| YouTube Channel

कारणशरीरं (kAraNazarIraM)

 
शब्दकल्पद्रुमः
Sanskrit
कारणशरीरं,
क्ली,
(कारणं अविद्या सैव शरी-रम् अनाद्यविद्याऽनिर्व्वचनीयं शरीरद्वयकारण-मात्रम् सत्स्वरूपाज्ञानं यदस्ति तत्कारण-शरीरमित्याहुः ।) सत्त्वप्रधानमज्ञानम् (किन्तुवीजावस्थायां सूक्ष्मवृत्तित्वात् विषयव्यापाररहि-तस्यान्तःकरणस्य सुतरांसुखस्वरूपेणानुभूयतेऽसौद्रष्टा ।) तत्पर्य्यायः आनन्दमयकोषः सुषुप्तिः ।(यदुक्तं वेदान्तसारे १६ ।“अस्यापीयमहङ्कारादिकारणत्वात् कारणश-रीरं आनन्दप्रचुरत्वात् कोषवदाच्छादकत्वाच्चआनन्दमयकोषः सर्व्वोपरमत्वात् सुषुप्तिः अत-एव स्थूलसूक्ष्मशरीरलयस्थानमितिचोच्यते”
अत्रसुबोधनी यथा ।“प्रलयकाले हिरण्यगर्भादिप्रपञ्चोत्पादकेश्वर-गतमूलप्रकृतिवत् सुषुप्तिकाले अहङ्कारादिशरी-रोत्पादकसंस्कारमात्रावशिष्टजीवगताज्ञानस्यापिकारणशरीरत्वं इन्द्रियतद्विषयाभावे व्यासङ्गा-भावादानन्दबाहुल्यादानन्दमयत्वं आच्छादकत्वा-त्कोषत्वञ्च युक्तमितिभावः ननु स्थूलसूक्ष्मशरीर-लयस्थानस्य कथं सुषुप्तिशब्दवाच्यत्वमित्याशङ्क्यपूर्व्ववत् संज्ञाभेद इति वक्तुं तत्र युक्तिमाह सर्व्वो-परमत्वादिति पञ्चीकृतस्थूलशरीरस्य व्यावहारि-कस्य स्वाप्नप्रपञ्चस्य स्वकारणेऽज्ञाने लीनत्वात्सर्व्वोपरतिरित्यर्थः तथा चोक्तम् ।“लये फेनस्य तद्धर्म्मा द्रव्याद्याः स्युस्तरङ्गके ।तस्यापि विलये नीरे तिष्ठन्त्येते यथा पुरा
व्यवहारिक देहस्य लयः स्यात् प्रतिभासिके ।तल्लये सच्चिदानन्दाः पर्य्यवस्यन्ति साक्षिणि”
)