कायव्यूह (kAyavyUha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English कायव्यूह kAyavyUha supernatural power of assuming several bodies simultaneously
Monier Williams Cologne
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
GermanHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritकायव्यूह काये वातादीनां धातूनां सप्तानां त्वगादीनाञ्चव्यूहो व्यूहनम् । कायस्थवातादोनां विन्यासे “नाभिचक्रेकायव्यूहज्ञानम्” पात० सू० “नाभिचक्रे संयमं कृत्वा काय-व्यूहं विजानीयात् । वातपित्तश्लेष्माणस्त्रयो दोषाः सप्तसन्ति धातवः--त्वग्लोहितमांसस्नाय्वस्थिमज्जाशुक्राणि पूर्व्वंपूर्व्वमेषां बाह्यमित्येवंविन्यासज्ञानम्” भा० । ६ त० । यो-गिभिः कर्मभोगार्थं कल्पिते २ कायसमुदाये च यथा चभोगार्थं कायव्यूहरचना तथा चिन्तामणौ मुक्तिवाटे उक्तंयथा “यत्तु माऽभुक्तमिति स्मृतिविरोधेन क्षीयन्तैत्यादिश्रुते-रन्यथार्थवर्णनं, तन्नस्मृतेः प्रत्यक्षवेदबाधितत्वेन तद्विरुद्धार्थकवेदाननुमापकत्वात् । वामदेवसौभरिप्रभृतीनां कायव्यूह-श्रवणात्तत्त्वज्ञानेन कायव्यूहमुत्पाद्य भोगद्वारा कर्मक्षयइति चेन्न तपःप्रभावादेव तत्त्वज्ञानानुत्पादे वा काय-व्यूहसम्भवात् । भोगजननार्थञ्च कर्मभिरवश्यं तत्तत्काय-निष्पादनमिति न तत्र तत्त्वज्ञानोपयोगः । यौगपद्यञ्चकायानां तज्जनकधर्मस्वभावात् तपःप्रमावाद् वा” ।एकस्यैव जौवस्य चित्तान्तराणिकायेन्द्रियाणि च निर्म्मायतत्तत्कर्म्मभोगार्थरचितकायव्यूहेन योग इत्येतत् शा०भा० समर्थितं यथा । “सङ्कल्पादेव तु तच्छ्रुतेः” शा०सू० । “हार्दविद्यायां श्रूयते--“स यदि पितृलोक-कामोभवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ती-त्यादि” । तत्र संशयः--किं सङ्कल्प एव केवलः पित्रादि-समुत्थानहेतुः उत निमित्तान्तरसहितः? इति । तत्रसत्यपि सङ्कल्पादेवेति श्रवणे लोकवन्निमित्तान्तरापेक्षायुक्ता यथा लोकेऽस्मदादीनां सङ्कल्पाद् गत्यादिभ्यश्चहेतुभ्यः पित्रादिसम्पत्तिर्भवत्येवं मुक्तस्यापि स्यात् एवंदृष्टविपरीतं न कल्पितं भविष्यति । सङ्कल्पादेवेति तुराज्ञैव सङ्कल्पितार्थसिद्धिकरीं साधनान्तरसामग्रींसुलभामपेक्ष्योच्यते । न च सङ्कल्पमात्रसमुत्थानाःपित्रादयोमनोरथविजृम्भितवच्चञ्चलत्वात् पुष्कलं भोगंसमर्पयितुं पर्य्याप्नुयुरित्येवं प्राप्ते ब्रूमः--सङ्कल्पादेव तु केवलात् पित्रादिसमुत्थानमिति । कुतः? तच्छ्रुतेः“सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्तीत्यादिका” हि श्रुतिर्निमित्तान्तरापेक्षायां पीद्ध्येत । निमित्तान्तरमपि यदिसङ्कल्पानुविधाय्येव स्याद्भवतु न तु प्रयत्नान्तरसम्पाद्यंनिमित्तान्तरमिष्यते प्राक् तत्सम्पत्तेर्बन्ध्यसङ्कल्पत्वप्रस-ङ्गात् । न च श्रुतिग्येऽर्थे लोकवदिति सामान्यतो दृष्टंक्रमते । सङ्कल्पबलादेव चैषां यावत्प्रयोजनं स्थैर्य्यो-पपत्तिः, प्राकृतसङ्कल्पविलक्षणत्वान्मुक्तसङ्कल्पस्य” भा० ।“अतएव चानन्याधिपतिः” सू० “अतएव चाबन्ध्यसङ्कल्पत्वादनन्याधिपतिर्विद्वान् भवति नास्यान्योऽधिपतिर्भवतीत्यथः ।न हि प्राकृतोऽपि सङ्कल्पयन्नन्यस्वामिकत्वमात्मनः सत्यांगतौ सङ्कल्पयति । श्रुतिश्चैतद्दर्शयति “अथ य इहात्मानमनुविद्य प्रव्रजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेषकामचारोभवतीति” भा० । “अभावं वादरिराह ह्येवस्”सू० “सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति” इत्यतः श्रुते-र्मनस्तावत्सङ्कल्पसाधनं सिद्धं शरीरेन्द्रियाणि पुनः प्राप्तौ-श्वर्य्यस्य विदुषः सन्ति न सन्तीति समीक्ष्यते तत्र वादरि-स्तावदाचार्य्यः शरीरस्येन्द्रियाणाञ्चाभावं महीयमानस्यविदुषो मन्यते । कस्मात्? एवं ह्याहाम्नायः “मनसैतान्-कामान् पश्यन् रमते यत्र ते ब्रह्मलोकः” इति । यदि मनसाशरीरेन्द्रियैश्च विहरेत् मनसेति विशेषणं न स्यात् ।तस्मादभावः शरीरेन्द्रियाणां मोक्षे” भा० “भावं जैमिनि-र्विकल्पामननात्” सू० “जैमिनिराचार्य्योमनोवच्छरीरस्यापिसेन्द्रियस्य भावं मुक्तं प्रति मन्यते, यतः “स एकधाभवति त्रिधाभवति” इत्यादिनाऽनेकधाभावकल्पमामनन्ति नह्यनेकविध-ता विना शरीरभेदेनाञ्जसी स्यात् । यद्यपि निर्गुणायांभूमविद्यायामयमनेकधाभावे विकल्पः पठ्यते, तथापि विद्य-मानमेवेदं सगुणावस्थायामैश्वर्यं भूमविद्यास्तुतत्ये सङ्की-र्त्यत इत्यतः सगुणविद्याफलभावेनोपतिष्ठत इत्युच्यते” भा०“द्वादशाहबदुभयविधं वादरायणोऽतः” सू० “वादरायणःपुनराचार्य्योऽतएवोभयलिङ्गश्रुतिदर्शनादुभयविधत्वं साधु म-न्यते, यदा सशरीरतां सङ्कल्पयति तदा सशरीरो भवति, यदात्वशरीरतां तदा अशरीर इति सत्यसङ्कल्पत्वात् सङ्कल्पवै-चित्र्याच्च, द्वादशाहवत्--यथा द्वादशाहः सत्रमह्रीनश्च भवतिउभयलिङ्गश्रुतिदर्शनात् एवमिदमपीति” भा० “तदभावेसन्ध्यवदुपपद्यते” सू० “यदा तु सेन्द्रियम्य शरीरस्याभावस्तदायथा सन्ध्ये स्थाने शरीरेन्द्रियविषयेष्वविद्यमानेष्वप्यपलब्धि-मात्राएव पित्रादिकामाभवन्त्येवं मोक्षेऽपि स्युः एवं तदु-पपद्यते” भा० “भावे जाग्रद्वत्” सू० “भावे पुनस्तनोर्यथाजागरिते विद्यमानाएव पित्रादिकामासवन्त्येवं मुक्तस्याप्यु-पपद्यन्ते” भा० “प्रदीपवदावेशस्तथाहि दर्शयति” सू० “भावैजैमिनिर्विकल्पामननादित्यत्र सशरीरत्वं मुक्तस्योक्तं तत्रत्रिधा भावादिष्वनेकशरीरसर्गे किं निरात्मकानि शरीराणिदारुयन्त्रवत् सृज्यन्ते? किं वा सात्मकानि? अस्मदादिश-रीरवदिति भवति वीक्षा । तत्रात्ममनसोर्भेदानुपपत्तेरेकेनशरीरेण योगादितराणि निरात्मकानीत्येवं प्राप्ते प्रतिपद्यतेप्रदीपवदावेश इति । यथा प्रदीपएकोऽनेकप्रदीपभावमा-पद्यते विकारशक्तियोगात्, एवमेकोऽपि सन् विद्वानैश्वर्य्य-योगादनेकभावमापद्य सर्व्वाणि शरीराण्याविशति । कुतः!तथाहि दर्शयति शास्त्रमेकस्यानेकभावम् “स एकधा भवतित्रिधा भवति पञ्चधा सप्तधेत्यादि” । नैतद्दारुयन्त्रोपमा-भ्युपगमेऽवकल्पते नापि जीवान्तरावेशे । न च निरात्म-कानां शरोराणां प्रवृत्तिः सम्भवति । यत्त्वात्ममनसो-र्भेदानुपपत्तेरनेकशरीरयोगासम्भव इति नैष दोषः एक-मनोऽनुवृत्तीनि समनस्कान्येवापराणि शरीराणि सत्यसङ्क-ल्पत्वात् स्रक्ष्यति । सृष्टेषु च तेषूपाधिभेदादात्मनोऽपिभेदेनाधिष्ठातृत्वं याक्ष्यते । एषैव च योगशास्त्रेषु योगि-नामनेकशरीरयोगप्रकिया” भा० ।यथा च परशरोरे चित्तस्यावेशस्तथा पात० सू० भाष्ययोःदर्शितं यथा“बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरी-रावेशः” पात० सू०“लोलीभूतस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माशयवशाद्बन्धःप्रतिष्ठेत्यर्थः तस्य कर्मणोबन्धकारणस्य शैथिल्यं समाधि-बलाद्भवति प्रचारसंवेदनञ्च चित्तस्य समाधिजमेव, कर्म-बन्धक्षयात् स्वचित्तस्य प्रचारसंवेदनाच्च यागी चित्तंस्वशरीरान्निष्कृष्य शरीरान्तरेषु निःक्षिपति निःक्षिप्तं चित्त-ञ्चेन्द्रियाण्यनुपतन्ति यथा मधुकरराजानं मक्षिका उत्प-तन्तमनुत्पतन्ति, निविशमानमनुनिविशन्ते तथेन्द्रियाणि पर-शरीरावेशे चित्तमनुविधीयन्त” इति व्यासभा० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
