१२७।]]
32
=>
[[९। ‘सुकर्म--’ (३-२-८९) इति सूत्रे उपपदनियमाभावात्, ‘क्विप् च’ (३-२-७६) इति क्विपि ‘शास्त्रकृत्’ इत्यादेस्सिद्धिः।]]
33
=>
[पृष्ठम्०२३६+ २९]
34
=>
[[१। ‘ओजस्सहोऽम्भस्तमसः तृतीयायाः’ (६-३-३) इति तृतीयायाः अलुक् भवति।]]
35
=>
[[२। ‘अञ्जस उपसंख्यानम्’ (वा। ६-३-३) इति तृतीयाया अलुक्।]]
36
=>
[[३। ‘समवाये च’ (६-१-१३८) इति सुट्। उपस्कृताः = सङ्घीभूताः इत्यर्थः।]]
37
=>
(ब्राह्मणाः)
38
=>
[[४। सुटः, ‘परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्’ (८-३-७०) इति षत्वम्।]]
39
=>
(कन्या)
40
=>
[[५। विकृतं भुङ्क्ते, वाक्याध्याहारेण ब्रवीति, इति क्रमेणार्थः। ‘उपात् प्रतियत्न- वैकृतवाक्याध्याहारेषु च’ (६-१-१३९) इति सुट्।]]
41
=>
(भुङ्क्ते)
42
=>
(ब्रूते)
43
=>
[[आ। ‘चिकीर्षिते पूर्वतरं तस्मिन् क्षेमङ्करेऽर्थे मुहुरीर्यमाणः।’ भ। का। १२-६।]]
44
=>
[[६। ‘शिवशमरिष्टस्य करे’ (४-४-१४३), ‘कर्मणि घटोऽठच्’ (५-२-३५) इति निर्देशाभ्यां, पचादेः (३-१-१३४) आकृतिगणत्वं बोध्यते। तेन सर्वेभ्यो धातुभ्योऽच् प्रत्ययो भवति।]]
45
=>
[[७। पचाद्यचि (३-१-१३४) गङ्गाधरभूधरादिवत् षष्ठीसमासे साधुः। अत एव, ‘अल्पारम्भः क्षेमकरः’ इति प्रयोग उपपद्यते।]]
46
=>
[[८। ‘किंयत्तद्बहुषु कृञोऽज्विधानम्’ (वा। ३-२-२१) इति अच्। ‘दिवा- विभा--’ (३-२-२१) इति प्राप्तस्य टप्रत्ययस्यापवादः। तेन स्त्रियां टाप्। किङ्करी इति प्रयोगस्तु पुंयोगे बोध्यः।]]
47
=>
[[९। ‘तद्बृहतोः करपत्योः चोरदेवतयोः सुट् तलोपश्च’ (गणसूत्रम् ६-१-१५७) इत्यनेन सुट् तलोपश्च चोरे वाच्ये। अन्यत्र तत्कर इत्येव। बहुप्रवृत्तिकृत् बहुकरः। बहुशब्दः वैपुल्यवाची, तु संख्यावाची, अत्रैव सूत्रे (३-२-२१) संख्याग्रहणात्।]]
48
=>
[[१०। ‘कर्मण्यण्’ (३-२-१) इत्यण्।]]
49
=>
[[११। ‘कर्मण्यण्’ (३-२-१) इत्यणि, ‘कारे सत्यागदस्य’ (६-३-७०) इति पूर्वपदस्य मुम्। अगदङ्कारः = चिकित्सकः।]]
50
=>
[[B। ‘अगदङ्कारमादध्वं प्रज्ञामृतनुतमम्।।’ यादवाभ्युदये--२२-२२।]]
51
=>
[[१२। कर्मण्यणि ‘अस्तोश्च’ (वा। ६-३-७०) इति मुम्।]]
52
=>
[[१३। ‘शमि धातोः संज्ञायाम्’ (३-२-१४) इति अच्। स्त्रियां टाप्। ‘शङ्करा’ नाम परिव्राजिका। पुंयोगे ङीषि ‘शङ्करी’ इत्यपि साधु।]]
53
=>
[[C। ‘बलिनाबमुमद्रीन्द्रं युवां स्तम्बेरमाविव। आचक्षाथामिथः कस्मात् शङ्करेणापि दुर्गमम्।।’ भ। का। ६-९२।]]
54
=>
[पृष्ठम्०२३७+ ३१]
55
=>
[[१। ‘कृञो हेतुताच्छोल्यानुलोम्येषु’ (३-२-२०) इति टप्रत्ययः। टित्त्वात् स्त्रियां ङीप्। ‘अतः कृकमि--’ (८-३-४६) इति विसर्गस्य सत्वम्। ‘हेतौ यशस्करी विद्या- शीले क्रीडाकरो हरिः। आनुलोम्ये कार्यकरः सचिवो भूपतेरिति।।’ इति प्रक्रियासर्वस्वे। आनुलोम्यम् = आराध्यचित्तानुवर्तनम्।]]
56
=>
[[आ। ‘अस्यन् उरुस्करान् बाणान् ज्योतिष्करसमद्युतिः। यशस्करो यशस्कामं कर्पि बाणैरताडयत्।।’ भ। का। ९। ६५।]]
57
=>
(विद्या)
58
=>
[[B। ‘स्थितां क्षितौ शान्तशिखाप्रतानां तारामिव त्रासकरीं जनस्य।।’ भ-का-१२। ३।]]
59
=>
[[२। ‘पारस्करप्रभृतीनि संज्ञायाम्’ (६-१-१५७) इति सुट्। पारस्करः = देश- विशेषः।]]
60
=>
(देशः)
61
=>
[[३। मकरशब्दोऽव्युत्पन्नं प्रातिपदिकम्। वेणौ वाच्ये ‘मस्करमस्करिणौ वेणु- परिव्राजकयोः’ (६-१-१५४) इति सुट् निपात्यते। केचित्तु--माङ्युपपदे करोतेः करणेऽच प्रत्ययं निपातयन्ति। माङो ह्रस्वत्वं सुट्
\n\n मा क्रियते--येन प्रतिषिध्यते मस्करो वेणुः। --इति काशिका।]]
62
=>
(वेणुः)
63
=>
[[४। ‘दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्र- क्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुःषु’ (३-२-२१) इति टः प्रत्ययः। ‘दिवाकरः’ इत्यारभ्य, ‘अरुष्कर’ इति यावदेवं ज्ञेयम्। दिवा = दिवसे प्राणिनः चेष्टायुक्तान् करोतीति दिवाकरः।]]
64
=>
[[C। ‘अहमन्तकरो नूनं ध्वान्तस्येव दिवाकरः। तव राक्षस। रामस्य नेयः कर्मकरोपमः।।’ भ। का। ५। ९९।]]
65
=>
[[ड्। ‘भुजगेशि निशाकराभिरामे द्विषतां शोककरे तदाऽवतीर्णे।।’ वा। वि। २। ६७।]]
66
=>
[[E। ‘कृशानुरपधूमत्वात् प्रसन्नत्वात् प्रभाकरः। रक्षोविप्रकृतावास्तामपविद्धशुचाविव।।’ रघुवंशे-१०-७४।]]
67
=>
[[५। ‘कस्कादिषु च’ (८-३-४८) इति सूत्रे गणपाठात् सत्वम्।]]
68
=>
[[F। ‘सलिलार्दवराहदेहनीलो विदधद्भास्करमर्थशून्यसंज्ञम्। प्रचलायतलोचनारविन्दं विदधे तद्बलमन्धमन्धकारः।।’ शिशुपालधघे २०-३३।]]
69
=>
(वृक्षः)
70
=>
[[६। ‘दिवाविभा--’ (३-२-२१) इति सूत्रे संख्याशब्देन संख्यावाचिनाम् एकद्वित्रा- दीनां ग्रहणम्।]]
71
=>
[द्विकरः-त्रिकरः-]
72
=>
[पृष्ठम्०२३८+ २९]
73
=>
[[१। ‘जङ्घाकरः’ इत्यत्र जङ्घाशब्देन लक्षणया तत्साध्यवेगो लक्ष्यते।]]
74
=>
[[२। ‘बाहुकरः’ इत्यत्र बाहुशब्देन बाहुसाध्या गतिः, प्रवृत्तिर्वा बोध्यते।]]
75
=>
[[३। ‘कस्कादिषु च’ (८-३-४८) इति सूत्रे गणपाठात् सत्वम्। तेन जिह्वामूलीयो भवति।]]
76
=>
[[४। ‘धनुष्करः अरुष्करः’ इत्यत्र ‘नित्यं समासेऽनुत्तरपदस्थस्य’ (८-३-४५) इति षत्वम्।]]
77
=>
[[५। ‘कर्मणि मृतौ’ (३-२-२२) इति टः। मृतिं यः सेवते कर्मकरः
\n\n अन्यत्र कर्मकारः।]]
78
=>
[[६। ‘न शब्दश्लोककलहगाधावैरचाटुसूत्रमन्त्रपदेषु’ (३-२-२३) इति हेत्वादिषु प्राप्तस्य टप्रत्ययस्य निषेधात् औत्सर्गिकः अण्। एवं ‘पदकार’ इति पर्यन्तं ज्ञेयम्।]]
79
=>
[[आ। ‘यो वैरकारः स्वयमेव गोष्वभूत् तृणेढि नो स्म शकृत्करीनपि। नासीदकालेऽप्यफलेग्रहिर्द्रुमस्तदर्तवः कर्मकरा इवाभवन्।।’ वा। वि। २-६८।]]
80
=>
[[७। ‘स्तम्बशकृतोरिन्’ (३-२-२४) इति इन् प्रत्ययः। ‘व्रीहिवत्सयोरिति वक्तव्यम्’ (वा। ३-२-२४) इति वार्तिकात् स्तम्बकरिः व्रीहिः--शकृत्करिः वत्सः। अन्यत्र स्तम्बकारः शकृत्कारः इति।]]
81
=>
(व्रीहिः)
82
=>
(वत्सः)
83
=>
[[८। ‘मेघर्तिभयेषु कृञः’ (३-२-४३) इति खच्। खित्त्वात् ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति पूर्वपदस्य मुम्। ‘भयाढ्यादिषु तदन्तविधिः’ (भाष्यम्-- (१-१-७२) इति भाष्यात् ‘अभयङ्करः’ इत्यपि साधुः।]]
84
=>
[[B। ‘मेघङ्करमिवायान्तमृतुं रामं क्लमान्वितः। दृष्ट्वा मेने सुग्रीवो वालिभानुं भयङ्करम्।।’ भ। का। ६। १०४।]]
85
=>
[[९। ‘शिव एको घ्येयः शिवङ्करः’ --इत्याथर्वणोपनिषदि श्रूयते। छान्दसत्वात् बहुलग्रहणेन खचि रूपनिष्पत्तिरिति पदमञ्जरी। ‘क्षेमङ्करोऽरिष्टतातिः शिव- तातिः शिवङ्करः।’ इत्यभिधानरत्नमाला (२-१८५)।]]
86
=>
[[१०। ‘क्षेमप्रियमद्रेऽण् च’ (३-२-४४) इति खजणौ।]]
87
=>
[[C। ‘महाकुलीन ऐक्ष्वाके वंशे दाशरथिर्मम। षितुः प्रियङ्करो भर्ता क्षेमकारस्तपस्विनाम्।। निहन्ता वैरकाराणां सतां बहुकरः सदा। पारश्वधिकरामस्य शक्तेरन्तकरो रणे।।’ भ। का। ५-७७-७८।]]
88
=>
[पृष्ठम्०२३९+ २८]
89
=>
[[१। ‘कडङ्करदक्षिणाच्छ च’ (५-१-६९) इति सूत्रे निपातनात् मुम्।]]
90
=>
[[आ। ‘कटङ्करीयरोधो हि कलमोत्सेधकारणम्।।’ यादवाभ्युदये-२२-९।]]
91
=>
[[२। माङि उपपदे करोतेस्ताच्छील्ये इनिर्निपात्यते। माङो ह्रस्वत्वं सुट् च। माकरणशीलो मस्करी। कर्मापवादित्वात् परिव्राजक उच्यते। त्वेवमाह-- ‘मा कुरुत कर्माणि, शान्तिर्वः श्रेयसी’ इति ‘मस्करमस्करिणौ वेणु- परिव्राजकयोः’ (६-१-१५४) इत्यत्र काशिका।]]
92
=>
[[३। ग्रह्यादि (३-१-१३४) गणे पाठात् अताच्छीलिको णिनिः नञ्युपपदे।]]
93
=>
[[४। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति ताच्छीलिको णिनिः। एव- मुपकारी इति पर्यन्तम्।]]
94
=>
[[B। ‘पीडयन्ति जनं धाराः पतन्त्योऽनपकारिणम्।।’ भ। का। ७। ९।]]
95
=>
[[५। ‘राजनि युधिकृञः’ (३-२-९५) इति भूते क्वनिप्। राजानं कृतवान् राजकृत्वा। तुक्। ‘प्रागसत्कल्पं, स्वशक्त्या नृपं कृतवान् इत्यर्थः’ इति प्रक्रियासर्वस्वे।]]
96
=>
[[C। ‘बुद्धिपूर्वं ध्रुवन् त्वा राजकृत्वा पिता खलम्।’ भ। का। ६। १३०।]]
97
=>
[[६। ‘सहेच’ (३-२-९६) इति क्वनिपि तुक्। सहकृत्वा = सहकारी। स्त्रियां ‘वनो च’ (४-१-७) इति ङीपि रेफादेशे सहकृत्वरी इति रूपम्। ]]
98
=>
[[७। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति मनिन्प्रत्यये, ‘नेड् वशि कृति’ (७-२-८) इति इण्णिषेधे रूपम्। विश्वं कर्म अस्मात्, अस्य वा इति विश्वकर्मा = देवशिल्पिः।]]
99
=>
[[८। ‘अलङ्कृञ्निराकृञ्--’ (३-२-१३६) इत्यादिना ताच्छीलिक इष्णुच् प्रत्ययः।]]
1 {@“कॄ विक्षेपे”@} 2 ‘कृणन् कृणीते हिंसायाम्, विक्षेपे किरतीति शे।।’ 3 इति देवः।
4 कारकः-रिका, कारकः-रिका, 5 चिकरिषकः-षिका, 6 चेकिरकः-रिका
7 करिता-करीता-त्री, कारयिता-त्री, चिकरिषिता-त्री, चेकिरिता-त्री
8 9 किरन्-न्ती-ती, 10 उपस्किरन् 11, 12 प्रतिस्किरन् 13, कारयन्-न्ती, चिकरिषन्-न्ती
-- करिष्यन्-करीष्यन्-न्ती-ती, कारयिष्यन्-न्ती-ती, चिकरिषिष्यन्-न्ती-ती
14 व्यतिकिरमाणः, 15 अपस्किरमाणः 16, अपस्किरमाणः 17, अपस्किरमाणः 18, कारयमाणः, चेकीर्यमाणः, 19 अपचेस्कीर्यमाणः
अपस्करिष्यमाणः-अपस्करीष्यमाणः, कारयिष्यमाणः, चेकिरिष्यमाणः
20 कीः-किरौ-किरः
-- -- -- 21 कीर्णम्-कीर्णः-कीर्णवान्, कारितः, चिकरिषितः, चेकिरितः-तवान्
22 किरः, 23 विष्किरः-विकिरः, 24 विकिरम्, उत्किरः, कारः, 25 चिकरिषुः, चेकिरः
26 करितव्यम्-करीतव्यम्, कारयितव्यम्, चिकरिषितव्यम्, चेकिरितव्यम्
करणीयम्, कारणीयम्, चिकरिषणीयम्, चेकिरणीयम्
27 कार्यम्, कार्यम्, चिकरिष्यम्, चेकीर्यम्
ईषत्करः-दुष्करः-सुकरः
-- -- -- कीर्यमाणः, 28 व्यतिकीर्यमाणः, कार्यमाणः, चिकरिष्यमाणः, चेकीर्यमाणः
29 करः, 30 अवस्करः 31-अवकरः, 32 अपस्करः 33 अपकरः, 34 आकरः 35, 36 उत्कारः 37 -निकारो 38, उत्करः- निकरश्च 39, कारः, चिकरिषः, चेकिरः
40 करितुम्-करीतुम्, कारयितुम्, चिकरिषितुम्, चेकिरितुम्
41 कीर्णिः, कारणा, चिकरिषा, चेकिरा
करणम्, कारणम्, चिकरिषणम्, चेकिरणम्
42 कीर्त्वा, कारयित्वा, चिकरिषित्वा, चेकिरित्वा
विकीर्य, विकार्य, विचिकरिष्य, विचेकीर्य
कारम् २, 43 उपस्कारं कीर्त्वा २, 44 कारम् २, कारयित्वा २, चिकरिषम् २, चिकरिषित्वा २, चेकिरम्
चेकिरित्वा
45 कीटन् प्रत्यये रूपम्।
किरीटम् = मुकुटम्।]] किरीटम्, 46 क्युप्रत्ययेऽनादेशः।
किरणः = रश्मिः।]] किरणः, 47 नप्रत्ययान्तः।
कर्णः = श्रोत्रम्।]] कर्णः, 48 इत्युनन्प्रत्ययः।
करुणः = शोचनीयः।
करुणा = कृपा।]] करुणा, 49 अभच् प्रत्यये रूपम्।
करभः = त्रिवर्ष उष्ट्रः।
‘मणिबन्धादाकनिष्ठं करस्य करभो बहिः’ इत्यमरः।]] करभः, 50 ईरन् प्रत्यये रूपम्।
करीरम् = वृक्षः।]] करीरम्, 51 इति ईषन् प्रत्ययः।
करीषम् = गोमयबिकारः।]] करीषम्।
प्रासङ्गिक्यः
01
=>
(२५७)
02
=>
(६-तुदादिः-१४०९। सक। सेट्। पर। किरादिः।)
03
=>
(श्लो। ३९)
04
=>
[[३। ‘इत्त्वोत्त्वाभ्यां गुणवृद्धी विप्रतिषेधेन’ (वा। ७-१-१०२) इति वचनात् इत्त्वं बाधित्वा वृद्धिः। ‘उरण् रपरः’ (१-१-५१) इति रपरत्वम्।]]
05
=>
[[४। ‘इट् सनि वा’ (७-२-४१) इति प्राप्तं वैकल्पिकमिटं बाधित्वा, ‘किरश्च पञ्चभ्यः’ (७-२-७५) इति नित्यमिट्। ‘अत्रेटो दीर्घो नेष्टः’ (वा। ७-२-७५) इति दीर्घो न। भागवृत्तिकारस्तु दीर्घविकल्पं सन्नन्तेऽपि ब्रूते--इति माधवधातु- वृत्तिः। तदानीं ‘चिकरीषकः--’ इत्यादीनि रूपाण्यपि सर्वत्र सन्नन्ते ज्ञेयानि।]]
06
=>
[[५। ‘ॠत इद्धातोः’ (७-१-१००) इतीत्त्वम्। रपरत्वम्। द्वित्वम्। ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासे गुणः। ‘यस्य हलः’ (६-४-४९) इति यकारलोपः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
07
=>
[[६। ‘वृतो वा’ (७-२-३८) इति दीर्घविकल्पः। एवं तव्यदादिष्वपि बोध्यम्।]]
08
=>
[पृष्ठम्०२५७+ २७]
09
=>
[[१। ‘तुदादिभ्यः--’ (३-१-७७) इति शः विकरणप्रत्ययः। इत्वं, रपरत्वम्। ‘आ- च्छीनद्योर्नुम्’ (७-१-८०) इति नुम्विकल्पः।]]
10
=>
[[२। ‘किरतौ लवने’ (६-१-१४०) इति उपपूर्वकात् सुट्।]]
11
=>
(श्वापदः)
12
=>
[[३। ‘हिंसायां प्रतेश्च’ (६-१-१४१) इति प्रतिपूर्वकात् सुट्।]]
13
=>
(श्वापदः)
14
=>
[[४। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्।]]
15
=>
[[५। ‘किरतेर्हर्षजीविकाकुलायकरणेष्विति वक्तव्यम्’ (वा। १-३-२१) इति शानच्। ‘अपाच्चतुष्पाच्छकुनिष्वालेखने’ (६-१-१४२) इति सुट्। सुडपि ‘हर्षजीविकाकुला- यकरणेष्विति वाच्यम्’ (वा। ६-१-१४२) इति वचनात् उक्तेष्वर्थेष्वेव। यथासंख्यम् उदाहरणेषु अर्थमेदोऽनुसन्धेयः। ‘अवाच्चतुष्पात्--’ (६-१-१४२) इति दाक्षि- णात्यपाठ इति धातुरूपप्रकाशिकायां श्रीकण्ठशास्त्रिणः।]]
16
=>
(वृषभो हृष्टः)
17
=>
(कुक्कुटो भक्षाथीं)
18
=>
(श्वा आश्रयाथीं)
19
=>
[[६। ‘सुट् कात् पूर्वः’ (६-१-१३५), ‘अडभ्यासव्यवायेऽपि’ (६-१-१३६) इत्यनुवर्त- माने, ‘अपाच्चतुष्पात्--’ (६-१-१४२) इति सुट् कात् पूर्वः।]]
20
=>
[[७। इत्वे, रपरत्वे, ‘र्वोरुपधाया दीर्घ इकः’ (८-२-७६) इति दीर्घे रुत्वविसर्गौ।]]
21
=>
[[८। ‘श्र्युकः क्किति’ (७-२-११) इतीण्णिषिध्यते। इत्वे रपरत्वे ‘हलि च’ (८-२-७७) इति दीर्घे, ‘रदाभ्यां निष्ठातो नः--’ (८-२-४२) इति निष्ठानत्वम्। ‘रषाभ्यां नो णः--’ (८-४-१) इति णत्वम्।]]
22
=>
[[९। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कः। किरः = वराहः। ‘कोलः पोत्री किरः किटिः।’ इत्यमरः।]]
23
=>
[[१०। ‘विष्किरः शकुनिर्विकिरो वा’ (६-१-१५०) इति विकल्पेन सुट् शकुनौ वाच्ये। यदा सुट्, तदानीं, ‘परिनिविभ्यः--’ (८-३-७०) इति षत्वम्।]]
24
=>
[[११। ‘विष्किरः शकुनौ वा’ (६-१-१५०) इति सूत्रपाठमालम्ब्य महाभाष्ये, वाग्रहणस्य निपातनेन सम्बन्धकथनात्, ‘विकिरान्नं वैष्णवम्।’, ‘विकिरं वैश्वदेविकम्’ इत्यादिप्रयोगा अपि साधव इति ज्ञेयम्। स्पष्टमिदं सि। कौमुद्याम्।]]
25
=>
[[आ। ‘वने चिकरिषोर्वृक्षान् बलं जिगरिषुः कपेः।।’ भ। का। ९-५४।]]
26
=>
[पृष्ठम्०२५८+ २६]
27
=>
[[१। ‘ऋहलोर्ण्यत्’ (३-१-१२४) इति ण्यत्।]]
28
=>
[[आ। ‘सरित्प्रवाहैर्व्यतिकीर्यमाणैः सङ्कल्पयोनेरिव शिल्पभेदैः। पश्य प्रिये त्वं परिवृत्य किञ्चिद् दिव्योपमान् जानपदान् विशेषान्।।’ यादवाभ्युदये १८-७४।]]
29
=>
[[२। ‘ॠदोरप्’ (३-३-५७) इत्यप् भावे।]]
30
=>
[[३। ‘वर्चस्केऽवस्करः’ (६-१-१४८) इति सुट् वर्चस्केऽभिधेये। वर्चस्कम् = भाण्डात् काष्ठादिना आकृष्टम् अन्नमलम्। तत्सम्बन्धात् देशोऽपि तथोच्यते। अन्यत्र अवकर इत्येव। अवकरः = सम्मार्जन्या क्षिप्ता धूलिः। ‘सम्मार्जनी शोधनी स्यात्, सङ्करोऽवकरस्तया। क्षिप्ते--’ इत्यमरः।]]
31
=>
(वर्चस्कम्)
32
=>
[[४। ‘अपस्करो रथाङ्गम्’ (६-१-१४९) इति सुट्। रथाङ्गम् = रथावयवः, तु चक्रम्।]]
33
=>
[रथाङ्गम्]
34
=>
[[५। आकीर्यन्ते धातवोऽत्रेति--आकरः = खनिः। ‘पुंसि संज्ञायां घः प्रायेण’ (३-३-११८) इति संज्ञायामधिकरणे घः।]]
35
=>
[[B। ‘देहव्रश्चनतुण्डाग्रं तं विलोक्याशुभाकरम्। पापगोचरमात्मानमशोचन् वानरा मुहुः।।’ भ। का। ७-८०।]]
36
=>
[[६। ‘कॄ धान्ये’ (३-३-३०) इति, भावे कर्तृभिन्ने कारके घञ्--धान्ये वाच्ये। ‘उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ।’ इत्यमरः। ‘निकारः स्यात् परिभवे, धान्यस्योत्क्षेपणेऽपि च’ इति धरणिकोशः। धान्यभिन्नविषयके त्वर्थे उत्करः, निकरः इत्यबेव।]]
37
=>
[[C। ‘सदोद्गारसुगन्धीनां फलानामलमाशिताः। उत्कारेषु धान्यानामनभीष्टपरिग्रहाः।।’ भ। का। ७-३८।]]
38
=>
[वा धान्यस्य]
39
=>
[पुष्पस्य]
40
=>
[पृष्ठम्०२५९+ २२]
41
=>
[[१। ‘ॠल्वादिभ्यः क्तिन् निष्ठावद् वाच्यः’ (वा। ८-२-४४) इति क्तिनस्तकारस्य नकारः।]]
42
=>
[[२। ‘श्रथुकः क्किति’ (७-२-११) इतीण्णिषेधः।]]
43
=>
[[३। ‘किरतौ लवने’ (६-१-१४०) इति किरतिसामान्ये विहितोऽपि सुट् ‘णमुलत्र वक्तव्यः’ इति काशिकावचनात् णमुल्येव, इति पक्षमवलम्बयात्र णमुलन्तं रूपं लिखितम्।]]
44
=>
[मद्रका लुनन्ति]
45
=>
[[४। औणादिके [द। उ। ५-३]
46
=>
[[५। औणादिके [द। उ। ५-२६]
47
=>
[[६। औणादिकः [द। उ। ५-४२]
48
=>
[[७। ‘कॄवॄतॄदारिभ्य उनन्’ [द। उ। ५-५२]
49
=>
[[८। औणादिके [द। उ। ७-१८]
50
=>
[[९। औणादिके [द। उ। ८-७२]
51
=>
[[१०। ‘कॄतॄभ्यामीषन्’ [द। उ। ९-९]
1 {@“कॄञ् हिंसायाम्”@} 2 प्वादिः, ल्वादिश्च।
‘कृणन् कृणीते हिंसायाम्, विक्षेपे किरतीति शे।’ 3 इति देवः।
4 5 कारकः-रिका, कारकः-रिका, 6 चिकरीषकः-चिकरिषकः- 7 चिकीर्षकः-र्षिका, 8 चेकिरकः-रिका
9 करीता-करिता-त्री, कारयिता-त्री, चिकरीषिता-चिकरिषिता-चिकीर्षिता-त्री, चेकिरिता-त्री
10 कृणन्-ती, कारयन्-न्ती, चिकरीषन्-चिकरिषन्-चिकीर्षन्-न्ती
-- करीष्यन्-करिष्यन्-न्ती-ती, कारयिष्यन्-न्ती-ती, चिकरीषिष्यन्-चिकरिषिष्यन्-चिकीर्षिष्यन्-न्ती-ती
-- कृणानः, कारयमाणः, चिकरीषमाणः-चिकरिषमाणः-चिकीर्षमाणः, चेकीर्यमाणः
करीष्यमाणः-करिष्यमाणः, कारयिष्यमाणः, चिकरीषिष्यमाणः-चिकरिषिष्यमाणः-चिकीर्षिष्यमाणः, चेकिरिष्यमाणः
11 कीः-किरौ-किरः
-- -- -- -- 12 कीर्णम्-कीर्णः-कीर्णवान्, कारितः, चिकरीषितः-चिकरिषितः-चिकीर्षितः, चेकिरितः-तवान्
13 14 किरः, कारः, चिकरीषुः-चिकरिषुः-चिकीर्षुः, 15 चेकिरः
करीतव्यम्-करितव्यम्, कारयितव्यम्, चिकरीषितव्यम्-चिकरिषितव्यम्-चिकीर्षितव्यम्, चेकिरितव्यम्
करणीयम्, कारणीयम्, चिकरीषणीयम्-चिकरिषणीयम्-चिकीर्षणीयम्, चेकिरणीयम्
16 कार्यम्, कार्यम्, चिकरीष्यम्-चिकरिष्यम्-चिकीर्ष्यम्, चेकीर्यम्
ईषत्करः-दुष्करः-सुकरः
-- -- -- -- 17 करः, कारः, चिकरीषः-चिकरिषः-चिकीर्षः, चेकिरः
18 करीतुम्-करितुम्, कारयितुम्, चिकरीषितुम्-चिकरिषितुम्-चिकीर्षितुम्, चेकिरितुम्
19 कीर्णीः, 20 कारा, कारणा, चिकरीषा-चिकरिषा-चिकीर्षा, चेकिरा
करणम्, कारणम्, चिकरीषणम्-चिकरिषणम्-चिकीर्षणम्, चेकिरणम्
कीर्त्वा, कारयित्वा, चिकरीषित्वा-चिकरिषित्वा-चिकीर्षित्वा, चेकिरित्वा
विकीर्य, विकार्य, विचिकरीष्य-विचिकरिष्य-विचिकीर्ष्य, विचेकीर्य
कारम् २, कीर्त्वा २, कारम् २, कारयित्वा २, चिकरीषम् २, चिकरीषित्वा २, चिकरिषम् २, चिकरिषित्वा २, चिकीर्षम् २, चिकीर्षित्वा २, चेकिरम्
चेकिरित्वा २। 21
प्रासङ्गिक्यः
01
=>
(२५८)
02
=>
(९-क्र्यादिः-१४८५। सक। सेट्। उभ।)
03
=>
(श्लो। ३९)
04
=>
[पृष्ठम्०२६०+ २०]
05
=>
[[१। ‘इत्त्वोत्त्वाभ्यां गुणवृद्धी विप्रतिषेधेन’ (वा। ७-१-१०२) इति वचनात् इत्त्वं बाधित्वा, ‘अचो ञ्णिति’ (७-२-११५) इति वृद्धिः।]]
06
=>
[[२। ‘इट् सनि वा’ (७-२-४१) इति सन इड्विकल्पः। इट्पक्षे ‘वॄतो वा’ (७-२-३८) इति दीर्घविकल्पः। एवं सर्वत्र इट्पक्षे सनि ज्ञेयम्।]]
07
=>
[[३। इडभावपक्षे, ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, ‘ॠत इद्धातोः’ (७-१-१००) इति इत्त्वे रपरत्वे च, ‘हलि च’ (८-२-७७) इति दीर्घः। एवं इडभावपक्षे सनि सर्वत्र ज्ञेयम्।]]
08
=>
[[४। इत्त्वरपरत्वद्वित्वेषु कृतेषु ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासे गुणः। ‘यस्य हलः’ (६-४-४९) इति यकारलोपः। एवं सर्वत्र यङन्ते ज्ञेयम्।]]
09
=>
[[५। ‘वॄतो वा’ (७-२-३८) इति इटो दीर्घविकल्पः। एवं तव्यदादिषु ज्ञेयम्।]]
10
=>
[[६। ‘क्र्यादिभ्यः श्ना’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति शिति परे ह्रस्वः। ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकार- लोपः। ‘ऋवर्णान्नस्य णत्वं वाच्यम्’ (वा। ८-४-१) इति णत्वम्। एवं ‘कृणानः’ इत्यत्रापि ज्ञेयम्।]]
11
=>
[[७। इत्त्वे रपरत्वे ‘र्वोरुपधाया दीर्घ इकः’ (८-२-७६) इति दीर्घः।]]
12
=>
[[८। ‘श्र्युकः क्किति’ (७-२-११) इतीण्णिषेधः। इत्वे रपरत्वे ‘ल्वादिभ्यः’ (८-२-४४) इति निष्ठानत्वम्। ‘रषाभ्याम्--’ (८-४-१) इति णत्वम्।]]
13
=>
[पृष्ठम्०२६१+ १७]
14
=>
[[१। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कः।]]
15
=>
[[२। यङन्तात् पचाद्यचि (३-१-१३४), ‘यङोऽचि च’ (२-४-७४) इति लुक्।]]
16
=>
[[३। ‘ऋहलोर्ण्यत्’ (३-१-१२४) इति ण्यत्।]]
17
=>
[[४। ‘ॠदोरप्’ (३-३-५७) इति भावेऽप्।]]
18
=>
[[आ। ‘द्वारं पुनन् पदतलेन लूनवैरी स्तीर्णाननं मदजलेन करीतुकामम्। नागं ददर्श पटबूर्णमुखं धुनानं कर्णौ शृणन्तमखिलानभिपूर्तरोषम्।।’ धा। का। ३-६।]]
19
=>
[[५। ‘ॠल्वादिभ्यः क्तिन् निष्ठावद् वाच्यः’ (वा। ८-२-४४) इति क्तिनस्तकारस्य नकारः। णत्वम्।]]
20
=>
[[६। ‘कारा बन्धने’ (गणसूत्रम् ३-३-१०४) इति भिदादिषु पाठात् अङ्। निपात- नात् वृद्धिः। ण्यन्ताद्वा अङ्।]]
21
=>
[पृष्ठम्०२६२+ २८]